तदेवं प्रथमसूत्रेण मीमांसारम्भमुपपाद्य ब्रह्ममीमांसामारभते -
जन्माद्यस्य यतः ।
एतस्य सूत्रस्य पातनिकामाह भाष्यकारः -
ब्रह्म जिज्ञासितव्यमित्युक्तम् ।
किंलक्षणं पुनस्तद्ब्रह्म ।
यत्र यद्यपि ब्रह्मस्वरूपज्ञानस्य प्रधानस्य प्रतिज्ञया तदङ्गान्यपि प्रमाणादीनि प्रतिज्ञातानि, तथापि स्वरूपस्य प्राधान्यात्तदेवाक्षिप्य प्रथमं समर्थ्यते । तत्र यद्यावदनुभूयते तत्सर्वं परिमितमविशुद्धमबुद्धं विध्वंसि, न तेनोपलब्धेन तद्विरुद्धस्य नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणः स्वरूपं शक्यं लक्षयितुम् , न हि जातु कश्चित्कृतकत्वेन नित्यं लक्षयति । न च तद्धर्मेण नित्यत्वादिना तल्लक्ष्यते, तस्यानुपलब्धचरत्वात् । प्रसिद्धं हि लक्षणं भवति, नात्यन्ताप्रसिद्धम् । एवं च न शब्दोऽप्यत्र प्रक्रमते, अत्यन्ताप्रसिद्धतया ब्रह्मणोऽपदार्थस्यावाक्यार्थत्वात् । तस्माल्लक्षणाभावात् , न ब्रह्म जिज्ञासितव्यमित्यात्याक्षेपाभिप्रायः । तमिममाक्षेपं भगवान् सूत्रकारः परिहरति - “जन्माद्यस्य यतः” (ब्र. सू. १ । १ । २) इति । मा भूदनुभूयमानं जगत्तद्धर्मतया तादात्म्येन वा ब्रह्मणो लक्षणम् , तदुत्पत्त्या तु भविष्यति । देशान्तरप्राप्तिरिव सवितुर्व्रज्याया इति तात्पर्यार्थः ।
सूत्रावयवान् विभजते -
जन्मोत्पत्तिरादिरस्येति ।
लाघवाय सूत्रकृता जन्मादीति नपुंसकप्रयोगः कृतस्तदुपपादनाय समाहारमाह -
जन्मस्थितिभङ्गमिति ।
जन्मनश्च इत्यादिः
कारणनिर्देशः
इत्यन्तः सन्दर्भो निगदव्याख्यातः ।
स्यादेतत् । प्रधानकालग्रहलोकपालक्रियायदृच्छास्वभावाभावेषूपप्लवमानेषु सत्सु सर्वज्ञं सर्वशक्तिस्वभावं ब्रह्म जगज्जन्मादिकारणमिति कुतः सम्भावनेत्यत आह -
अस्य जगत इति ।
अत्र
नामरूपाभ्यां व्याकृतस्य इति
चेतनभावकर्तृकत्वसम्भावनया प्रधानाद्यचेतनकर्तृकत्वं निरुपाख्यकर्तृकत्वं च व्यासेधति । यत्खलु नाम्ना रूपेण च व्याक्रियते तच्चेतनकर्तृकं दृष्टम् , यथा घटादि । विवादाध्यासितं च जगन्नामरूपाभ्यां व्याकृतं तस्माच्चेतनकर्तृकं सम्भाव्यते । चेतनो हि बुद्धावालिख्य नामरूपे घट इति नाम्ना, रूपेण च कम्बुग्रीवादिना बाह्यं घटं निष्पादयति । अत एव घटस्य निर्वर्त्यस्याप्यन्तः सङ्कल्पात्मना सिद्धस्य कर्मकारकभावो घटं करोतीति । यथाहुः - “बुद्धिसिद्धं तु न तदसत्”(न्या.सू. ४ । १ । ५०) इति । तथा चाचेतनो बुद्धावनालिखितं करोतीति न शक्यं सम्भावयितुमिति भावः ।
स्यादेतत् । चेतना ग्रहा लोकपाला वा नामरूपे बुद्धावालिख्य जगज्जनयिष्यन्ति, कृतमुक्तस्वभावेन ब्रह्मणेत्यत आह -
अनेककर्तृभोक्तृसंयुक्तस्येति ।
केचित्कर्तारो भवन्ति, यथा सूदर्त्विगादयः, न भोक्तारः । केचित्तु भोक्तारः, यथा श्राद्धवैश्वानरीयेष्ट्यादिषु पितापुत्रादयः, न कर्तारः । तस्मादुभयग्रहणम् । देशकालनिमित्तक्रियाफलानि इतीतरेतरद्वन्द्वः । देशादीनि च तानि प्रतिनियतानि चेति विग्रहः । तदाश्रयो जगत्तस्य । केचित्खलु प्रतिनियतदेशोत्पादाः, यथा कृष्णमृगादयः । केचित्प्रतिनियतकालोत्पादाः, यथा कोकिलालापादयो वसन्ते । केचित्प्रतिनियतनिमित्ताः, यथा नवाम्बुदध्वानादिनिमित्ता बलाकागर्भादयः । केचित्प्रतिनियतक्रियाः, यथा ब्राह्मणानां याजनादयो नेतरेषाम् । एवं प्रतिनियतफलाः, यथा केचित्सुखिनः, केचिद्दुःखिनः, एवं य एव सुखिनस्त एव कदाचिद्दुःखिनः । सर्वमेतदाकस्मिकापरनाम्नि यादृच्छिकत्वे वा स्वाभाविकत्वे वा सर्वज्ञासर्वशक्तिकर्तृकत्वे च न घटते, परिमितज्ञानशक्तिभिर्ग्रहलोकपालादिभिर्ज्ञातुं कर्तुं चाशक्यत्वात् ।
तदिदमुक्तम् -
मनसाप्यचिन्त्यरचनारूपस्येति ।
एकस्या अपि हि शरीररचनाया रूपं मनसा न शक्यं चिन्तयितुं कदाचित् , प्रागेव जगद्रचनायाः, किमङ्ग पुनः कर्तुमित्यर्थः ।
सूत्रवाक्यं पूरयति -
तद्ब्रह्मेति वाक्यशेषः ।
स्यादेतत् । कस्मात्पुनर्जन्मस्थितिभङ्गमात्रमिहादिग्रहणेन गृह्यते, न तु वृद्धिपरिणामापक्षया अपीत्यत आह -
अन्येषामपि भावविकाराणां -
वृद्ध्यादीनां
त्रिष्वेवान्तर्भाव इति ।
वृद्धिस्तावदवयवोपचयः । तेनाल्पावयवादवयविनो द्वितन्तुकादेरन्य एव महान्पटो जायत इति जन्मैव वृद्धिः । परिणामोऽपि त्रिविधो धर्मलक्षणावस्थालक्षणः उत्पत्तिरेव । धर्मिणो हि हाटकादेर्धर्मलक्षणः परिणामः कटकमुकुटादिस्तस्योत्पत्तिः, एवं कटकादेरपि प्रत्युत्पन्नत्वादिलक्षणः परिणाम उत्पत्तिः । एवमवस्थापरिणामो नवपुराणत्वादिरुत्पत्तिः । अपक्षयस्त्ववयवह्रासो नाश एव । तस्माज्जन्मादिषु यथास्वमन्तर्भावाद्वृद्ध्यादयः पृथङ्नोक्ता इत्यर्थः ।
अथैते वृद्ध्यादयो न जन्मादिष्वन्तर्भवन्ति, तथाप्युत्पत्तिस्थितिभङ्गमेवोपादातव्यम् । तथा सति हि तत्प्रतिपादके “यतो वा इमानि भूतानि” (तै.उ. ३-१-१) इति वेदवाक्ये बुद्धिस्थीकृते जगन्मूलकारणं ब्रह्म लक्षितं भवति । अन्यथा तु जायतेऽस्ति वर्धते इत्यादीनां ग्रहणे तत्प्रतिपादकं नैरुक्तवाक्यं बुद्धौ भवेत् , तच्च न मूलकारणप्रतिपादनपरम् , महासर्गादूर्ध्वं स्थितिकालेऽपि तद्वाक्योदितानां जन्मादीनां भावविकाराणामुपपत्तेः, इति शङ्कानिराकरणार्थं वेदोक्तोत्पत्तिस्थितिभङ्गग्रहणमित्याह -
यास्कपरिपठितानां त्विति ।
नन्वेवमप्युत्पत्तिमात्रं सूच्यताम् , तन्नान्तरीयकतया तु स्थितिभङ्गं गम्यत इत्यत आह -
योत्पत्तिर्ब्रह्मणः
कारणादिति । त्रिभिरस्योपादानत्वं सूच्यते । उत्पत्तिमात्रं तु निमित्तकारणसाधारणमिति नोपादानं सूचयेत् ।
तदिदमुक्तम् -
तत्रैवेति ।
पूर्वोक्तानां कार्यकारणविशेषणानां प्रयोजनमाह -
न यथोक्तेति ।
तदनेन प्रबन्धेन प्रतिज्ञाविषयस्य ब्रह्मस्वरूपस्य लक्षणद्वारेण सम्भावनोक्ता । तत्र प्रमाणं वक्तव्यम् । यथाहुर्नैयायिकाः - “सम्भावितः प्रतिज्ञायां पक्षः साध्येत हेतुना । न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः” ॥
यथा च वन्ध्या जननी” इत्यादिरिति । इत्थं नाम जन्मादि सम्भावनाहेतुः, यदन्ये वैशेषिककादय इत एवानुमानादीश्वरविनिश्चयमिच्छन्तीति सम्भावनाहेतुतां द्रढयितुमाह -
एतदेवेति ।
चोदयति -
नन्विहापीति ।
एतावतैवाधिकरणार्थे समाप्ते वक्ष्यमाणाधिकरणार्थमनुवदन् सुहृद्भावेन परिहरति -
न वेदान्तेति ।
वेदान्तवाक्यकुसुमग्रथनार्थतामेव दर्शयति -
वेदान्तेति ।
विचारस्याध्यवसानं सवासनाविद्याद्वयोच्छेदः । ततो हि ब्रह्मावगतेर्निवृत्तिराविर्भावः । तत्किं ब्रह्मणि शब्दादृते न मानान्तरमनुसरणीयम् ।
तथा च कुतो मननम् , कुतश्च तदनुभवः साक्षात्कार इत्यत आह -
सत्सु तु वेदान्तवाक्येष्विति ।
अनुमानं वेदान्ताविरोधि तदुपजीवि चेत्यपि द्रष्टव्यम् । शब्दाविरोधिन्या तदुपजीविन्या च युक्त्या विवेचनं मननम् । युक्तिश्च अर्थापत्तिरनुमानं वा ।
स्यादेतत् । यथा धर्मे न पुरुषबुद्धिसाहाय्यम् , एवं ब्रह्मण्यपि कस्मान्न भवतीत्यत आह -
न धर्मजिज्ञासायामिवेति ।
श्रुत्यादय इति ।
श्रुतीतिहासपुराणस्मृतयः प्रमाणम् । अनुभवोऽन्तःकरणवृत्तिभेदो ब्रह्मसाक्षात्कारस्तस्याविद्यानिवृत्तिद्वारेण ब्रह्मस्वरूपाविर्भावः प्रमाणफलम् । तच्च फलमिव फलमिति गमयितव्यम् ।
यद्यपि धर्मजिज्ञासायामपि सामग्र्यां प्रत्यक्षादीनां व्यापारस्तथापि साक्षान्नास्ति । ब्रह्मजिज्ञासायां तु साक्षादनुभवादीनां सम्भवोऽनुभवार्था च ब्रह्मजिज्ञासेत्याह -
अनुभवावसानत्वात् ।
ब्रह्मानुभवो ब्रह्मसाक्षात्कारः परः पुरुषार्थः, निर्मृष्टनिखिलदुःखपरमानन्दरूपत्वादिति ।
ननु भवतु ब्रह्मानुभवार्था जिज्ञासा, तदनुभव एव त्वशक्यः, ब्रह्मणस्तद्विषयत्वायोग्यत्वादित्यत आह -
भूतवस्तुविषयत्वाच्च ब्रह्मविज्ञानस्य ।
व्यतिरेकसाक्षात्कारस्य विकल्परूपो विषयविषयिभावः ।
नत्वेवं धर्मज्ञानमनुभवावसानम् , तदनुभवस्य स्वयमपुरुषार्थत्वात् , तदनुष्ठानसाध्यत्वात्पुरुषार्थस्य, अनुष्ठानस्य च विनाप्यनुभवं शाब्दज्ञानमात्रादेव सिद्धेरित्याह -
कर्तव्ये हीत्यादिना ।
न चायं साक्षात्कारविषयतायोग्योऽप्यवर्तमानत्वात् , अवर्तमानश्चानवस्थितत्वादित्याह -
पुरुषाधीनेति ।
पुरुषाधीनत्वमेव लौकिकवैदिककार्याणामाह -
कर्तुमकर्तुमिति ।
लौकिकं कार्यमनवस्थितमुदाहरति -
यथाश्वेनेति ।
लौकिकेनोदाहरणेन सह वैदिकमुदाहरणं समुच्चिनोति -
तथातिरात्र इति ।
कर्तुमकर्तुमित्यस्येदमुदाहरणमुक्तम् । कर्तुमन्यथा वा कर्तुमित्यस्योदाहरणमाह -
उदित इति ।
स्यादेतत् । पुरुषस्वातन्त्र्यात्कर्तव्ये विधिप्रतिषेधानामानर्थक्यम् , अतदधीनत्वात्पुरुषप्रवृत्तिनिवृत्त्योरित्यत आह -
विधिप्रतिषेधाश्चात्रार्थवन्तः स्युः ।
गृह्णातीति विधिः । न गृह्णातीति प्रतिषेधः । उदितानुदितहोमयोर्विधी । एवं नारास्थिस्पर्शननिषेधो ब्रह्मघ्नश्च तद्वारणविधिरित्येवंजातीयका विधिप्रतिषेधा अर्थवन्तः ।
कुत इत्यत आह -
विकल्पोत्सर्गापवादाश्च ।
चो हेतौ । यस्माद्ग्रहणाग्रहणयोरुदितानुदितहोमयोश्च विरोधात्समुच्चयासम्भवे तुल्यबलतया च बाध्यबाधकभावाभावे सत्यगत्या विकल्पः । नारास्थिस्पर्शननिषेधतद्वारणायोश्च विरुद्धयोरतुल्यबलतया न विकल्पः । किन्तु सामान्यशास्त्रस्य स्पर्शननिषेधस्य धारणविधिविषयेण विशेषशास्त्रेण बाधः । एतदुक्तं भवति - विधिप्रतिषेधैरेव स तादृशो विषयोऽनागतोत्पाद्यरूप उपनीतः, येन पुरुषस्य विधिनिषेधाधीनप्रवृत्तिनिवृत्त्योरपि स्वातन्त्र्यं भवतीति ।
भूते वस्तुनि तु नेयमस्ति विधेत्याह -
न तु वस्त्वेवं नैवमिति ।
तदनेन प्रकारविकल्पो निरस्तः ।
प्रकारिविकल्पं निषेधति -
अस्ति नास्तीति ।
स्यादेतत् । भूतेऽपि वस्तुनि विकल्पो दृष्टः, यथा स्थाणुर्वा पुरुषो वेति, तत्कथं न वस्तु विकल्प्यत इत्यत आह -
विकल्पनास्त्विति ।
पुरुषबुद्धिः = अन्तःकरणं, तदपेक्षा विकल्पनाः = संशयविपर्यासाः । सवासनमनोमात्रयोनयो वा, यथा स्वप्ने । सवासनेन्द्रियमनोयोनयो वा, यथास्थाणुर्वा पुरुषो वेतिस्थाणौ संशयः, पुरुष एवेति वा विपर्यासः । अन्यशब्देन वस्तुतः स्थाणोरन्यस्य पुरुषस्याभिधानात् । न तु पुरुषतत्त्वं वा स्थाणुतत्त्वं वापेक्षन्ते । समानधर्मधर्मिदर्शनमात्राधीनजन्मत्वात् । तस्मादयथावस्तवो विकल्पना न वस्तु विकल्पयन्ति वान्यथयन्ति वेत्यर्थः ।
तत्त्वज्ञानं तु न बुद्धितन्त्रम् , किं तु वस्तुतन्त्रम् , अतस्ततो वस्तुविनिश्चयो युक्तः, न तु विकल्पनाभ्य इत्याह -
न वस्तुयाथात्म्येति ।
एवमुक्तेन प्रकारेण भूतवस्तुविषयाणां ज्ञानानां प्रामाण्यस्य वस्तुतन्त्रतां प्रसाध्य ब्रह्मज्ञानस्य वस्तुतन्त्रतामाह -
तत्रैवं सतीति ।
अत्र चोदयति -
ननु भूतेति ।
यत्किल भूतार्थं वाक्यं तत्प्रमाणान्तरगोचरार्थतयानुवादकं दृष्टम् । यथा नद्यास्तीरे फलानि सन्तीति । तथा च वेदान्ताः । तस्मात् भूतार्थतया प्रमाणान्तरदृष्टमेवार्थमनुवदेयुः । उक्तं च ब्रह्मणि जगज्जन्मादिहेतुकमनुमानं प्रमाणान्तरम् । एवं च मौलिकं तदेव परीक्षणीयम् , न तु वेदान्तवाक्यानि तदधीनसत्यत्वानीति कथं वेदान्तवाक्यग्रथनार्थता सूत्राणामित्यर्थः ।
परिहरति -
न । इन्द्रियाविषयत्वेति ।
कस्मात्पुनर्नेन्द्रियविषयत्वं प्रतीच इत्यत आह -
स्वभावत इति ।
अत एव श्रुतिः - “पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्” (क. उ. २ । १ । १) इति ।
सति हीन्द्रियेति ।
प्रत्यगात्मनस्त्वविषयत्वमुपपादितम् । यथा च सामान्यतो दृष्टमप्यनुमानं ब्रह्मणि न प्रवर्तते तथोपरिष्टान्निपुणतरमुपपादयिष्यामः । उपपादितं चैतदस्माभिर्विस्तरेण न्यायकणिकायाम् । न च भूतार्थतामात्रेणानुवादतेत्युपरिष्टादुपपादयिष्यामः । तस्मात्सर्वमवदातम् । श्रुतिश्च - “यतो वा”(तै. उ. ३ । १ । १) इति जन्म दर्शयति, “येन जातानि जीवन्ति” इति जीवनं स्थितिम् , “यत्प्रयन्ति” इति तत्रैव लयम् ।
तस्य च निर्णयवाक्यम् ।
अत्र च प्रधानादिसंशये निर्णयवाक्यम् -
आनन्दाद्ध्येवेति ।
एतदुक्तं भवति - यथा रज्ज्वज्ञानसहितरज्जूपादाना हि धारा रज्ज्वां सत्यामस्ति, रज्ज्वामेव च लीयते, एवमविद्यासहितब्रह्मोपादानं जगज्जायते, ब्रह्मण्येवास्ति, तत्रैव च लीयत इति सिद्धम् ॥ २ ॥
सूत्रान्तरमवतारयितुं पुर्वसूत्रसङ्गतिमाह -
जगत्कारणत्वप्रदर्शनेनेति ।
जन्माद्यस्य यतः ॥२॥ अनन्तराधिकरणेन प्रारिप्सितसमस्त विचारस्य संबन्धमाह —
तदेवमिति ।
सकलशास्त्रं प्रतीकेन संगृहीतम् । विषयादिसद्भावात् समर्थिते विचारारम्मे तमुपजीव्योत्तरविचारप्रवृत्तेर्हेतुहेतुमल्लक्षणः संबन्ध इत्यर्थः ।
प्रथमसूत्रेण द्वितीयसूत्रस्याक्षेपलक्षणां सङ्गतिमाह —
एतस्येति ।
मुमुक्षुणा ब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति प्रतिज्ञायां ब्रह्मखरूपविचारवत्प्रमाणयुक्तिसाधनफलविचाराणामर्थात् प्रतिभाने कथं प्रथमं ब्रह्मैव विचार्यतेऽत आह—
अत्रेति ।
अत्र यतो वेत्यादिवाक्यं ब्रह्म लक्षयति, उत नेति लक्षणस्य लोकप्रसिद्ध्यप्रसिद्धिभ्यां विशये पूर्वपक्षमाह —
तत्र यद्यावदिति ।
पूर्वाधिकरणाक्षेपपरिहारत्वादस्य तत्रत्यब्रह्मलक्षणनिरूपकत्वाच्च तदीयमेव मुमुक्ष्वभिलषितमोक्षलाभः प्रयोजनमिति न पृथग्वक्तव्यम् । यदाहाचार्यः शबरस्वामी आक्षेपे चापवादे च प्राप्त्यां लक्षणकर्मणि । प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तते॥‘ इति । यत्र पूर्वाधिकरणसिद्धान्ताक्षेपेण पूर्वःपक्षः तत्राक्षेपिकी, यत्र तु पूर्वाधिकरणसिद्धान्तेन पूर्वपक्षः तत्रापवादिकी सङ्गतिः । प्राप्तिः तदर्थचिन्ता, कृत्वा प्रवर्तनं कृत्वाचिन्ता, सा चाभ्युपगमवाद इति । सजातीयविजातीयव्यावृत्तिप्रयोजनो धर्मो लक्षणं नाम ।
तदिह परिदृश्यमानं जगदेव लक्षणं ब्रह्मणः, उत नित्यशुद्धत्वादिस्वरूपमिति विकल्प्य नाद्य इत्युक्ते द्वितीयमाशङ्क्याह —
नचेति ।
ननु लोकासिद्धमपि वेदेन ज्ञाप्यतामत आह —
ऐवं चेति ।
न जगद् ब्रह्मलक्षणं, किंतु तत्प्रति कारणत्वं , तच्च जीवाविद्याविषयीकृतस्य धर्म इत्युपलक्षणमुपपादयति —
माभूदिति ।
तादात्म्येनेति ।
ऐक्येन ।
ततो भेदेन तद्धर्मतयेति ।
तदुत्पत्त्या त्विति ।
तदुत्पन्नत्वेन जगत् स्वकारणं लक्षयति ज्ञापयति, कारणत्वं तु ब्रह्मलक्षणमित्यर्थः । व्रज्याया गतेः । जन्म आदिर्ययोः स्थितिभङ्गयोस्तौ जन्मादी इत्यन्यपदार्थो यदि विशेषरूपेण विवक्ष्यते, तर्हि जन्मादी अस्येति निर्देशे गौरवं स्यात्तन्मा भूदिति सामान्यविवक्षया नपुंसकप्रयोगः सूत्रे कृतः ।
तत्र नपुंसकैकवचनप्रयोगार्हं समाहारमाहेत्याह —
लाघवायेति ।
‘श्रुतीरविशदाः काश्चिद्भाष्याणि विषमाणि च । वाचस्पत्युक्तभावानि पदशो विभजामहे’॥
तद्गुणसंविज्ञान इति ।
तच्छब्देन बहुव्रीह्यर्थोन्यपदार्थ उच्यते । तस्य गुणत्वेन संविज्ञानं यस्मिन्समासे सः तथोक्तः । सर्वस्य विशेषणत्वे समासाऽसंभवात् समासार्थैकदेशो विशेषणमिति लभ्यते ।
अनादौ संसारे कथं जन्मादिस्तत्राह —
जन्मन इति ।
श्रुत्या वा कथमयुक्तं निर्दिष्टमत आह —
वस्त्विति ।
नानादेः संसारस्यादिर्जन्मोच्यते, किं तर्हि प्रतिवस्तु ।
घटस्य हि जन्मैवादिरति ।
इदमः सन्निहितवचनत्वात्प्रत्यक्षमात्रपरामर्शित्वमाशङ्क्य प्रतीतिमात्रं सन्निधिरित्याह —
अस्येतीति ।
सर्वस्य जगतो न जन्म; आकाशादेरनादित्वात्, तत्राह —
षष्ठीति ।
वियदधिकरण (ब्र.अ.२.पा.३.सू.१) न्यायात्तस्याप्यस्ति जन्मादिसंबन्ध इत्यर्थः ।
जगतो जन्मादेर्वा ब्रह्मासंबन्धान्न लक्षणत्वमित्याशङ्क्याह —
यत इति ।
व्याख्यातमेतदधस्तात् । एवं सूत्रपदानि व्याख्याय प्रथमसूत्राद् ब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च वाक्यार्थमाह — अस्य जगत इत्यादिना भाष्येण ।
तद्गतैर्विशेषणैर्लक्षणेऽतिव्याप्तिः परिह्रियत इत्याह —
स्यादेतदित्यादिना ।
स्वभाव एव नियन्तेति स्वभावपक्षः, यदृच्छापक्षस्तु न किंचिन्नियामकमस्तीति । व्यासेधति=प्रतिषेधति ।
उत्पत्तेः प्रगसतः कथं बुद्धावालेखनमत आह —
अत एवेति ।
यदसदिति प्रसिद्धं तद्, बुध्द्यारूढरूपेण सदेव; अन्यथा तुरङ्गशृङ्गवत्कर्मत्वनिर्देशायोगादिति सत्कार्यवादिन आहुः ।
वैश्वानरीयेष्ट्यादिष्विति ।
चतुर्थे स्थितम् — फलसंयोगस्त्वचोदितेन स्यादशेषभूतत्वात्(जै.अ.४.पा.३.सू.३८) “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते’’ इत्युपक्रम्य ‘‘यस्मिन् जात एताभिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवती’’ति श्रूयते । तत्र किं पूतत्वादि पितुः फलं, उत पुत्रस्येति संदेहे, फलस्य कर्तृगामित्वनियमादितरथा प्रेरणानुपपत्तेः पितुरिति प्राप्ते — राद्धान्तः; यस्मिन् जाते एतामिष्टिं निर्वपति स पूत इति जातगामित्वेन फलाम्नानात् फलभोक्तृत्वेनाचोदिते पितरि फलसंयोगो न स्याद्वचनस्य तं प्रत्यशेषभूतत्वात् ।
यत्त्वफलभागिनो न प्रेरणेति ।
तन्न; पूतत्वादिगुणवत्पुत्रवत्तयैव पितुः प्रीत्युत्पत्तेः प्रेरणावकल्पनात् ।
अतः पुत्रगामि फलमिति ।
अत्रानेककर्तृभोक्तृजीवानां सृज्यत्वेन निर्देशाज्जगत्कर्तृत्वायोग्यतोक्ता ।
मनसापीति ।
जगतस्तान्प्रति कार्यत्वायोग्यतेति विशेषणद्वयेन जीवकर्तृकत्वनिषेधः । व्याकृतस्य इत्यनेनानभिव्यक्तबीजावस्थजगतोभिव्यक्त्यभिधानादणवः प्रागसद् द्व्यणुकाद्यारभन्त इति मतव्युदासः । शेषं विशदं टीकायाम् । तदेव लिलक्षयिषितजगद्योनिब्रह्मसजातीयया परभ्रमपरिकल्पितप्रधानादेरुक्तविधजगत्प्रकृतित्वं ब्रह्म व्यवच्छिनत्ति । विजातीयात्पुनः कार्यात्कारणत्वादेव । तथा च सजातीयविजातीयव्यवच्छेदकत्वेन जगत्प्रकृतित्वस्य सिद्धं लक्षणत्वम् ।
धर्मलक्षणेति ।
धर्म इति लक्षणमिति अवस्थेति त्रीणि लक्षणानि यस्य परिणामस्य स तथोक्तः ।
स चोत्पत्तावन्तर्भवतीति ।
धर्मपरिणामं विवृणोति —
धर्मिणो हीति ।
कनकादेर्धर्मिणो धर्मरूपपरिमाणो नाम मुकुटकटकादिरिति सांख्यप्रक्रिया । तत्र निरूप्यमाणे परिणामशब्दालम्बने तस्य कटकादेर्हेमादित उत्पत्तिरित्यर्थः ।
लक्षणपरिणाममुदाहरति —
एवमिति ।
प्रत्युत्पन्नत्वं वर्तमानत्वं कटकादिकार्यस्य वर्तमानत्वातीतत्वभविष्यत्वरूपो लक्षणपरिणामः सोऽप्युत्पत्तिरित्यर्थः ।
अवस्थापरिणाममुदाहरति —
एवमवस्थेति ।
अतीतादेरेवातीतत्वातीततरत्वातीततमत्वादिरूपो नवपुराणत्वाद्यापत्तिरवस्थापरिणामो नाम, स चोत्पत्तिरेवेत्यर्थः ।
अपक्षयस्य विनाशान्तर्भावमाह —
अपक्षयस्त्विति ।
तच्च न मूलकारणेति ।
पुरुषाणां श्रुतिमन्तरेणातीन्द्रियार्थे दर्शनसामर्थ्याभावादित्यर्थः ।
न च वृध्द्यादिविकारकथनादेव मूलकारणे द्रष्टृत्वमनुमेयं अन्यथाप्युपपत्तेरित्याह —
महासर्गादिति ।
परमकारणादुत्पत्त्यादयो न गृहीता इति शङ्कापनुत्तये योत्पत्तिर्ब्रह्मणो ‘यतो वेति’ वाक्ये जायन्त इत्युत्पत्तिरभिहिता या च तत्रैव स्थितिजीवन्तीत्युक्ता, यश्च तत्रैव प्रलयोऽभिसंविशन्तीत्युक्तस्त उत्पत्त्यादयः सूत्रे गृह्यन्त इति भाष्यार्थः ।
तत्रोत्पत्तिमात्रादेव लक्षणस्यालक्ष्यव्यावृत्तिसिद्धौ स्थितिलयोपादानमाशङ्कानिवृत्त्यर्थमित्याह —
उत्पत्तिमात्रमिति ।
उत्पादकत्वं निमित्तेऽपि दृष्टमित्युपादानत्वसिद्ध्यर्थं लयाश्रयत्वमुक्तमित्यर्थः । नन्वेवमपि लयाधारत्वादेवोपादानत्वं लभ्यते, नहि दण्डादिषु कुम्भादयो लीयन्तेऽत इतरवैयर्थ्यम् — इतिचेत्, मैवम्; उपादानत्वमेव न कुलधर्मतयोक्तं, किंतु प्रकृतिविकाराभेदन्यायेनाद्वैतसिद्धये । एवं च भवतु ब्रह्म जगत उपादानम्, अधिष्ठाता तु उत्पत्तिस्थित्योरन्यः स्यात् कुम्भकार इव कुम्भस्योत्पत्तौ राजेव च राजस्थेम्नीति मा शङ्कीत्युत्पत्तिस्थितिग्रहणमिति ।
लक्षणाख्यकेवलव्यतिरेक्यनुमानादेव प्रतिज्ञातब्रह्मप्रमितेः शास्त्रयोनित्व (ब्र.अ.१.पा.१.सू.३) समन्वयाधिकरण (ब्र.अ.१.पा.१.सू.४) योर्वैयर्थ्येत्याशङ्क्याह —
तदनेनेति ।
ब्रह्मज्ञानाय वेदान्तविचार आरभ्य इति प्रतिज्ञायां विशेषणत्वेन ब्रह्मविषय इति प्रतिज्ञाविषयस्येत्युक्तम् । लक्षणं हि सिद्धस्य वस्तुतो भेदमवगमयति, ईदृशं तदिति तत्स्वरूपं वा, न सत्ताम् । कार्येण च कारणं किंचिदस्तीति मितम् । तत्त्वेकमनेकं वेति संदिग्धम् । तस्य यदैकत्वं सेत्स्यति, तदा भवति तत्सर्वज्ञं सर्वशक्ति च, नेतरथा । अयमेव संशयः कल्पनालाघवसंज्ञकतर्केणोत्कटैककोटिकतां नीतः संभावना समभवन्न निर्णयः ।
विचित्रप्रासादादीनां बहुकर्तृकत्वस्य प्रायेण दृष्टत्वात्तदिदमुक्तं —
संभावनोक्तेति ।
एवंच वक्ष्यमाणाधिकरणद्वयेन प्रमाणं वाच्यमित्यर्थः ।
एतदेवेति भाष्येण युक्तीनामासां संभावनाहेतुत्वं दृढीक्रियत इत्याह —
इत्थं नामेति ।
नैय्यायिकैरपि प्रमाणादमूषां भेदो नाज्ञायि युक्तीनाम् । ततः स्तोकैवासां प्रमाणादूनतैवं च संभावयन्तितरामित्यर्थः ।
सुहृद्भावेनेति ।
उत्तराधिकरणारंभात्प्राक् क्षणमपि शिष्याणामनुपपत्तिशङ्का मा भूदिति कृपयेत्यर्थः ।
अत्र ‘‘नावेदविन्मनुते तं बृहन्तं’’ ‘‘नैषा तर्केण मतिरापनेये’’ त्यादिशास्त्रात्प्रागुक्तयुक्त्या च वेदैकगम्यं ब्रह्मेति समाधत्त इत्याह —
परिहरतीति ।
वाक्यार्थविचारणाशब्देन शाब्दबोध उपासनासहित उक्तः, परस्तादवगतिरेवेति मध्येऽध्यवसानशब्दो न युक्त इत्याशङ्क्य नायं ज्ञानवचनः कितु संस्कारसहितलयविक्षेपाविद्यासमाप्तिवचन इत्याह —
सवासनेति ।
वृत्तिरूपसाक्षात्कारस्याविद्याध्वंसिनो मध्ये विद्यामानत्वेऽपि न सोऽध्यवसानशब्देन गृहीत अविद्यानिवृत्त्या स्वरूपाभिव्यक्तिं प्रति व्यवधानादिति ।
विमतं, चेतनपूर्वकं, कार्यत्वादित्यादियुक्तिः शब्दाविरोधिनी वस्तुविशेषनिर्धारणे तदुपजीविनीति वक्तव्यम्, ब्रह्मात्मत्वस्य केवलयुक्त्यगोचरत्वस्वाभाव्यादित्याह —
तदुपजीवि चेत्यपीति ।
यथाहि किल गन्धारदेशेभ्य आनीय चौरैररण्ये कश्चिद्बद्धचक्षुर्निहित आप्तोपदेशतस्तदुपदिष्टस्य साकल्येन न गृहीतत्वात्पण्डितः स्वयमूहापोहक्षमतया च मेधावी गन्धारान्प्राप्नोति, एवं परब्रह्मण आच्छिद्य विवेकदृष्टिं निरुध्याविद्यादिभिः संसारारण्ये निहितो जन्तुः परमकारुणिकगुरूपदेशतः स्वस्वभावं प्रतिपद्यत इति भाष्यस्थश्रुत्यर्थः ।
यदुक्तं ब्रह्मणो मानान्तराविषयत्वे कुतो मननमिति, तत्राह —
शब्दाविरोधिन्येति ।
कारणस्य सर्वज्ञत्वादिसिद्धौ युक्तिः शब्दमुपजीवति, न स्वतन्त्रा; कारणमात्रं तु संभावयन्तीतिकर्तव्यता न मानान्तरमित्यर्थः ।
भाष्यस्थानुभवशब्दार्थमाह —
अन्तःकरणेति ।
ननु कथं वृत्तिः प्रमाणमिति भाष्ये उक्तं? निष्फलत्वादित्याशङ्क्य तत्कृताविद्यानिवृत्तिद्वारा स्वरूपाभिव्यक्तिः, उपचारात्फलमस्तीत्याह —
तस्येति ।
धर्मजिज्ञासायां श्रुत्यादय एव प्रमाणमित्ययुक्तं, वेदविषयश्रोत्रप्रत्यक्षाद्यपेक्षणादित्याशङ्क्य ज्ञातव्ये धर्मे न साक्षात्कारतदुपयोगियुक्त्यादीनां संभवो, ब्रह्मजिज्ञासा तु साक्षात्कारपर्यन्तेत्याह —
यद्यपीत्यादिना ।
न केवलं ब्रह्मजिज्ञासायामनुभवादीनां संभवः, किंतु तत्त्वसाक्षात्कारमन्तरेणापरोक्षसंसारभ्रमनिवृत्त्ययोगात्तेन विना न पर्यवसानं चेत्याह —
अनुभवार्थेति ।
ब्रह्मजिज्ञासायामिति सप्तम्यन्तं पदं षष्ठ्यन्तत्वेन विपरिणमय्यानुभवावसानत्वाद्ब्रह्मजिज्ञासाया इति भाष्यं योज्यम् । अनुभवोऽवसाने समाप्तौ फलत्वेन यस्याः सा तथोक्ता । धर्मजिज्ञासायां त्वनुभवः कारणत्वेनोपक्रमे उपयुक्त इत्यर्थः ।
इहानुभवः स्वरूपाभिव्यक्तिर्न वृत्तिः, तत्र हेतुमाह —
परेति ।
न वृत्तिरनित्यत्वाद्विचारस्य पुष्कलं फलमित्यर्थः । तदनुभव एव त्वित्यत्र वृत्तिरुक्ता, एवकारेण तु तत्कृताविद्यानिवृत्तिद्वारेण स्वरूपाभिव्यक्तिरशक्यतरेति सूचितम् । भाष्ये — भूतशब्दः परमार्थवचनः, चशब्दः शङ्कानिवृत्त्यर्थः, व्यतिरेकः प्रपञ्चाभावोपलक्षितस्वरूपं, तद्विषयसाक्षात्कारस्य विकल्परूपो ब्रह्मणा सह विषयविषयिभावरूपः संबन्धोऽस्ति, नतु तत्त्वतः । उक्तं हीदं प्रथमसूत्रे — वृत्तिविषयत्वमपि तयैवोपहितस्य न निरुपाधेरिति, तत्र प्रस्मर्तव्यमित्यर्थः । अन्यथाकर्तुमित्यत्र कर्तुमित्यस्यानुषङ्गो भाष्ये कार्यः; करणापेक्षत्वादन्यथाकरणस्य ।
उदितहोमः कर्तुं शक्योऽनुदिते त्वन्यथेति तदाह —
कर्तुमिति ।
भाष्यस्थविध्यादिशब्दानुदाहृतवाक्येषु योजयति —
गृह्णातीत्यादिना ।
‘‘नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशेदि’’ति नारास्थिस्पर्शनिषेधः । ‘‘शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात्’’ (याज्ञ० अ.३ श्लो.२४३) इति ब्रह्मघ्नः शवशिरसो नारास्थो ध्वजत्वेन धारणविधिः॥
भाष्ये प्रतिज्ञैव भाति, न हेतुरत आह —
एतदुक्तमिति ।
स्वातन्त्र्येण कर्तुं समर्थोऽपि हिताहितोपायत्वमजानन्, तद्बोधकविधिनिषेधापेक्ष इत्यर्थः ।
अन्तःकरणजकल्पनाद्वैविध्यमाह —
सवासनेति ।
जाग्रद्वासनावासितं मन एव स्वप्नकारणं, जाग्रत्संशयविपर्ययाः संस्कारसहितान्तर्बहिःकरणजा इत्यर्थः । यथावस्तुत्वं वस्त्वनुसारित्वं यासां नास्ति तास्तथोक्ताः ।
न वस्त्विति ।
संशया न विकल्पयन्ति, विपर्यया नान्यथयन्तीत्यर्थः ।
खानि=इन्द्रियाणि, व्यतृणत्=हिंसितवान्, पराङ् पश्यति लोकः प्रत्यगात्मनस्त्वविषयत्वमिति —
अपरोक्षत्वात् प्रत्यगात्मप्रसिद्धेरित्यत्रेति ।
उपरिष्टात् तर्कपादे (अ.२.पा.२) उपपादितं चेति । विमतं, धीमत्कृतं, कार्यत्वादित्यनुमानान्नेश्वरसिद्धिः; जीवजत्वेन सिद्धसाधनत्वात्, उपकरणाद्यभिज्ञकर्तृकत्वसाधने कतिपयतदभिज्ञतायां सर्वज्ञासिद्धेः, सर्वतदभिज्ञकर्तृकत्वे सपक्षस्य साध्यहीनत्वात्, कुम्भं निर्मितवतः कुम्भकारस्य चैत्रक्रय्योऽयमित्यनवबोधात्, साधारणेऽपि सिद्धसाधनत्वात्, मनःसंयोगहीनस्य चोपलब्धेरभावादमनस्कस्याप्यैश्वर्यादुपलब्धिसंभवे तत एव विनैवोपलब्ध्या जगन्निर्माणसंभवेनोपलब्धिमत्कर्तृकत्वस्यैव विलोपेन वृद्धिगृह्णतो मूलच्छेदादित्यादि न्यायकणिकायां व्युदपादिति । उपरिष्टात् समन्वयसूत्रे ।
जन्मादिसूत्रेण यतो वेत्यादिवाक्यं लक्ष्यमिति भाष्ये उक्तं, तदर्थं श्रुतिसूत्रयोरर्थप्रत्यभिज्ञां दर्शयति —
श्रुतिरिति ।
अत्र स्वरूपलक्षणपरत्वं सूत्रस्य दर्शयितुं तस्य चेति भाष्यं ।
तद्व्याचष्टे —
अत्र चेति ।
जगद्विशेषणैः पूर्वनिर्णयेऽपि श्रुतित इह निर्णीयते । कारणं ब्रह्माऽनूद्य वाक्येनानन्दत्वविधानात्स्वरूपलक्षणसिद्धिः । आनन्दः सत्यादेरुपलक्षणम् ननु — आनन्दादेर्भेदे न ब्रह्मलक्षणत्वम्, अभेदे वाक्यार्थासिद्धिः, गुणभूतपदार्थविशिष्टः प्रधानपदार्थो हि वाक्यार्थः — अत्रोच्यते; यत्र पदार्थः प्रमितः तत्र स एवेतरपदार्थविशिष्टः प्रतिपाद्यः । यस्त्वज्ञातः स नान्यैः शक्यो विशेष्टुमिति स एव वाक्येन प्रमेयः । प्रमिते चैतस्मिन् वाक्यस्य समाप्तेर्न विशिष्टपरत्वम् । यथा प्रकृष्टप्रकाशश्चन्द्र इति प्रकर्षप्रकाशद्वारा चन्द्रलक्षणान्न तद्वैशिष्ट्यं ; मानान्तरादेव तत्सिद्धेः, उपायस्तु वैशिष्ट्यम् अखण्डचन्द्रसिद्धौ । तच्चाविरोधाच्चन्द्रेऽनुज्ञायते, सत्यादिवाक्ये त्वनन्तादिपदैर्बाध्यते वैशिष्ट्यम् । एवंच अविशिष्टमपर्यायानेकशब्दप्रकाशितम् । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे॥ ननु — चन्द्रलक्षणमिदं; ततश्चन्द्रः, इतरस्माद्भिद्यते, चन्द्रशब्देन व्यवहर्तव्यो वा, प्रकृष्टप्रकाशत्वात्, व्यतिरेकेण तमोवदिति व्यावृत्तिविशिष्टस्य वाच्यत्वविशिष्टस्य च वाक्येन प्रतिपाद्यत्वं — इति । तन्न; अप्रमिते चन्द्रे व्यावृत्तेरनवबोधात्, प्रमितेऽपि प्रमाणान्तरात् प्रमितिर्लक्षणवाक्याद्वा । प्रथमे सामान्यत; प्रमितिर्विशेषतो वा । नाग्रिमः; सामान्यस्यैव व्यावृत्तिसिद्धौ चन्द्रस्य तदसिद्धिप्रसङ्गात्, न चरमः; विशेषग्राहिप्रमाणादेव व्यावृत्तिसिद्धौ लक्षणवैफल्यात् । न द्वितीयः; लक्षणवाक्याच्चन्द्रप्रमितौ तस्य तत्रैव पर्यवसाने व्यावृत्तिपरत्वानुपपत्तेः । न च चन्द्रशब्दवाच्यत्वं साध्यते; अचन्द्रे चन्द्रशब्दवाच्यत्वसाधने व्याघातात् । अथ चन्द्रत्वमप्यभिप्रेत्य चन्द्रशब्दवाच्यत्वं साध्यते, तर्हि चन्द्रत्वमेव साध्यतामवश्यापेक्षितत्वात्कृतमश्रुतवाच्यत्वकल्पनया । तस्मात्प्रकृष्टत्वे सति प्रकाशत्वमज्ञातचन्द्रज्ञापकम्; अर्थाद्व्यावृत्त्यादिसिद्धिः । एवंचैतदपास्तत् — एकेन पदेन यावदुक्तं तावतोऽपरेणाभिधाने पर्यायत्वम्, अधिकाभिधाने विशिष्टवाक्यार्थत्वापत्तिः — इति; वाच्यार्थनानात्वस्येष्टत्वाल्लक्ष्यस्य चैकत्वात् । नहि चन्द्रद्वयमस्ति, न च लक्षणस्य विशिष्टत्वाल्लक्ष्यं विशिष्टं स्यात् । मा भूत् सामान्यवत्त्वे सत्यस्मद्बाह्येन्द्रियग्राह्यत्वं विशिष्टमित्यनित्यत्वमपि विशिष्टं, तर्हि अनित्यत्वस्येव लक्षणानात्मकत्वाल्लक्ष्यस्य ब्रह्मणः सत्याद्यात्मकत्वं न स्यादिति चेत्, नैतदस्ति; यतः; ‘सत्तादीनां हि जातीनां व्यक्तितादात्म्यदर्शनात् । लक्ष्यव्यक्तिरपि ब्रह्म सत्त्वादि न जहाति नः॥’‘ इह हि कल्पितभेदव्यक्त्याश्रितैः सामान्यैर्या व्यक्तयो लक्ष्यन्ते, तास्तद्रूपत्वं न जहति; तरङ्गचन्द्रानुगतचन्द्रत्वेन लक्ष्यचन्द्रव्यक्तिरिव चन्द्रात्मत्वम्, एवं ब्रह्मापि मायाकार्यकुम्भादिकल्पितव्यक्तयनुगतं सत्तया लक्ष्यमाणं सत्त्वं न हास्यति । तथा ज्ञानत्वानन्दत्वाभ्यामप्यन्तःकरणवृत्त्युपधानलब्धभेदचिदानन्दविशेषानुगताभ्यां लक्ष्यमाणचिदानन्दव्यक्तयोरपि योज्यम् । यथा च सद्भेद औपाधिकः, एवं सज्ज्ञानानन्दभेदोऽपि, सत्त्वरहितज्ञानानन्दयोः शून्यत्वप्रसङ्गात्, बोधात्मत्वरहितसतश्च भानाभावप्रसङ्गाद्, दृश्यत्वे कल्पितत्वेन सत्त्वायोगात्सद्बोधात्मकसाक्षिणश्च परप्रेमास्पदत्वेनानन्दस्वाभाव्यावगमादिति । तथाच कल्पितभेदसामान्यतदपेक्षव्यक्त्याकारबाधेन सत्यज्ञानानन्दात्मकं ब्रह्म निश्चीयते । प्रयोगोऽपि सत्यादिवाक्यं, विशिष्टार्थपरत्वरहितं, लक्षणवाक्यत्वात्प्रकृष्टप्रकाशादिवाक्यवदिति । तथा — उपाधिभेदभिन्नोऽर्थो येनैकः प्रतिपाद्यते । तदपि स्यादखण्डार्थे महत्खं कुम्भकं यथा॥ निरंशस्य हि जीवस्याणुत्वमनन्तत्वं वा स्यात् । तत्र नाणुत्वं; सकलदेहव्यापि ह्लादानुपलम्भप्रसङ्गाद्, विभोश्च नभोवद् द्रव्यत्वावान्तरजात्यनाधारस्येश्वराद्भेदायोगात् । तस्मादनन्तब्रह्मात्मनोऽस्य परिच्छेद औपाधिकः । श्रूयते च जीवस्य परस्मादौपाधिको भेदः — यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा॥इति ।
नन्वेवं भूतब्रह्मणः कथं जगद्योनित्वमत आह —
एतदिति॥
इति द्वितीयं जन्माद्यधिकरणम्॥