शास्त्रयोनित्वात् ॥
न केवलं जगद्योनित्वादस्य भगवतः सर्वज्ञता, शास्त्रयोनित्वादपि बोद्धव्या ।
शास्त्रयोनित्वस्य सर्वज्ञतासाधनत्वं समर्थयते -
महत ऋग्वेदादेः शास्त्रस्येति ।
चातुर्वर्ण्यस्य चातुराश्रम्यस्य च यथायथं निषेकादिश्मशानान्तासु ब्राह्ममुहूर्तोपक्रमप्रदोषपरिसमापनीयासु नित्यनैमित्तिककाम्यकर्मपद्धतिषु च ब्रह्मतत्त्वे च शिष्याणां शासनात् शास्त्रमृग्वेदादिः । अत एव महाविषयत्वात् महत् ।
न केवलं महाविषयत्वेनास्य महत्त्वम् , अपि त्वनेकाङ्गोपाङ्गोपकरणतयापीत्याह -
अनेकविद्यास्थानोपबृंहितस्य ।
पुराणन्यायमीमांसादयो दश विद्यास्थानानि तैस्तया तया द्वारोपकृतस्य । तदनेन समस्तशिष्टजनपरिग्रहेणाप्रामाण्यशङ्काप्यपाकृता । पुराणादिप्रणेतारो हि महर्षयः शिष्टास्तैस्तया तया द्वारा वेदान्व्याचक्षाणैस्तदर्थञ्चादरेणानुतिष्ठद्भिः परिगृहीतो वेद इति ।
न चायमनवबोधको नाप्यस्पष्टबोधको येनाप्रमाणं स्यादित्याह -
प्रदीपवत्सर्वार्थावद्योतिनः ।
सर्वमर्थजातं सर्वथावबोधयन्नानवबोधको नाप्यस्पष्टबोधक इत्यर्थः ।
अत एव
सर्वज्ञकल्पस्य -
सर्वज्ञसदृशस्य ।
सर्वज्ञस्य हि ज्ञानं सर्वविषयं, शास्त्रस्याप्यभिधानं सर्वविषयमिति सादृश्यम् । तदेवमन्वयमुक्त्वा व्यतिरेकमप्याह -
न हीदृशस्येति ।
सर्वज्ञस्य गुणः सर्वविषयतातदन्वितं शास्त्रम् , अस्यापि सर्वविषयत्वात् ।
उक्तमर्थं प्रमाणयति -
यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति स -
पुरुषविशेषः
ततोऽपि -
शास्त्रात्
अधिकतरविज्ञानः
इति योजना । अद्यत्वेऽप्यस्मदादिभिर्यत्समीचीनार्थविषयं शास्त्रं विरच्यते तत्रास्माकं वक्तृणां वाक्याज्ज्ञानमधिकविषयम् । नहि ते तेऽसाधारणधर्मा अनुभूयमाना अपि शक्या वक्तुम् । न खल्विक्षुक्षीरगुडादीनां मधुररसभेदाः शक्याः सरस्वत्याप्याख्यातुम् । विस्तरार्थमपि वाक्यं न वक्तृज्ञानेन तुल्यविषयमिति कथयितुं विस्तरग्रहणम् ।
सोपनयं निगमनमाह -
किमु वक्तव्यमिति ।
वेदस्य यस्मात् महतो भूतात् योनेः सम्भवः, तस्य महतो भूतस्य ब्रह्मणो निरतिशयं सर्वज्ञत्वं च सर्वशक्तित्वं च किमु वक्तव्यमिति योजना ।
अनेकशाखेति ।
अत्र चानेकशाखाभेदभिन्नस्यवेदस्येत्यादिः सम्भव इत्यन्त उपनयः । तस्येत्यादि सर्वशक्तित्वञ्चेत्यन्तं निगमनम् ।
अप्रयत्नेनैवेति ।
ईषत्प्रयत्नेन, यथालवणा यवागूरिति । देवर्षयो हि महापरिश्रमेणापि यत्राशक्तस्तदयमीषत्प्रयत्नेन लीलयैव करोतीति निरतिशयमस्य सर्वज्ञत्वं सर्वशक्तित्वं चोक्तं भवति । अप्रयत्नेनास्य वेदकर्तृत्वे श्रुतिरुक्ता - “अस्य महतो भूतस्य”(बृ. उ. २ । ४ । १०) इति । येऽपि तावत् वर्णानां नित्यत्वमास्थिषत तैरपि पदवाक्यादीनामनित्यत्वमभ्युपेयम् । आनुपूर्वीभेदवन्तो हि वर्णाः पदम् । पदानि चानुपूर्वीभेदवन्ति वाक्यम् । व्यक्तिधर्मश्चानुपूर्वी न वर्णधर्मः, वर्णानां नित्यानां विभूनां च कालतो देशतो वा पौर्वापर्यायोगात् । व्यक्तिश्चानित्येति कथं तदुपगृहीतानां वर्णानां नित्यानामपि पदता नित्या । पदानित्यतया च वाक्यादीनामप्यनित्यता व्याख्याता । तस्मान्नृत्तानुकरणवत्पदाद्यनुकरणम् । यथा हि यादृशं गात्रचलनादि नर्तकः करोति तादृशमेव शिक्ष्यमाणानुकरोति नर्तकी, न तु तदेव व्यनक्ति, एवं यादृशीमानुपूर्वीं वैदिकानां वर्णपदादीनां करोत्यध्यापयिता तादृशीमेवानुकरोति माणवकः, न तु तामेवोच्चारयति, आचार्यव्यक्तिभ्यो माणवकव्यक्तीनामन्यत्वात् । तस्मान्नित्यानित्यवर्णवादिनां न लौकिकवैदिकपदवाक्यादिपौरुषेयत्वे विवादः, केवलं वेदवाक्येषु पुरुषस्वातन्त्र्यास्वातन्त्र्ये विप्रतिपत्तिः । यथाहुः - “यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता” । तत्र सृष्टिप्रलयमनिच्छन्तो जैमिनीया वेदाध्ययनं प्रत्यस्मादृशगुरुशिष्यपरम्परामविच्छिन्नामिच्छन्ते वेदमनादिमाचक्षते । वैयासिकं तु मतमनुवर्तमानाः श्रुतिस्मृतीतिहासादिसिद्धसृष्टिप्रलयानुसारेणानाद्यविद्योपधानलब्धसर्वशक्तिज्ञानस्यापि परमात्मनो नित्यस्य वेदानां योनेरपि न तेषु स्वातन्त्र्यम् , पूर्वपूर्वसर्गानुसारेण तादृशतादृशानुपूर्वीविरचनात् । यथा हि - यागादिब्रह्महत्यादयोऽर्थानर्थहेतवो ब्रह्मविवर्ता अपि न सर्गान्तरेऽपि विपरीयन्ते । न हि जातु क्वचित्सर्गे ब्रह्महत्याऽर्थहेतुरनर्थहेतुश्चाश्वमेधो भवति । अग्निर्वा क्लेदयति । आपो वा दहन्ति । तद्वत् । यथात्र सर्गे नियतानुपूर्व्यं वेदाध्ययनमभ्युदयनिःश्रेयसहेतुरन्यथा तदेव वाग्वज्रतयानर्थहेतुः, एवं सर्गान्तरेष्वपीति तदनुरोधात्सर्वज्ञोऽपि सर्वशक्तिरपि पूर्वपूर्वसर्गानुसारेण वेदान्विरचयन्न स्वतन्त्रः । पुरुषास्वातन्त्र्यमात्रं चापौरुषेयत्वं रोचयन्ते जैमिनीया अपि । तच्चास्माकमपि समानमन्यत्राभिनिवेशात् । न चैकस्य प्रतिभानेऽनाश्वास इति युक्तम् । न हि बहूनामप्यज्ञानां विज्ञानां वाशयदोषवतां प्रतिभाने युक्त आश्वासः । तत्त्वज्ञानवतश्चापास्तसमस्तदोषस्यैकस्यापि प्रतिभाने युक्त एवाश्वासः । सर्गादिभुवां प्रजापतिदेवर्षीणां धर्मज्ञानवैराग्यैश्वर्यसम्पन्नानामुपपद्यते तत्स्वरूपावधारणम् , तत्प्रत्ययेन चार्वाचीनानामपि तत्र संप्रत्यय इत्युपपन्नं ब्रह्मणः शास्त्रयोनित्वम् , शास्त्रस्य चापौरुषेयत्वम् , प्रामाण्यं चेति ।।
इति प्रथमवर्णकम् ।।
वर्णकान्तरमारभते -
अथवेति ।
पूर्वेणाधिकरणेन ब्रह्मस्वरूपलक्षणासम्भवाशङ्कां व्युदस्य लक्षणसम्भव उक्तः । तस्यैव तु लक्षणस्यानेनानुमानत्वाशङ्कामपाकृत्यागमोपदर्शनेन ब्रह्मणि शास्त्रं प्रमाणमुक्तम् । अक्षरार्थस्त्वतिरोहितः ॥ ३ ॥
शास्त्रयोनित्वात् ॥३॥ अत्र हेतुमात्रं प्रतिभाति, नैतज्जगद्योनित्वे, साध्याविशेषादित्यसङ्गतिमाशङ्क्यार्थिकप्रतिज्ञया सङ्गतिमाह—
सूत्रान्तरमिति ।
अथ वा वेदनित्यत्वाद् ब्रह्मणो विश्वयोनिता । नेति शङ्कामपाकर्तुं शास्त्रयोनित्वमुच्यते ॥ अस्मिन्पक्षे श्रौतप्रतिज्ञयैव सङ्गतिः ।
अभ्युच्चयार्थत्वेन हेतुपौनरुक्त्यं परिहरति —
न केवलमिति ।
हेत्वन्तरसमर्थनाच्चाधिकरणान्तरत्वम् । ‘अस्य महत’ इत्यादिवाक्यं ब्रह्मणो वेदकर्तृत्वेन सर्वज्ञत्वं न साधयत्युत साधयतीति वेदस्य सापेक्षत्वप्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वपक्षामाशङ्क्य निराकरिष्यते ।
सिद्धान्तोपक्रमभाष्यं व्याचष्टे —
चातुर्वर्ण्येत्यादिना ।
पुराणन्यायमीमांसा धर्मशास्त्रं षडङ्गानि दश विद्यास्थानानि ।
तया तया द्वारेति ।
सृष्टिवाक्यापेक्षितसर्गादिप्रपञ्चनद्वारा पुराणमद्वैतपरं, जातिव्यक्तिलक्षणनिरूपणेन न्यायो वैदिकपदार्थशुद्ध्यर्थः; शेषोपयोगस्तु व्यक्तः ।
उक्तमर्थं प्रमाणयतीति ।
अत्रायं भाष्यविभागः — महत इत्यारभ्य ब्रह्मेत्यन्तेन निःश्वसितश्रुत्या विभक्तत्वहेतूपकृतया ब्रह्मकार्यं वेद इत्युक्तम् । नहीदृशस्येत्यारभ्यास्तीत्यन्तेन व्यतिरेकमुखेन सर्वज्ञत्वप्रतिज्ञा । यदित्यादिना लोके इत्यन्तेन व्याप्तिरुक्तेति ।
विस्तरत्वं शास्त्रविशेषणं व्याप्त्यनुपयोगाद् व्यर्थमित्याशङ्क्य महाविषयत्वाद्वेदस्य ब्रह्मज्ञानेन तुल्यविषयत्वभ्रमनिवृत्तिः प्रयोजनमित्याह —
विस्तरार्थमिति ।
यस्मादित्यस्य तस्येत्यनेन व्यवहितेन संबन्धमाह —
वेदस्येति ।
इदमिहानुमानम् —
ब्रह्म वेदविषयादधिकविषयज्ञं तत्कर्तृत्वात्, यो यद्वाक्यप्रमाणकर्ता स तद्विषयादधिकविषयज्ञः, यथा पाणिनिरिति । सर्वावभासकवेदकर्तृत्वेन पक्षधर्मताबलात्सर्वज्ञत्वसिद्धिरिति ।
यद्वा —
अयं घटः, एतदन्यासर्ववित्कर्तृकत्वानधिकरणैतदन्यावेदत्वानधिकरणसकर्तृकान्यः, घटत्वाद्, घटान्तरवदिति ।
ईक्षणादिप्रयत्नापेक्षणादप्रयत्नशब्दः सौकर्यापेक्ष इत्याह —
ईषदिति ।
अधुना पूर्वपक्षमाशङ्क्य निराक्रियते । कर्तृमत्त्वेन वेदस्य सापेक्षत्वं वदन् प्रष्टव्यः — सापेक्षता किं पुरुषनिर्वर्त्यत्वमात्रात्, अभिनवानुपूर्वीविरचनाद्वा, मानान्तरोपलब्धार्थविषयवचनरचनाद्वा, कतिपयकालविरचितसर्वसंप्रदायस्य वेदस्यैकपुरुषान्निःसरणाद्वा ।
नाद्यः, तत्रापि संमतत्वादित्याह —
येऽपि तावदिति ।
व्यक्तिरभिव्यक्तिः । द्वितीये क्रमान्यत्वमात्रमभिनवत्वं, विसदृशक्रमत्वं वा । आद्यो भवद्भिरप्यङ्गीकृतः ।
चरमस्तु नास्माभिरपि स्वीकृत इत्याह —
तस्मान्नित्येति ।
तृतीयस्त्वनभ्युपगमनिरस्त इत्याह —
वैयासिकं त्विति ।
अनुवर्तमाना आचक्षत इत्यनुषङ्गः ।
ननु विवर्तत्वे वेदान्तानां यादृच्छिकत्वापातान्न क्रमनियम स्यात्तत्राह —
यथाहीति ।
सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो नोपाध्यायवत्क्रमानुरोधो युक्त इति, तत्राह —
यथात्रेति ।
‘‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् (पाणि ० शिक्षा ०)॥‘ इति श्रूयते ।
चतुर्थं निराकरोति —
नचैकस्येति ।
सर्वदासंप्रदायाविच्छेदमिच्छद्भिरपि संप्रदायप्रवर्तकेष्वाष्वास आस्थेयः, स वरमेकस्मिन्नेव ब्रह्मण्यवगतसार्वज्ञ्ये कृत इति भावः ।
ननु न वयमीश्वरं पश्यामः , कथं तत्कर्तृके वेदे विश्वासस्तत्राह —
सर्गादिभुवामिति ।
इति तृतीयं शास्त्रयोनित्वाधिकरणम् ॥