शास्त्रप्रमाणकत्वमुक्तं ब्रह्मणः प्रतिज्ञामात्रेण, तदनेन सूत्रेण प्रतिपादनीयमित्युत्सूत्रं पूर्वपक्षमारचयति भाष्यकारः -
कथं पुनरिति ।
किमाक्षेपे । शुद्धबुद्धोदासीनस्वभावतयोपेक्षणीयं ब्रह्म, भूतमभिदधतां वेदान्तानामपुरुषार्थोपदेशिनामप्रयोजनत्वापत्तेः, भूतार्थत्वेन च प्रत्यक्षादिभिः समानविषयतया लौकिकवाक्यवत्तदर्थानुवादकत्वेनाप्रामाण्यप्रसङ्गात् । न खलु लौकिकानि वाक्यानि प्रमाणान्तरविषयमर्थमवबोधयन्ति स्वतः प्रमाणम् , एवं वेदान्ता अपीत्यनपेक्षत्वलक्षणं प्रामाण्यमेषां व्याहन्येत । न चैतैरप्रमाणैर्भवितुं युक्तम् । न चाप्रयोजनैः, स्वाध्यायाध्ययनविध्यापादितप्रयोजनवत्त्वनियमात् । तस्मात्तत्तद्विहितकर्मापेक्षितकर्तृदेवतादिप्रतिपादनपरत्वेनैव क्रियार्थत्वम् । यदि त्वसंनिधानात्तत्परत्वं न रोचयन्ते, ततः संनिहितोपासनादिक्रियापरत्वं वेदान्तानाम् । एवं हि प्रत्यक्षाद्यनधिगतगोचरत्वेनानपेक्षतया प्रामाण्यं च प्रयोजनवत्त्वं च सिध्यतीति तात्पर्यार्थः । पारमर्षसूत्रोपन्यासस्तु पूर्वपक्षदार्ढ्याय । आनर्थक्यञ्चाप्रयोजनवत्त्वम् , सापेक्षतया प्रमानुत्पादकत्वं, चानुवादकत्वादिति ।
अतः इत्यादिवान्तं
ग्रहणकवाक्यम् ।
अस्य विभागभाष्यं
नहि इत्यादि उपपन्ना वा इत्यन्तम् ।
स्यादेतत् । अक्रियार्थत्वेऽपि ब्रह्मस्वरूपविधिपरा वेदान्ता भविष्यन्ति, तथा च “विधिना त्वेकवाक्यत्वात्”(जै.सू. २.१.) - इति राद्धान्तसूत्रमनुग्रहीष्यते । न खल्वप्रवृत्तप्रवर्तनमेव विधिः, उत्पत्तिविधेरज्ञातज्ञापनार्थत्वात् ।
वेदान्तानां चाज्ञातं ब्रह्म ज्ञापयतां तथाभावादित्यत आह -
न च परिनिष्ठित इति ।
अनागतोत्पाद्यभावविषय एव हि सर्वो विधिरुपेयः, उत्पत्त्यधिकारविनियोगप्रयोगोत्पत्तिरूपाणां परस्पराविनाभावात् , सिद्धे च तेषामसम्भवात् , तद्वाक्यानां त्वैदम्पर्यं भिद्यते । यथा - ‘अग्निहोत्रं जुहुयात्स्वर्गकामः’ इत्यादिभ्योऽधिकारविनियोगप्रयोगाणां प्रतिलम्भात् , ‘अग्निहोत्रं जुहोति’ इत्युत्पत्तिमात्रपरं वाक्यम् । न त्वत्र विनियोगादयो न सन्ति, सन्तोऽप्यन्यतो लब्धत्वात्केवलमविवक्षिताः । तस्मात् भावनाविषयो विधिर्न सिद्धे वस्तुनि भवितुमर्हतीति ।
उपसंहरति -
तस्मादिति ।
अत्रारुचिकारणमुक्त्वा पक्षान्तरमुपसङ्क्रमते -
अथेति ।
एवं च सत्युक्तरूपे ब्रह्मणि शब्दस्यातात्पर्यात् प्रमाणान्तरेण यादृशमस्य रूपं व्यवस्थाप्यते न तच्छब्देन विरुध्यते, तस्योपासनापरत्वात् , समारोपेण चोपासनाया उपपत्तेरिति ।
प्रकृतमुपसंहरति -
तस्मान्नेति ।
सूत्रेण सिद्धान्तयति -
एवं प्राप्त उच्यते - तत्तु समन्वयात् ॥
तदेतत् व्याचष्टे -
तुशब्द इति ।
तदित्युत्तरपक्षप्रतिज्ञां विभजते -
तद्ब्रह्मेति ।
पूर्वपक्षी कर्कशाशयः पृच्छति -
कथम् ।
कुतः प्रकारादित्यर्थः ।
सिद्धान्ती स्वपक्षे हेतुं प्रकारभेदमाह -
समन्वयात् ।
सम्यगन्वयः समन्वयस्तस्मात् ।
एतदेव विभजते -
सर्वेषु हि वेदान्तेष्विति ।
वेदान्तानामैकान्तिकीं ब्रह्मपरतामाचिख्यसुर्बहूनि वाक्यान्युदाहरति -
सदेवेति ।
'यतो वा इमानि भूतानि” इति तु वाक्यं पूर्वमुदाहृतं जगदुत्पत्तिस्थितिनाशकारणमिति चेह स्मारितमिति न पठितम् । येन हि वाक्यमुपक्रम्यते येन चोपसंह्रियते तदेव वाक्यार्थ इति शाब्दाः । यथोपांशुयाजवाक्येऽनूचोः पुरोडाशयोर्जामितादोषसङ्कीर्तनपूर्वकोपांशुयाजविधाने तत्प्रतिसमाधानोपसंहारे चापूर्वोपांशुयाजकर्मविधिपरता एकवाक्यताबलादाश्रिता, एवमत्रापि “सदेव सोम्येदम्” (छा. उ. ६ । २ । १) इति ब्रह्मोपक्रमात् “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति च जीवस्य ब्रह्मात्मनोपसंहारात्तत्परतैव वाक्यस्य । एवं वाक्यान्तराणामपि पौर्वापर्यालोचनया ब्रह्मपरत्वमवगन्तव्यम् । न च तत्परत्वस्य दृष्टस्य सति सम्भवेऽन्यपरता अदृष्टा युक्ता कल्पयितुम् , अतिप्रसङ्गात् ।
न केवलं कर्तृपरता तेषामदृष्टा, अनुपपन्ना चेत्याह -
न च तेषामिति ।
सापेक्षत्वेनाप्रामाण्यं पूर्वपक्षबीजं दूषयति -
न च परिनिष्ठितवस्तुस्वरूपत्वेऽपीति ।
अयमभिसन्धिः - पुंवाक्यनिदर्शनेन हि भूतार्थतया वेदान्तानां सापेक्षत्वमाशङ्क्यते । तत्रैवं भवान् पृष्टो व्याचष्टाम् , किं पुंवाक्यानां सापेक्षता भूतार्थत्वेन, आहो पौरुषेयत्वेन । यदि भूतार्थत्वेन ततः प्रत्यक्षादीनामपि परस्परापेक्षत्वेनाप्रामाण्यप्रसङ्गः । तान्यपि हि भूतार्थान्येव । अथ पुरुषबुद्धिप्रभवतया पुंवाक्यं सापेक्षम् , एवं तर्हि तदपूर्वकाणां वेदान्तानां भूतार्थानामपि नाप्रामाण्यं, प्रत्यक्षादीनामिव नियतेन्द्रियलिङ्गादिजन्मनाम् । यद्युच्येत सिद्धे किलापौरुषेयत्वे वेदान्तानामनपेक्षतया प्रामाण्यं सिध्येत् , तदेव तु भूतार्थत्वेन न सिध्यति, भूतार्थस्य शब्दानपेक्षेण पुरुषेण मानान्तरतः शक्यज्ञानत्वाद्बुद्धिपूर्वं विरचनोपपत्तेः, वाक्यत्वादिलिङ्गकस्य वेदपौरुषेयत्वानुमानस्याप्रत्यूहमुत्पत्तेः । तस्मात् पौरुषेयत्वेन सापेक्षत्वं दुर्वारं, न तु भूतार्थत्वेन । कार्यार्थत्वे तु कार्यस्यापूर्वस्य मानान्तरागोचरतयात्यन्ताननुभूतपूर्वस्य तत्त्वेन समारोपेण वा पुरुषबुद्धावनारोहात्तदर्थानां वेदान्तानामशक्यरचनतया पौरुषेयत्वाभावादनपेक्षं प्रमाणत्वं सिध्यतीति प्रामाण्याय वेदान्तानां कार्यपरत्वमातिष्ठामहे । अत्रब्रूमः - किं पुनरिदं कार्यमभिमतमायुष्मतः यदशक्यं पुरुषेण ज्ञातुम् । अपूर्वमिति चेत् , हन्त कुतस्त्यमस्य लिङाद्यर्थत्वम् , तेनालौकिकेन सङ्गतिसंवेदनविरहात् । लोकानुसारतः क्रियाया एव लौकिक्याः कार्याया लिङादेरवगमात् । ‘स्वर्गकामो यजेत’ इति साध्यस्वर्गविशिष्टो नियोज्योऽवगम्यते, स च तदेव कार्यमवगच्छति यत्स्वर्गानुकूलम् । न च क्रिया क्षणभङ्गुरामुष्मिकाय स्वर्गाय कल्पत इति पारिशेष्याद्वेदत एवापूर्वे कार्ये लिङादीनां सम्बन्धग्रह इति चेत् , हन्त चैत्यवन्दनादिवाक्येष्वपि स्वर्गकामादिपदसम्बन्धादपूर्वकार्यत्वप्रसङ्गः, तथा च तेषामप्यशक्यरचनत्वेनापौरुषेयत्वापातः । स्पष्टदृष्टेन पौरुषेयत्वेन वा तेषामपूर्वार्थत्वप्रतिषेधे वाक्यत्वादिना लिङ्गेन वेदानामपि पौरुषेयत्वमनुमितमित्यपूर्वार्थता न स्यात् । अन्यतस्तु वाक्यत्वादीनामनुमानाभामत्वोपपादने कृतमपूर्वार्थत्वेनात्र तदुपपादकेन । उपपादितं चापौरुषेयत्वमस्माभिर्न्यायकणिकायाम्, इह तु विस्तरभयान्नोक्तम् । तेनापौरुषेयत्वे सिद्धे भूतार्थानामपि वेदान्तानां न सापेक्षतया प्रामाण्यविघातः । न चानधिगतगन्तृता नास्ति येन प्रामाण्यं न स्यात् , जीवस्य ब्रह्मताया अन्यतोऽनधिगमात् । तदिदमुक्तम्- ‘न च परिनिष्ठितवस्तुस्वरूपत्वेऽपि’ इति ।
द्वितीयं पूर्वपक्षबीजं स्मारयित्वा दूषयति -
यत्तु हेयोपादेयरहितत्वादिति ।
विध्यर्थावगमात्खलु पारम्पर्येण पुरुषार्थप्रतिलम्भः । इह तु - “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यवगतिपर्यन्ताद्वाक्यार्थज्ञानात् बाह्यानुष्ठानायासानपेक्षात्साक्षादेव पुरुषार्थप्रतिलम्भो नायं सर्पो रज्जुरियमितिज्ञानादिवेति सोऽयमस्य विध्यर्थज्ञानात् प्रकर्षः । एतदुक्तं भवति - द्विविधं हीप्सितं पुरुषस्य । किञ्चिदप्राप्तम् , ग्रामादि, किञ्चित्पुनः प्राप्तमपि भ्रमवशादप्राप्तमित्यवगतम् , यथा स्वग्रीवावनद्धं ग्रैवेयकम् । एवं जिहासितमपि द्विविधम् , किञ्चिदहीनं जीहासति, यथा वलयितचरणं फणिनम् , किञ्चित्पुनर्हीनमेव जिहासति, यथा चरणाभरणे नूपुरे फणिनमारोपितम् । तत्राप्राप्तप्राप्तौ चात्यक्तत्यागे च बाह्योपायानुष्ठानसाध्यत्वात्तदुपायतत्त्वज्ञानादस्ति पराचीनानुष्ठानापेक्षा । न जातु ज्ञानमात्रं वस्त्वपनयति । न हि सहस्रमपि रज्जुप्रत्यया वस्तुसन्तं फणिनमन्यथयितुमीशते । समारोपिते तु प्रेप्सितजिहासिते तत्त्वसाक्षात्कारमात्रेण बाह्यानुष्ठानानपेक्षेण शक्येते प्राप्तुमिव हातुमिव । समारोपमात्रजीविते हि ते, समारोपितं च तत्त्वसक्षात्कारः समूलघातमुपहन्तीति ।
तथेहाप्यविद्यासमारोपितजीवभावे ब्रह्मण्यानन्दे वस्तुतः शोकदुःखादिरहिते समारोपितनिबन्धनस्तद्भावः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यार्थतत्त्वज्ञानादवगतिपर्यन्तान्निवर्तते, तन्निवृत्तौ प्राप्तमप्यानन्दरूपमप्राप्तमिव प्राप्तं भवति, त्यक्तमपि शोकदुःखाद्यत्यक्तमिव त्यक्तं भवति, तदिदमुक्तम् -
ब्रह्मात्मावगमादेव
जीवस्य सर्वक्लेशस्य सवासनस्य विपर्यासस्य । स हि क्लिश्नाति जन्तूनतः क्लेशः, तस्य प्रकर्षेण हानात्पुरुषार्थस्यदुःखनिवृत्तिसुखाप्तिलक्षणस्य सिद्धेरिति ।
यत्तु “आत्मेत्येवोपासीत”(बृ. उ. १ । ४ । ७) “आत्मानमेव लोकमुपासीत” (बृ. उ. १ । ४ । १५) इत्युपासनावाक्यगतदेवतादिप्रतिपादनेनोपासनापरत्वं वेदान्तानामुक्तं, तद्दूषयति -
देवतादिप्रतिपादनस्य तु आत्मेत्येतावन्मात्रस्यस्ववाक्यगतोपासनार्थत्वेऽपि न कश्चिद्विरोधः ।
यदि न विरोधः, सन्तु तर्हि वेदान्ता देवताप्रतिपादनद्वारेणोपासनाविधिपरा एवेत्यत आह -
न तु तथा ब्रह्मण इति ।
उपास्योपासकोपासनादिभेदसिद्ध्यधीनोपासना न निरस्तसमस्तभेदप्रपञ्चे वेदान्तवेद्ये ब्रह्मणि सम्भवतीति नोपासनाविधिशेषत्वं वेदान्तानां तद्विरोधित्वादित्यर्थः ।
स्यादेतत् । यदि विधिविरहेऽपि वेदान्तानां प्रामाण्यम् , हन्त तर्हि “सोऽरोदीत्” (तै. सं. १ । ५ । १ । १) इत्यादीनामप्यस्तु स्वतन्त्राणामेवोपेक्षणीयार्थानां प्रामाण्यम् । न हि हानोपादानबुद्धी एव प्रामणस्य फले, उपेक्षाबुद्धेरपि तत्फलत्वेन प्रामाणिकैरभ्युपेतत्वादिति कृतम् ‘बर्हिषि रजतं न देयम्’ इत्यादिनिषेधविधिपरत्वेनैतेषामित्यत आह -
यद्यपीति ।
स्वाध्यायविध्यधीनग्रहणतया हि सर्वो वेदराशिः पुरुषार्थतन्त्र इत्यवगतम् । तत्रैकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् , किं पुनरियता “सोऽरोदीत्” (तै. सं. १ । ५ । १ । १) इत्यादिना पदप्रबन्धेन । न च वेदान्तेभ्य इव तदर्थावगममात्रादेव कश्चित्पुरुषार्थ उपलभ्यते । तेनैष पदसन्दर्भः साकाङ्क्ष एवास्ते पुरुषार्थमुदीक्षमाणः । ‘बर्हिषि रजतं न देयम्’ इत्ययमपि निषेधविधिः स्वनिषेध्यस्य निन्दामपेक्षते । न ह्यन्यथा ततश्चेतनः शक्यो निवर्तयितुम् । तद्यदि दूरतोऽपि न निन्दामवाप्स्यत्ततो निषेधविधिरेव रजतनिषेधे च निन्दायां च दर्विहोमवत्सामर्थ्यद्वयमकल्पयिष्यत् । तदेवमुत्तप्तयोः “सोऽरोदीत्” (तै. सं. १ । ५ । १ । १) इति ‘बर्हिषि रजतं न देयम्’ इति च पदसन्दर्भयोर्लक्ष्यमाणनिन्दाद्वारेण नष्टाश्वदग्धरथवत्परस्परं समन्वयः । न त्वेवं वेदान्तेषु पुरुषार्थापेक्षा, तदर्थावगमादेवानपेक्षात् परमपुरुषार्थलाभादित्युक्तम् ।
ननु विध्यसंस्पर्शिनो वेदस्यान्यस्य न प्रामाण्यं दृष्टमिति कथं वेदान्तानां तदस्पृशां तद्भविष्यतीत्यत आह -
न चानुमानगम्यमिति ।
अबाधितानधिगतासन्दिग्धबोधजनकत्वं हि प्रमाणत्वं प्रमाणानां तच्च स्वत इत्युपपादितम् । यद्यपि चैषामीदृग्बोधजनकत्वं कार्यार्थापत्तिसमधिगम्यम् , तथापि तद्बोधोपजनने मानान्तरं नापेक्षते । नापीमामेवार्थापत्तिम् , परस्पराश्रयप्रसङ्गादिति स्वत इत्युक्तम् । ईदृग्बोधजनकत्वं च कार्ये इव विधीनाम् , वेदान्तानां ब्रह्मण्यस्तीति दृष्टान्तानपेक्षं तेषां ब्रह्मणि प्रामाण्यं सिद्धं भवति । अन्यथा नेन्द्रियान्तराणां रूपप्रकाशनं दृष्टमिति चक्षुरपि न रूपं प्रकाशयेदिति ।
प्रकृतमुपसंहरति -
तस्मादिति ।
आचार्यैकदेशीयानां मतमुत्थापयति -
अत्रापरे प्रत्यवतिष्ठन्त इति ।
तथा हि- “अज्ञातसङ्गतित्वेन शास्त्रत्वेनार्थवत्तया । मननादिप्रतीत्या च कार्यार्थाद्ब्रह्मनिश्चयः” ॥ न खलु वेदान्ताः सिद्धब्रह्मरूपपरा भवितुमर्हन्ति, तत्राविदितसङ्गतित्वात् । यत्र हि शब्दा लोकेन न प्रयुज्यन्ते तत्र न तेषां सङ्गतिग्रहः । न चाहेयमनुपादेयं रूपमात्रं कश्चिद्विवक्षति प्रेक्षावान् , तस्याबुभुत्सितत्वात् । अबुभुत्सितावबोधने च प्रेक्षावत्ताविघातात् । तस्मात्प्रतिपित्सितं प्रतिपिपादयिषन्नयं लोकः प्रवृत्तिनिवृत्तिहेतुभूतमेवार्थं प्रतिपादयेत् , कार्यं चावगतं तद्धेतुरिति तदेव बोधयेत् । एवं च वृद्धव्यवहारप्रयोगात् पदानां कार्यपरतामवगच्छति । तत्र किञ्चित्साक्षात्कार्याभिधायकं, किञ्चित्तु कार्यार्थस्वार्थाभिधायकं, न तु भूतार्थपरता पदानाम् । अपि च नरान्तरस्य व्युत्पन्नस्यार्थप्रत्ययमनुमाय तस्य च शब्दभावाभावानुविधानमवगम्य शब्दस्य तद्विषयवाचकत्वं निश्चेतव्यम् । न च भूतार्थरूपमात्रप्रत्यये परनरवर्तिनि किञ्चिल्लिङ्गमस्ति । कार्यप्रत्यये तु नरान्तरवर्तिनि प्रवृत्तिनिवृत्ती स्तो हेतू इत्यज्ञातसङ्गतित्वान्न ब्रह्मरूपपरा वेदान्ताः । अपि च वेदान्तानां वेदत्वाच्छास्त्रत्वप्रसिद्धिरस्ति । प्रवृत्तिनिवृत्तिपराणां च सन्दर्भाणां शास्त्रत्वम् । यथाहुः - “प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते” ॥ इति । तस्माच्छास्त्रत्वप्रसिद्ध्या व्याहतमेषां ब्रह्मस्वरूपपरत्वम् । अपि च न ब्रह्मरूपप्रतिपादनपराणामेषामर्थवत्त्वं पश्यामः । न च रज्जुरियं न भुजङ्ग इति यथाकथञ्चिल्लक्षणया वाक्यार्थतत्त्वनिश्चये यथा भयकम्पादिनिवृत्तिः, एवं “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इतिवाक्यार्थावगमान्निवृत्तिर्भवति सांसारिकाणां धर्माणाम् । श्रुतवाक्यार्थस्यापि पुंसस्तेषां तादवस्थ्यात् । अपि च यदि श्रुतब्रह्मणो भवति सांसारिकधर्मनिवृत्तिः, कस्मात्पुनः श्रवणस्योपरि मननादयः श्रूयन्ते । तस्मात्तेषां वैयर्थ्यप्रसङ्गादपि न ब्रह्मस्वरूपपरा वेदान्ताः, किं त्वात्मप्रतिपत्तिविषयकार्यपराः । तच्च कार्यं स्वात्मनि नियोज्यं नियुञ्जानं नियोग इति च मानान्तरापूर्वतयापूर्वमिति चाख्यायते । न च विषयानुष्ठानं विना तत्सिद्धिरिति स्वसिद्ध्यर्थं तदेव कार्यं स्वविषयस्य करणस्यात्मज्ञानस्यानुष्ठानमाक्षिपति । यथा च कार्यं स्वविषयाधीननिरूपणमिति ज्ञानेन विषेयेण निरूप्यते, एवं ज्ञानमपि स्वविषयमात्मानमन्तरेणाशक्यनिरूपणमिति तन्निरूपणाय तादृशमात्मानमाक्षिपति, तदेव कार्यम् । यथाहुः - “यत्तु तत्सिद्ध्यर्थमुपादीयते आक्षिप्यते तदपि विधेयमिति तन्त्रे व्यवहारः” इति । विधेयता च नियोगविषयस्य ज्ञानस्य भावार्थतयानुष्ठेयता, तद्विषयस्य त्वात्मनः स्वरूपसत्ताविनिश्चितिः । आरोपिततद्भावस्य त्वन्यस्य निरूपकत्वे तेन तन्निरूपितं न स्यात् । तस्मात्तादृगात्मप्रतिपत्तिविधिपरेभ्यो वेदान्तेभ्यस्तादृगात्मविनिश्चयः ।
तदेतत्सर्वमाह -
यद्यपीति ।
विधिपरेभ्योऽपि वस्तुतत्त्वविनिश्चय इत्यत्र विदर्शनमुक्तम् -
यथा यूपेति ।
'यूपे पशुं बध्नाति” इति बन्धनाय विनियुक्ते यूपे, तस्यालौकिकत्वात्कोऽसौ यूप इत्यपेक्षिते ‘खादिरो यूपो भवति’ , ‘यूपं तक्षति’ , ‘यूपमष्टाश्रीकरोति’ इत्यादिभिर्वाक्यैस्तक्षणादिविधिपरैरपि संस्काराविष्टं विशिष्टलक्षणसंस्थानं दारु यूप इति गम्यते । एवमाहवनीयादयोऽप्यवगन्तव्याः ।
प्रवृत्तिनिवृत्तिपरस्य शास्त्रत्वं न स्वरूपपरस्य, कार्य एव च सम्बन्धो न स्वरूपे, इति हेतुद्वयं भाष्यवाक्येनोपपादितम् -
प्रवृत्तिनिवृत्तिप्रयोजनत्वात् इत्यादिना तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यादित्यन्तेन ।
न च स्वतन्त्रं कार्यं नियोज्यमधिकारिणमनुष्ठातारमन्तरेणेति नियोज्यभेदमाह -
सति च विधिपरत्व इति ।
'ब्रह्म वेद ब्रह्मैव भवति” इति सिद्धवदर्थवादादवगतस्यापि ब्रह्मभवनस्य नियोज्यविशेषाकाङ्क्षायां ब्रह्म बुभूषोर्नियोज्यविशेषस्य रात्रिसत्रन्यायेन प्रतिलम्भः । पिण्डपितृयज्ञन्यायेन तु स्वर्गकामस्य नियोज्यस्य कल्पनायामर्थवादस्यासमवेतार्थतयात्यन्तपरोक्षा वृत्तिः स्यादिति । ब्रह्मभावश्चामृतत्वमिति अमृतत्वकामस्य इत्युक्तम् । अमृतत्वं चामृतत्वादेव, न कृतकत्वेन शक्यमनित्यमनुमातुम् । आगमविरोधादिति भावः ।
उक्तेन धर्मब्रह्मज्ञानयोर्वैलक्षण्येन विध्यविषयत्वं चोदयति -
नन्विति ।
परिहरति -
नार्हत्येवमिति ।
अत्र चात्मदर्शनं न विधेयम् । तद्धि दृशेरुपलब्धिवचनत्वात् श्रावणं वा स्यात्प्रत्यक्षं वा । प्रत्यक्षमपि लौकिकमहंप्रत्ययो वा, भावनाप्रकर्षपर्यन्तजं वा । तत्र श्रावणं न विधेयम् , स्वाध्यायविधिनैवास्य प्रापितत्वात् , कर्मश्रावणवत् । नापि लौकिकं प्रत्यक्षम् , तस्य नैसर्गिकत्वात् । न चौपनिषदात्मविषयं भावनाधेयवैशिष्ट्यं विधेयं, तस्योपासनाविधानादेव वाजिनवदनुनिष्पादितत्वात् । तस्मादौपनिषदात्मोपासना अमृतत्वकामं नियोज्यं प्रति विधीयते । ‘द्रष्टव्यः’ इत्यादयस्तु विधिसरूपा न विधयः इति ।
तदिदमुक्तम् -
तदुपासनाच्चेति ।
अर्थवत्तया मननादिप्रतीत्या चेत्यस्य शेषः प्रपञ्चो निगदव्याख्यातः ।
तदेकदेशिमतं दूषयति -
अत्राभिधीयते - न
एकदेशिमतम् ।
कुतः,
कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् ।
पुण्यापुण्यकर्मणोः फले सुखदुःखे । तत्र मनुष्यलोकमारभ्याब्रह्मलोकात्सुखस्य तारतम्यमधिकाधिकोत्कर्षः । एवं मनुष्यलोकमारभ्य दुःखतारतम्यया चावीचिलोकात् । तच्च सर्वं कार्यं च विनाशि च । आत्यन्तिकं त्वशरीरत्वमनतिशयं स्वभावसिद्धतया नित्यमकार्यमात्मज्ञानस्य फलम् । तद्धि फलमिव फलम् , अविद्यापनयनमात्रेणाविर्भावात् । एतदुक्तं भवति - त्वयाप्युपासनाविधिपरत्वं वेदान्तानामभ्युपगच्छता नित्यशुद्धबुद्धत्वादिरूपब्रह्मात्मता जीवस्य स्वाभाविकी वेदान्तगम्यास्थीयते । सा चोपासनाविषयस्य विधेर्न फलम् , नित्यत्वादकार्यत्वात् । नाप्यनाद्यविद्यापिधानापनयः, तस्य स्वविरोधिविद्योदयादेव भावात् । नापि विद्योदयः, तस्यापि श्रवणमननपूर्वकोपासनाजनितसंस्कारसचिवादेव चेतसो भावात् । उपासनासंस्कारवदुपासनापूर्वमपि चेतःसहकारीति चेत् दृष्टं च खलु नैयोगिकं फलमैहिकमपि, यथा चित्राकारीर्यादिनियोगानामनियतनियतफलानामैहिकफलेति चेत् , न, गान्धर्वशास्त्रार्थोपासनावासनाया इवापूर्वानपेक्षायाः षड्जादिसाक्षात्कारे वेदान्तार्थोपासनावासनाया जीवब्रह्मभावसाक्षात्कारेऽनपेक्षाया एव सामर्थ्यात् । तथा चामृतीभावं प्रत्यहेतुत्वादुपासनापूर्वस्य, नामृतत्वकामस्तत्कार्यमवबोद्धुमर्हति । अन्यदिच्छत्यन्यत्करोतीति हि विप्रतिषिद्धम् । न च तत्कामः क्रियामेव कार्यमवगमिष्यति नापूर्वमिति साम्प्रतम् , तस्या मानान्तरादेव तत्साधनत्वप्रतीतेर्विधेर्वैयर्थ्यात् , न चावघातादिविधितुल्यता, तत्रापि नियमापूर्वस्यान्यतोऽनवगतेः । न च ब्रह्मभूयादन्यदमृतत्वमार्थवादिकं किञ्चिदस्ति, येन तत्काम उपासनायामधिक्रियेत, विश्वजिन्न्यायेन तु स्वर्गकल्पनायां तस्य सातिशयत्वं क्षयित्वं चेति न नित्यफलत्वमुपासनायाः । तस्माद्ब्रह्मभूयस्याविद्यापिधानापनयमात्रेणाविर्भावात् , अविद्यापनयस्य च वेदान्तार्थविज्ञानादवगतिपर्यन्तादेव सम्भवात् , उपासनायाः संस्कारहेतुभावस्य संस्कारस्य च साक्षात्कारोपजनने मनःसाचिव्यस्य च मानान्तरसिद्धत्वात् , “आत्मेत्येवोपासीत”(बृ. उ. १ । ४ । ७) इति न विधिः, अपि तु विधिसरूपोऽयम् । यथोपांशुयाजवाक्ये ‘विष्णुरुपांशु यष्टव्यः’ इत्यादयो विधिसरूपा न विधय इति तात्पर्यार्थः ।
श्रुतिस्मृतिन्यायसिद्धमित्युक्तम्, तत्र श्रुतिं दर्शयति -
तथा च श्रुतिरिति ।
न्यायमाह -
अत एवेति ।
यत्किल स्वाभाविकं तन्नित्यम् , यथा चैतन्यम् । स्वाभाविकं चेदम् , तस्मान्नित्यम् ।
परे हि द्वयीं नित्यतामाहुः - कूटस्थनित्यतां परिणामिनित्यतां च । तत्र नित्यमित्युक्ते मा भूदस्य परिणामिनित्यतेत्याह -
तत्र किञ्चिदिति ।
परिणामिनित्यता हि न पारमार्थिकी । तथा हि - तत्सर्वात्मना वा परिणमेदेकदेशेन वा । सर्वात्मना परिणामे कथं न तत्त्वव्याहृतिः । एकदेशपरिणामे वा स एकदेशस्ततो भिन्नो वा अभिन्नो वा । भिन्नश्चेत्कथं तस्य परिणामः । न ह्यन्यस्मिन् परिणममानेऽन्यः परिणमते, अतिप्रसङ्गात् । अभेदे वा कथं न सर्वात्मना परिणामः । भिन्नाभिन्नं तदिति चेत् , तथा हि - तदेव कारणात्मनाभिन्नम् , भिन्नं च कार्यात्मना, कटकादय इवाभिन्ना हाटकात्मना भिन्नाश्च कटकाद्यात्मना । न च भेदाभेदयोर्विरोधान्नैकत्र समवाय इति युक्तम् । विरुद्धमिति नः क्व संप्रत्ययोयत्प्रमाणविपर्ययेण वर्तते । यत्तु यथा प्रमाणेनावगम्यते तस्य तथाभाव एव । कुण्डलमिदं सुवर्णमिति सामानाधिकरण्यप्रत्यये च व्यक्तं भेदाभेदौ चकास्तः । तथा हि - आत्यन्तिकेऽभेदेऽन्यतरस्य द्विरवभासप्रसङ्गः । भेदे वात्यन्तिके न सामानाधिकरण्यं गवाश्ववत् । आधाराधेयभावे एकाश्रयत्वे वा न सामानाधिकरण्यम् , न हि भवति कुण्डं बदरमिति । नाप्येकासनस्थयोश्चैत्रमैत्रयोश्चैत्रो मैत्र इति । सोऽयमबाधितोऽसन्दिग्धः सर्वजनीनः सामानाधिकरण्यप्रत्यय एव कार्यकारणयोर्भेदाभेदौ व्यवस्थापयति । तथा च कार्याणां कारणात्मत्वात् , कारणस्य च सद्रूपस्य सर्वत्रानुगमात् , सद्रूपेणाभेदः कार्यस्य जगतः, भेदः कार्यरूपेण गोघटादिनेति । यथाहुः - “कार्यरूपेण नानात्वमभेदः कारणात्मना । हेमात्मना यथाभेदः कुण्डलाद्यात्मना भिदा” ॥ इति । अत्रोच्यते - कः पुनरयं भेदो नाम, यः सहाभेदेनैकत्र भवेत् । परस्पराभाव इति चेत् , किमयं कार्यकारणयोः कटकहाटकयोरस्ति न वा । न चेत् , एकत्वमेवास्ति, न च भेदः । अस्ति चेद्भेद एव, नाभेदः । न च भावाभावयोरविरोधः, सहावस्थानासम्भवात् । सम्भवे वा कटकवर्धमानकयोरपि तत्त्वेनाभेदप्रसङ्गः, भेदस्याभेदाविरोधात् । अपि च कटकस्य हाटकादभेदे यथा हाटकात्मना कटकमुकुटकुण्डलादयो न भिद्यन्ते एवं कटकात्मनापि न भिद्येरन् , कटकस्य हाटकादभेदात् । तथा च हाटकमेव वस्तुसन्न कटकादयः, भेदस्याप्रतिभासनात् । अथ हाटकत्वेनैवाभेदो न कटकत्वेन, तेन तु भेद एव कुण्डलादेः । यदि हाटकादभिन्नः कटकः कथमयं कुण्डलादिषु नानुवर्तते । नानुवर्तते चेत्कथं हाटकादभिन्नः कटकः । ये हि यस्मिन्ननुवर्तमाने व्यावर्तन्ते ते ततो भिन्ना एव, यथा सूत्रात्कुसुमभेदाः । नानुवर्तन्ते चानुवर्तमानेऽपि हाटकत्वे कुण्डलादयः, तस्मात्तेऽपि हाटकाद्भिन्ना एवेति । सत्तानुवृत्त्या च सर्ववस्त्वनुगमे ‘इदमिह नेदम् , इदमस्मान्नेदम् , इदमिदानीं नेदम् , इदमेवं नेदम्’ इति विभागो न स्यात् । कस्यचित्क्वचित्कदाचित्कथञ्चिद्विवेकहेतोरभावात् । अपि च दूरात्कनकमित्यवगते न तस्य कुण्डलादयो विशेषा जिज्ञास्येरन् , कनकादभेदात्तेषाम् , तस्य च ज्ञातत्वात् । अथ भेदोऽप्यस्ति कनकात्कुण्डलादीनामिति कनकावगमेऽप्यज्ञातास्ते । नन्वभेदोऽप्यस्तीति किं न ज्ञाताः । प्रत्युत ज्ञानमेव तेषां युक्तम् , कारणाभावे हि कार्यभाव औत्सर्गिकः, स च कारणसत्तया अपोद्यते । अस्ति चाभेदे कारणसत्तेति कनके ज्ञाते ज्ञाता एव कुण्डलादय इति तज्जिज्ञासाज्ञानानि चानर्थकानि स्युः । तेन यस्मिन् गृह्यमाणे यन्न गृह्यते तत्ततो भिद्यते । यथा करभे गृह्यमाणेऽगृह्यमाणो रासभः करभात् । गृह्यमाणे च दूरतो हेम्नि न गृह्यन्ते तस्य भेदाः कुण्डलादयः, तस्मात्ते हेम्नो भिद्यन्ते । कथं तर्हि हेम कुण्डलमिति सामानाधिकरण्यमिति चेत् , न ह्याधाराधेयभावे समानाश्रयत्वे वा सामानाधिकरण्यमित्युक्तम् । अथानुवृत्तिव्यावृत्तिव्यवस्था च हेम्नि ज्ञाते कुण्डलादिजिज्ञासा च कथम् । न खल्वभेदे ऐकान्तिकेऽनैकान्तिके चैतदुभयमुपपद्यत इत्युक्तम् । तस्माद्भेदाभेदयोरन्यतरस्मिन्नवहेयेऽभेदोपादानैव भेदकल्पना, न भेदोपादानाभेदकल्पनेति युक्तम् । भिद्यमानतन्त्रत्वाद्भेदस्य, भिद्यमानानां च प्रत्येकमेकत्वात् , एकाभावे चानाश्रयस्य भेदस्यायोगात् , एकस्य च भेदानधीनत्वात् , नायमयमिति च भेदग्रहस्य प्रतियोगिग्रहसापेक्षत्वात् , एकत्वग्रहस्य चान्यानपेक्षत्वात् , अभेदोपादानैवानिर्वचनीयभेदकल्पनेति साम्प्रतम् । तथा च श्रुतिः - “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४ ) इति । तस्मात्कूटस्थनित्यतैव पारमार्थिकी न परिणामिनित्यतेति सिद्धम् ।
व्योमवत्
इति च दृष्टान्तः परसिद्धः, अस्मन्मते तस्यापि कार्यत्वेनानित्यत्वात् ।
अत्र च
कूटस्थनित्यम्
इति निर्वर्त्यकर्मतामपाकरोति ।
सर्वव्यापि
इति प्राप्यकर्मताम् ।
सर्वविक्रियारहितम्
इति विकार्यकर्मताम् ।
निरवयवम्
इति संस्कार्यकर्मताम् । व्रीहीणां खलु प्रोक्षणेन संस्काराख्योंऽशो यथा जन्यते, नैवं ब्रह्मणि कश्चिदंशः क्रियाधेयोऽस्ति, अनवयवत्वात् । अनंशत्वादित्यर्थः ।
पुरुषार्थतामाह -
नित्यतृप्तमिति ।
तृप्त्या दुःखरहितं सुखमुपलक्षयति । क्षुद्दुःखनिवृत्तिसहितं हि सुखं तृप्तिः ।
सुखं चाप्रतीयमानं न पुरुषार्थम् इत्यत आह -
स्वयञ्ज्योतिरिति ।
तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्यादिभिरुपपाद्य क्रियानिष्पाद्यस्य तु मोक्षस्यानित्यत्वं प्रसञ्जयति -
तद्यदीति ।
न चागमबाधः, आगमस्योक्तेन प्रकारेणोपपत्तेः । अपि च ज्ञानजन्यापूर्वजनितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इत्याह -
अपि च ब्रह्म वेदेति ।
अविद्याद्वयप्रतिबन्धापनयमात्रेण च विद्याया मोक्षसाधनत्वं न स्वतोऽपूर्वोत्पादेन चेत्यत्रापि श्रुतीरुदाहरति -
त्वं हि नः पितेति ।
न केवलमस्मिन्नर्थे श्रुत्यादयः, अपि त्वक्षपादाचार्यसूत्रमपि न्यायमूलमस्तीत्याह -
तथा चाचार्यप्रणीतमिति ।
आचार्यश्चोक्तलक्षणः पुराणे “आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि । स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते” ॥ इति । तेन हि प्रणीतं सूत्रम् - “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः”(न्या.सू.) इति । पाठापेक्षया कारणमुत्तरम् , कार्यं च पूर्वम् , कारणापाये कार्यापायः, कफापाय इव कफोद्भवस्य ज्वरस्यापायः । जन्मापाये दुःखापायः, प्रवृत्त्यपाये जन्मापायः, दोषापाये प्रवृत्त्यपायः, मिथ्याज्ञानापाये दोषापायः । मिथ्याज्ञानं चाविद्या रागाद्युपजननक्रमेण दृष्टेनैव संसारस्य परमं निदानम् । सा च तत्त्वज्ञानेन ब्रह्मात्मैकत्वविज्ञानेनैवावगतिपर्यन्तेन विरोधिना निवर्त्यते । ततोऽविद्यानिवृत्त्या ब्रह्मरूपाविर्भावो मोक्षः । न तु विद्याकार्यस्तज्जनितापूर्वकार्यो वेति सूत्रार्थः । तत्त्वज्ञानान्मिथ्याज्ञानापाय इत्येतावन्मात्रेण सूत्रोपन्यासः, न त्वक्षपादसंमतं तत्त्वज्ञानमिह संमतम् । तदनेनाचार्यान्तरसंवादेनायमर्थो दृढीकृतः । स्यादेतत् । नैकत्वविज्ञानं यथावस्थितवस्तुविषयम् , येन मिथ्याज्ञानं भेदावभासं निवर्तयन्न विधिविषयो भवेत् । अपि तु सम्पदादिरूपम् । तथा च विधेः प्रागप्राप्तं पुरुषेच्छया कर्तव्यं सत् विधिगोचरो भविष्यति । यथा वृत्त्यन्तरत्वेन मनसो विश्वेदेवसाम्याद्विश्वान्देवान्मनसि सम्पाद्य मन आलम्बनमविद्यमानसमं कृत्वा प्राधान्येन सम्पाद्यानां विश्वेषामेव देवानामनुचिन्तनम् , तेन चानन्तलोकप्राप्तिः । एवं चिद्रूपसाम्याज्जीवस्य ब्रह्मरूपतां सम्पाद्य जीवमालम्बनमविद्यमानसमं कृत्वा प्राधान्येन ब्रह्मानुचिन्तनम् , तेन चामृतत्वफलप्राप्तिः । अध्यासे त्वालम्बनस्यैव प्राधान्येनारोपिततद्भावस्यानुचिन्तनम् , यथा “मनो ब्रह्मेत्युपासीत”(छा. उ. ३ । १८ । १), “आदित्यो ब्रह्मेत्यादेशः” (छा. उ. ३ । १९ । १) । एवं जीवमब्रह्म “ब्रह्मेत्युपासीत” इति । क्रियाविशेषयोगाद्वा, यथा “वायुर्वाव संवर्गः” (छा. उ. ४ । ३ । १), “प्राणो वाव संवर्गः” (छा. उ. ४ । ३ । ३) इति । बाह्यान्खलु वायुदेवता वह्न्यादीन् संवृङ्क्ते । महाप्रलयसमये हि वायुर्वह्न्यादीन्संवृज्य संहृत्यात्मनि स्थापयति । यथाह द्रविडाचार्यः - “संहरणाद्वा संवरणाद्वा स्वात्मीभावाद्वायुः संवर्गः” इति । अध्यात्मं च प्राणः संवर्ग इति । स हि सर्वाणि वागादीनि संवृङ्क्ते । प्रायाणकाले हि स एव सर्वाणीन्द्रियाणि सङ्गृह्योत्क्रामतीति । सेयं संवर्गदृष्टिर्वायौ प्राणे च दशाशागतं जगद्दर्शयति यथा, एवं जीवात्मनि बृंहणक्रियया ब्रह्मदृष्टिरमृतत्वाय फलाय कल्पत इति । तदेतेषु त्रिष्वपि पक्षेष्वात्मदर्शनोपासनादयः प्रधानकर्माण्यपूर्वविषयत्वात् , स्तुतशस्त्रवत् । आत्मा तु द्रव्यं कर्मणि गुण इति संस्कारो वात्मनो दर्शनं विधीयते । यथा दर्शपूर्णमासप्रकरणे ’ पत्न्यवेक्षितमाज्यं भवति’ इति समाम्नातम् , प्रकरणिना च गृहीतमुपांशुयागाङ्गभूताज्यद्रव्यसंस्कारतयावेक्षणं गुणकर्म विधीयते, एवं कर्तृत्वेन क्रत्वङ्गभूते आत्मनि “आत्मा वा अरे द्रष्टव्यः” (बृ. उ. २ । ४ । ५) इति दर्शनं गुणकर्म विधीयते ।
'यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत” इति न्यायादत आह -
न चेदं ब्रह्मात्मैकत्वविज्ञानमिति ।
कुतः,
सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञान इति ।
दर्शपूर्णमासप्रकरणे हि समाम्नातमाज्यावेक्षणं तदङ्गभूताज्यसंस्कार इति युज्यते । नच “आत्मा वा अरे द्रष्टव्यः”(बृ. उ. २ । ४ । ५) इत्यादि कस्यचित्प्रकरणे समाम्नातम् । न चानारभ्याधीतमपि । “यस्य पूर्णमयी जुहूर्भवति” इत्यव्यभिचरितक्रतुसम्बन्धजुहूद्वारेण जुहूपदं क्रतुं स्मारयद्वाक्येन यथा पर्णतायाः क्रतुशेषभावमापादयति, एवमात्मा नाव्यभिचारितक्रतुसम्बन्धः, येन तद्दर्शनं क्रत्वङ्गं सदात्मानं क्रत्वर्थं संस्कुर्यात् । तेन यद्ययं विधिस्तथापि “सुवर्णं भार्यम्” इतिवत् विनियोगभङ्गेन प्रधानकर्मैवापूर्वविषयत्वान्न गुणकर्मेति स्थवीयस्तयैतद्दूषणमनभिधाय सर्वपक्षसाधारणं दूषणमुक्तम् , तदतिरोहितार्थतया न व्याख्यातम् ।
किं च ज्ञानक्रियाविषयत्वविधानमस्य बहुश्रुतिविरुद्धमित्याह -
न च विदिक्रियेति ।
शङ्कते -
अविषयत्व इति ।
ततश्च शान्तिकर्मणि वेतालोदय इति भावः ।
निराकरोति -
न ।
कुतः
अविद्याकल्पितभेदनिवृत्तिपरत्वादिति ।
सर्वमेव हि वाक्यं नेदन्तया वस्तुभेदं बोधयितुमर्हति । न हीक्षुक्षीरगुडादीनां मधुररसभेदः शक्य आख्यातुम् । एवमन्यत्रापि सर्वत्र द्रष्टव्यम् । तेन प्रमाणान्तरसिद्धे लौकिके एवार्थे यदा गतिरिदृशी शब्दस्य, तदा कैव कथा प्रत्यगात्मन्यलौकिके । अदूरविप्रकर्षेण तु कथञ्चित्प्रतिपादनमिहापि समानम् । त्वम्पदार्थो हि प्रमाता प्रमाणाधीनया प्रमित्या प्रमेयं घटादि व्याप्नोतीत्यविद्याविलसितम् । तदस्या विषयीभूतोदासीनतत्पदार्थप्रत्यगात्मसामानाधिकरण्येन प्रमातृत्वाभावात्तन्निवृत्तौ प्रमाणादयस्तिस्रो विधा निवर्तन्ते । न हि पक्तुरवस्तुत्वे पाक्यपाकपचनानि वस्तुसन्ति भवितुमर्हन्तीति । तथा हि - “विगलितपराग्वृत्त्यर्थत्वं त्वम्पदस्य तदस्तदा त्वमिति हि पदेनैकार्थत्वे त्वमित्यपि यत्पदम् । तदपि च तदा गत्वैकार्थ्यं विशुद्धचिदात्मतां त्यजति सकलान्कर्तृत्वादीन्पदार्थमलान्निजान्” ॥ इत्यान्तरश्लोकः ।
अत्रैवार्थे श्रुतीरुदाहरति -
तथा च शास्त्रम् - यस्यामतमिति ।
प्रकृतमुपसंहरति -
अतोऽविद्याकल्पितेति ।
परपक्षे मोक्षस्यानित्यतामापादयति -
यस्य त्विति ।
कार्यमपूर्वं यागादिव्यापारजन्यं तदपेक्षते मोक्षः स्वोत्पत्ताविति ।
तयोः पक्षयोरिति ।
निर्वर्त्यविकार्ययोः क्षणिकं ज्ञानमात्मेति बौद्धाः । तथा च विशुद्धविज्ञानोत्पादो मोक्ष इति निर्वर्त्यो मोक्षः । अन्येषां तु संस्काररूपावस्थामपहाय या कैवल्यावस्थावाप्तिरात्मनः स मोक्ष इति विकार्यो मोक्षः । यथा पयसः पूर्वावस्थापहानेनावस्थान्तरप्राप्तिर्विकारो दधीति । तदेतयोः पक्षयोरनित्यता मोक्षस्य, कार्यत्वात् , दधिघटादिवत् ।
अथ “यदतः परो दिवो ज्योतिर्दीप्यते” (छा. उ. ३-१३-७) इति श्रुतेर्ब्रह्मणो विकृताविकृतदेशभेदावगमादविकृतदेशब्रह्मप्राप्तिरूपासनादिविधिकार्या भविष्यति । तथा च प्राप्यकर्मता ब्रह्मण इत्यत आह -
न चाप्यत्वेनापीति ।
अन्यदन्येन विकृतदेशपरिहाण्याविकृतदेशं प्राप्यते । तद्यथोपवेलं जलधिरतिबहलचपलकल्लोलमालापरस्परास्फालनसमुल्लसत्फेनपुञ्जस्तबकतया विकृतः, मध्ये तु प्रशान्तसकलकल्लोलोपसर्गः स्वस्थः स्थिरतयाविकृतस्तस्य मध्यमविकृतं पौतिकः पोतेन प्राप्नोति । जीवस्तु ब्रह्मैवेति किं केन प्राप्यताम् । भेदाश्रयत्वात्प्राप्तिरित्यर्थः ।
अथ जीवो ब्रह्मणो भिन्नस्तथापि न तेन ब्रह्माप्यते, ब्रह्मणो विभुत्वेन नित्यप्राप्तत्वादित्याह -
स्वरूपव्यतिरिक्तत्वेऽपीति ।
संस्कारकर्मतामपाकरोति -
नापि संस्कार्य इति ।
द्वयी हि संस्कार्यता, गुणाधानेन वा, यथा बीजपूरकुसुमस्य लाक्षारसावसेकः, तेन हि तत्कुसुमं संस्कृतं लाक्षारससवर्णं फलं प्रसूते । दोषापनयेन वा यथा मलिनमादर्शतलं निघृष्टमिष्टकाचूर्णेनोद्भासितभास्वरत्वं संस्कृतं भवति । तत्र न तावद्ब्रह्मणि गुणाधानं सम्भवति । गुणो हि ब्रह्मणः स्वभावो वा भिन्नो वा । स्वभावश्चेत्कथमाधेयः, तस्य नित्यवात् । भिन्नत्वे तु कार्यत्वेन मोक्षस्यानित्यत्वप्रसङ्गः । न च भेदे धर्मधर्मिभावः, गवाश्ववत् । भेदाभेदश्च व्युदस्तः, विरोधात् ।
तदनेनाभिसन्धिनोक्तम् -
अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य ।
द्वितीयं पक्षं प्रतिक्षिपति -
नापि दोषापनयनेनेति ।
अशुद्धिः सती दर्पणे निवर्तते, न तु ब्रह्मणि असतिति निवर्तनीया । नित्यनिवृत्तत्वादित्यर्थः ।
शङ्कते -
स्वात्मधर्म एवेति ।
ब्रह्मस्वभाव एव मोक्षोऽनाद्यविद्यामलावृत उपासनादिक्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यते, न तु क्रियते । एतदुक्तं भवति नित्यशुद्धत्वमात्मनोऽसिद्धम् , संसारावस्थायामविद्यामलिनत्वादिति ।
शङ्कां निराकरोति -
न ।
कुतः,
क्रियाश्रयत्वानुपपत्तेः ।
नाविद्या ब्रह्माश्रया, किं तु जीवे, सा त्वनिर्वचनीयेत्युक्तम् , तेन नित्यशुद्धमेव ब्रह्म । अभ्युपेत्य त्वशुद्धिं क्रियासंस्कार्यत्वं दूष्यते । क्रिया हि ब्रह्मसमवेता वा ब्रह्म संस्कुर्यात् , यथा निघर्षणमिष्टकाचूर्णसंयोगविभागप्रचयो निरन्तर आदर्शतलसमवेतः । अन्यसमवेता वा । न तावद्ब्रह्मधर्मः क्रिया, तस्याः स्वाश्रयविकारहेतुत्वेन ब्रह्मणो नित्यत्वव्याघातात् । अन्याश्रया तु कथमन्यस्योपकरोति, अतिप्रसङ्गात् । न हि दर्पणे निघृष्यमाणे मणिर्विशुद्धो दृष्टः ।
तच्चानिष्टमिति ।
तदा बाधनं परामृशति ।
अत्र व्यभिचारं चोदयति -
ननु देहाश्रययेति ।
परिहरति -
न ।
देहसंहतस्येति ।
अनाद्यनिर्वाच्याविद्योपधानमेव ब्रह्मणो जीव इति च क्षेत्रज्ञ इति चाचक्षते । स च स्थूलसूक्ष्मशरीरेन्द्रियादिसंहतस्तत्सङ्घातमध्यपतितस्तदभेदेनाहमितिप्रत्ययविषयीभूतः, अतः शरीरादिसंस्कारः शरीरादिधर्मोऽप्यात्मनो भवति, तदभेदाध्यवसायात् । यथा अङ्गरागधर्मः सुगन्धिता कामिनीनां व्यपदिश्यते । तेनात्रापि यदाश्रिता क्रिया सांव्यवहारिकप्रमाणविषयीकृता तस्यैव संस्कारो नान्यस्येति न व्यभिचारः । तत्त्वतस्तु न क्रिया न संस्कार इति । सनिदर्शनं तु शेषमध्यासभाष्ये एव कृतव्याख्यानमिति नेह व्याख्यातम् ।
तयोरन्यः पिप्पलमिति ।
अन्यो जीवात्मा । पिप्पलं कर्मफलम् ।
अनश्नन्नन्य इति ।
परमात्मा ।
संहतस्यैव भोक्तृत्वमाह मन्त्रवर्णः -
आत्मेन्द्रियेति ।
अनुपहितशुद्धस्वभावब्रह्मप्रदर्शनपरौ मन्त्रौ पठति -
एको देव इति ।
शुक्रं दीप्तिमत् । अव्रणं दुःखरहितम् । अस्राविरम् अविगलितम् । अविनाशीति यावत् ।
उपसंहरति -
तस्मादिति ।
ननु मा भून्निर्वर्त्यादिकर्मताचतुष्टयी । पञ्चमी तु काचित् विधा भविष्यति, यया मोक्षस्य कर्मता घटिष्यत इत्यत आह -
अतोऽन्यदिति ।
एभ्यः प्रकारेभ्यो न प्रकारान्तरमन्यदस्ति, यतो मोक्षस्य क्रियानुप्रवेशो भविष्यति ।
एतदुक्तं भवति - चतसृणां विधानां मध्येऽन्यतमतया क्रियाफलत्वं व्याप्तम् , सा च मोक्षाद्व्यावर्तमाना व्यापकानुपलब्ध्या मोक्षस्य क्रियाफलत्वं व्यावर्तयतीति । तत्किं मोक्षे क्रियैव नास्ति, तथा च तदर्थानि शास्त्राणि तदर्थाश्च प्रवृत्तयोऽनर्थिका इत्यत उपसंहारव्याजेनाह -
तस्माज्ज्ञानमेकमिति ।
अथ ज्ञानं क्रिया मानसी कस्मान्न विधिगोचरः, कस्माच्च तस्याः फलं निर्वर्त्यादिष्वन्यतमं न मोक्ष इति चोदयति -
ननु ज्ञानमिति ।
परिहरति -
न ।
कुतः
वैलक्षण्यात् ।
अयमर्थः - सत्यम् , ज्ञानं मानसी क्रिया, न त्वियं ब्रह्मणि फलं जनयितुमर्हति, तस्य स्वयम्प्रकाशतया विदिक्रियाकर्मभावानुपपत्तेरित्युक्तम् ।
तदेतस्मिन्वैलक्षण्ये स्थिते एव वैलक्षण्यान्तरमाह -
क्रिया हि नाम सेति ।
यत्र
विषये
वस्तुस्वरूपनिरपेक्षैव चोद्यते ।
यथा देवतासम्प्रदानकहविर्ग्रहणे देवतावस्तुस्वरूपानपेक्षा देवताध्यानक्रिया । यथा वा योषिति अग्निवस्त्वनपेक्षाग्निबुद्धिर्या सा क्रिया हि नामेति योजना । न हि “यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्”(ऐ . ब्रा. ३ । ८ । १) इत्यस्माद्विधेः प्राग्देवताध्यानं प्राप्तम् , प्राप्तं त्वधीतवेदान्तस्य विदितपदतदर्थसम्बन्धस्याधिगतशब्दन्यायतत्त्वस्य “सदेव सोम्येदम्”(छा. उ. ६ । २ । १) इत्यादेः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यन्तात्सन्दर्भात् ब्रह्मात्मभावज्ञानम् , शब्दप्रमाणसामर्थ्यात् , इन्द्रियार्थसंनिकर्षसामर्थ्यादिव प्रणिहितमनसः स्फीतालोकमध्यवर्तिकुम्भानुभवः । न ह्यसौ स्वसामग्रीबललब्धजन्मा सन्मनुजेच्छयान्यथाकर्तुमकर्तुं वा शक्यः, देवताध्यानवत् , येनार्थवानत्र विधिः स्यात् । न चोपासना वानुभवपर्यन्तता वास्य विधेर्गोचरः, तयोरन्वयव्यतिरेकावधृतसामर्थ्ययोः साक्षात्कारे वा अनाद्यविद्यापनये वा विधिमन्तरेण प्राप्तत्वेन पुरुषेच्छयान्यथाकर्तुमकर्तुं वा अशक्यत्वात् । तस्माद्ब्रह्मज्ञानं मानसी क्रियापि न विधिगोचरः । पुरुषचित्तव्यापाराधीनायास्तु क्रियाया वस्तुस्वरूपनिरपेक्षता क्वचिदविरोधिनी, यथा देवताध्यानक्रियायाः । न ह्यत्र वस्तुस्वरूपेण कश्चिद्विरोधः । क्वचिद्वस्तुस्वरूपविरोधिनी, यथा योषित्पुरुषयोरग्निबुद्धिरित्येतावता भेदेन निदर्शनमिथुनद्वयोपन्यासः । क्रियैवेत्येवकारेण वस्तुतन्त्रत्वमपाकरोति ।
ननु “आत्मेत्येवोपासीत”(बृ. उ. १ । ४ । ७) इत्यादयो विधयः श्रूयन्ते । न च प्रमत्तगीताः, तुल्यं हि साम्प्रदायिकम् , तस्माद्विधेयेनात्र भवितव्यमित्यत आह -
तद्विषया लिङादय इति ।
सत्यं श्रूयन्ते लिङादयः, न त्वमी विधिविषयाः, तद्विषयत्वेऽप्रामाण्यप्रसङ्गात् । हेयोपादेयविषयो हि विधिः । स एव च हेय उपादेयो वा, यं पुरुषः कर्तुमकर्तुमन्यथा वा कर्तुं शक्नोति । तत्रैव च समर्थः कर्ताधिकृतो नियोज्यो भवति । न चैवम्भूतान्यात्मश्रवणमननोपासनदर्शनानीति विषयतदनुष्ठात्रोर्विधिव्यापकयोरभावाद्विधेरभाव इति प्रयुक्ता अपि लिङादयः प्रवर्तनायामसमर्था उपल इव क्षुरतैक्ष्ण्यं कुण्ठमप्रमाणीभवितुमर्हन्तीति ।
अनियोज्यविषयत्वादिति ।
समर्थो हि कर्ताधिकारी नियोज्यः । असामर्थ्ये तु न कर्तृता यतो नाधिकृतोऽतो न नियोज्य इत्यर्थः ।
यदि विधेरभावान्न विधिवचनानि, किमर्थानि तर्हि वचनान्येतानि विधिच्छायानीति पृच्छति -
किमर्थानीति ।
न चानर्थकानि युक्तानि, स्वाध्यायाध्ययनविध्यधीनग्रहणत्वानुपपत्तेरिति भावः ।
उत्तरम् -
स्वाभाविकेति ।
अन्यतः प्राप्ता एव हि श्रवणादयो विधिसरूपैर्वाक्यैरनूद्यन्ते । न चानुवादोऽप्यप्रयोजनः, प्रवृत्तिविशेषकरत्वात् । तथाहि - तत्तदिष्टानिष्टविषयेप्साजिहासापहृतहृदयतया बहिर्मुखो न प्रत्यगात्मनि समाधातुमर्हति । आत्मश्रवणादिविधिसरूपैस्तु वचनैर्मनसो विषयस्रोतः खिलीकृत्य प्रत्यगात्मस्रोत उद्घाट्यत इति प्रवृत्तिविशेषकरता अनुवादानामस्तीति सप्रयोजनतया स्वाध्यायविध्यधीनग्रहणत्वमुपपद्यत इति ।
यच्च चोदितमात्मज्ञानमनुष्ठानानङ्गत्वादपुरुषार्थमिति तदयुक्तम् । स्वतोऽस्य पुरुषार्थत्वे सिद्धे यदनुष्ठानानङ्गत्वं तद्भूषणं न दूषणमित्याह -
यदपीति ।
अनुसञ्ज्वरेत्
शरीरं परितप्यमानमनुतप्येत । सुगममन्यत् ।
प्रकृतमुपसंहरति -
तस्मान्न प्रतिपत्तीति ।
प्रकृतिसिद्ध्यर्थमेकदेशिमतं दूषयितुमनुभाषते -
यदपि केचिदाहुरिति ।
दूषयति -
तन्नेति ।
इदमत्राकूतम् - “कार्यबोधे यथा चेष्टा लिङ्गं हर्षादयस्तथा । सिद्धबोधेऽर्थवत्तैवं शास्त्रत्वं हितशासनात्” ॥ यदि हि पदानां कार्याभिधाने तदन्वितस्वार्थाभिधाने वा, नियमेन वृद्धव्यवहारात्सामर्थ्वमवधृतं भवेत् , न भवेदहेयोपादेयभूतब्रह्मात्मतापरत्वमुपनिषदाम् । तत्राविदितसामर्थ्यत्वात्पदानां लोके, तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेः । अथ तु भूतेऽप्यर्थे पदानां लोके शक्यः सङ्गतिग्रहस्तत उपनिषदान्तत्परत्वं पौर्वापर्यपर्यालोचनयावगम्यमानमपहृत्य न कार्यपरत्वं शक्यं कल्पयितुम् , श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । तत्र तावदेवमकार्येऽर्थे न सङ्गतिग्रहः, यदि तत्परः प्रयोगो न लोके दृश्येत, तत्प्रत्ययो वा व्युत्पन्नस्योन्नेतुं न शक्येत । न तावत्तत्परः प्रयोगो न दृश्यते लोके । कुतूहलभयादिनिवृत्त्यर्थानामकार्यपराणां पदसन्दर्भाणां प्रयोगस्य लोके बहुलमुपलब्धेः । तद्यथाखण्डलादिलोकपालचक्रवालाधिवसतिः, सिद्धविद्याधरगन्धर्वाप्सरःपरिवारो ब्रह्मलोकावतीर्णमन्दाकिनीपयःप्रवाहपातधौतकलधौतमयशिलातलो नन्दनादिप्रमदावनविहारिमणिमयशकुन्तकमनीयनिनदमनोहरः पर्वतराजः सुमेरुरिति । नैष भुजङ्गो रज्जुरियमित्यादिः । नापि भूतार्थबुद्धिर्व्युत्पन्नपुरुषवर्तिनी न शक्या समुन्नेतुम् , हर्षादेरुन्नयनहोतोः सम्भवात् । तथा ह्यविदितार्थदेशजनभाषार्थो द्रविडो नगरगमनोद्यतो राजमार्गाभ्यर्णं देवदत्तमन्दिरमध्यासीनः प्रतिपन्नजनकानन्दनिबन्धनपुत्रजन्मा वार्त्ताहारेण सह नगरस्थदेवदत्ताभ्याशमागतः पटवासोपायनार्पणपुरःसरं दिष्ट्या वर्धसे देवदत्त पुत्रस्ते जातैति वार्त्ताहारव्याहारश्रवणसमनन्तरमुपजातरोमाञ्चकञ्चुकं विकसितनयनोत्पलमतिस्मेरमुखमहोत्पलमवलोक्य देवदत्तमुत्पन्नप्रमोदमनुमिमीते, प्रमोदस्य च प्रागभूतस्य तद्व्याहारश्रवणसमनन्तरं प्रभवतस्तद्धेतुताम् । न चायमप्रतिपादयन् हर्षहेतुमर्थं हर्षाय कल्पत इत्यनेन हर्षहेतुरर्थ उक्त इति प्रतिपद्यते । हर्षहेत्वन्तरस्य चाप्रतीतेः पुत्रजन्मनश्च तद्धेतोरवगमात्तदेव वार्त्ताहारेणाभ्यधायीति निश्चिनोति । एवं भयशोकादयोऽप्युदाहार्याः । तथा च प्रयोजनवत्तया भूतार्थाभिधानस्य प्रेक्षावत्प्रयोगोऽप्युपपन्नः । एवं च ब्रह्मस्वरूपज्ञानस्य परमपुरुषार्थहेतुभावादनुपदिशतामपि पुरुषप्रवृत्तिनिवृत्ती वेदान्तानां पुरुषहितानुशासनाच्छास्त्रत्वं सिद्धं भवति । तत्सिद्धमेतत् , विवादाध्यासितानि वचनानि भूतार्थविषयाणि, भूतार्थविषयप्रमाजनकत्वात् । यद्यद्विषयप्रमाजनकं तत्तद्विषयं, यथा रूपादिविषयं चक्षुरादि, तथा चैतानि, तस्मात्तथेति ।
तस्मात्सुष्ठूक्तम् -
तन्न, औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति ।
उपनिपूर्वात्सदेर्विशरणार्थात्क्विप्युपनिषत्पदं व्युत्पादितम् , उपनीय अद्वयं ब्रह्म सवासनामविद्यां हिनस्तीति ब्रह्मविद्यामाह । तद्धेतुत्वाद्वेदान्ता अप्युपनिषदः, ततो विदितः औपनिषदः पुरुषः ।
एतदेव विभजते -
योऽसावुपनिषत्स्वेवेति ।
अहंप्रत्ययविषयाद्भिनत्ति -
असंसारीति ।
अत एव क्रियारहितत्वाच्चतुर्विधद्रव्यविलक्षणः अतश्च चतुर्विधद्रव्यविलक्षणोपेतोऽयमनन्यशेषः, अन्यशेषं हि भूतं द्रव्यं चिकीर्षितं सदुत्पत्त्याद्याप्यं सम्भवति । यथा ‘यूपं तक्षति’ इत्यादि । यत्पुनरन्यशेषं भूतभाव्युपयोगरहितम् , यथा ‘सुवर्णं भार्यम्’ , ‘सक्तून् जुहोति’ इत्यादि, न तस्योत्पत्त्याद्याप्यता ।
कस्मात्पुनरस्यानन्यशेषतेत्यत आह -
यतःस्वप्रकरणस्थः ।
उपनिषदामनारभ्याधीतानां पौर्वापर्यपर्यालोचनया पुरुषप्रतिपादनपरत्वेन पुरुषस्यैव प्राधान्येनेदं प्रकरणम् । न च जुह्वादिवदव्यभिचरितक्रतुसम्बन्धः पुरुष इत्युपपादितम् । अतः स्वप्रकरणस्थः सोऽयं तथाविध उपनिषद्भ्यः प्रतीयमानो न नास्तीति शक्यो वक्तुमित्यर्थः ।
स्यादेतत् - मानान्तरागोचरत्वेनागृहीतसङ्गतितया अपदार्थस्य ब्रह्मणो वाक्यार्थत्वानुपपत्तेः कथमुपनिषदर्थतेत्यत आह -
स एष नेति नेत्यात्मेत्यात्मशब्दात् ।
यद्यपि गवादिवन्मानान्तरगोचरत्वमात्मनो नास्ति, तथापि प्रकाशात्मन एव सतस्तत्तदुपाधिपरिहाण्या शक्यं वाक्यार्थत्वेन निरूपणम् , हाटकस्येव कटककुण्डलादिपरिहाण्या । नहि प्रकाशः स्वसंवेदनो न भासते, नापि तदवच्छेदकः कार्यकारणसङ्घातः । तेन “स एष नेति नेत्यात्मा” (बृ. उ. ३ । ९ । २६) इति तत्तदवच्छेदपरिहाण्या बृहत्त्वादापनाच्च स्वयम्प्रकाशः शक्यो वाक्यात् ब्रह्मेति चात्मेति च निरूपयितुमित्यर्थः ।
अथोपाधिनिरासवदुपहितमप्यात्मरूपं कस्मान्न निरस्यत इत्यत आह -
आत्मनश्च प्रत्याख्यातुमशक्यत्वात् ।
प्रकाशो हि सर्वस्यात्मा तदधिष्ठानत्वाच्च प्रपञ्चविभ्रमस्य । न चाधिष्ठानाभावे विभ्रमो भवितुमर्हति । न हि जातु रज्ज्वभावे रज्ज्वां भुजङ्ग इति वा धारेति वा विभ्रमो दृष्टपूर्वः । अपि चात्मानः प्रकाशस्य भासा प्रपञ्चस्य प्रभा । तथा च श्रुतिः - “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति”(क.उ.२-२-१५) इति । न चात्मनः प्रकाशस्य प्रत्याख्याने प्रपञ्चप्रथा युक्ता । तस्मादात्मनः प्रत्याख्यानायोगाद्वेदान्तेभ्यः प्रमाणान्तरागोचरसर्वोपाधिरहितब्रह्मस्वरूपावगतिसिद्धिरित्यर्थः ।
उपनिषत्स्वेवावगत इत्यवधारणममृष्यमाण आक्षिपति -
नन्वात्मेति ।
सर्वजनीनाहंप्रत्ययविषयो ह्यात्मा कर्ता भोक्ता च संसारी, तत्रैव च लौकिकपरीक्षकाणामात्मपदप्रयोगात् । य एव लौकिकाः शब्दास्त एव वैदिकास्त एव च तेषामर्था इत्यौपनिषदमप्यात्मपदं तत्रैव प्रवर्तितुमर्हति, नार्थान्तरे तद्विपरीत इत्यर्थः ।
समाधत्ते -
न
अहंप्रत्ययविषय औपनिषदः पुरुषः ।
कुतः
तत्साक्षित्वेन ।
अहंप्रत्ययविषयो यः कर्ता कार्यकरणसङ्घातोपहितो जीवात्मातत्साक्षित्वेन, परमात्मनोऽहंप्रत्ययविषयत्वस्य -
प्रत्युक्तत्वात् ।
एतदुक्तं भवति - यद्यपि “अनेन जीवेनात्मना” (छा. उ. ६ । ३ । २) इति जीवपरमात्मनोः पारमार्थिकमैक्यम् , तथापि तस्योपहितं रूपं जीवः, शुद्धं तु रूपं तस्य साक्षितच्च मानान्तरानधिगतमुपनिषद्गोचर इति ।
एतदेव प्रपञ्चयति -
न ह्यहंप्रत्ययविषयेति ।
विधिशेषत्वं वा नेतुं न शक्यः ।
कुतः
आत्मत्वादेव ।
न ह्यात्मा अन्यार्थोऽन्यत्तु सर्वमात्मार्थम् । तथा च श्रुतिः - “न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति आत्मनस्तु कामाय सर्वं प्रियं भवति”(बृ. उ. ४ । ५ । ६) इति । अपि चातः सर्वेषामात्मत्वादेव न हेयो नाप्युपादेयः । सर्वस्य हि प्रपञ्चजातस्य ब्रह्मैव तत्त्वमात्मा । न च स्वभावो हेयः, अशक्यहानत्वात् । न चोपादेयः, उपात्तत्वात् । तस्माद्धेयोपादेयविषयौ विधिनिषेधौ न तद्विपरीतमात्मतत्त्वं विषयीकुरुत इति सर्वस्य प्रपञ्चजातस्यात्मैव तत्त्वमिति ।
एतदुपपादयति -
सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति ।
अयमर्थः - पुरुषो हि श्रुतिस्मृतीतिहासपुराणतदविरुद्धन्यायव्यवस्थापितत्वात्परमार्थसन् । प्रपञ्चस्त्वनाद्यविद्योपदर्शितोऽपरमार्थसन् । यश्च परमार्थसन्नसौ प्रकृतिः रज्जुतत्त्वमिव सर्पविभ्रमस्य विकारस्य । अत एवास्यानिर्वाच्यत्वेनादृढस्वभावस्य विनाशः । पुरुषस्तु परमार्थसन्नासौ कारणसहस्रेणाप्यसन् शक्यः कर्तुम् । न हि सहस्रमपि शिल्पिनो घटं पटयितुमीशत इत्युक्तम् । तस्मादविनाशिपुरुषान्तो विकारविनाशः शुक्तिरज्जुतत्त्वान्त इव रजतभुजङ्गविनाशः । पुरुष एव हि सर्वस्य प्रपञ्चविकारजातस्य तत्त्वम् ।
न च पुरुषस्यास्ति विनाशो यतोऽनन्तो विनाशः स्यादित्यत आह -
पुरुषो विनाशहेत्वभावादिति ।
नहि कारणानि सहस्रमप्यन्यदन्यथयितुमीशत इत्युक्तम् । अथ मा भूत्स्वरूपेण पुरुषो हेय उपादेयो वा, तदीयस्तु कश्चिद्धर्मो हास्यते, कश्चिच्चोपादास्यत इत्यत आह -
विक्रियाहेत्वभावाच्च कूटस्थनित्यः ।
त्रिविधोऽपि धर्मलक्षणावस्थापरिणामलक्षणो विकारो नास्तीत्युक्तम् । अपि चात्मनः परमार्थसतो धर्मोऽपि परमार्थसन्निति न तस्यात्मवदन्यथात्वं कारणैः शक्यं कर्तुम् । न च धर्मान्यथात्वादन्यो विकारः । तदिदमुक्तम् - विक्रियाहेत्वभावादिति । सुगममन्यत् ।
यत्पुनरेकदेशिना शास्त्रविद्वचनं साक्षित्वेनानुक्रान्तं तदन्यथोपपादयति -
यदपि शास्त्रतात्पर्यविदामनुक्रमणमिति ।
“दृष्टो हि तस्यार्थः प्रयोजनवदर्थावबोधनम्” इति वक्तव्ये, धर्मजिज्ञासायाः प्रकृतत्वाद्धर्मस्य च कर्मत्वात् “कर्मावबोधनम्” इत्युक्तम् । न तु सिद्धरूपब्रह्मावबोधनव्यापारं वेदस्य वारयति । न हि सोमशर्मणि प्रकृते तद्गुणाभिधानं परिसञ्चष्टे विष्णुशर्मणो गुणवत्ताम् । विधिशास्त्रं विधीयमानकर्मविषयम् , प्रतिषेधशास्त्रं च प्रतिषिध्यमानकर्मविषयमित्युभयमपि कर्मावबोधनपरम् । अपि च “आम्नायस्य क्रियार्थत्वात्” इति शास्त्रकृद्वचनम् ।
तत्रार्थग्रहणं यद्यभिधेयवाचि ततो भूतार्थानां द्रव्यगुणकर्मणामानर्थक्यमनभिधेयत्वं प्रसज्येत, नहि ते क्रियार्था इत्यत आह -
अपि चाम्नायस्येति ।
यद्युच्येत नहि क्रियार्थत्वं क्रियाभिधेयत्वम् , अपि तु क्रियाप्रयोजनत्वम् । द्रव्यगुणशब्दानां च क्रियार्थत्वेनैव भूतद्रव्यगुणाभिधानम् , न स्वनिष्ठतया । यथाहुः शास्त्रविदः - “चोदना हि भूतं भवन्तम्” इत्यादि । एतदुक्तं भवति - कार्यमर्थमवगमयन्ती चोदना तदर्थं भूतादिकमप्यर्थं गमयतीति ।
तत्राह -
प्रवृत्तिनिवृत्तिव्यतिरेकेण भूतं चेदिति ।
अयमभिसन्धिः - न तावत्कार्यार्थ एव स्वार्थे पदानां सङ्गतिग्रहो नान्यार्थ इत्युपपादितं भूतेऽप्यर्थे व्युत्पत्तिं दर्शयद्भिः । नापि स्वार्थमात्रपरतैव पदानाम् । तथा सति न वाक्यार्थप्रत्ययः स्यात् । न हि प्रत्येकं स्वप्रधानतया गुणप्रधानभावरहितानामेकवाक्यता दृष्टा । तस्मात्पदानां स्वार्थमभिदधतामेकप्रयोजनवत्पदार्थपरतयैकवाक्यता । तथा च तत्तदर्थान्तरविशिष्टैकवाक्यार्थप्रत्यय उपपन्नो भवति । यथाहुः शास्त्रविदः - “साक्षाद्यद्यपि कुर्वन्तिपदार्थप्रतिपादनम् । वर्णास्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले ॥ वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्” ॥ इति । तथा चार्थान्तरसंसर्गपरतामात्रेण वाक्यार्थप्रत्ययोपपत्तौ न कार्यसंसर्गपरत्वनियमः पदानाम् । एवं च सति कूटस्थनित्यब्रह्मरूपपरत्वेऽप्यदोष इति । भव्यं कार्यम् ।
ननु यद्भव्यार्थं भूतमुपदिश्यते न तद्भूतम् , भव्यसंसर्गिणा रूपेण तस्यापि भव्यत्वादित्यत आह -
न हि भूतमुपदिश्यमानमिति ।
न तादात्म्यलक्षणः संसर्गः, किं तु कार्येण सह प्रयोजनप्रयोजनिलक्षणोऽन्वयः । तद्विषयेण तु भावार्थेन भूतार्थानां क्रियाकारकलक्षण इति न भूतार्थानां क्रियार्थत्वमित्यर्थः ।
शङ्कते -
अक्रियात्वेऽपीति ।
एवं चाक्रियार्थकूटस्थनित्यब्रह्मोपदेशानुपपत्तिरिति भावः ।
परिहरति -
नैष दोषः ।
क्रियार्थत्वेऽपीति ।
न हि क्रियार्थं भूतमुपदिश्यमानमभूतं भवति, अपि तु क्रियानिवर्तनयोग्यं भूतमेव तत् । तथा च भूतेऽर्थेऽवधृतशक्तयः शब्दाः क्वचित्स्वनिष्ठभूतविषया दृश्यमाना मृत्वा शीर्त्वा वा न कथञ्चित्क्रियानिष्ठतां गमयितुमुचिताः । नह्युपहितं शतशो दृष्टमप्यनुपहितं क्वचिद्दृष्टमदृष्टं भवति । तथा च वर्तमानापदेशा अस्तिक्रियोपहिता अकार्यार्था अप्यटवीवर्णकादयो लोके बहुलमुपलभ्यन्ते । एवं क्रियानिष्ठा अपि सम्बन्धमात्रपर्यवसायिनः, यथाकस्यैष पुरुष इति प्रश्ने उत्तरंराज्ञ इति । तथा प्रातिपदिकार्थमात्रनिष्ठाः, यथा - कीदृशास्तरव इति प्रश्ने उत्तरम्फलिन इति । न हि पृच्छता पुरुषस्य वा तरूणां वास्तित्वनास्तित्वे प्रतिपित्सिते, किं तु पुरुषस्य स्वामिभेदस्तरूणां च प्रकारभेदः । प्रष्टुरपेक्षितं चाचक्षाणः स्वामिभेदमेव प्रकारभेदमेव च प्रतिवक्ति, न पुनरस्तित्वम् , तस्य तेनाप्रतिपित्सितत्वात् । उपपादिता च भूतेऽप्यर्थे व्युत्पत्तिः प्रयोजनवति पदानाम् ।
चोदयति -
यदि नामोपदिष्टं
भूतं
किं तव -
उपदेष्टुः श्रोतुर्वा प्रयोजनं
तस्माद्भूतमपि प्रयोजनवदेवोपदेष्टव्यं नाप्रयोजनम् । अप्रयोजनं च ब्रह्म, तस्योदासीनस्य सर्वक्रियारहितत्वेनानुपकारकत्वादिति भावः ।
स्यात् ।
परिहरति -
अनवगतात्मवस्तूपदेशश्च तथैव -
प्रयोजनवानेव -
भवितुमर्हति ।
अप्यर्थश्चकारः । एतदुक्तं भवति - यद्यपि ब्रह्मोदासीनम् , तथापि तद्विषयं शाब्दज्ञानमवगतिपर्यन्तं विद्या स्वविरोधिनीं संसारमूलनिदानमविद्यामुच्छिन्दत्प्रयोजनवदित्यर्थः । अपि च येऽपि कार्यपरत्वं सर्वेषां पदानामास्थिषत, तैरपि “ब्राह्मणो न हन्तव्यः”, “न सुरा पातव्या” इत्यादीनां न कार्यपरता शक्या आस्थातुम् । कृत्युपहितमर्यादं हि कार्यं कृत्या व्याप्तं तन्निवृत्तौ निवर्तते, शिंशपात्वमिव वृक्षत्वनिवृत्तौ । कृतिर्हि पुरुषप्रयत्नः - स च विषयाधीननिरूपणः । विषयश्चास्य साध्यस्वभावतया भावार्थ एव पूर्वापरीभूतोऽन्योत्पादानुकूलात्मा भवितुमर्हति, न द्रव्यगुणौ । साक्षात्कृतिव्याप्यो हि कृतेर्विषयः । न च द्रव्यगुणयोः सिद्धयोरस्ति कृतिव्याप्यता । अत एव शास्त्रकृद्वचः - “भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेत” इति । द्रव्यगुणशब्दानां नैमित्तिकावस्थायां कार्यावमर्शेऽपि, भावस्य स्वतः, द्रव्यगुणशब्दानां तु भावयोगात्कार्यावमर्श इति भावार्थेभ्य एवापूर्वावगतिः, न द्रव्यगुणशब्देभ्य इति । न च ‘दध्ना जुहोति’ , ‘सन्ततमाघारयति’ इत्यादिषु द्रव्यादीनां कार्यविषयता । तत्रापि हि होमाघारभावार्थविषयमेव कार्यम् । न चैतावता ‘सोमेन यजेत’ इतिवत् , दधिसन्ततादिविशिष्टहोमाघारविधानात् , ‘अग्निहोत्रं जुहोति’ , ‘आघारमाघारयति’ इति तदनुवादः । यद्यप्यत्रापि भावार्थविषयमेव कार्यं, तथापि भावार्थानुबन्धतया द्रव्यगुणावविषयावपि विधीयेते । भावार्थो हि कारकव्यापारमात्रतयाविशिष्टः कारकविशेषेण द्रव्यादिना विशेष्यत इति द्रव्यादिस्तदनुबन्धः । तथा च भावार्थे विधीयमाने स एव सानुबन्धो विधीयत इति द्रव्यगुणावविषयावपि तदनुबन्धतया विहितौ भवतः । एवं च भावार्थप्रणालिकया द्रव्यादिसङ्क्रान्तो विधिर्गौरवाद्बिभ्यत्स्वविषयस्य चान्यतः प्राप्ततया तदनुवादेन तदनुबन्धीभूतद्रव्यादिपरो भवतीति सर्वत्र भावार्थविषय एव विधिः । एतेन ‘यदाग्नेयोऽष्टाकपालो भवति’ इत्यत्र सम्बन्धविषयो विधिरिति परास्तम् । ननु न भवत्यर्थो विधेयः, सिद्धे भवितरि लब्धरूपस्य भवनं प्रत्यकर्तृत्वात् । न खलु गगनं भवति । नाप्यसिद्धे, असिद्धस्यानियोज्यत्वात् , गगनकुसुमवत् । तस्माद्भवनेन प्रयोज्यव्यापारेणाक्षिप्तः प्रयोजकस्य भावयितुर्व्यापारो विधेयः । स च व्यापारो भावना, कृतिः, प्रयत्न इति निर्विषयश्चासावशक्यप्रतिपत्तिरतो विषयापेक्षायामाग्नेयशब्दोपस्थापितो द्रव्यदेवतासम्बन्ध एवास्य विषयः । ननु व्यापारविषयः पुरुषप्रयत्नः कथमव्यापाररूपं सम्बन्धं गोचरयेत् । न हि घटं कुर्वित्यत्रापि साक्षान्नामार्थं घटं पुरुषप्रयत्नो गोचरयत्यपि तु दण्डादि हस्तादिना व्यापारयति । तस्माद्घटार्थां कृतिं व्यापारविषयामेव पुरुषः प्रतिपद्यते, न तु रूपतो घटविषयाम् । उद्देश्यतया त्वस्यामस्ति घटो न तु विषयतया । विषयतया तु हस्तादिव्यापार एव । अत एवाग्नेय इत्यत्रापि द्रव्यदेवतासम्बन्धाक्षिप्तो यजिरेव कार्यविषयो विधेयः । किमुक्तं भवति, आग्नेयो भवतीति आग्नेयेन यागेन भावयेदिति । अत एव ‘य एवं विद्वान् पौर्णमासीं यजते’ ‘य एवं विद्वानमावास्यां यजते’ इत्यनुवादो भवति ‘यदाग्नेयः’ इत्यादिविहितस्य यागषट्कस्य । अत एव च विहितानूदितस्य तस्यैव ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्याधिकारसम्बन्धः । तस्मात्सर्वत्र कृतिप्रणालिकया भावार्थविषय एव विधिरित्येकान्तः । तथा च ‘न हन्यात्’ ‘न पिबेत्’ इत्यादिषु यदि कार्यमभ्युपेयेत, ततस्तद्व्यापिका कृतिरभ्युपेतव्या, तद्व्यापकश्च भावार्थो विषयः । एवं च प्रजापतिव्रतन्यायेन पर्युदासवृत्त्याऽहननापानसङ्कल्पलक्षणया तद्विषयो विधिः स्यात् । तथा च प्रसज्यप्रतिषेधो दत्तजलाञ्जलिः प्रसज्येत । न च सति सम्भवे लक्षणा न्याय्या । “नेक्षेतोद्यन्तम्” इत्यादौ तु “तस्य व्रतम्” इत्यधिकारात्प्रसज्यप्रतिषेधासम्भवेन पर्युदासवृत्त्यानीक्षणसङ्कल्पलक्षणा युक्ता ।
तस्मात् ‘न हन्यात्’ , ‘न पिबेत्’ इत्यादिषु प्रसज्यप्रतिषेधेषु भावार्थाभावात्तद्व्याप्तायाः कृतेरभावः, तदभावे च तद्व्याप्तस्य कार्यस्याभाव इति न कार्यपरत्वनियमः सर्वत्र वाक्ये इत्याह -
ब्राह्मणो न हन्तव्य इत्येवमाद्या इति ।
ननु कस्मान्निवृत्तिरेव कार्यं न भवति, तत्साधनं वेत्यत आह -
न च सा क्रियेति ।
क्रियाशब्दः कार्यवचनः ।
एतदेव विभजते -
अक्रियार्थानामिति ।
स्यादेतत् । विधिविभक्तिश्रवणात्कार्यं तावदत्र प्रतीयते तच्च न भावार्थमन्तरेण । न च रागतः प्रवृत्तस्य हननपानादावकस्मादौदासीन्यमुपपद्यते विना विधारकप्रयत्नम् । तस्मात्स एव प्रवृत्त्युन्मुखानां मनोवाग्देहानां विधारकः प्रयत्नो निषेधविधिगोचरः क्रियेति नाक्रियापरमस्ति वाक्यं किञ्चिदपीति आह -
न च हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुम् ।
केन हेतुना न शक्यमित्यत आह -
स्वभावप्राप्तहन्त्यर्थानुरागेण
नञः । अयमर्थः - हननपानपरो हि विधिप्रत्ययः प्रतीयमानस्ते एव विधत्ते इत्युत्सर्गः । न चैते शक्ये विधातुम् , रागतः प्राप्तत्वात् । न च नञः प्रसज्यप्रतिषेधो विधेयः, तस्याप्यौदासीन्यरूपस्य सिद्धतया प्राप्तत्वात् । न च विधारकः प्रयत्नः, तस्याश्रुतत्वेन लक्ष्यमाणत्वात् , सति सम्भवे च लक्षणाया अन्याय्यत्वात् , विधिविभक्तेश्च रागतः प्राप्तप्रवृत्त्यनुवादकत्वेन विधिविषयत्वायोगात् । तस्माद्यत्पिबेद्धन्याद्वेत्यनूद्य तन्नेति निषिध्यते, तदभावो ज्ञाप्यते, न तु नञर्थो विधीयते । अभावश्च स्वविरोधिभावनिरूपणतया भावच्छायानुपातीति सिद्धे सिद्धवत् , साध्ये च साध्यवद्भासत इति साध्यविषयो नञर्थः साध्यवद्भासत इति नञर्थः कार्य इति भ्रमः ।
तदिदमाह -
नञश्चैष स्वभाव इति ।
ननु बोधयतु सम्बन्धिनोऽभावं नञ्प्रवृत्त्युन्मुखानां तु मनोवाग्देहानां कुतोऽकस्मान्निवृत्तिरित्यत आह -
अभावबुद्धिश्चौदासीन्य
पालन
कारणम् ।
अयमभिप्रायः - ‘ज्वरितः पथ्यमश्नीयात्’ , ‘न सर्पायाङ्गुलिं दद्यात्’ इत्यादिवचनश्रवणसमनन्तरं प्रयोज्यवृद्धस्य पथ्याशने प्रवृत्तिं भुजङ्गाङ्गुलिदानोन्मुखस्य च ततो निवृत्तिमुपलभ्य बालो व्युत्पित्सुः प्रयोज्यवृद्धस्य प्रवृत्तिनिवृत्तिहेतू इच्छाद्वेषावनुमिमीते । तथा हि - इच्छाद्वेषहेतुके वृद्धस्य प्रवृत्तिनिवृत्ती स्वतन्त्रप्रवृत्तिनिवृत्तित्वात् , मदीयस्वतन्त्रप्रवृत्तिनिवृत्तिवत् । कर्तव्यतैकार्थसमवेतेष्टानिष्टसाधनभावावगमपूर्वकौ चास्येच्छाद्वेषौ, प्रवृत्तिनिवृत्तिहेतुभूतेच्छाद्वेषत्वात् , मत्प्रवृत्तिनिवृत्तिहेतुभूतेच्छाद्वेषवत् । न जातु मम शब्दतद्व्यापारपुरुषाशयत्रैकाल्यानविच्छन्नभावनापूर्वप्रत्ययपूर्वाविच्छाद्वेषावभूताम् । अपि तु भूयोभूयः स्वगतमालोचयत उक्तकारणपूर्वावेव प्रत्यवभासेते । तस्माद्वृद्धस्य स्वतन्त्रप्रवृत्तिनिवृत्ती इच्छाद्वेषभेदौ च कर्तव्यतैकार्थसमवेतेष्टानिष्टसाधनभावावगमपूर्वावित्यानुपूर्व्या सिद्धः कार्यकारणाभाव इतीष्टानिष्टसाधनतावगमात्प्रयोज्यवृद्धप्रवृत्तिनिवृत्ती इति सिद्धम् । स चावगमः प्रागभूतः शब्दश्रवणानन्तरमुपजायमानः शब्दश्रवणहेतुक इति प्रवर्तकेषु वाक्येषु ‘यजेत’ इत्यादिषु शब्द एव कर्तव्यमिष्टसाधनं व्यापारमवगमयंस्तस्येष्टसाधनतां कर्तव्यतां चावगमयति अनन्यलभ्यत्वादुभयोः, अनन्यलभ्यस्य च शब्दार्थत्वात् । यत्र तु कर्तव्यतान्यत एव लभ्यते, यथा ‘न हन्यात्’ , ‘न पिबेत्’ इत्यादिषु हननपानप्रवृत्त्यो रागतः प्रतिलम्भात् , तत्र तदनुवादेन नञ्समभिव्याहृता लिङादिविभक्तिरन्यतोऽप्राप्तमनयोरनर्थहेतुभावमात्रमवगमयति । प्रत्यक्षं हि तयोरिष्टसाधनभावोऽवगम्यते, अन्यथा रागविषयत्वायोगात् । तस्माद्रागादिप्राप्तकर्तव्यतानुवादेनानर्थसाधनताप्रज्ञापनपरम् ‘न हन्यात्’ , ‘न पिबेत्’ इत्यादिवाक्यम् , न तु कर्तव्यतापरमिति सुष्ठूक्तमकार्यनिष्ठत्वं निषेधानाम् । निषेध्यानां चानर्थसाधनताबुद्धिरेव निषेध्याभावबुद्धिः । तया खल्वयं चेतन आपाततो रमणीयतां पश्यन्नप्यायतिमालोच्य प्रवृत्त्यभावं निवृत्तिमवबुध्य निवर्तते । औदासीन्यमात्मनोऽवस्थापयतीति यावत् ।
स्यादेतत् । अभावबुद्धिश्चेदौदासीन्यस्थापनकारणम् , यावदौदासीन्यमनुवर्तेत । न चानुवर्तते । न ह्युदासीनोऽपि विषयान्तरव्यासक्तचित्तस्तदभावबुद्धिमान् । न चावस्थापककारणाभावे कार्यावस्थानं दृष्टम् । न हि स्तम्भावपाते प्रासादोऽवतिष्ठते अत आह -
सा च दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यति ।
तावदेव खल्वयं प्रवृत्त्युन्मुखो न यावदस्यानर्थहेतुभावमधिगच्छति । अनर्थहेतुत्वाधिगमोऽस्य समूलोद्धारं प्रवृत्तिमुद्धृत्य दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यति । एतदुक्तं भवति - यथा प्रासादावस्थानकारणं स्तम्भो नैवमौदासीन्यावस्थानकारणमभावबुद्धिः, अपि त्वागन्तुकाद्विनाशहेतोस्त्राणेनावस्थानकारणम् । यथा कमठपृष्ठनिष्ठुरः कवचः शस्त्रप्रहारत्राणेन राजन्यजीवावस्थानहेतुः । न च कवचापगमे च असति च शस्त्रप्रहारे, राजन्यजीवनाश इति ।
उपसंहरति -
तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेवेति ।
औदासीन्यमजानतोऽप्यस्तीति प्रसक्तक्रियानिवृत्त्योपलक्ष्य विशिनष्टि । तत्किमक्रियार्थत्वेनानर्थक्यमाशङ्क्य क्रियार्थत्वोपवर्णनं जैमिनीयमसमञ्जसमेवेत्युपसंहारव्याजेन परिहरति -
तस्मात्पुरुषार्थेति ।
पुरुषार्थानुपयोग्युपाख्यानादिविषयावक्रियार्थतया क्रियार्थतया च पूर्वोत्तरपक्षौ, न तूपनिषद्विषयौ । उपनिषदां स्वयं पुरुषार्थब्रह्मरूपावगममपर्यवसानादित्यर्थः ।
यदप्यौपनिषदात्मज्ञानमपुरुषार्थं मन्यमानेनोक्तम् -
कर्तव्यविध्यनुप्रवेशमन्तरेणेति ।
अत्र निगूढाभिसन्धिः पूर्वोक्तं परिहारं स्मारयति -
तत्परिहृतमिति ।
अत्राक्षेप्ता स्वोक्तमर्थं स्मारयति -
ननु श्रुतब्रह्मणोऽपीति ।
निगूढमभिसन्धिं समाधातोद्घाटयति -
अत्रोच्यते - नावगतब्रह्मात्मभावस्येति ।
सत्यं, न ब्रह्मज्ञानमात्रं सांसारिकधर्मनिवृत्तिकारणम् , अपि तु साक्षात्कारपर्यन्तम् । ब्रह्मसाक्षात्कारश्चान्तःकरणवृत्तिभेदः श्रवणमननादिजनितसंस्कारसचिवमनोजन्मा, षड्जादिभेदसाक्षात्कार इव गान्धर्वशास्त्रश्रवणाभ्याससंस्कृतमनोयोनिः । स च निखिलप्रपञ्चमहेन्द्रजालसाक्षात्कारं समूलमुन्मूलयन्नात्मानमपि प्रपञ्चत्वाविशेषादुन्मूलयतीत्युपपादितमधस्तात् । तस्माद्रज्जुस्वरूपकथनतुल्यतैवात्रेति सिद्धम् ।
अत्र च वेदप्रमाणमूलतया वेदप्रमाणजनितेत्युक्तम् । अत्रैव सुखदुःखानुत्पादभेदेन निदर्शनद्वयमाह -
न हि धनिन इति ।
श्रुतिमत्रोदाहरति -
तदुक्तमिति ।
चोदयति -
शरीरे पतित इति ।
परिहरति -
न सशरीरत्वस्येति ।
यदि वास्तवं सशरीरत्वं भवेन्न जीवतस्तन्निवर्तेत । मिथ्याज्ञाननिमित्तं तु तत् । तच्चोत्पन्नतत्त्वज्ञानेन जीवतापि शक्यं निवर्तयितुम् ।
यत्पुनरशरीरत्वं तदस्य स्वभाव इति न शक्यं निवर्तयितुम् , स्वभावहानेन भावविनाशप्रसङ्गादित्याह -
नित्यमशरीरत्वमिति ।
स्यादेतत् । न मिथ्याज्ञाननिमित्तं सशरीरत्वमपि तु धर्माधर्मनिमित्तम् , तच्च स्वकारणधर्माधर्मनिवृत्तिमन्तरेण न निवर्तते । तन्निवृत्तौ च प्रायणमेवेति न जीवतोऽशरीरत्वमिति शङ्कते -
तत्कृतेति ।
तदित्यात्मानं परामृशति ।
निराकरोति -
न, शरीरसम्बन्धस्येति ।
न तावदात्मा साक्षाद्धर्माधर्मौ कर्तुमर्हति, वाग्बुद्धिशरीरारम्भजनितौ हि तौ नासति शरीरसम्बन्धे भवतः, ताभ्यां तु शरीरसम्बन्धं रोचयमानो व्यक्तं परस्पराश्रयं दोषमावहति ।
तदिदमाह -
शरीरसम्बन्धस्येति ।
यद्युच्येत सत्यमस्ति परस्पराश्रयः, न त्वेष दोषोऽनादित्वात् , बीजाङ्कुरवदित्यत आह -
अन्धपरम्परैषानादित्वकल्पना
यस्तु मन्यते नेयमन्धपरम्परातुल्यानादिता ।
न हि यतो धर्माधर्मभेदादात्मशरीरसम्बन्धभेदस्तत एव स धर्माधर्मभेदः किन्त्वेष पूर्वस्मादात्मशरीरसम्बन्धात्पूर्वधर्माधर्मभेदजन्मनः, एष त्वात्मशरीरसम्बन्धोऽस्माद्धर्माधर्मभेदादिति, तं प्रत्याह -
क्रियासमवायाभावादिति ।
शङ्कते -
संनिधानमात्रेणेति ।
परिहरति -
नेति ।
उपार्जनं स्वीकरणम् ।
न त्वियं विधात्मनीत्याह -
न त्वात्मन इति ।
ये तु देहादावात्माभिमानो न मिथ्या, अपि तु गौणः, माणवकादाविव सिंहाभिमान इति मन्यन्ते, तन्मतमुपन्यस्य दूषयति -
अत्राहुरिति ।
प्रसिद्धो वस्तुभेदो यस्य पुरुषस्य स तथोक्तः । उपपादितं चैतदस्माभिरध्यासभाष्य इति नेहोपपाद्यते । यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे वस्तुनि पुरुषात् , सांशयिकौ पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, तत्र हि पुरुषत्वमनियतमपि समारोपितमेव ।
एवं संशये समारोपितमनिश्चितमुदाहृत्य विपर्ययज्ञाने निश्चितमुदाहरति -
यथा वा शुक्तिकायामिति ।
शुक्लभास्वरस्य द्रव्यस्य पुरःस्थितस्य सति शुक्तिकारजतसाधारण्ये यावदत्र रजतविनिश्चयो भवति तावत्कस्माच्छुक्तिविनिश्चय एव न भवति । संशयो वा द्वेधा युक्तः, समानधर्मधर्मिणोर्दर्शनात् उपलब्घ्यनुपलब्ध्यव्यवस्थातोविशेषद्वयस्मृतेश्च ।
संस्कारोन्मेषहेतोः सादृश्यस्य द्विष्ठत्वेनोभयत्र तुल्यमेतदित्यत उक्तम् -
अकस्मादिति ।
अनेन दृष्टस्य हेतोः समानत्वेऽप्यदृष्टं हेतुरुक्तः । तच्च कार्यदर्शनोन्नेयत्वेनासाधारणमिति भावः ।
आत्मानात्मविवेकिनामिति ।
श्रवणमननकुशलतामात्रेण पण्डितानाम् । अनुत्पन्नतत्त्वसाक्षात्काराणामिति यावत् । तदुक्तम् - “पश्वादिभिश्चाविशेषात्” इति । शेषमतिरोहितार्थम् ।
जीवतो विदुषोऽशरीरत्वे च श्रुतिस्मृती उदाहरति -
तथा चेति ।
सुबोधम् ।
प्रकृतमुपसंहरति -
तस्मान्नावगतब्रह्मात्मभावस्येति ।
ननूक्तं यदि जीवस्य ब्रह्मात्मत्वावगतिरेव सांसारिकधर्मनिवृत्तिहेतुः, हन्त मननादिविधानानर्थक्यम् , तस्मात्प्रतिपत्तिविधिपरा वेदान्ता इति, तदनुभाष्य दूषयति -
यत्पुनरुक्तं श्रवणात्पराचीनयोरिति ।
मनननिदिध्यासनयोरपि न विधिः, तयोरन्वयव्यतिरेकसिद्धसाक्षात्कारफलयोर्विधिसरूपैर्वचनैरनुवादात् । तदिदमुक्तम् -
अवगत्यर्थत्वादिति ।
ब्रह्मसाक्षात्कारोऽवगतस्तदर्थत्वं मनननिदिध्यासनयोरन्वयव्यतिरेकसिद्धमित्यर्थः ।
अथ कस्मान्मननादिविधिरेव न भवतीत्यत आह -
यदि ह्यवगतमिति ।
न तावन्मनननिदिध्यासने प्रधानकर्मणी अपूर्वविषये अमृतत्वफले इत्युक्तमधस्तात् । अतो गुणकर्मत्वमनयोरवघातप्रोक्षणादिवत्परिशिष्यते, तदप्ययुक्तम् , अन्यत्रोपयुक्तोपयोक्ष्यमाणत्वाभावादात्मनः, विशेषतस्त्वौपनिषदस्य कर्मानुष्ठानविरोधादित्यर्थः ।
प्रकृतमुपसंहरति -
तस्मादिति ।
एवं सिद्धरूपब्रह्मपरत्वं उपनिषदाम् ।
ब्रह्मणः शास्त्रार्थस्य धर्मादन्यत्वात् , भिन्नविषयत्वेन शास्त्रभेदात् , “अथातो ब्रह्मजिज्ञासा” (ब्र.सू.१ । १ । १) इत्यस्य शास्त्रारम्भत्वमुपपद्यत इत्याह -
एवं च सतीति ।
इतरथा तु धर्मजिज्ञासैवेति न शास्त्रान्तरमिति न शास्त्रारम्भत्वं स्यादित्यत आह -
प्रतिपत्तिविधिपरत्व इति ।
न केवलं सिद्धरूपत्वाद्ब्रह्मात्मैक्यस्य धर्मादन्यत्वमपि तु तद्विरोधादपीत्युपसंहारव्याजेनाह -
तस्मादहं ब्रह्मास्मीति ।
इतिकरणेन ज्ञानं परामृशति । विधयो हि धर्मे प्रमाणम् । ते च साध्यसाधनेतिकर्तव्यताभेदाधिष्ठाना धर्मोत्पादिनश्च तदधिष्ठाना न ब्रह्मात्मैक्ये सति प्रभवन्ति, विरोधादित्यर्थः ।
न केवलं धर्मप्रमाणस्य शास्त्रस्येयं गतिः, अपि तु सर्वेषां प्रमाणानामित्याह -
सर्वाणि चेतराणि प्रमाणानीति ।
कुतः,
न हीति ।
अद्वैते हि विषयविषयिभावो नास्ति । न च कर्तृत्वम् , कार्याभावात् । न च कारणत्वम् , अत एव ।
तदिदमुक्तम् -
अप्रमातृकाणि च ।
इति चकारेण ।
अत्रैव ब्रह्मविदां गाथा उदाहरति -
अपि चाहुरिति ।
पुत्रदारादिष्वात्माभिमानो गौणः । यथा स्वदुःखेन दुःखी, यथा स्वसुखेन सुखी, तथा पुत्रादिगतेनापीति सोऽयं गुणः । न त्वेकत्वाभिमानः, भेदस्यानुभवसिद्धत्वात् । तस्मात् ‘गौर्वाहीकः’ इतिवद्गौणः । देहेन्द्रियादिषु त्वभेदानुभवान्न गौण आत्माभिमानः, किं तु शुक्तौ रजतज्ञानवन्मिथ्या, तदेवं द्विविधोऽयमात्माभिमानो लोकयात्रां वहति । तदसत्त्वे तु न लोकयात्रा, नापि ब्रह्मात्मैकत्वानुभवः, तदुपायस्य श्रवणमननादेरभावात् ।
तदिदमाह -
पुत्रदेहादिबाधनात् ।
गौणात्मनोऽसत्त्वे पुत्रकलत्रादिबाधनम् । ममकाराभाव इति यावत् । मिथ्यात्मनोऽसत्त्वे देहेन्द्रियादिबाधनं श्रवणादिबाधनं च । ततश्च न केवलं लोकयात्रासमुच्छेदःसद्ब्रह्माहमित्येवंबोधशीलं यत्कार्यम् , अद्वैतसाक्षात्कार इति यावत् ।
तदपि
कथं भवेत् ।
कुतस्तदसम्भव इत्यत आह -
अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः ।
उपलक्षणं चैतत् । प्रमाप्रमेयप्रमाणविभाग इत्यपि द्रष्टव्यम् । एतदुक्तं भवति - एष हि विभागोऽद्वैतसाक्षात्कारकारणम् , ततो नियमेन प्राग्भावात् । तेन तदभावे कार्यं नोत्पद्यत इति ।
न च प्रमातुरात्मनोऽन्वेष्टव्य आत्मान्य इत्याह -
अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ।
उक्तं ग्रीवास्थग्रैवेयकनिदर्शनम् ।
स्यादेतत् । अप्रमाणात्कथं पारमार्थिकाद्वैतानुभवोत्पत्तिरित्यत आह -
देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं तु ।
अस्यावधिमाह -
आत्मनिश्चयात् ।
आब्रह्मस्वरूपसाक्षात्कारादित्यर्थः । एतदुक्तं भवति - पारमार्थिकप्रपञ्चवादिभिरपि देहादिष्वात्माभिमानो मिथ्येति वक्तव्यम् , प्रमाणबाधितत्वात् । तस्य च समस्तप्रमाणकारणत्वं भाविकलोकयात्रावाहित्वं चाभ्युपेयम् । सेयमस्माकमप्यद्वैतसाक्षात्कारे विधा भविष्यति । न चायमद्वैतसाक्षात्कारोऽप्यन्तःकरणवृत्तिभेद एकान्ततः परमार्थः । यस्तु साक्षात्कारो भाविकः, नासौ कार्यः, तस्य ब्रह्मस्वरूपत्वात् । अविद्या तु यद्यविद्यामुच्छिन्द्याज्जनयेद्वा, न तत्र काचिदनुपपत्तिः । तथा च श्रुतिः - “विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते”(ई. उ. ११) ॥ इति । तस्मात्सर्वमवदातम् ॥ ४ ॥
इति चतुःसूत्री समाप्ता ।
तत्तु समन्वयात्॥४॥ वेदान्ता ब्रह्मणि प्रमाणं न वेति सिद्धवस्तुबोधात्फलभावाभावाभ्यां सिद्धं रूपादिहीनं वस्तु बोधयतो वाक्यस्य मानान्तरसापेक्षत्वानपेक्षत्वाभ्यां वा संशये पूर्वाधिकरणद्वितीयवर्णकेनाक्षेपिकीं सङ्गतिमुक्त्वा पूर्वपक्षभाष्यं व्याचष्टे —
किमाक्षेप इत्यादिना ।
कथमिति थमुप्रत्ययान्तः किंशब्द आक्षेपे ।
जैमिनिसूत्रोपन्यासो न व्युत्थितसिद्धान्तिविश्रम्भायापि तु दृढपूर्वपक्षनिरासार्थं सिद्धान्तावश्यारम्भायेत्याह —
पारामर्षेति ।
अभिधेयाभावोऽनुभवविरोधान्न युक्तो वक्तुमित्याह —
आनर्थक्यं चेति ।
भाष्ये पौनरुक्त्यमाशङ्क्य संग्रहविवरणत्वमाह —
अत इत्यादीति ।
वाऽन्तमिति ।
उपासनादिक्रियान्तरविधानार्थत्वं वेत्येतदन्तमित्यर्थः ।
ननु किमिति वेदान्तानामर्थवादवद्विधिपदैकवाक्यता? मन्त्रवत्पार्थगर्थ्यमस्त्वित्याशङ्क्य तर्हि तद्वद्विधिभिर्वाक्यैकवाक्यता स्यादित्याह भाष्यकारः —
मन्त्राणां चेति ।
इषे त्वेत्यत्र छिनद्मीत्यध्याहाराच्छाखाच्छेदः क्रिया भाति, क्वचिच्चाग्निर्मूर्धेत्यादौ तत्साधनं देवतादीति । मन्त्राश्च श्रुत्यादिभिः क्रतौ विनियुक्ताः । ते किम् — उच्चारणमात्रेणादृष्टं कुर्वन्तः क्रतावुपकुर्वन्त्युत दृष्टेनैवार्थप्रकाशनेनेति संदेहः । तत्र न तावद् दृष्टार्थत्वमेव मन्त्राणां शक्यं वक्तुम्; उपायान्तरेणापि मन्त्रार्थस्य स्वाध्यायकालावगतस्य चिन्तादिना प्रयोगसमये स्मृतिसंभवात्तावन्मात्रार्थत्वे मन्त्राणां नित्यवदाम्नानवैयर्थ्यात् । अथ तु मन्त्रैरेवार्थप्रत्यायननियमाददृष्टं कल्प्येत, तदुच्चारणादेव कल्प्यतां; तस्य पुंव्यापारगोचरत्वात्स्वव्यापारे च पुरुषस्य नियोगात्तत्र च फलाकाङ्क्षणादिति प्रापय्य प्रमाणलक्षणे राद्धान्तितम् – ‘यस्य दृष्टं न लभ्येत तस्यादृष्टप्रकल्पना । लभ्यतेऽर्थस्मृतिर्दृष्टा मन्त्रोच्चारणतस्त्विह॥ अर्थस्मृतिः प्रयोगार्था प्रयोगाच्च फलोदयः । इति दृष्टार्थसंपत्तौ नादृष्टमिह कल्प्यते॥‘ यस्तु मन्त्रैरेव स्मर्तव्यमिति नियमस्तस्य न किंचिद्दृष्टमस्तीत्यदृष्टं कल्प्यते ।
तस्माद्दृष्टादृष्टार्था मन्त्र इति ।
उत्पत्तिविधेरिति ।
अधिकारविधितः प्रवृत्तिलाभादुत्पत्तिविधिरज्ञातकर्मस्वरूपबोधपर इत्यर्थः ।
अनागतेति ।
भावो भावना, तद्विषयः सर्वो विधिः । यतः स उत्पाद्यः, उत्पाद्यत्वे हेतुरनागतत्वम् । अधिकारः फलसंबन्धबोधनम् । विनियोगोऽत्र क्रियायाः फलशेषत्वज्ञापनम् । प्रयोगः अनुष्ठापनम् । कर्मस्वरूपज्ञानमुत्पत्तिः । फलसंबन्धः क्रियाया न शेषत्वमन्तरेण, तच्च नानुष्ठानं विना, अनुष्ठानं च नाज्ञाते इत्यविनाभावः । सिद्धं चेत्पुंव्यापारानपेक्षं फलमारभेत, सदाऽऽरभेतेति नाधिकारादिसंभव इत्यर्थः ।
सर्वेषामविनाभावे सर्वत्र चातूरूप्यमस्तीति कथमवान्तरभेदस्तत्राह —
तद्वाक्यानां त्विति ।
उदाहरति —
यथेति ।
सर्वविधिषूत्पत्त्यादयः प्रतीयन्ते, अग्निहोत्रं जुहुयादित्यत्राप्यग्निहोत्रेणेष्टं भावयेदित्यर्थः, नत्वग्निहोत्रस्य भाव्यत्वम् । अफलत्वात् । न चाग्निहोत्रस्वरूपसत्ता बोध्या; अभूद्भवति भविष्यतीत्यापत्तौ विध्युत्खातापातात् ।
तस्मादधिकारविधितः प्राप्तविनियोगाद्यनुवादेनोत्पत्तिर्विधिः स्वरूपपरो भवति, ब्रह्मणि तु भावनाभावादनुवाद्यस्यापि विनियोगादेरभावान्नोत्पत्तिविधिरित्याह —
तस्मादिति ।
विधिपरत्वे वेदान्तानां न केवलमनुवादत्वाभावः, अपि तु विपरीतार्थत्वं च न स्यात्, पक्षान्तरे तु स्यादित्याह —
एवंचेति ।
यादृशमिति ।
जीवाद्भिन्नमित्यर्थः । जीवे ब्रह्मदृष्ट्यारोपान्न भेदग्राहिप्रमाणविरोध इत्यर्थः ।
तदिति ।
सूत्रपदोक्तां सिद्धान्तपक्षप्रतिज्ञामित्यर्थः ।
सम्यगन्वय इति ।
तात्पर्यं सम्यक्त्वम् ।
ननु शास्त्रयोनित्वद्वितीयवर्णकाक्षेपसमाधानरूपमिदमधिकरणं , तत्र च ‘यतो वेति’ वाक्यमुदाहृतमिह किमिति तदुपेक्षितमत आह —
यतो वेति ।
तद्ब्रह्म सर्वज्ञमित्यादिभाष्ये यत इत्यादिवाक्यप्रमेयकीर्तनात्तत्प्रमाणं बुद्धिस्थं भवतीति नोदाहृतमित्यर्थः ।
वेदान्तानां ब्रह्मात्मैकत्वे उपक्रमोपसंहारैक्यं तात्पर्यलिङ्गं सदृष्टान्तमाह —
येनेति ।
भेदलक्षणे चिन्तितम् – ‘‘पौर्णमासीवदुपांशुयाजः स्यात्’’ । ‘‘जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ उपांशुयाजमन्तरा यजति, विष्णुरुपांशु यष्टव्योऽजामित्वाय प्रजापतिरुपांशु यष्टव्योऽजामित्वायाग्निषोमावुपांशु यष्टव्यावजामित्वायेति’’ श्रूयते । तत्रोपांशुयाजमन्तरा यजतीति किं समुदायानुवादः, उतापूर्वयागविधिरिति विशये यथाग्नेयादियागानां ‘य एवं विद्वान्पौर्णमासी यजते’ ‘य एवं विद्वानमावास्यां यजत’ इति समुदायानुवादौ । एवमिदमपि विष्ण्वादिवाक्यविहितयागानां समुदायानुवादः । तत्र हि विष्ण्वाद्या देवताः श्रूयन्ते । ‘‘सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्य’’ मिति ध्रौवाज्यद्रव्यसिद्धिः । तव्यप्रत्ययाश्च विधायकाः श्रूयन्ते । नत्वन्तरावाक्येऽस्ति द्रव्यदैवतं रूपम् । यजतीति च वर्तमानापदेशः । तदुक्तम् – ‘यागान्विष्ण्वादिसंयुक्तान्विहितान्रूपवत्तया । अरूपमन्तरावाक्यमगत्यैवावलम्बते॥‘ इति पूर्वपक्षः ।
एतदधिकरणसिद्धान्तमाह —
अनूचोरिति ।
निरन्तरयोराग्नेयाग्नीषोमीययोः पुरोडाशयोः करणे आलस्यं स्यादिति दोषं संकीर्त्य तदपनयार्थमुपांशुयाजमाज्यद्रव्यकं विधायानन्तरमजामित्वायेति तद्विधानलब्धं जामिता दोषसमाधानमुपसंहरति । अतः सार्थवादोपक्रमोपसंहारैकरूप्यादेकमिदं वाक्यम् । एकवाक्यता चोपांशुयाजविधौ लभ्यते नेतरत्रानेकयागविधाविति ।
ननु तव्यविहितयागानां समुदायानुवादोऽयमिति, तत्राह —
अपूर्वेति ।
तथाहि — यष्टव्य इति कर्मप्राधान्यं विष्ण्वादिवाक्ये प्रतीयते, यागस्तूपसर्जनम् । तत्र कर्मत्वमप्रधानीकृत्य यागप्राधान्यं लक्षणीयं, कर्मतया च देवतात्वं ततो गुरुतरा कल्पना । अन्तरावाक्ये तु श्रुतं यागप्राधान्यं विधिश्च पञ्चमलकाररूपः । यत्तु रूपाभाव इति तन्न; ध्रौवाज्यलाभात् । आग्नेयादीन्यागान्क्रमेणाम्नाय मन्त्रकाण्डे तत्क्रमेणैव याज्यानुवाक्या आम्नाताः, तत्रोपांशुयाजस्थाने वैष्णवप्राजापत्याग्नीषोमीयास्तिस्र ऋचः पठ्यन्ते; ताभिस्तुल्यार्थत्वेन विकल्प्यमानाभिर्विष्ण्वादिदैवतानां समर्पितत्वात् । तस्मादपूर्व उपांशुयाजो विधेयः । विष्ण्वादिवाक्यानि त्वर्थवादा । इत्थं महीयानुपांशुयाजो यदस्मिन्विष्ण्वादयो यष्टव्या इति ।
एवं वाक्यान्तराणामिति ।
ऎतरेयके – ‘‘आत्मा वा इदमेक एवे’’ त्युपक्रम्य ‘‘स एतमेव पुरुषं ब्रह्म ततमपश्य’’दिति ‘‘तमेव ब्रह्मात्मान’’मभिधाय समाप्तौ ‘‘प्रज्ञानं ब्रह्मे’’ त्युपसंहृतम् । वाजसनेयकेऽपि – ‘‘अहं ब्रह्मास्मीत्युपक्रम्य ‘‘ , ‘‘ अयमात्मा ब्रह्मे’’त्युपसंहृतम् । आथर्वणे – ‘‘ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति’’ सर्वात्मकं ब्रह्मोपक्रम्य ‘‘ब्रह्मैवेदममृतं पुरस्तादिति’’ तदेव निगमितम्॥
वेदान्ता यदि सिद्धवस्तुपरास्तर्हि मानान्तर सापेक्षाः स्युः पुंवाक्यवदिति पूर्ववाद्यभिमतस्य प्रसङ्गे हेतोः पौरुषेयत्वेन सोपाधिकत्वं भाष्यगतापिशब्देन द्योत्यत इत्याह —
अयमभिसंधिरिति ।
तस्यैवानैकान्तिकत्वमाह —
प्रत्यक्षादीनामपीति ।
वाक्यस्य सतः सिद्धवस्तुपरत्वे पौरुषेयत्वापत्तिरिति साधनव्याप्तिमुपाधेः शङ्कते —
यद्युच्येतेति ।
वाक्यत्वादि लिङ्गं यस्य तत्तथा ।
कार्यपरतायां हि वेदान्तानां न वाक्यत्वादिना सापेक्षत्वमनुमेयं, पौरुषेयत्वस्योपाधित्वात् एवं न च साधनव्याप्तिरित्याह —
कार्यार्थत्व इति ।
तत्त्वेन= याथात्म्येन ।
कार्ये मानान्तरायोग्यत्वस्यासिद्धत्वात्तत्परत्वेऽपि वेदान्तानां पौरुषेयत्वं संभवतीति समा साधनव्याप्तिः, तश्च दुरपवादं वाक्यत्वादिलिङ्गकं पौरुषेयत्वमित्याशयेनाह —
अत्र ब्रूम इत्यादिना ।
किं पुनरिति ।
कृतियोग्यस्य कार्यत्वे भावार्थस्यापि तत्त्वेन मानान्तरयोग्यत्वमित्यर्थः ।
तर्ह्यलौकिकं कार्यमिति शङ्कते —
अपूर्वमिति ।
तर्हि मानान्तरानवगते संगतिग्रहायोगाल्लिङ्गादीनामबोधकत्वापात इत्याह —
हन्तेति ।
ननु यजेतेति श्रुतेः कार्यता भात्यतोऽपूर्वसिद्धिरिति, तत्राह —
लोकानुसारत इति ।
स्वर्गकामपदसमभिव्याहारसंज्ञकतर्कानुगृहीतवेदादेव क्रियाविलक्षणापूर्वे लिङ्गादीनां संबन्धग्रह इति शङ्कते —
स्वर्गकाम इति ।
अयं तर्कोऽतिप्रसङ्गीत्याह —
चैत्येति ।
कर्तृस्मरणात्स्पृष्टदृष्टपौरुषेयत्वेन बुद्धादेवचैषामकार्यार्थत्वे वेदानामपि पौरुषेयत्वस्य वाक्यत्वादिनाऽनुमितत्वादकार्यार्थत्वं समानमित्यर्थः ।
स्मर्यमाणकर्तृकत्वेन वाक्यत्वादि सोपाधिकमित्याशङ्क्य सिद्धार्थवेदान्तेष्वपि तत्सममतः कार्यार्थत्वमनपेक्षतायामप्रयोजकमित्याह —
अन्यतस्त्विति ।
वर्तमानसंप्रयोगजप्रत्यक्षस्य कार्यरूपधर्मगोचरत्वानुपपत्तेर्योगसामर्थ्यस्यापीन्द्रियविषयेष्वेवातिशयकारित्वान्न धर्मस्य प्रत्यक्षता, लिङ्गाद्यभावाच्च नानुमेयत्वादि, नचाज्ञाते पुंसां वचनरचना संभविनीति वैदिकी रचना न पौरुषेयीति न्यायकणिकायां व्युत्पादितम् ।
नन्वपौरुषेयतयाऽनपेक्षत्वेप्यग्निर्हिमस्य भेषजमितिवन्मानान्तरगृहीतग्राहित्वमित्याशङ्क्य तत्त्वमसीति, ब्रह्मात्मभावस्येति भाष्यशेषेण परिहृतमित्याह —
न चानधिगतेति ।
सर्वस्मिन्नुपपादितेऽर्थे भाष्यं संवादयति —
तदिदमिति ।
सिद्धार्थत्वे सत्यपुरुषार्थनिष्ठत्वं स्यादिति द्वितीयपूर्वपक्षबीजम् ।
सर्वक्लेशप्रहाणादिति भाष्यस्थप्रशब्दार्थमाह —
सोऽ यमस्येति ।
बाह्यानुष्ठानानपेक्षमज्ञाननिवृत्त्यानन्दाविर्भावफलमन्वयव्यतिरेकिनिदर्शनयुगलद्वयप्रदर्शनपुरःसरं ब्रह्मज्ञानस्य दर्शयति —
एतदुक्तमित्यादिना ।
ग्रैवेयकं ग्रीवालङ्कारः ।
समूलघातमिति ।
कषादित्वादनुप्रयोगः । सह मूलेनोपहन्तीत्यर्थः ।
समारोपितनिबन्धन इति ।
समारोपिताऽविद्या निबन्धनं यस्य जीवभावस्य स तथोक्तः । आत्मानमेव लोकं=चैतन्यम् । देवता=सगुणं ब्रह्म । आदिशब्दात् प्राणविशुध्द्यादि गृह्यते ।
उपासनावाक्यैकदेशमुपास्यसमर्थकं विविनक्ति —
आत्मेतीति ।
यदवादि पूर्वपक्षिणा न क्वचिदपि वेदवाक्यानां विधिमन्तरेणार्थवत्तेति, तत्र किं यदि वेदान्ता विधिमन्तरेण प्रमाणं, तर्ह्यर्थवादाः किं न स्युरिति प्रतिबन्दी मता, अथवा वेदवाक्यस्य सिद्धपरस्यान्यत्रादर्शनाद्व्याप्त्यभावेन न वेदान्तानां सिद्धवस्तुपरत्वमिति ।
आद्यमर्थवादाधिकरणपूर्वपक्षं संगृह्णन्नाशङ्कते —
स्यादेतदित्यादिना ।
रुदतो यदश्रु अशीर्यत तद्रजतमभवत्तस्माद्रजतमदक्षिण्यमिति निन्दा ।
बर्हिषि बर्हिःसाध्ये यागे, रजतं न देयमिति निषेधशेष इति सिद्धान्तं दर्शयन्नर्थवादानां नोपेक्षाफलत्वमिति तावदाह —
स्वाध्यायेति ।
प्रयोजनपर्यवसायिबोधजनकत्वतदभावाभ्यां विशेषं दर्शयन्प्रतिबन्दीं परिहरति —
न च वेदान्तेभ्य इति ।
ननु निषेध एव स्वनिषेधस्यानर्थहेतुत्वान्यथानुपपत्त्या निन्दां कल्पयिष्यति, नेत्याह —
तद्यदीति ।
अर्थवादादेव निन्दालाभे निषेधकस्य निषेधे निन्दायां च तात्पर्तं न कल्प्यमित्यर्थः ।
ननु ‘सोऽरोदीदिति’ वाक्ये निन्दा न भाति, कितु भूतानुवाद इत्याशङ्क्य मुख्यार्थे प्रयोजनाभावान्निन्दा लक्ष्यत इत्याह —
लक्ष्यमाणेति ।
द्वितीयमुद्भाव्य निषेधति —
ननु विध्यसंस्पर्शिन इत्यादिना ।
तच्च स्वत इत्युपपादितं न्यायकणिकायामित्यर्थः ।
ननु प्रमायाः कार्येण प्रमाणानां तज्जनकत्वमनुमेयं, कथं नानुमानगम्यमिति भाष्यमित्याशङ्क्याह —
यद्यपीति ।
कार्यार्थापत्त्यपरपर्यायानुमानेन मानान्तरेण वा प्रमा नोत्पद्यते, किंतूदितायां तस्यामनुमानं प्रवर्तत इत्यर्थः । प्रमाणान्तरं तावदपेक्ष्यमाणं न दृश्यते ।
एतदर्थापत्त्यपेक्षणे दूषणमाह —
नापीति ।
अपेक्षत इत्यनुषङ्गः । उत्पन्नायां प्रमायां प्रमाणानां प्रमाजनकत्वस्यानुमानं, ततश्च प्रमोत्पत्तिरिति परस्पराश्रयप्रसङ्गः । शास्त्रप्रामाण्यमनुमानगम्यत्वेन न भवतीति च भाष्यार्थो न पुनरनुमानेन ज्ञेयमिति ।
कार्यविरहिवेदान्तेभ्यः प्रमा यद्युत्पद्यते, तदा स्वतः परतो वेति चिन्ता, ननूत्पद्यत इत्यत आह —
ईदृगिति ।
सिद्धे ब्रह्मणि वेदान्तेभ्यः प्रमोत्पत्तिरनुभवसिद्धेत्यर्थः ।
यद्यनुभवसिद्धाप्यन्यत्र सिद्धार्थार्थवादादावदर्शनादपहूयत, तदाऽतिप्रसङ्ग इत्याह —
अन्यथेति ।
एवं तावत्सिद्धेर्थेऽपि प्रमाणान्तरपरतन्त्राणां पौरुषेयवाक्यानामङ्गीकृत्य प्रामाण्यं वेदान्तेषु क्रियाविषयतामन्तरेण नैरपेक्ष्यपुरुषार्थपर्यवसाने न लभ्येते इति मतं, ब्रह्मात्मैक्यस्य प्रमाणान्तरागम्यत्वेन तदवगममात्रायत्तप्रयोजनलाभेन च पराणुदत् ।
इदानीं कार्यान्वितपदार्थे पदसङ्गतिग्रहेण सिद्धं वस्तु न शब्दप्रमेयमिति वेदान्तानुपासननियोगपरान् ये मन्यन्ते, तन्मतेन पूर्वपक्षमाह —
अज्ञातेति ।
अथवा आरोपितब्रह्मभावस्य जीवस्योपास्तिपरा वेदान्ता न ब्रह्मात्मत्वे प्रमाणमिति पूर्वः पक्षः ॥
‘अयं तु — सन्तु वेदान्ता मानं ब्रह्मात्मवस्तुनि । किंतु ज्ञानविधिद्वारेत्येष भेदः प्रतीयताम्॥‘ अतएव भाष्यं यद्यपि शास्त्रप्रमाणकं ब्रह्मेति । तत्र कार्यविषयाद्वाक्याद् ब्रह्मनिश्चय इति प्रतिज्ञासामर्थ्यादेव, न सिद्धार्थादिति लभ्यते ।
तत्र हेतुः —
सिद्धे वस्तुन्यज्ञातसङ्गतित्वेनेति ।
यत्र वृद्धप्रयुक्तशब्दविषयत्वं तत्र सङ्गतिः शब्दस्य गृह्यते, सिद्धेतु तद्व्यावर्तमानं स्वव्याप्यं सङ्गतिग्रहं व्यावर्तयतीत्यभिप्रेत्याह —
यत्र हीति ।
लोकेनेति ।
वृद्धेः प्रयोगव्यापकवक्तृविवक्षाश्रोतृप्रतिपत्तीच्छयोरभावात्सिद्धे प्रयोगाभावमाह —
नचेति ।
रूपमात्रं= वस्तुमात्रम् ।
सर्वपदानां कार्यार्थत्वे सति पर्यायत्वमाशङ्क्य —
तत्र किंचिदिति ।
कार्यार्थः= कार्यशेषः । अत्र प्रयोगः — गोपदं न कार्यानन्विते गोत्वे गृहीतसंबन्धं, तत्र वृद्धैरप्रयुक्तत्वात्, तुरगपदवत् ।
एवं सर्वत्र सिद्धे वस्तुन्युत्तमवृद्धस्य शब्दप्रयोगाभावमुक्त्वा मध्यमवृद्धप्रवृत्तेर्व्युत्पत्तिलिङ्गभूतायास्तत्राभावाच्च तत्र न व्युत्पत्तिरित्याह —
अपिचेति ।
शास्त्रत्वेनेत्यादिहेतून्व्याचष्टे —
अपिचेत्यादिना ।
न च रज्जुरिति ।
नकारोऽयं ‘सांसारिकधर्माणां न च निवृत्तिः’ इति उपरि सबन्धनीयः ।
यथाकथंचिदिति ।
सिद्धपदार्थसंसर्गस्य नियोगाविनाभावादिहापि मा भैषीरिति नियोगं कल्पयित्वाऽन्यपरादेव वाक्यात्सिद्धरूपार्थनिश्चय इत्यर्थः ।
किंत्विति ।
आत्मप्रतिपत्तिर्विषयोऽवच्छेदको यस्य तत्तथा ।
ननु नियोगोऽपूर्वमिति प्राभाकरैर्वाक्यार्थो वर्ण्यते, स किमन्य एव कार्यो नेत्याह —
तच्चेति ।
कार्यपरेभ्यो वेदान्तेभ्यः कथं वस्तुसिद्धिरित्याशङ्क्य विध्याक्षेपलक्षणोपादानप्रमाणादित्याह —
नचेति ।
स्वप्रतीत्युपाधित्वेन विषयस्य, स्वनिर्वर्तकत्वेन करणस्य, कार्यं स्वावच्छेदकज्ञाननिरूपणाय ज्ञायमानमात्मानमपेक्षते चेत्तर्हि न श्रौतत्वमात्मन इत्याशङ्क्य विध्याक्षिप्तस्य श्रौतत्वे गुरुसंमतिमाह —
यथाहुरिति ।
तत्सिद्ध्यर्थं= विधेयसिद्ध्यर्थम् ।
उपादीयते इत्यस्य व्याख्यानम् —
आक्षिप्यते इति ।
ज्ञानस्य प्रमात्वात्प्रत्यक्षवन्न विधेयता, आत्मनश्च नित्यत्वात्तदयोग इत्याशङ्क्याह —
विधेयता चेति ।
ज्ञानमिहोपासनं तच्च क्रियेत्यनुष्ठेयम् । आत्मनस्तु स्वरूपसत्ताविनिश्चितिरज्ञातज्ञाप्तिर्विधेयतेति न विरोध इत्यर्थः ।
ननु वाग्धेनूपास्त्यादाविचारोप्यस्य विधेयधीविषयत्वं किं न स्यादत आह —
आरोपितेति ।
ब्रह्मास्मीति ज्ञाने यादृगर्थो भाति तद्भाव आरोपितो यस्य स तथा । तस्यान्यस्य ज्ञाननिरूपकत्वे तेन प्रतिभासमानार्थेन तज्ज्ञानं निरूपितं न स्यात् । न च सत्यां गतौ युक्त आरोप इति । इयचं प्रतिपत्तिविधिविषयतयेति भाष्यस्य व्याख्या । प्रतिपत्तिविधेर्नियोगस्य विषयभूतप्रतिपत्तिं प्रत्यवच्छेदकत्वेन विषयतयेति भाष्यार्थः ।
एवमाहवनीयादयोऽ पीति ।
‘यदाहवनीये जुह्वती’ति विहिते क आहवनीय इति वीक्षायां ‘वसन्ते ब्राह्मणोऽग्नीनादधीते’त्यादिविधिभिः संस्कारविशिष्टोऽग्निराहवनीयो गम्यते, तथाऽपूर्वदेवतास्वर्गादिकं विधिपरेणैव शास्त्रेण समर्थ्यते ।
श्लोकोक्तहेतुद्वयं भाष्येण सङ्गमयति —
प्रवृत्तिनिवृत्तिपरस्येति ।
‘तद्भूतानाम्’ (जै.अ.१.पा.१.सू,२५) इति सूत्रोदाहरणेन कार्यान्वितेऽर्थे शब्दसङ्गतिर्न सिद्ध इत्युक्तम् । ‘आम्नायस्य’ (जै.अ.१.पा.२.सू.१५) इत्येतद्विहायेतरवाक्यैः प्रवृत्त्यादिपरस्य शास्त्रत्वमुक्तम् ।तेन तु सिद्धरूपपरस्य न शास्त्रत्वमुक्तम् । तस्य वेदस्य, कर्मावबोधो नियोगज्ञानं दृष्टं प्रयोजनं । चोदनासूत्रे (जै.अ.१.पा.१.सू.२) चोदनेति शब्देन क्रियाया नियोगस्यानुष्ठापकं वचनमाहुरिति । तत्तेश्च पदार्थेषु भूतानां वर्तमानानां क्रिया कार्यं, तदर्थत्वेन समाम्नायः समुच्चारणमित्यर्थः ।
नचेति ।
नियोगस्य स्वकीयत्वेन बोद्धारं नियोज्यम् अधिकारणं कर्मणि स्वामिनं, तत्रैव कर्तारम् अनुष्ठातारम् इति । नियोज्यभेदो नियोज्यविशेषः ।
अमृतत्वकाम इति अश्रवणान्नियोज्यसिद्धिमाशङ्क्याह —
ब्रह्मवेदेति ।
भवतीति सिद्धरूपेणावगतस्य फलस्य साध्यत्वाभिव्यक्त्यर्थम्, एवंकामशब्दवाच्यनियोज्यविशेषाकाङ्क्षायां विपरिणामेन ब्रह्म बुभूषुर्विद्यादिति वाक्यार्थः स्यादित्यर्थः॥
रात्रिसत्रेति ।
चतुर्थे चिन्तितम् – ‘क्रतौ फलार्थवादमङ्गवत्कार्ष्णाजिनिः’ (जै.अ.४.पा.३.सू.१७) । प्रतितिष्ठन्ति ह वा ए एता रात्रीरुपयन्ती’ति श्रूयते । तत्र रात्रशब्देनायुर्ज्योतिरित्यादिवाव्यविहिताः सोमयागविशेषा उच्यन्ते । किमत्र स्वर्ग एवाधिकारिविशेषणमुत प्रतिष्ठेति संशयः । तत्रैवंकाम इत्यश्रवणाद्विधिशक्तिलभ्यः स्वर्ग एव विशेषणं, संदेहे हि वाक्यशेषस्वीकारः, न निश्चये । निश्चितश्चेह सर्वाभिलषितः स्वर्गो विधिसामर्थ्यान्नियोज्यविशेषणम् । या तु प्रतिष्ठाविषया श्रुतिः साऽपि लक्षणया स्वर्गपरैव कल्प्यत इति प्राप्तं । क्रतौ रात्रिसत्रादौ न प्रतिष्ठादि विवक्षितमित्येतावन्मात्रेणाङ्गवदिति सूत्रे प्रायाजाद्यङ्गफलार्थवादोदाहरणं, ननु तद्वत्पदार्थत्वमस्ति रात्रिसत्राणाम् । एवं प्राप्ते — उच्यते; ‘फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्’ (जै.अ.४.पा.३.सू.१८) प्रतिष्ठाफलस्य निर्देशात्तदेवाधिकारिविशेषणम् । यत्तु विधिशक्त्या स्वर्ग इति । तन्न; मुख्यार्थश्रुतिपदानुगुण्येन विधिशक्तौ पर्यवसितायामानुमानिकस्वर्गकल्पनाऽनवकाशात् ।
तस्माद्वाक्यशेषस्थमेव फलमिति ।
विश्वजिन्न्यायेनेति वक्तव्ये विश्वजिति नैमित्तिकाधिकारे फलकल्पना कृत्वाचिन्तयेति पिण्डपितृयज्ञः स्थिरोदाहरणत्वेनोदाहृतः ।
असमवेतार्थतयेति ।
अश्रूयमाणत्वेन ब्रह्मभवनशब्देनासमवेतः स्वर्गोऽ र्थस्तत्परतयेत्यर्थः । यद्यपि ब्रह्मभवनस्य फलत्वेऽप्येवंकाम इति लक्षणाऽस्तीति परोक्षवृत्तिता तुल्या; तथापि श्रुतं ब्रह्मभवनं न हीयते, हीयते तु पूर्वपक्षे ।
तदिदमुक्तम् —
अत्यन्तेति ।
पिण्डपितृयज्ञन्यायो ऽनुक्रम्यते । चतुर्थे एवं निरणायि – “पितृयज्ञः स्वकालत्वादनङ्गं स्यात्’ । (जै.अ.४.पा.४.सू.१९) ‘अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ती’त्यत्रानारभ्याधीतवाक्ये श्रुतः पिण्डपितृयज्ञः क्रत्वर्थः पुरुषार्था वेति संशये कर्मवाच्यमावास्याशब्दसमभिव्याहारात्तदङ्गत्वम् । यद्यपि कालस्यापि साधारणोऽयं शब्दः; तथापि फलकल्पनापरिहाराय कर्मवाच्येव अतः क्रत्वर्थ इति प्राप्ते — सिद्धान्तः; कालकर्मसाधारणोऽप्यमावास्याशब्दोऽपराह्णशब्दसमानाधिकृत इह कालपर एव । न च साधारण्यम्; काले रूढत्वात्कर्मणि च तत्संबन्धेन लाक्षणिकत्वात् । तस्मात्कर्मसमभिव्याहाराभावाद्विश्वजिन्न्यायेन (जै.अ.४.पा.३ सू.१५) स्वर्गकामनियोज्यकल्पनया स्वर्गफलः पिण्डपितृयज्ञ इति ।
ननु ज्ञानविधिर्यदि ब्रह्मभावफलः, कथं तर्हि भाष्येऽमृतत्वकामस्येत्युक्तं? तत्राह —
ब्रह्मभावश्चेति ।
अमृतत्वशब्देन ब्रह्मभावनिर्देशस्य प्रयोजनमाह —
अमृतत्वं चेति ।
अत्र भाष्यकारेण ब्रह्मज्ञानं विधेयमिति निर्देशाद्, द्रष्टव्य इति विध्युदाहृतेश्च प्रमाणज्ञानविध्यङ्गीकारेण पूर्वपक्ष इति भ्रमः स्यात्, तन्निवर्तयति —
अत्रचेत्यादिना ।
दृशेरिति ।
द्रष्टव्य इति वाक्योपात्तदृशिधातोरुपलब्धिवचनत्वेनोपासनाऽ नभिधायकत्वादित्यर्थः । स्वाध्यायविधेरर्थावबोधपर्यन्तत्वात्तेनैव श्रवणजन्यज्ञानस्य प्रापितत्वादित्यर्थः । भावनया विधेयं जन्यं वैशद्यं यस्य तत्प्रत्यक्षं तथा ।
वाजिनवदिति ।
यथाऽमिक्षार्थविहितदध्यानयनाद्वाजिनमप्रयोजकमानुषङ्गीकतया जायते, एवमदृष्टरूपामृतत्वाय विहितादुपासनात्साक्षात्कारो नान्तरीयकतया जायत इति तदुत्पादनं न विधेयमित्यर्थः । चतुर्थे स्थितम् – ‘एकनिष्पत्तेः सर्वं समं स्यात्’ (जै.अ.४.पा.१.सू.२२) ‘‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति’’ श्रूयते । तत्र संशयः । किमामिक्षैव दध्यानयनं प्रयुञ्जीतेति वाजिनमपीति । तत्रैकस्माद्दध्यानयनात्पयसः सकाशादामिक्षावाजिनयोर्निष्पत्तेः सर्वमामिक्षादि प्रयोजकं स्यादिति प्राप्ते — सिद्धान्तः, ‘संसर्गरसनिष्पत्तेरामिक्षा वा प्रधानं स्यात्’(जै.अ.४.पा.१.सू.२३) । अत्र हि दधिसंसृष्टं पय एव प्रकृतं देवतासबन्धि निर्दिश्यते सा वैश्वदेवीति, न पुनस्ततो निष्पन्नं किंचित्, तत्र नयतेर्द्विकर्मकत्वाद्यत्प्रति दध्यानीयते तत्पयआनयनस्य संस्कार्यम् । संस्कार्यमेव प्रयोजकम् । संस्कृतस्य च पयस आमिक्षात्वात् तस्याश्च स्त्रीत्वास्त्रीलिङ्गमविरुद्धम् । ननु यदि दधिसंस्कृतं पय एव रूपभेदेऽप्यामिक्षा भूत्वा दध्यानयनं प्रयुञ्जीत, तर्हि वाजिनमपि दधिसंयुक्तं पय एवेति किं न प्रयुञ्जीत । नेत्युच्यते, संसर्गरसनिष्पत्तेः; दधिसंसृष्टस्य पयसो यो रसः तस्यामिक्षायामुपलम्भात्, रूपभेदेऽपि तस्यामस्ति संसृष्टं पय इत्यनुमीयते; रूपाभेदेऽपि तक्रपयसोरिव रसभेदोपलम्भात् न वाजिनेन ; तस्य कटुतिक्तरसत्वादिति ।
हेतुद्वयविवरणेन पूर्वकृतेनोत्तरग्रन्थस्य व्याख्यातत्वमाह —
अर्थवत्तयेति ।
‘वेदान्ता यद्युपासां विदधति, विधिसंशोधिमीमांसयैव प्राच्या तर्हीरितार्था इति विफलमिदं ब्रह्मजिज्ञासनं स्यात् ।
अप्यत्युच्चातिनीचो जनिमृतिभयभाग्वैधधीसाध्यमोक्षः कर्मोत्थैः स्वर्गपश्वाद्यतिमधुरफलैः कोऽपराधः कृतो नः॥‘ वेदान्ता यद्युपासनाविधिपराः, तर्हि विहितोपासनायाः पक्षमासादिकालमिततया तत्साध्यफलमपि सातिशयमनित्यं च स्यादतो न विधिपरत्वं वेदान्तानामिति तात्पर्यम् अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्यन्तस्य भाष्यस्य दर्शयति —
पुण्यापुण्येत्यादिना ।
भाष्ये यद्विषया जिज्ञासेति धर्मस्य प्राचि तन्त्रे विचारितत्वोक्तिरुपास्तेरपि विहिताया धर्मत्वेन पुनरविचार्यत्वाय । अधर्मोऽपीत्यदर्मोक्तिः पुण्यफलभोगावसान इवोपास्तिफलभोगसमाप्तावधर्मफलं भोक्तव्यमिति दर्शनाय । चोदनालक्षणत्वोक्तिर्यागवद्विहितोपास्तेर्धर्मत्वार्थम् । एवं शरीरवागित्यादिविशेषणानि कर्मफलवदुपास्तिफलस्य शरीरोपभोग्यत्वादि प्रसञ्जयितुम् । संपत्त्यनेनास्माल्लोकादमुं लोकमिति संपातः कर्म । इष्टं श्रौतम् । पूर्तं स्मार्तं वाप्यादि ।
दत्तं दानमिति ।
आत्यन्तिकमिति ।
देवदत्तस्यात्यन्तिकमशरीरत्वं देवदत्तशरीरप्रागभावासमानकालीनो देवदत्तशरीरध्वंसः, सर्वोपाधिप्रत्यस्तमयोपलक्षितं स्वरूपमिति यावत् ।
विधेयोपास्तिवादिनं प्रति तत्फलस्य मोक्षस्यानित्यत्वादिप्रसञ्जनमिष्टप्रसङ्ग इत्याशङ्क्याह —
एतदुक्तमिति ।
उपास्तिविधेः फलं ब्रह्मात्मत्वमुताविद्यानिवृत्तिर्विद्योदयो वेति विकल्प्य क्रमेण निराकरोति —
त्वयापीत्यादिना ।
उपासनाऽपूर्वमपि चेतःसहकार्यतश्च विध्यवकाश इत्यर्थः ।
ऎहिकस्य मर्दनसुखवन्न विधिफलत्वमित्याशङ्क्याह —
दृष्टं चेति ।
कारीर्यादिनियोगा इह जन्मनि नियतसस्यर्ध्द्यादिफलाः, चित्रादिनियोगफलं पश्वादि भुवि भोग्यमपीह वा जन्मान्तरे वा भवति ।
तत्कार्यमिति ।
तदपूर्वकर्तव्यत्वेनावबोद्धं नार्हतीत्यर्थः ।
अपूर्वं चेन्न साक्षात्कारोपयोगि, तर्ह्युपासनक्रियैव तदर्थं विधीयतां, नेत्याह —
न च तत्काम इति ।
नन्ववघातवदुपास्तावप्यस्तु नियमापूर्वं, नेत्याह —
न च ब्रह्मभूयादिति ।
नेह परमापूर्ववन्नियमापूर्वसाध्यमस्ति; ब्रह्मभावस्य नित्यत्वादित्यर्थः ।
विश्वजिन्न्यायेनेति ।
‘विश्वजिता यजेते’त्याद्यश्रुताधिकारं लिङ्गप्रकरणालब्धाधिकारं चोदाहरणम् । निषेधे हि सामर्थ्यात्प्रवृत्तिक्रियोऽधिकारी लभ्यते, अङ्गविधिषु तु प्रकरणादिति न चिन्त्योऽधिकारः । एवं सतीह संदेहः किं नियोज्योऽध्याह्रियतां न वेति । तत्र लोके द्वारं द्वारमित्यादौ क्रियया विना कारकाभिधानापर्यवसानाद्युक्तोऽध्याहारः । इह तु विषयेण कार्यस्यान्विताभिधानपर्यवसानादनध्याहारे प्राप्ते, उच्यते; अत्राप्यभिधेयापर्यवसानद्वाराभिधानापर्यवसानमेव । कार्यं हि साध्यत्वेन कृतिनिरूप्यम् । नरव्यापाररूपा च कृतिः, सा च यथा स्वसाध्यधात्वर्थनिरूप्यैवं स्वाश्रयनरनिरूप्या । तदेवं कृतेः कर्तापि कार्ये कृतिद्वारा संबन्धित्वेन निरूपक इति तमन्तर्भाव्यैव नियोगधीः । नचासावबुद्ध्वाऽऽत्मनः कार्येण संबन्धं स्वतस्तेन संबध्यते । स्वसंबन्धिकार्यबोद्धा च नियोज्य इति सोऽध्याहार्य इति स्थिते चिन्ता — किं सर्वेषामध्याहारः, उत एकस्येति । तत्राविशेषात्सर्वेषामिति प्राप्ते — उच्यते; एकेनाकाङ्क्षाशान्तेरेकस्येति । एवं स्थिते विचारः किं यस्य कस्यचिन्नियोज्यस्याध्याहारः, उत स्वर्गकामस्येति । तत्राविशेषादनियम इति प्राप्ते — उच्यते; ‘स स्वर्गः स्यात्सर्वात्प्रत्यविशिष्टत्वात्’ । (जै.अ.४.पा.३. सू.१५) स्वर्गकाम एवाध्याहार्यः । विशेषो हि गम्यते, पुरुषाणां सुखाभिलाषित्वात् ।दुःखनिवृत्तेरपि तत्रैवान्तर्भावात् । दुःखनिवृत्तिस्तु न सुखाविनाभूता । सुषुप्ते सत्यामपि तस्यां सुखजन्मादर्शनात्, अनवच्छिन्नस्य सुखस्य स्वर्गत्वात्तस्य च सर्वसुखविशेषात् प्रत्यविशिष्टत्वाद्विशेषे च मानाभावात्स्वर्ग एव नियोज्यविशेषणं स्यादिति । कृत्वाचिन्तेयम् । यः सत्रायावगुरेत्स विश्वजिता यजेतेति सत्रप्रवृत्तस्यावगुरणोपरमे निमित्ते प्रायश्चित्ततया विहितत्वेन साधिकारत्वादिति ।यत्किलेति ।
स्वाभाविकनित्यचैतन्यात्मकस्य ब्रह्मात्मत्वस्य साध्यत्वं व्याहतमित्यर्थः ।
भाष्ये कूटस्थनित्यमिति विशेषणं न परिणामिव्यवच्छेदाय, सिद्धान्ते तन्नित्यत्वासंमते; अतो वैयर्थ्यमित्याशङ्क्याह —
परे हीति ।
परभ्रान्तिर्व्यवच्छेद्येत्यर्थः ।
इदं तु पारमार्थिकमिति भाष्ये कूटस्थनित्यत्वे पारमार्थिकत्वं हेतूकृतं, तत्तदा घटेत, यदि यत्पारमार्थिकं तदविकृतमिति व्याप्तिः स्यात्, तदर्थं परिणामिनित्यस्य भ्रमसिद्धत्वमाह —
परिणामीति ।
परिणामो हि पूर्वरूपत्यागेन रूपान्तरापत्तिः ।
तत्र पूर्वरूपस्य सर्वात्मना त्यागेन रूपान्तरोत्पत्तौ जातस्य प्राक्तनरूपत्वं व्याहृतमतोऽनित्यत्वमित्युक्ते शङ्कते —
एकदेशेति ।
य एकदेशो नश्यति स धर्मिणः सकाशाद्भिन्न इति पक्षे न धर्मिणः परिणामः, किंत्वेकदेशस्य स चानित्य इति न परिणामिनित्यत्वसिद्दिरित्याह —
भिन्नश्चेदिति ।
नश्यतश्चैकदेशस्य धर्म्यभेदे सर्वात्मना वस्त्वपगमान्न नित्यत्वमित्याह —
अभेदे इति ।
पक्षद्वयोक्तदोषपरिहारायैकमेव कार्यकारणात्मकं वस्तु तस्य कार्याकारेण परिणामित्वं, तानि च कार्याणि भिन्नानि, कारणाकारेण च नित्यत्वं तच्चाभिन्नमिति शङ्कते —
भिन्नाभिन्नमिति ।
यत्प्रामाणविपर्ययेण विरोधेन वर्तते तत्र विरुद्धमिति संप्रत्यय इत्यनुषङ्गः ।
एकस्य कार्यकारणरूपेण द्व्यात्मकत्वे प्रमाणमाह —
कुण्डलमिति ।
द्विरवभासेति ।
हेम हेमेति वा कुण्डलं कुण्डलमिति वेत्यर्थः ।
अपार्यायानेकशब्दवाच्यत्वेन हेमकुण्डलयोर्भेदः सामानाधिकरण्याच्चाभेद इत्युक्ते हेमत्वस्य कुण्डलव्यक्त्यायाश्रितत्वाद्वा कुण्डलाकारसंस्थानस्य कनकत्वस्य चैकद्रव्याश्रितत्वेन वा सामानाधिकरण्यं नाभेदादित्याशङ्क्य व्यभिचारयति —
आधारेति ।
आधारेति दृष्टान्ते सिद्धौ भेदाभेदौ दार्ष्टान्तिके योजयति —
तथाचेति ।
लोके कार्यस्य कुण्डलादेः कारणात्मकत्वात्परमकारणस्य च सतः सर्वत्र हेमवदनुगमात् सन् घट इत्यादिसामानाधिकरण्यवशेन जगतः कार्यस्य सत्ता कारणरूपेणाभेदो व्यावृत्तकार्यरूपेण च भेद इत्यर्थः ।
भेद इति ।
किं रूपादिवद्भावरूपो धर्मः , उतैक्याभावः । नाद्यः; ऎकान्तिकाभेदानिषेधात् ।
द्वितीयमाशङ्क्याह —
किमयं कार्येति ।
तत्त्वेनेति ।
कटकत्ववर्धमानकत्वरूपेण तयोरितरेतराभेदप्रसङ्ग इत्यर्थः ।
कार्यस्य कारणाभेदे च सर्वकार्याणामेककार्यात्मकत्वप्रसङ्गः ; एककार्यस्य सर्वकार्याभिन्नेन कारणेनाभेदादित्याह —
अपिचेति ।
एवमेककार्यात्मकत्वादितरकार्याणां तस्य च कारणादभेदाद्भेदासिद्दावैकान्तिकाद्वैतापात इत्याह —
तथाच हाटकत्वमेवेति ।
कटकस्य हि द्वे रूपे स्तो हाटकत्वं कटकत्वं च ।
तत्र हाटकरूपेणास्य कुण्डलादिभिरभेद इष्ट एव, न कटकरूपेण; व्यावृत्तत्वात्तस्येति प्रस्मृतपराभिसंधिः स्वप्रक्रियया शङ्कते —
अथेति ।
सिद्धान्ती तु कटकहाटकयोरभेदाद्धाटकस्य कुण्डलादिष्वनुवृत्तेरभेदे कटकस्यापि तैरभेदः स्यादिति पूर्वोक्तमेव परिहारं स्मारयति —
यदि हाटकादिति ।
कटकस्य कुण्डलादिष्वनुवृत्त्यनभ्युपगमे तेष्वनुवृत्तहाटकादभेदभावः स्यादिति प्रतिजानीते नानुवर्तते चेदिति ।
अनुवृत्ताद्व्यावृत्तस्य भेदे व्याप्तिमाह —
येहीति ।
उपनयमाह —
नानुवर्तन्ते इति ।
अर्थाद्धेतुसिद्धिर्द्रष्टव्या ।
निगमयति —
तस्मादिति ।
कुण्डलादिषु हेमानुवृत्त्या यदि तदभेदात्कटकादीनामनुगमः; तदा सत्तानुवृत्त्या सर्ववस्तूनामितरेतराभेदापत्तेर्व्यवहारपरिप्लव इत्याह —
सत्तेति ।
इति विभागो न स्याद् इत्यस्य प्रत्येकं संबन्धः । इह क्षीरे इदं दधि नेदं तैलमिति संसर्गतदभावव्यवस्था न स्यात् । इदं पटादिकमस्मात्कुड्याद्भिद्यते इदं कुड्यमस्मात्कुड्यान्न भिद्यते इत्यसंकरो न स्यात् । इदानीं वसन्ते काले इदं कोकिलरुतमस्ति इदमम्बुदध्वानं नेति व्यवस्था न स्यात् । इदं कुम्भादि एवं कम्बुग्रीवत्वादिप्रकारमिदं पटादि नैवमिति प्रकारासङ्करो न स्यादित्यर्थः ।
उक्तास्ववस्थासु हेतुमाह —
कस्यचिदिति ।
कुतश्चिदित्यपि द्रष्टव्यम् ।
इतश्च कार्यस्य कारणेन न वास्तवमैक्यमित्याह —
अपिचेति ।
निश्चितकनकादभेदान्न कुण्डलादिषु संशय इत्युक्ते संशयसंभवं भेदप्रयुक्त्या शङ्कते —
अथेति ।
सिद्धान्त्यविनिगममाह —
नन्विति ।
हेमनिर्णयेन कटकादीनां निर्णये तदभेदः कारणं, तदभावाद्भेदरूपान्निर्णयकार्याभाव औत्सर्गिकः प्राप्तः, स कारणस्याभेदस्य भावादपोद्यते, घटसामग्रीत इव तत्प्रागभावस्ततः कनकनिश्चये कटकादिनिश्चयादविनिगम एव न, किंतु वैपरीत्यनिश्चय इत्याह —
प्रत्युतेति ।
तेषां कुण्डलादीनां जिज्ञासा तद्विषयज्ञानानि चेत्यर्थः । वस्तुतः कार्यकारणयोरभेदाभावं सप्रमाणकमुपसंहरति ।
तेनेति ।
यदि हेमकुण्डलयोर्न भेदाभेदौ, तर्हि सामानाधिकरण्यं न स्यात्, नह्यत्यन्तभेदे तद्भवति; कुण्डलकटकयोरदर्शनात् ।
नाप्यत्यन्ताभेदे; हेम हेमेत्यनुपलंभादिति पूर्ववाद्युक्तमनुवदति —
कथं तर्हीति ।
यदि हेम्नः सकाशात् कुण्डलादीनां भेदाभेदौ, तर्हि तेषामनुवृत्तहेम्नः सकाशाद् अभेदादितरेतरव्यावृत्तिर्न स्यान्न हेम्नि निर्णीते संशय इति प्रतितर्केण मिथो विरोधाख्येन सामानाधिकरण्यानुपपत्तितर्कं दूषयति —
अथेति ।
अत्यन्ताभेदे मा नामोपपादि हेमादेरनुवृत्तिव्यावृत्तिव्यवस्था, माच घटिष्ट हेम्नि ज्ञाते कुण्डलादिजिज्ञासा, भेदाभेदमते ते किं न स्याताम् , इत्याशङ्क्य पूर्वोक्तमविनिगममुत्सर्गापवादं च स्मारयति —
अनैकान्तिके चेति ।
एवं निरुद्धे ऽनेकान्तवादिनि स्वमतेन सामानाधिकरण्यमुपपादयति —
तस्मादिति ।
विरोधादन्यतरबाधेऽप्यभेदो बाध्य इति सौगतमतमाशङ्क्याह —
अभेदोपादानेति ।
भेदः किं धर्मिप्रत्तियोगिनोर्व्यासज्य वर्तते, उत प्रतियोगिनमपेक्ष्य धर्मिण्येव ।
आद्ये धर्मिप्रतियोगिनोः प्रत्येकवर्त्येकत्वापेक्षेत्युक्त्वा द्वितीये धर्म्यैक्यापेक्षेत्याह —
एकाभावे चेति ।
ततः स्वसत्तायामभेदापेक्षत्वाद्भेदस्य स एवाभेदेऽध्यस्त इत्यर्थः ।
प्रतीतावपि भेदस्यैवाभेदापेक्षेत्याह —
नायमिति ।
‘मृत्तिकेति’ श्रुतिः, कारणमेव सत्यमित्याह अतः —
अत्यन्ता भेदपरेति ।
अनंशत्वमाकारभेदराहित्यम् । नित्यतृप्तत्वादीनि श्रुत्युक्तान्येन भाष्येऽनूदितानीति नासिद्धानि; कार्यविलक्षणानधिगतविषयलाभात् स्वमते शास्त्रपृथक्त्वसिद्धिः अतस्तद्ब्रह्मेति भाष्ये उक्ता ।
प्राग्विमोक्षनित्यत्वान्नियोगायोग उक्तः, इदानीं तत्साधनज्ञानस्य केवलदृष्टार्थत्वाच्च स उच्यत इत्याह —
तदेवमित्यादिना ।
उपपाद्य इत्यस्य निवारिका इत्याह इत्यनेन संबन्धः ।
एवं फलस्वभावेन नियोगाभावमुक्त्वा फलिज्ञानस्वभावेनाप्युच्यत इत्याह —
अविद्याद्वयेति ।
स्वत इति ।
विहितक्रियारूपेणेत्यर्थः । न्यायसूत्रे — दोषो रागादिः । प्रवृत्तिः कर्म ।
आरोप्यत्वसाम्येऽप्यध्यासात्सम्पदो भेदमाह —
मन इति ।
आरोप्यप्रधाना संपत्, अधिष्ठानप्रधानोऽध्यासः । अरोपितस्तद्भावो ब्रह्मादिभावो यस्य तन्मनआदि तथा । वह्नादीनि । इत्यादिशब्दात्सूर्यचन्द्रादयो गृह्यन्ते ।
वागादीनिति ।
चक्षुःश्रोत्रमनांसि संवृज्य उद्यम्य लयं गमयितुं चालयित्वेत्यर्थः ।
संवरणादिति ।
उद्यमनादित्यर्थः । यो हि यदुद्यच्छति तत्स्ववशतया संवृणोतीति ।
सात्मीभावादिति ।
साम्येन कारणात्मत्वोपगमनादित्यर्थः । यद्यपि श्रुतौ स्वापे प्राणः संवर्ग उक्तः; तथापि न्यायसाम्याल्लयस्य चात्र प्रकटत्वात्प्रायणमुदाहृतम् ।
अग्न्यादेरुपलक्षणत्वात्सर्वाश्रयत्वं वायुप्राणयोरुपास्यमित्याह —
सेयमिति ।
दशाशागतं दशदिग्गतम् ।
संवर्गदृष्टान्तं निगमयति —
यथेति ।
दार्ष्टान्तिकमाह —
एवमिति ।
बृंहणक्रियया देहादिपरिणमनक्रियया ।
आत्मदर्शनोपासनादय इति ।
दर्शनं प्रमितिः । एतच्च प्रमाणज्ञानं विधेयमिति मतमवलम्ब्योक्तम् आदिशब्दो दृष्टान्तभूतमन आद्युपास्त्यर्थः ।
स्तुतशस्त्रवदिति ।
भेदलक्षणेऽभिदधे — स्तुतशस्त्रयोस्तु संस्कारो वाज्यावद्देवताभिधानत्वात् (जै.अ.२.पा.१.सू.१३) ‘आज्यैः स्तुवते’ ‘प्रउगं शंसतीति’ स्तुतशस्त्रे समाम्नाते । आज्यप्रउगशब्दौ स्तोत्रशस्त्रविशेषनामनी । प्रगीतमन्त्रसाध्यं देवतादिगुणसंबन्धाभिधानं स्तोत्रम् । शस्त्रमप्रगीतमन्त्रसाध्यम् । ते किं देवताप्रकाशनाख्यसंस्कारार्थत्वेन गुणकर्मणी, उतापूर्वार्थत्वेन प्रधानकर्मणी इति संदेहे, गुणसंबन्धाभिधानाद्गुणिन्या देवताया अभिधानेन याज्यावत्क्रतूपयोगिदेवतास्मरणस्य दृष्टत्वाद्गुणकर्मत्वे प्राप्ते — सिद्धान्तः; ‘अपि वा स्तुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम्‘ (जै.अ.२.पा.१.सू.२४) स्तुतिरिह विहिता श्रूयते ‘स्तौति’ ‘संसतीति’ । स्तुतिश्च गुणाभिधानेन स्वरूपप्रकाशनम् । यथा विशालवक्षाः क्षत्रिययुवेति । यत्राभिधानविवक्षा न तत्र स्तुतिं प्रतीमो, यथा यो विशालवक्षास्तमानयेति । तस्मात् स्तौतिशंसती श्रौतार्थलाभाय प्रकरणे अपूर्वोत्पत्तिं प्रति स्तोत्रशस्त्रे विदध्यातामिति । एवमिहात्मोपासनं प्रधानकर्म आत्मा भूतो भव्यशेष इति । अवेक्षितमिति निष्ठया आज्ये कर्मण्यवेक्षणं गुणीकृतम् ।
भाव्युपयोगमाज्यस्याह —
दर्शपूर्णमासेति ।
पूषानुमन्त्रणमन्त्रवदुत्कर्षं वारयति —
प्रकरणिना चेति ।
ग्रहणे हेतुमाह —
उपांश्विति ।
‘सर्वस्मै वेति’ वाक्यात्सर्वार्थमप्याज्यमुत्पत्तावविहितद्रव्यकोपांशुयागाङ्गम्; आग्नेयादीनामुत्पत्तिशिष्टपुरोडाशाद्यवरोधात् ।
सत्यप्यत्राज्यभागाद्यङ्गेष्वाज्यनिवेशे न प्रधानहविष्ट्वमिति ।
द्रव्यसंस्कारकस्य गुणकर्मत्वे जैमिनीयसूत्रमुदाहरति —
यैस्त्विति ।
(जै.अ.२. पा.१ सू.८) यैरवघातादिभिर्द्रव्यं चिकीर्ष्यते, संस्कार्तुमिष्यते गुणस्तत्र प्रतीयेत, द्रव्ये गुणभूतं कर्म प्रतीयेतेत्यर्थः ।
आत्मोपास्त्यादेः संस्कारकर्मत्वं प्रकरणाद्वाक्याद्वा भवद्भवेत्, नाद्य इत्याह दृष्टान्तवैषम्यपूर्वकं —
दर्शपूर्णमासेति ।
न द्वितीय इत्याह —
न चानारभ्येति ।
यद्ययमिति ।
विधित्वाभावो हि पूर्वपक्षोपन्यासे वर्णित इति ।
सुवर्णं भार्यमितिवदिति ।
शेषलक्षणेऽभिहितम् – ‘अद्रव्यत्वात्तु शेषः स्यात्’ (जै.अ.३.पा.४.सू.२७) ‘तस्मात्सुवर्णं हिरण्यं भार्यं दुर्वर्णोऽस्य भ्रातृव्यो भवती’त्यनारभ्याधीते संशयः —
किं शोभनवर्णहिरण्यधारणं क्रत्वङ्गमुत पुरुषधर्मः इति । तत्र फलकल्पनाभयात्क्रतुनिवेशः, दुर्वर्ण इत्यादि त्वेवंकामशब्दविरहान्न फलपरम् । न च सत्रवद्विपरिणामः; क्रत्वङ्गत्वेन गतिसंभवात्॥ तथाच वैदिककर्मत्वसाम्यादग्निहोत्रादिप्रकरणनिवेश इति प्राप्ते — अद्रव्यत्वाद् द्रव्यदेवतासंबन्धराहित्यान्न स्वतन्त्रं कर्म, किंतु क्रतुशेष इति सूत्रार्थः । सिद्धान्तस्तु – ‘अप्रकरणे तु तद्धर्मस्ततो विशेषात्’ (जै.अ.३.पा.४.सू.२६) । तद्धर्मः पुरुषधर्म एवं जातीयकः । यतोऽप्रकरणेऽयमाम्नातः प्रकरणाधीताद्धर्माद्विशिष्यते । नचाहवनीये जुह्वतीति होमानुवादेनाहवनीयविधानवत्क्रत्वनुवादेन धारणं विहितं, येन साक्षाद्वाक्येन क्रतुसंबन्धि भवेत् । नाप्यव्यभिचारिक्रतुसंबन्धाश्रयद्वारा वाक्यात्पर्णमयी तावत्क्रतुमुपनिपतेत्; सुवर्णधारणस्य लोकेऽपि विद्यमानत्वेन क्रत्वव्यभिचाराभावात् । तस्माद्विनियोगभङ्गेन हिरण्यसाधनकं धारणं वाक्यशेषगतफलाय विधीयते इति पुरुषधर्म इति । एवमिहाप्यात्मसाधनकदर्शनेनामृतत्वं भावयेदिति विधानात् प्रधानकर्मतैवेति । अपूर्वं विषयो जन्यमस्येत्यपूर्वविषयम् । न केवलम् इक्षुक्षीरादिरसविशेष एवानभिधेयः प्रतीयते, अपि तु सर्ववाक्यार्थोपि ।
तथा सति ब्रह्माप्यनभिधेयमेव वेदान्ततात्पर्यगम्यमित्याह —
एवमन्यत्रापीति ।
गामानयेति हि वाक्ये गवानयनकर्तव्यतार्थः, सोऽपि साधारण इति न विवक्षितगवानयनं वक्ति वाक्यं, प्रकरणादिवशेन त्वर्थात्तत्सिद्धिरिति ।
अदूरविप्रकर्षेणेति ।
साक्षादनभिधानादस्ति विप्रकर्षः ।
स चादूरे वस्तुगतधर्मपरामर्शद्वारा वस्तुविशेषस्य लक्षणया प्रतिपादनादिति प्रत्यगात्मत्वेनाविषयतया प्रतिपादयति ।
भाष्यं व्याचक्षाणो वेदान्तानामदूरविप्रकर्षेण वस्तुबोधकत्वमुपपादयति —
त्वंपदार्थोहीति ।
व्याप्नोतीति ।
यत्तदविद्याविलसितमित्यर्थः । तत् तत्र सतीत्यर्थः । अविषयीभूतोदासीनतत्पदार्थस्य प्रत्यगात्मनश्च तत्त्वमसीति सामानाधिकरण्येनास्य संसारिणः प्रमातृत्वाभावात्तन्निवृत्तो प्रमित्या प्रमेयं व्याप्नोतीत्येवंभावस्य निवृत्तौ त्रयः प्रकारा निवर्तन्त इत्यर्थः ।
विगलितेति ।
विगलिता पराक्त्वेन वृत्तिर्वर्तनं यस्य स विगलितपराग्वृत्तिस्तादृशः प्रत्यक्त्वमापन्नो ऽर्थो यस्य तद्विगलितपराग्वृत्त्यर्थं तस्य भावस्तत्त्वमेतत् । तदः =तत्पदस्य ।
तदा काले भवति । कदेत्यत आह —
त्वमिति हीति ।
तदा तत्पदेन । एकार्थस्यैव व्याख्या विशुद्धेति । आन्तरश्लोकः— मध्यश्लोकः ।
परपक्षे इति ।
साध्यश्चेन्मोक्षोऽ भ्युपगम्येतानित्य एव स्यादिति भाष्येणापादितैवानित्यताऽनूद्यते, नित्येऽपि मोक्षेऽविद्यानिवृत्तिसंस्कारः कर्मसाध्य इति पक्षप्रतिक्षेपेणानित्यत्वं स्थापयितुमित्यर्थः । उपवेलं वेलायाः समीपे, विकृतः ।
तत्र हेतुः —
अतिबहुलेति ।
समुल्लसन्तः फेनपुञ्जस्तबका यस्य तस्य भावस्तत्ता । पोतेन दीव्यति व्यवहरतीति पौतिकः । अशुद्धिर्ब्रह्मणि सती, उतासती । प्रथमस्तु भिन्नाभिन्नविकल्पनाभ्यां निरसनीयः ।
चरमं निरस्यति —
न त्विति ।
अनाद्यविद्यामलेति ।
शङ्कितुर्वास्तव्यविद्याऽभिमतेति ।
ननु नित्यशुद्धत्वादात्मनि न हेयत्वसंभव इत्युक्ते कथं शङ्काऽत आह —
एतदुक्तमिति ।
ब्रह्मणि नाविद्या, किंतु जीवे; सा चानिर्वाच्येत्युक्तमध्यासभाष्ये । तथाविधा च ज्ञाननिरस्येत्युपास्तिर्विफलेत्यर्थः ।
निघर्षणव्याख्यानम् —
इष्टकेति ।
एतच्च धात्वर्थः संयोगविभागावेवेति मतमाश्रित्य ।
अन्याश्रयात्विति ।
यद्यपि स्पन्दरूपा भावना चैत्राश्रिता दर्पणस्योपकरोति; तथापि संयोगविभागाख्यधात्वर्थद्वारा तौ च नात्मनीत्यर्थः । संयोगविभागातिरिक्तधात्वर्तपक्षेऽपि समानं, धात्वर्थस्य संयोगविभागद्वारातिशयजनकत्वात् । नचात्मनि क्रियाजन्यातिशयसंभव इति । तदा तच्छब्देन, बाध्येरन्नित्युक्तं बाधनं परामृशति, तद् अव्यवहितम् । अनित्यत्वमात्मनः प्रसज्येतेत्युक्तं त्वनित्यत्वं व्यवहितमिति ।
ननु देहादावहंविभ्रमवत एव संस्कार्यत्वमिति कथम्, स्वत एव किं न स्यात्? अत आह —
अनाद्यनिर्वाच्येति ।
ननु नाविद्यामात्रोपहिते सुषुप्तवद्व्यवहारसिद्धिरत आह —
स्थूलेति ।
स्थूलसूक्ष्माणि च तानि यथाक्रमं शरीरेन्द्रियाणि । आदिशब्दात्प्राणादयः ।
संहतत्वमपि न तटस्थत्वेन तत्संयोगित्वं, किंतु तत्र प्रविष्टत्वमित्याह —
तत्संघातेति ।
प्रवेशोऽपि न भेदेन प्रतिभासमानत्वेन, किंतु ऎक्याध्यासेनेत्याह —
तदभेदेनिति ।
अङ्गरागश्चन्दनादिः ।
फलितमाह —
तेनेति ।
देहादावैक्येनाध्यस्ते आत्मनि क्रियाऽरोप्यते, तज्जन्यसंस्कारश्च अतो नान्याश्रितक्रियाफलभाक्त्वमन्यस्येति न व्यभिचार इत्यर्थः ।
आरोपितसंस्कारान्न फलभाक्त्वमिति शङ्कामहम्प्रत्ययस्य रूप्याद्यध्यासवैलक्षण्येन परिहरति —
सांव्यवहारिकेति ।
स्रु प्रस्रवणे इति धातुमभिप्रेत्याह —
अविगलितमिति ।
क्रियानुप्रवेशद्वारान्तरं मोक्षे भवत्विति शङ्कायां भाष्ये तदभावप्रतिज्ञैव भाति, न हेतुरित्याशङ्क्याह —
एतदुक्तमिति ।
न च विदिक्रियाविषयत्वेनेति भाष्ये ज्ञानाविषयत्वस्योक्तत्वात्पुनः शङ्कोत्तरे व्यर्थे इत्याशङ्क्य परिहारान्तराभिप्रायतामाह —
अयमर्थ इत्यादिना ।
यदवादि पूर्वपक्षे ज्ञानस्य भावार्थत्वाद् विधेयत्वमिति तत्र क्रियात्वमभ्युपेत्य विधेयत्वं निराक्रियत इत्याह —
सत्यमिति ।
वस्तुतो विदिक्रियायाः कर्मभावानुपपत्तेरित्यर्थः । औपाधिकं तु कर्मत्वमनिष्टं नियोगवादिनाम् । यदा तु ज्ञानं क्रियैव न भवतीत्येवंपरतया भाष्यं व्याख्यायते, तदा पचतीतिवज्जानातीति पूर्वापरीभावप्रसिद्धिर्दुश्चिकित्सा स्यादिति ।
वैलक्षण्यान्तरमिति ।
ज्ञेयवैलक्षण्यं प्रागुक्तमिदानीं ज्ञानस्याविधेयत्वं वैलक्षण्यमुच्यत इति ।
यत्र विषये या वस्त्वनपेक्षा चोद्यते तत्र सा क्रियेति तच्छब्दाध्याहारेण योजयितुं यत्रशब्दार्थमाह —
यत्र विषये इति ।
ध्यानयस्य वस्त्वनपेक्षामुक्त्वा पुरुषेच्छाधीनत्वमुपपादयति —
नहि यस्यै इति ।
वषट् करिष्यन् — होता । विध्यर्थानुष्ठानात्प्राक् प्रमाणवशाध्द्याने न सिद्ध्यति, ततः पुरुषेच्छावशवर्तीति ।
शब्दज्ञानाभ्यासो वा तस्यैव साक्षात्कारपर्यन्तता पुरुषेच्छाधीनेत्याशङ्क्याह —
नचेति ।
उपासनायाः साक्षात्कारेऽ नुभवपर्यन्तताशब्दोक्तसाक्षात्कारस्याविद्यापनये प्राप्तत्वादित्यर्थः ।
क्रियायाः क्वचिद्वस्तुस्वरूपविरोधित्वं प्रमाणज्ञानाद्वैलक्षण्यमाह—
क्वचिद्वस्तुस्वरूपविरोधिनीति ।
वस्तुतन्त्रत्वमपाकरोतीति ।
अनेन ‘ज्ञानमेव तन्न क्रिया’ इति भाष्ये क्रियाशब्देन क्रियागतमवस्तुतन्त्रत्वं लक्षयित्वा प्रतिषिध्यत इति व्याख्यातम् । अतएव हि भाष्यकारो ब्रह्मज्ञानं न चोदनातन्त्रमिति दार्ष्टान्तिके चोदनातन्त्रत्वं प्रतिषेधति, न ब्रवीति न क्रियेति । अतः क्रियात्वमभ्युपेत्य ज्ञाने विधेयत्वं न मृष्यत इति गम्यते । सांप्रदायिकं = गुरुमुखाद्ध्ययनादि । विधिः— कार्यं विषयो येषां ते विधिविषयाः । यः समर्थः शक्तः स कर्ता, यः कर्ता स कर्मण्यधिकृतः स्वामी, योऽ धिकृतः स नियोगं स्वकीयतया बुद्ध्यमानो नियोज्यः, स च तत्रैव वर्णितरूपे विषये भवति, तस्मिन्नसति न भवतीत्यर्थः ।
उक्तविषयत्वस्य श्रवणादावभावमाह —
नचैवमिति ।
श्रवणं हि ब्रह्मात्मनि तत्त्वमसिवाक्यस्य तच्छब्दश्रुत्यादिपर्यालोचनया तात्पर्यावगमः; अस्य च विषयविशेषावच्छिन्नप्रत्ययस्यानवगमे तत्कर्तव्यत्वबोधायोगात्, अवगमे च श्रवणस्यैव जातत्वात्पुनः कर्तुमकर्तुमन्यथा वा कर्तुमशक्यत्वात् । एवं मननस्यापि विषयविशेषनियतयुक्त्यालोचनस्यानवगतस्य कर्तुमशक्यत्वादिति । उपासनस्यापि यथाश्रवणमननं प्रत्ययावृत्तेरवगमे द्वित्रिवारावृत्तेरवश्यंभावाद्विधित्सितार्थस्य ज्ञातस्य न पुनः कर्तव्यत्वं, दर्शनस्य त्वशक्यत्वं स्फुटमिति ।
अन्यतः प्राप्ता इति ।
दर्शनार्थं कर्तव्यत्वेनान्वयव्यतिरेकावगतान् श्रवणादीननुवदन्ति वचांसि तद्गतप्राशस्त्यलक्षणया तेषु रुचिमुत्पाद्यानात्मचिन्तायामरुचिं कुर्वन्ति, प्रवृत्त्यतिशयं जनयन्तीत्यर्थः । प्रकृतसिद्ध्यर्थं=सिद्धे वस्तुनि वेदान्तप्रामाण्यसिद्ध्यर्थं । सिद्धे वस्तुनि सङ्गतिग्रहविरहादि दूषयितुमित्यर्थः ।
उपनिषदां सिद्धबोधकत्वे आक्षिप्ते पुरुषस्योपनिषद्गम्यत्वसिद्धवत्कारो भाष्येऽनुपपन्न इत्याशङ्क्य तदुपयोगिन्यायः सामर्थ्याद्दपोतित इत्याह —
इदमत्रेति ।
परनरवर्तिशब्दार्थावबोधलिङ्गस्य प्रवृत्तेः सिद्धवस्तुन्यसंभवान्न व्युत्पत्तिरित्युक्तम् —
अज्ञातसङ्गतित्वेनेति ।
तत्राह —
कार्यबोधे इति ।
यदुक्तमर्थवत्तयेति तत्सिद्धपुत्रजन्मादिबोधेऽपि हर्षादिप्रयोजनलाभान्न शब्दानां कार्यपरत्वं नियच्छतीत्याह —
अर्थवत्तैवमिति ।
आखण्डलादीनाम् इन्द्रादीनाम् । चक्रवालं समूहः । धौतानि शोधितानि । कलधौतमयानि सौवर्णानि शिलातलानि यस्य स तथा । प्रमदवनानि प्रमदाभिः सह नृपाणां क्रीडावनानि, तेषु विहारिणां संचरणशीलानां । मणिमयशकुन्तानां रत्नमयपक्षिणां । निनदः शब्दः । अभ्यर्णं निकटम् । प्रतिपन्नं जनकस्य पितुरानन्दनिबन्धनं पुत्रजन्म येन स ततोक्तः । सिन्दूररञ्जितपुत्रपदाङ्कितः पटः पटवासः स एवोपायनमुपहारो लाटानां प्रसिद्धः । महोत्पलं पद्मम् ।
अर्थवेत्तैवमिति श्लोकभागं व्याचष्टे —
तथाचेति ।
अनेन सिद्धस्याप्यप्रतिपित्सितत्वाप्रतिपिपादयिषितत्वे प्रयुक्ते ।
शास्त्रत्वं हितशासनाद् इत्येतव्द्याचष्टे —
एवंचेति ।
प्रवृत्तिनिवृत्त्याश्रवणं हि शास्त्रे पुरुषार्थाय, तं तु वेदान्तान्तरेणाप्यायासं ज्ञानादेवानयन्तीति भवन्तितरां शास्त्राणीत्यर्थः ।
तत्सिद्धमिति ।
तच्छब्देन तस्मादर्थेन सिद्धशब्दव्युत्पत्त्यादि परामृशता वक्ष्यमाणहेतोरसिद्धिरुद्धृता ।
ज्योतिष्टोमादिवाक्ये बाधं परिहरति —
विवादेति ।
भूतार्थविषयाणीति ।
न कार्यविषयाणीत्यर्थः; इतरथा भूतार्थप्रतीतिमात्रजनकत्वसाधने सिद्धसाधनात्, प्रमितिजनकत्वस्य साधने हेतोः साध्यसमतापातात् । यत्तच्छब्दावपि प्रस्तुतभूतार्थं परामृशतः । उपोपसर्गः सामीप्यार्थमाह । नीत्ययं निश्चयार्थः ।
सदेरर्थमाह —
सवासनामिति ।
वस्त्वक्रियाशेषं वेदान्तविषयं दर्शयितुं भाष्ये विशेषणानि प्रयुक्तानि व्याचष्टे —
अहंप्रत्ययेत्यादिना ।
भाष्ये ‘असंसारि’ इति त्वंपदलक्ष्यनिर्देशः, ब्रह्मेति तस्य ब्रह्मत्वमुक्तम् । क्रियारहितत्वसंसारित्वं ।
व्यवहितमप्यनन्यशेषत्वमुत्पाद्याद्यभावे हेतुत्वेन संबन्धयति —
अतश्चेति ।
उत्पत्त्यादिभिराप्यं साध्यम् । सक्तवो हि प्राड् न विनियुक्ताः । न च होमेन भस्मशेषा उपयोक्ष्यन्ते, अतो न संस्कार्या इति विनियोगभङ्गेन होमप्राधान्यमिति ।
अनन्यशेषत्वे स्वप्रकरणस्थत्वं हेतुत्वेन योजयति —
कस्मादिति ।
एवं सिद्धार्थव्युत्पत्तिसमर्थनेनोपनिषदां ब्रह्मात्मैक्ये प्रामाण्यमुक्तम्, इदानीं भवत्वन्यत्र सिद्धे पुत्रजन्मादौ सङ्गतिग्रहः, न ब्रह्माणि; अविषयत्वात्; अतो न तत्रोपनिषत्प्रामाण्यमित्याशङ्क्य तत्परिहारपरत्वेन भाष्यमवतारयति —
स्यादेतदित्यादिना ।
स्वयंप्रकाशत्वेन स्फुरत्यात्मनि समारोपितदृश्यनिषेधेन लक्षणया शक्यं शास्त्रेण निरूपणमिति भाष्याभिप्रायमाह —
यद्यपीत्यादिना ।
ननु प्रमाणान्तरमिति तथाविधस्य निषेधात्कथमात्मन्युपाधिनिषेधद्वारा लक्षणाऽत आह —
नहि प्रकाश इति ।
भासमाने भासमानं निषेध्यमित्येतावत्, नतु मानेन भासमाने इति, वैयर्थ्यात्, तदिह स्वतो भात्यात्मनि तत्साक्षिक उपाधिः शक्यनिषेध इति तदवच्छेदकोऽपि न न भासत इत्यन्वयः ।
न केवलं निषेधमुखेनैवाविषयनिरूपणम्, अपि त्वात्मादिपदैरपि व्याप्त्याद्यभिधानमुखेन परिच्छेदाभावोपलक्षितस्वप्रभ अत्मा लक्षणीयः, स चात्मपदयुक्तात् ‘‘नेति’’ वाक्यादात्मेति निरूप्यते, ब्रह्मपदयुक्ताच्चायमात्मा ब्रह्मेत्यादेर्ब्रह्मेति निरूप्यत इत्याह —
तेनेति ।
इतिरिदमर्थे, य आत्मा इदं न इदं नेति चतुर्थे व्याख्यातः । स एष पञ्चमाध्याये निरूप्यत इत्यर्थः ।
न केवलमधिष्ठानत्वेन प्रपञ्चसत्ताप्रदत्वादात्मसत्यता, अपि तु तत्स्फुरणप्रदत्वाच्चेत्याह —
अपिचेति ।
संस्कार्यत्वनिरासप्रस्तावे ‘साक्षी चेता’ इति मन्त्रोदाहरणेन प्रत्युक्तत्वादिति भाष्यार्थः ।
नह्यहंप्रत्ययविषयेत्यादिभाष्यमात्मनोऽनधिगतत्वेनौपनिषदत्वोपपादनार्थं, तदवतारयति —
एतदेवेति ।
भाष्ये तत्साक्षीति विधिकाण्डानधिगतत्वमुक्तम् । सर्वभूतस्थत्वेन बौद्धसमयानधिगतिः । विनश्यत्सु सर्वेषु भूतेषु स्थितो न विनश्यतीत्यर्थः । सावयव आत्मेति विवसनसमयानधिगतिः । समत्वेन जीवोत्पत्तिवादिपञ्चरात्रतन्त्रानधिगतिः । कूटस्थनित्यत्वेन काणादादितर्कानधिगतिः । एकः सर्वस्यात्मेति वर्णितः, अन्यतोऽनधिगतिमुक्त्वा बाधाभाव उक्तः ।
अत इति ।
अधिगते हि बाधो नानधिगत इत्यर्थः । अथवा सर्वस्यात्मत्वेन प्रत्याख्यातुं न शक्यं , औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति भाष्यं ‘तद्योसावुपनिषत्स्वित्यादिना विवृतं । पुनरभिहितविशेषणस्यात्मनोऽहंप्रत्ययविरोधमाशङ्क्य तन्मिथ्यात्वेनौपनिषदत्वं विवृतम् ।
अनन्यशेषत्वविवरणाय विधिशेषत्वं वेति भाष्यं तदनुषङ्गेण व्याचष्टे —
न शक्य इति ।
विध्यशेषत्वे आत्मत्वादिति हेतुं व्याचष्टे —
कुत इत्यादिना ।
मा भूद्विधेयकर्मशेषत्वेन विधिविषयत्वमात्मनः, स्वत एव विधीयतां निषिध्यतां चेत्याशङ्कामपनेतुं न हेय इति भाष्यम्, तत्रापि हेतुत्वेनात्मत्वादित्येतद्योजयति —
अपिचेति ।
अनन्यशेषत्वे स्वतो विधेयत्वाभावे चात्मत्वं हेतुरिति ‘अपिच’ शब्दार्थः ।
अत इति ।
भाष्योक्तादेव हेतोरित्यर्थः ।
तमेवाह —
सर्वेषामिति ।
ननु घटादिविनाशस्य मृदादौ दर्शनात्कथं पुरुषावधिः सर्वस्य लयोऽत आह —
पुरुषो हीति ।
कल्पितस्याधिष्ठानत्वायोगादात्मतत्त्वमेव तत्तदवच्छिन्नमनिर्वाच्यविश्वोदयाप्ययहेतुरित्यर्थः ।
ननु पुरुषोऽप्यनिर्वाच्य इति नेत्याह —
पुरुषस्त्विति ।
अनन्तोऽनवधिः । विकारो नास्तीत्युक्तं भेदाभेदविचारे ।
धर्मान्यथात्वविक्रियाया अभावमुक्त्वा तद्धेत्वभावमप्याह —
अपिचेति ।
भाष्ये — यत एव धर्मान्यथात्वाभावोऽतएव नित्यशुद्धादिस्वभावः ।
पुरुषावधिः सर्वस्य लय इत्यत्र श्रुतिमाह —
तस्मात्पुरुषादिति ।
कल्पितस्याकल्पितमधिष्ठानमित्युक्तयुक्तिपरामर्शी तस्माच्छब्दः ।i
निरतिशयस्वतन्त्रतया विधिशेषत्वाभावे श्रुतिमुदाहृत्य मानान्तरागम्यतया वेदान्तैकवेद्यत्वे श्रुतिमुदाहरति —
तं त्वेति ।
तस्य वेदस्येत्यर्थः ।
ननु तर्हि धर्मावबोधनमिति वक्तव्यं, तत्राह —
धर्मस्य चेति ।
ननु प्रतिषेधानामनुष्ठेयाबोधकत्वात्कथं कर्मावबोधप्रयोजनताऽत आह —
प्रतिषिध्यमानेति ।
शाबरवचनवदाम्नायस्येति( जै.अ.१.पा.२.सू.१) सूत्रे आम्नायशब्दो विधिनिषेधपर इति सिध्यति ।
विकल्पमुखेन परिहारान्तरं चाह —
अपिचेति ।
द्रव्यगुणकर्मणां तच्छब्दानामित्यर्थः ।
क्रियार्थत्वादित्यत्रानर्थक्यमित्यत्र चार्थशब्दोऽभिधेयपरः, प्रयोजनपरो वेति विकल्प्याद्यं निरस्य द्वितीयं निरस्यति —
यद्युच्येतेत्यादिना ।
ननु चोदना हि भूतं भवन्तं भविष्यन्तमित्येवंजातीयकं शक्नोत्यवगमयितुमिति शाबरवचसि विधिवाक्यस्य भूतादिबोधिता भाति, न द्रव्यादिशब्दानां क्रियाप्रयोजनताऽ त आह —
कार्यमर्थमिति ।
कार्यान्वितभूतबोधित्वे विधिवाक्यस्य कथं तन्न्यायेन ब्रह्मवाक्येष्वक्रियाशेषभूतवस्तुबोधित्वसिद्धिरत आह —
अयमभिसंधिरिति ।
कार्यान्वितबोधित्वनियमः शब्दानां किं व्युत्पत्तिबलादुत प्रयोजनार्थम् । तत्र केवलभूतवस्त्ववगमादपि प्रयोजनसिद्धिमुत्तरत्र वक्ष्यति ।
न तावद्व्युत्पत्तिबलादित्याह —
न तावदिति ।
कार्यार्थे कार्यशेषे ।
ननु कार्यान्वितपरत्वनियमाभावे पदानामतिलाघवायान्वितपरत्वमपि त्यज्यतामत आह —
नापीति ।
तत्किमिदानीं विशिष्टे पदशक्तिर्नेत्याह —
स्वार्थमिति ।
अयमभिसंधिः — पदैः पदार्था एवाभिधीयन्ते अर्थान्तरान्विततया उपलक्ष्यन्ते; अन्यथा स्वरूपमात्रातिरेकिविशिष्टाभिधाने गौरवं स्यात् । ननु — अभिहितार्थस्वरूपाणां विशिष्टैरनविनाभावात्कथं लक्षणा? नहि गवार्थस्यानयत्यन्वयाविनाभावः, चारयतिनाप्यन्वयात्, नचार्थान्तरमात्रान्वयो लक्ष्यः; तस्य व्यवहारानुपयोगात् इति — चेन्न; अनविनाभाविभिरपि मञ्चैः पुरुषलक्षणात् । ननु — मा भूदनविनाभावनियमः, तथापि वाच्यस्य लक्ष्येण संबन्धो वाक्यार्थे चानन्वयो वाच्यः, मञ्चा हि संबद्धाः पुंभिर्न च वाक्यार्थेऽन्वीयन्ते, यथाह शालिकनाथः – ‘वाच्यार्थस्य च वाक्यार्थे संसर्गानुपपत्तितः । तत्संबन्धवशप्राप्तस्यान्वयाल्लक्षणोच्यते॥‘ इति । तदिह गामानयेत्यादौ न श्रौतार्थस्य वाक्यार्थेनानन्वयः , नाप्यन्वितस्य लक्ष्यस्यास्त्यभिधेयेन संबन्धः अन्वितस्यान्वयान्तराभावात्, तत इह न लक्षणा इति । अत्रोच्यते; मुख्यार्थपरिग्रहेऽनुपपत्तिस्तावल्लक्षणाया निदानं, तत्र यथा पदेन पदार्थलक्षणायां वाच्यार्थस्य वाक्यार्थे संबन्धानुपपत्तिः, एवं वाक्यार्थप्रत्ययोद्देशेन प्रत्युक्तस्य पदवृन्दस्य येऽभिधेया अनन्वितपदार्थास्तेषां वाक्यार्थीभावानुपपत्तिरेवान्विलक्षणाया निदानम् । नचान्वितरूपस्याभिधेयस्वरूपेण संबन्धानुपपत्तिः; विशिष्टस्वरूपयोस्तादात्म्यस्य कस्यापि स्वीकारात् । नन्वेवमपि — अभिहितार्थैरर्थान्तरान्वितलक्षणायां कथं नियमः? अर्थान्तराणामानन्त्यात्, तदुच्यते – ‘आकाङ्क्षासत्तियोग्यत्वसहितार्थान्तरान्वितान् । पदानि लक्षयन्त्यर्थानिति नातिप्रसङ्गिता॥‘ प्रयोगस्तु गोपदं, गामानयेति वाक्येनानयत्यन्वितगोत्ववाचकम्, पदत्वात्, तुरगपदवदिति ।
एतत्सर्वमाह —
एकेति ।
एकप्रयोजनसिध्द्युपयोगित्वं हि पदार्थानामितरेतरवैशिष्ट्यमन्तरेण न घटतेऽतः प्रयोजनवत्त्वायैकवाक्यत्वाय च लक्षणयाऽन्वितपरत्वं पदानां वाच्यमित्यर्थः ।
ननु विशिष्टानामप्यर्थानां भेदात्कथमेकवाक्यता? अत आह —
तथाचेति ।
गुणभूतनानापदार्थविशिष्टप्रधानार्थस्यैक्यादेकवाक्यत्वमित्यर्थः ।
पदानामनन्वितार्थपर्यवसानेऽ न्वितपर्यवसाने च भट्टसंमतिमाह —
यथाहुरिति ।
यदा लक्षणया योग्येतरान्वितपरत्वं पदानां, पदार्थानां च लक्षणायां द्वारत्वेन तत्परत्वं, तदा वेदान्तानां कार्यानन्वितब्रह्मपरत्वोपपत्तिरित्याह —
एवचं सतीति ।
भाव्यार्थत्वेनेतिभाष्ये भव्यशब्दो भवनकर्तृवचनत्वादुत्पाद्यमात्रपरो मा भूदित्याह —
भव्यमिति ।
भाष्ये भूतस्य क्रियात्वप्रतिषेधस्य प्रसक्तिमाह —
नन्विति ।
भव्यसंसर्गिणा रूपेण भूतमपि भव्यमित्यत्र किं कार्यं भव्यं? उत क्रिया? उभाभ्यामपि भूतार्थस्य नैक्यमित्याह —
न तादात्म्येति ।
कार्यं हि साध्यतया प्रयोजनं, भूतं साधकतया प्रयोजनीति ।
प्रवृत्तिनिवृत्तिव्यतिरेकेणेत्यादिभाष्येण कार्यान्वयनियमभङ्गेन कूटस्थनित्यवस्तूपदेशस्य समर्थितत्वेऽपि कार्यान्विते व्युत्पत्तिनियममभ्युपेत्यापि परिहारान्तरं वक्तुमुक्तशङ्कामनुवदतीत्याह —
शङ्कत इति ।
अङ्गीकृते कार्यान्वितव्युत्पत्तिनियमे कूटस्थनित्योपदेशानुपपत्तिरित्याह —
एवंचेति ।
भवतु कार्यान्विते भूते सङ्गतिग्रहः, तथापि स्वरूपं तत्र प्रतीयत एव; विशिष्टेऽपि स्वरूपसद्भावात्, ततः किमत आह —
तथाचेति ।
स्वनिष्ठभूतविषया इति ।
कार्यानन्वितभूतविषया इत्यर्थः, नत्वनन्वितविषयत्वमेव; अन्विते पदातात्पर्यस्य समर्थितत्वात् । ते च वक्ष्यमाणोदाहरणेषु दृश्यमाना नाध्याहारादिभिः क्लेशेनान्यथयितव्या इत्यर्थः ।
स्यादेतत् — कार्यान्विते गृहीतसङ्गतेः पदस्य कथं शुद्धसिद्धाभिधायिता? नहि गोत्वे गृहीतशक्ति गोपदमभिदधाति तुरगत्वमत आह —
न हीति ।
एवं मन्मते कार्यान्वयो न शब्दार्थः, किंतूपाधिः । तथाहि — कर्तव्यतातदभावावगमाधीनत्वात् प्रवृत्तिनिवृत्त्योः, प्रवृत्तिनिवृत्तिसाध्यत्वात्प्रयोजनस्य, तदधीनत्वाच्च विवक्षाप्रयोगयोः, प्रयोगाधीनत्वाच्च वाक्यार्थप्रतिपत्तिव्युत्पत्त्योः, विवक्षादिवत्कार्यान्वयस्यापि शब्दार्थावगत्युपायतावगम्यते, अतो विरहय्यापि कार्यान्वयं प्रयोगभेदे भवति भूतं वस्तु पदवाच्यम्; कथमपरथा भवतां प्रमाणान्तरगृहीतकार्यान्वितगृहीतसङ्गतिकपदवृन्दस्य वेदेऽपूर्वान्विताभिधायिता? तदिदमुक्तम् – ‘‘उपहितं शतशो दृष्टमपि तदेव क्वचिदनुपहितं यदि दृष्टं भवति, तदा तददृष्टं नहि भवति, किंतु दृष्टमेव भवतीति’’ ।
अटवीवर्णकादय इति ।
तद्यथा — अस्ति किल ब्रह्मगिरिनामा गिरिवरः । ‘त्रैयम्बकजटाजूटकलनाय विनिर्मिता । पाण्डुरेव पटी भाति यत्र गोदावरी नदी॥‘ यस्य च – ‘सकुसुमफलचूतरुद्धघर्मद्युतिकरपातवनालिषूपजाते । तमसि हरकिरीटचन्द्रनुन्ने धवमनिशा इव भान्ति वासराणि॥‘ इत्यादय इति ।
क्रियानिष्ठा इति ।
अकारप्रश्लेषः ।
अभ्युपेत्य कार्यान्वयनियमं पर्यहार्षीत्, इदानीमभ्युपगमं त्यजति —
उपपादिता चेति ।
एवं तावद्व्युत्पत्तिविरोधं परिहृत्य निष्प्रयोजनत्वचोद्यमुद्भाव्य परिहरति —
यदि नामेत्यादिना ।
समुच्चयासंभवादप्यर्थश्चकारः शङ्काद्योती, तामेवाह —
यद्यपीति ।
एवं तावद्द्रव्यगुणादिशब्दानां विधिवाक्यगतानां केवलभूतार्थतामापाद्य तद्वद्ब्रह्मापि शब्दगोचर इत्युक्तम्, इदानीं तु निषेधवाक्यवद्वेदान्ताः सिद्धपरा इत्याह —
अपिचेत्यादिना ।
यत्र कृतिस्तत्रैव कार्यम्, निषेधेषु कृतिनिवृत्तौ तद्व्याप्तं कार्यं निवर्तत इत्युक्त्वा कृतेरपि तद्व्यापकधात्वर्थनिवृत्त्या निवृत्तिमाह —
कृतिर्हीत्यादिना ।
न घटवत्प्रतिक्षणं समाप्तः, किंतु पचतीतिवत्पूर्वापरीभूतः । सच भवत्यादाविव नात्मलाभः, किंतु कर्तुरन्यस्योत्पाद्यस्यौदनादेरुत्पादनायामनुकूलः प्रयत्नविषयः ।
तत्र हेतुमाह —
साध्येति ।
न द्रव्यगुणौ कृतिविषयावित्यत्र हेतुः —
साक्ष्यादिति ।
तत्रापि तदुत्पादनानुकूलो व्यापारः कृतिविषय इत्यर्थः । भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते (जै.अ.२.पा.१.सू.१) इति द्वितीयगतमधिकरणम् ।
अत्र गुरुमतेनार्थं संकलयति —
द्रव्येति ।
अत्रावमर्शेऽपीत्यन्तः पूर्वः पक्षः । अयमर्थः — पदस्मारितानन्वितार्थेषु निमित्तेषु भावान्वितावस्था नैमित्तिकी, तस्यामस्ति सिद्धयोरपि द्रव्यगुणयोः क्रियान्वयेन साध्यता, अतो द्रव्यगुणभावार्थवाचकशब्दानामविशेषेण साध्यार्थवाचकत्वात्साध्यार्थविषयत्वाच्च नियोगस्याविशेषेण नियोगविषयसमर्पकत्वमिति॥
राद्धान्तमाह —
भावस्येति ।
भावशब्दस्येत्यर्थः । कार्यावमर्श इत्यनुषङ्गः । भावशब्दो हि स्वत एव साध्यरूपां क्रियामवमृशति, द्रव्यादिशब्दास्तु क्रियायोगद्वारा द्रव्यादीन्साध्यतयाऽवमृशन्ति ।
किमित्यत आह —
भावार्थेभ्य इति ।
नियोगो हि साक्षात्कृतेरविषयः संस्ताद्विषयत्वाय स्वावच्छेदकत्वेन साक्षात्साध्यस्वभावं भावार्थमाकाङ्क्षति । तल्लाभे च न क्रियायोगद्वारा साध्यस्य द्रव्यादेस्तद्विषयता युक्ता । अतो भावार्थशब्देभ्य एव यजतीत्यादिभ्यो विषयविशिष्टाऽपूर्वाधिगतिरिति भावनावाचिभ्योऽ पि भावो भावनेत्यादिभ्यो नापूर्वाधिगतिरिति कर्मशब्दा इत्युक्तम् । क्रत्वर्थवाचिभ्यः कर्मशब्देभ्योऽपि याग इत्यादिभ्यो नैवापूर्वाधिगतिरिति भावार्था इत्युक्तम् । अतो धात्वर्थोपरक्ताभावना येषु भाति यजेतेत्यादिषु तेभ्योऽपूर्वं प्रतीयेतैष हि भावनासाध्योऽपूर्वलक्षणोऽ र्थो विधीयत इति सूत्रार्थः ।
ननु द्रव्यगुणौ विधीयेते दधिसान्तत्ये, तत्र तयोरेव कार्यावच्छेदकता, अत आह —
न चदध्नेति ।
आघारः क्षारणम् । सान्तत्यमविच्छिन्नत्वम् ।
यदि दध्यादावपि भावार्थो विधेयः, तर्हि न्यायविरोध इत्याशङ्क्याह —
नचैतावतेति ।
ज्योतिष्टोमे श्रूयते – ‘सोमेन यजेते’ति । तथा ‘ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णाती’ति । तत्र संशयः — किमैन्द्रवायवादिवाक्ये विहितानां सोमरसानां यागानां च यथाक्रमं सोमेन यजेतेति सोमयागशब्दावनुवदितारौ, उत द्रव्ययुक्तस्य कर्मणो विधाताराविति॥ तत्रैन्द्रवायवादिवाक्येषु द्रव्यदेवताख्यरूपप्रतीतेर्यागानुमानादितरत्र रूपाप्रतीतेः समुदायानुवाद इति प्राप्ते — द्वितीये (जै.अ.२.पा.२.सू.१७ — २०) राद्धान्तितम्, नानुवादत्वं अप्रत्यभिज्ञानात् । लतावचनो हि सोमशब्दो न रसवचनः, ऐन्द्रवायवादिशब्दास्तु रसानभिदधतीति न तदनुवादी सोमशब्दः । न च यजेतेति प्रत्यक्षे यागे तदनुमा, अतः प्राप्त्यभावान्न यजिरप्यनुवादी । तस्मात्सोमवाक्ये यागविधिरितरत्र रसानमिन्द्रादिदेवताभ्यो ग्रहणान्युपकल्पनानि विधीयन्त इति । । एवं यथा सोमेनेति वाक्ये विशिष्टविधिः, एवं दधिसान्तत्यादिवाक्यानि यदि द्रव्यगुणविशिष्टहोमाघारविधायीनि, तर्हि अग्निहोत्राघारवाक्ये तद्विहितहोमानामाघाराणां च समुदायावनुवदेतां, तथाचाधिकरणान्तरविरोध इति शङ्का॥ तथाहि द्वितीये स्थितम् — आघाराग्निहोत्रमरूपत्वात्(जै.अ.२.पा.२.सू.१३) । ‘आघारमाघारयत्यूर्ध्वमाघारयति’ ‘सन्ततमाघारयति’ । तथा ‘अग्निहोत्रं जुहोति’ ‘दध्ना जुहोति’ ‘पयसा जुहोतीति’ श्रूयते । तत्र संशयः — किं सन्ततदध्यादिवाक्यविहितानामाघारहोमानामाघाराग्निहोत्रवाक्ये सुमुदायानुवादिनी, उतापूर्वयोराघारहोमयोर्विधातृणी इति॥ तत्रानुवादिनी; अरूपत्वात्, नह्यत्र दधिसान्तत्यादिवाक्यविहितहोमाघारेभ्यो विशिष्टं रूपमस्ति, होमाघारमात्रं तु प्रकृतमुपलभ्यते, अतोऽनुवादत्वे प्राप्ते राद्धान्तः; विधी इमौ स्याताम् ; आधारयतिजुहोतिशब्दाभ्यामनुष्ठेयार्थप्रतीतेः, तत्संनिधौ श्रुतस्य सान्तत्यवाक्यस्य दध्यादिवाक्यस्य च विशिष्टविधित्वे गौरवप्रसङ्गेन तद्विहितभावार्थानुवादेन गुणविधानार्थत्वादिति॥ हन्त नैतेन विरुध्यते सान्तत्यदध्यादिवाक्ये भावार्थविषयं कार्यमित्यभ्युपगमः ।
अत्र हेतुमाह —
यद्यपीति ।
यद्यपि सन्ततादिवाक्ये साक्षात्कृतिविषयत्वाद्भावार्थस्य तदवच्छिन्नमेव कार्यं; यद्यपि च कार्यं प्रति साक्षादविषयावनवच्छेदकौ द्रव्यगुणौ; तथापि भावार्थं प्रत्यनुबन्धतयावच्छेदकतया विधीयेते ।
तत्र हेतुमाह —
भावार्थो हीति ।
तत्किं भावार्थो द्रव्यादिश्च विधेयः, तर्हि वाक्यभेदः, नेत्याह —
तथाचेति ।
तर्हि सन्ततादिवाक्यानि विशिष्टविधयः स्युः, स्याच्चाग्निहोत्रादिवाक्यमनुवादः, तत्राह —
एवंचेति ।
यद्यप्यत्र विशिष्टविषयो विधिः प्रतीयते; तथापि भावार्थद्वारा द्रव्यादिकमपि विषयीकरोति । तत्र संक्रान्तो यदि भावार्थमन्यतो विहितं न लभेत, तर्हि गौरवमप्युररीकृत्य विशिष्टं विदधीत; अथ लभेत, तत उपपदाकृष्टशक्तिर्द्रव्यादिपरो भवत्यनुवदति तु भावार्थम् । तदाहुः – ‘सर्वत्राख्यातसंबद्धे श्रूयमाणे पदान्तरे । विधिशक्तियुपसंस्क्रान्तेः स्याद्धातोरनुवादता॥‘ इति । तदिहाग्निहोत्रादिवाक्यत एव भावार्थलाभाद्द्रव्यादिपरता । मीमांसकैकदेशिनः आग्नेय इत्यादौ द्रव्यदेवतासंबन्धो विधेय इत्याहुः ।
तत्रापि सिद्धस्य न विधेयत्वमित्युक्तमतिदिशति —
एतेनेति ।
एकदेशी संबन्धस्य भावनाऽवच्छेदकत्वेन विधेयत्वं शङ्कते —
नन्वित्यादिना ।
ननु यथाश्रुतभवत्यर्थ एव विधीयतां, किं संबन्धविधिनेत्याशङ्क्य भवत्यर्थस्य कर्ता सिद्धोऽसिद्धो वा ।
प्रथमे विधिवैयर्थ्यं, चरमे नियोज्याभावाद्विध्यभाव इत्युक्त्वा किं तर्हि विधेयमिति वीक्षायामाह —
तस्मादिति ।
प्रयोज्यः उत्पाद्यः । तद्व्यापारो हि भवनम् ।
तस्य हि व्यापारं भवतिधातुर्विशिनष्टि —
भवतीति ।
भवनं च नोत्पादकव्यापारमन्तरेणेति भवनाविनाभूतो भावकव्यापारो विधेय इत्यर्थः । नन्वित्यादिना चोद्यच्छलेन सिद्धान्ती मीमांसकैकदेशिनं दूषयति । भवतु लक्षितभावनाया विधानं, तस्यास्तु न संबन्धो विषयः, तस्य दध्यादिवत्साक्षात्कृतिविषयत्वायोगादित्यर्थः ।
नन्वव्यापारोऽपि घटादिः करोत्यर्थरूपभावनाविषयो दृश्यते, अत आह —
न हीति ।
यदि दण्डादिविषयो हस्तादिव्यापारः कृतिविषयः, तर्हि कथं घटं कुर्विति घटस्य कृतिकर्मता भात्यत आह —
घटार्थामिति ।
घटविषयव्यापार एव कृतिसाध्यो घटस्तूद्देश्यतया प्रयोजनमिति कर्मत्वनिर्देश इत्यर्थः ।
यदि संबन्धो न विधेयस्तर्ह्याग्नेयवाक्ये किं विधेयमत आह सिद्धान्त्येव —
अतएवेति ।
अत्यक्तस्य हविषो देवतासंबन्धासंभवाद्यागः संबन्धाक्षिप्तः ।
ननु यजेरप्यपुमर्थत्वात्कथं विधेयता? अत आह —
आग्नेयेनेति ।
यागेनेत्याग्नेयपदस्य लक्ष्यनिर्देशः, भावयेदिति भवतिपदस्य । यत एवाग्नेयवाक्ये यागविधिरत एवानुवादे यजेतेति श्रुतम्; अन्यथा संबन्ध एव श्रूयेतेत्यर्थः । उक्तं द्वितीये — प्रकरणं तु पौर्णमास्यां रूपावचनात् (जै.अ.२.पा.२.सू.३) । एवं समामनन्ति ‘‘यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति’’ ‘‘उपांशुयाजमन्तरा भवति’’ ‘‘ताभ्यामेतमग्नीषोमीयमेकादशकपालं पौर्णमासे प्रायच्छत्’’ ‘‘ऐन्द्रं दध्यमावास्यायाम्’’ ‘‘ऎन्द्र पयोऽमावास्यायामि’’ति । तथा ‘‘य एवं विद्वान् पौर्णमासीं यजते’’ ‘‘य एवं विद्वानमावास्यां यजते’’ इति । तत्र संदेहः — किमिमौ यजती कर्मणोरपूर्वयोर्विधातारावुत प्रकृताग्नेयादियागानां समुदायस्यानुवदिताराविति॥ तत्राभ्यासात्कर्मान्तरविधी । न च द्रव्यदेवते न स्तः; ध्रौवाज्यस्य साधारण्यान्मान्त्रवर्णिकदेवतालाभाच्च । आज्यभागक्रमे हि चतस्त्रोऽनुवाक्याः सन्ति । द्वे आग्नेय्यौ, द्वे सौम्ये । ते च क्रमाद्बलीयसा वाक्येनाज्यभागाभ्यामपच्छिद्यानयोः कर्मणोर्विधास्येते ।
एवंहि समामनन्ति ।
‘‘वार्त्रघ्नी पौर्णमास्यामनूच्येते’’ “वृधन्वती अमावास्यायामिति’’ । वृत्रघ्नीपदवत्यौ वार्त्रघ्नी । वृधन्वत्पदवत्यौ वृधन्वती । तस्मात्कर्मान्तरविधिः; इत्येवं प्राप्ते — अभिधीयते । प्रक्रियत इति प्रकरणं प्रकृतानि कर्माणि पौर्णमास्यमावास्यासंयुक्तवाक्ययोरालम्बनम् । कुतः? रूपावचनात् । ध्रौवाज्यलाभेऽपि देवता न लभ्यते । न च मन्त्रवर्णेभ्यस्तल्लाभः; तेषां क्रमादाज्यभागशेषत्वात् । यत्तु वाक्यं बलीय इति, सत्यं; बलवदपि न क्रमस्य बाधकमविरोधात् । क्रमावगताज्यभागाङ्गभावस्यानुवाक्यायुगलद्वयस्य पौर्णमास्यमावास्याकालयोर्विभागेन प्रयोगव्यवस्थापकत्वात् । काले हीमौ शब्दौ रूढौ, न कर्मणि । कालद्वयोपहितकर्मसमुदायद्वायानुवादस्य च प्रयोजनं दर्शपूर्णमासाभ्यामित्यधिकारवाक्यगतद्वित्वोपपादनम् ।
तस्मात्समुदायानुवादाविति ।
उत्पत्त्यधिकारयोरविसंवादार्थमप्याग्नेयादिवाक्ये यागविधिरभ्युपेय इत्याह —
अतएवेति ।
अत्राप्यधिकारविधौ यजेत इति दर्शनात्प्रागपि यागविधिरित्यर्थः ।
कृतिनिर्वर्त्यस्य धात्वर्थस्यैव नियोगावच्छेदकतेत्युपसंहरति —
तस्मादिति ।
विधिर्नियोगः ।
एवं नियोगकृतिभावार्थानां व्याप्यव्यापकतामुक्त्वा व्यापकनिवृत्त्या व्याप्यनिवृत्तिनिषेधेष्वाह —
तथाचेत्यादिना ।
निषेधेषु भावार्थापादनमिष्टप्रसङ्ग इत्याशङ्क्याभ्युपगमे बाधकमाह —
एवंचेति ।
नामधात्वर्थयोगे हि नञः पर्युदासकता, न हन्यादित्यादौ त्वाख्यातयोगात्प्रतिषेधो भाति । तत्रानीक्षणवल्लक्ष्यः पर्युदास इत्येको दोषोऽपरश्च विधिनिषेधविभागलोप इत्यर्थः ।
प्रजापतिव्रतन्यायं (जै.अ.४.पा.१.सू.३ — ९) विभजते निषेधेषु तदभावाय —
नेक्षेतेति ।
तत्र हि तस्य ब्रह्मचारिणो व्रतमित्यनुष्ठेयवाचिव्रतशब्दोपक्रमादेकस्मिंश्च वाक्ये प्रक्रमाधीनत्वादुपसंहारस्याख्यातयोगिना नञ प्रतीतोऽपि प्रतिषेधोऽननुष्ठेयत्वादुपेक्ष्यते । धात्वर्थयोगेन च पर्युदासो लक्षणीयः । तथा चेक्षणविरोधिनी क्रिया सामान्येन प्राप्ता तद्विशेषबुभुत्सायां च सर्वक्रियाप्रत्यासन्नः संकल्प इत्यवगतम् । ईक्ष इति तु संकल्पः ईक्षणापर्युदासेन नाद्रियते; ततोऽनीक्षणसङ्कल्पलक्षणा युक्ता, नैवं निषेधेषु संकोचकमस्तीत्यर्थः ।
एवं निषेधेषु भवार्थाभावमभिधाय तद्व्याप्तकृतिनियोगयोरभावमाह —
तस्मादिति ।
तदयं प्रयोगः —
विमतं न नियोगावच्छेदकं, अभावत्वात्संमतवदिति ।
क्रियाशब्द इति ।
विभागभाष्येऽक्रियार्थानामानर्थक्याभिधानादिह क्रियाशब्दः कार्यवचनः । अकार्यार्थानां ह्यानर्थक्यं नियोगवादिनो मतं, न भावार्थाविषयाणाम्; नियोगस्याप्यभावार्थत्वादिति ।
निषेधेषु भावार्थाभावान्न कार्यमित्युक्तं, तत्र हेत्वसिद्धिं शङ्कते —
स्यादेतदिति ।
विधिश्रुतिसिद्धो नियोगो विषयं भावार्थमाक्षिपतु, स एव कः? न तावद्धननादिः; तस्य रागप्राप्तेः, अनुपात्तक्रियाविधौ च लक्षणाप्रसङ्गात्, अत आह —
न च रागत इति ।
लक्षणया हननविरोधी यत्नो विधेयः, प्रयोजनलाभे च लक्षणा न दोषायेत्यर्थः ।
इत्याहेति ।
अस्यां शङ्कायामाहेत्यर्थः ।
व्यवहितान्वयेन व्याकुर्वन् भाष्यमुदाहरति —
नचेति ।
भाष्ये नञ इति पदम् अनुरागेणेत्यधस्तनेनाप्राप्तक्रियार्थत्वमित्युपरितनेन च संबध्यते ।
स्वभावप्राप्तहन्त्यर्थानुरागेणेति ।
नेदमनुवादस्थं; तथा सति हि सर्वमेव भाष्यं प्रतिज्ञापरं स्यात् – ‘स्वभावप्राप्तहन्त्यर्थानुरागेण यन्नञोऽप्राप्तक्रियार्थत्वं तन्नेति’ ।
तच्च न युक्तम्; नञश्चेत्युत्तरभाष्यस्य चशब्दयोगेन शङ्कानिरासित्वाद्धेत्वदर्शनात्, तन्मा भूदिति पृथक्कृत्य हेतुभागमाकाङ्क्षापूर्वकं योजयति —
केनेति ।
किमिह विधेयं हननादि वा नञर्थो वा विधारकप्रयत्नो वेति विकल्प्य क्रमेण दूषयति —
हननेत्यादिना ।
अत्र विधारप्रयत्नविधिराशङ्कितः, स एव च निराकर्तव्यः, इतरत्तु पक्षद्वयं परस्य शाखाचंद्रमनिरासार्थं दूषितम् ।
ननु नञर्थश्चेन्न विधीयते, तर्हि हननं नास्तीत्यादाविव सिद्धतया प्रतीयेतेत्याशङ्क्याह —
अभावश्चेति ।
रागप्राप्तकर्तव्यताकहननलक्षणप्रतियोगिगतं साध्यत्वमभावे समारोप्यत इत्यर्थः ।
कर्तव्यत्वाभावबोधस्य निवर्तकत्वमयुक्तं; सत्यपि तस्मिन्हननगतदृष्टेष्टसाधनत्वप्रयुक्तकर्तव्यताया अनपायादित्युत्तरभाष्यस्य शङ्कामाह —
ननु बोधयन्विति ।
औदासीन्यस्य प्रागभावतया कारणानपेक्षत्वादध्याहरति —
पालनेति ।
निषेधेषु नञ् समभिव्याहृतविधिप्रयत्नेन प्रकृत्यर्थभूतहननादिगतक्षुद्रेष्टोपायतामनपबाध्य तद्गतगुरुतरादृष्टानिष्टोपायता ज्ञाप्यतेऽतो निवृत्त्युपपत्तिरिति वक्तुं लोके विधिनिषेधयोरिष्टानिष्टोपायत्वबोधकत्वं व्युत्पत्तिबलेन दर्शयति —
अयमभिप्राय इत्यादिना ।
प्रवर्तकेषु वाक्येषु इत्यतः प्राक्तनेन ग्रन्थेन ।
इन्दूदयगतहितसाधनतायां न प्रवृत्तिहेतुता, प्राक्कृतभुजङ्गाङ्गुलिदाने च नाधुना निवृत्तिहेतुत्वं, ततो विशिनष्टि —
कर्तव्यतेति ।
कर्तव्यतया सहैकस्मिन् धात्वर्थे समवेताविष्टानिष्टसाधनभावौ तौ तथोक्तौ ।
फलेच्छाद्वेषयोरुक्तविधसाधनभावावगमपूर्वकत्वाभावादनैकान्तिकत्वमाशङ्क्याह —
प्रवृत्तिनिवृत्तिहेतुभूतेति ।
दृष्टान्ते साध्यविकलतामाशङ्क्याह —
न जात्विति ।
शब्दादीनामपूर्वपर्यन्तानां ये प्रत्ययास्तत्पूर्वाविच्छाद्वेषौ बालस्य मा भूतां, प्रत्यक्षव्यवहारे सर्वेषामभावादित्यर्थः । पचतीत्यादौ प्रतीतापि भावना न प्रवर्तिकेति त्रैकाल्यानवच्छिन्नेत्युक्तम् । इत्यानुपूर्व्या सिद्धः कार्यकारणभाव इत्यन्वयव्यतिरेकप्रदर्शनपरम् । इष्टेत्यादि सिद्धमित्यन्तमिष्टानिष्टोपायतावगमस्य प्रवृत्तिनिवृत्ती प्रति हेतुत्वप्रदर्शनपरम् इति विवेक्तव्यम् ।
ननु कर्तव्यतेष्टासाधनत्वविशिष्टव्यापारपरः शब्दोऽस्तु, किं धर्ममात्रपरत्वेनात आह —
अनन्यलभ्यत्वादिति ।
व्यापारो लोकसिद्ध इति न शब्दार्थ इत्यर्थः ।
ननु हननादिषु प्रत्यक्षदृष्टेष्टसाधनत्वकर्तव्यत्वयोर्निषेद्धुमशक्यत्वात्कथमभावबुद्धिरिति भाष्यमत आह —
निषेध्यानां चेति ।
दृश्यमानमपीष्टं बह्वदृष्टानिष्टोदयावहत्वादनिष्टमित्यनर्थहेतुत्वज्ञापनपरं वाक्यम् । एवंच पर्युदासपक्षादस्य पक्षस्य न विशेष इति न शङ्क्यं; श्रुतेष्टसाधनत्वाभावोपपत्तयेऽनिष्टसाधनत्वकल्पनात्, त्वन्मते श्रुतं परित्यज्याश्रुतविधारकप्रयत्नविधिकल्पनादिति । आयतिर्भाविफलम् ।
प्रवृत्त्यभावमित्यस्य व्याख्या —
निवृत्तिमिति ।
उद्यमक्रियाया मयोपरन्तव्यमिति बुद्ध्या निवर्तते, नतु प्रवृत्तिप्रागभावमात्रमित्यर्थः ।
यथोक्ताभावबुद्धेरौदासीन्यस्थापकत्वेऽपि क्षणिकत्वात्तद्द्वंसे हननोद्यमः स्याच्छश्वत्तत्संततौ च विषयान्तरज्ञानानुदयप्रसङ्ग इति शङ्कते —
स्यादेतदिति ।
यथाग्निः पुनर्ज्वालोपजनननिदानमिन्धनं दहन्नुशान्तोऽपि भवति भाविनीनां ज्वालानामुदयविरोधी, एवमभावबुद्धिः क्षणिकतया स्वयमेव शाम्यत्यपि हननाद्यहितोपायतानवबोधं दग्ध्वा तन्निदाना उपरितनीः प्रवृत्ती रुणद्धीति ।
भाष्यार्थमाह —
तावदेवेति ।
नह्यभावबुद्धिरौदासीन्यस्यानादिनः स्थापनकारणं, येन तदभावे कारणाभावादिदं न भवेत्, अपित्वपवादनिरासिकेत्याह —
एतदुक्तमिति ।
अनादित्वादौत्सर्गिकमौदासीन्यं, तत्रापवादनिवर्तकारान्निधावप्यौत्सर्गिकस्थेम्नि दृष्टान्तमाह —
यथेति ।
कमठः कूर्मः ।
यदौदासीन्यं तत्प्रागभावरूपत्वादुक्तमपि न निवृत्तिहेतुः; ततः कर्तव्यत्वेन प्रसक्तक्रियाप्रतियोगिकनिवृत्तिरूपेण विशिष्टं निवृत्त्युपयोगि, यद्धन्यात्तन्नेति प्रसक्तक्रियानिवृत्तिरूपता चौदासीन्यस्य न; सर्वदा क्रियाप्रसङ्गाभावात्, अतः काकवदुपलक्षणम्, तादृश्या निवृत्त्योपलक्ष्यौदासीन्यं विशिनष्टि भाष्यकार इत्याह —
औदासीन्यमिति ।
ननु केयं प्रसक्तक्रियानिवृत्तिः? न तावद्धननादिप्रागभावः, अनादित्वादेव तद्बोधनस्यानुपयोगात् । नापि तद्ध्वंसः; प्रसक्तक्रियाया अनुदयेन ध्वंसायोगात्, उच्यते, ‘हननोद्यतखङ्गादेः परावर्तनमुच्यते । निवृत्तिरिति तस्मिन्हि हननं न भविष्यति’॥ एषा च निवृत्तिः नञर्थबोधफला, नञर्थस्तु हननगतेष्टसाधनत्वाभाव एवेति ।
भाष्ये जैमिनीयमानर्थक्याभिधानं क्रियासन्निधिस्यार्थवादादिविषयमित्युक्तम्, तदाम्नायस्य क्रियार्थत्वादिति हेतोस्तद्बलेनाक्रियार्थानामप्रामाण्यमिति पूर्वपक्षस्य विध्येकवाक्यत्वेन प्रामाण्यमिति सिद्धान्तस्य च तद्विषयत्वोपलक्षणार्थमित्याह —
पुरुषार्थानुपयोगीति ।
स्वयं पुमर्थब्रह्मावगमपरत्वमुपनिषदामसिद्धमित्याशङ्क्य भाष्यव्याख्याया परिहरति —
यदपीत्यादिना ।
अवगतब्रह्मात्मभावस्येति भाष्येऽवगतिशब्दाभिप्रायमाह —
सत्यमिति ।
साक्षात्कारस्य स्वरूपत्वान्न निवर्तकतेति, तत्राह —
ब्रह्मसाक्षात्कारश्चेति ।
आत्मानमपि स्वं साक्षात्कारमिति ।
श्रवणादिसंस्कृतमनोजन्यश्चेत्साक्षात्कारः कथं तर्हि वेदप्रमाणजनितेनि भाष्यमत आह —
अत्रचेति ।
अशरीरत्वं देहपातोत्तरकालमिति शङ्कायां सशरीरत्वस्य निमित्तवर्णनमयुक्तमित्याशङ्क्याह —
यदीति ।
सशरीरत्वं मिथ्यात्वाज्जीवत एव ज्ञानेन निवर्त्यं, तर्ह्यशरीरत्वमप्यभावत्वात्तथेत्याशङ्क्य न तत्त्वतः शरीरसंबन्धाभावोपलक्षितस्यातथात्त्वादित्याह —
यत्पुनरिति ।
भाष्ये तच्छब्देन नह्यात्मन इति प्रस्तुतात्मपरामर्श इत्याह —
तदितीति ।
शरीरसंबन्धस्येत्याद्यसिद्धेरित्यन्तं भाष्यं व्याचष्टे —
न तावदिति ।
‘शरीरसंबन्धस्य धर्माधर्मयोरि’त्यादि ‘प्रसङ्गा’दित्यन्तं भाष्यं विवृणोति —
ताभ्यां त्विति ।
आत्मनि स्वतोऽ सिद्धाभ्यां धर्माधर्माभ्यां जन्यशरीरसंबन्धं प्रति प्रीयमाणे वादिनी सिद्धे शरीरसंबन्धे धर्मादिसंबन्धः तत्सिद्धौ शरीरादिसंबन्ध इति परस्पराश्रयं स्वपक्षे प्रापयतीत्यर्थः ।
धर्माधर्मव्यक्त्योः शरीरसंबन्धव्यक्तेश्चेतरेतरहेतुत्वे यद्यपीतरेतराश्रयः, तथापि न दोषोऽनादित्वादिति सत्कार्यवादी शङ्कते —
यद्युच्येतेति ।
तत्र नित्यसत्योर्व्यक्त्योर्न हेतुहेतुमत्ता, अभिव्यक्त्योस्तु कादाचित्क्योरितरेतराधीनत्वे एकस्या अप्यसिद्धेरन्धपरम्परातुल्यानादित्वकल्पना स्यादित्याह —
अन्धपरम्परेति ।
असत्कार्यवादी व्यक्तिभेदेनेतरेतराश्रयं परिहरतीत्याह —
यस्त्विति ।
किं त्वेष इति ।
इदानीन्तनशरीरसंबन्धहेतुरित्यर्थः ।
पूर्व एवात्मशरीरसंबन्धो विशेष्यते —
पूर्वधर्माधर्मभेदजन्मन इति ।
पूर्वाभ्यां धर्माधर्मविशेषाभ्यां जन्म यस्य स तथोक्तः ।
एष त्विति ।
वर्तमान इत्यर्थः ।
आत्मन्यध्यासप्रस्तावोक्तयुक्तिभिर्नैकोपि क्रियासंबन्धः, कथमनन्तव्यक्तिसंभव इति परिहरतीत्याह —
तं प्रत्याहेति ।
देहात्मसंबन्धहेतुर्मिथ्याभिमानः प्रत्यक्ष इत्युक्तम्, तदाक्षिप्य समाधत्ते —
ये त्विति ।
अप्रसिद्धवस्तुभेदस्यान्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्ताविति प्रतिज्ञाय संशयनिमित्तशब्दप्रत्ययोदाहरणं भाष्येऽनुपपन्नमित्याशङ्क्य भ्रान्तिशब्देन समारोप उक्तः ।
अस्ति च संशयस्यापि समारोपत्वमित्याह —
तत्र हि पुरुषत्वमिति ।
भ्रान्तेरप्युचितनिमित्तापेक्षणादकस्मादित्ययुक्तमित्याशङ्क्याह —
शुक्लभास्वरस्येति ।
साधारणधर्मिणी दृष्टे किं तन्मात्रं विपर्ययकारणमुत सादृश्यादिदोषमिलितम् ।
नाद्यः; धवलभास्वररूपस्य शुक्तिरजतसाधारण्ये सति व्यवहितरजतनिश्चयात् प्रागेव सन्निहितशुक्तिनिश्चयप्रसङ्गादित्यभिधाय द्वितीयं दूषयति —
संशयो वेति ।
समानो धर्मो यस्य स तथोक्तः ।
दृष्टेऽपि साधारणे धर्मिणि निश्चयः स्याद्यद्यन्यतरकोटिनिर्णायकं प्रमाणं स्यात्, स्थाणुत्व इव शाखादिदर्शनं, बाधकं वा प्रमाणं कोठ्यन्तरमुपलभ्येत, यथा तत्रैव पुरुषत्वविपरीते निश्चेष्टत्वादि, नैवमिहेत्याह —
उपलब्धीति ।
उपलब्धिः साधकं प्रमाणम्, अनुपलब्धिर्बाधकं, तयोरभावोऽत्राव्यवस्था । ततः संशयो वा युक्त इत्यधस्तनेनान्वयः ।
ननु विशेषद्वयस्मृतौ संशयः, इह तु रजतमेव स्मृतमिति विपर्यय एवेति, तत्राह —
विशेषद्वयेति ।
अत्र हेतुमाह —
संस्कारेति ।
इतिशब्दो हेतौ । उद्बुद्धः संस्कारो हि स्मृतिहेतुः तदुद्बोधहेतुश्च सादृश्यम्, तस्य द्विष्टत्वेन शुक्तिरजतोभयनिष्ठत्वेन हेतुनोभयत्रैतत्सादृश्यं तुल्यमिति यतोऽतः संशय एव युक्तः । न च रागाद्विपर्ययः; विरक्तस्यापि शुक्तौ रजतभ्रमादिति । एषात्र संशयसामग्र्यक्षपादेन वर्णिता – ‘‘समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशय’’ इति । समानधर्मः साधारणधर्मः । अनेकस्माद्व्यावृत्तो साधारणोऽनेकधर्मः ।
एवमिह विपर्ययनियामकं दृष्टं नास्तीत्युपपाद्याकस्माच्छब्द एवमभिप्राय इत्याह —
अत इति ।
कथं तर्हि दृश्यमानविपर्ययनियमः ? तत्राह —
अनेनेति ।
दृष्टं हेतुं प्रतिषिध्य कार्यनियमं प्रतिजानता भाष्यकारेणादृष्टं कर्म हेतुत्वेनार्थादुक्तमिति ।
ननु तदपि समं किं न स्यात्? तत्राह —
तच्चेति ।
श्रुतिस्मृतीरिति ।
श्रुतिं स्मृतिं चेत्यर्थः ।
साक्षात्कारो हि दृष्टं फलं, तादर्थ्यं मननादेर्वदन्भाष्यकारो विधिं न मृष्यत इत्याह —
तदिदमिति ।
अत्रैके वदन्ति — न दृष्टा श्रवणादेरवगत्युपायता; कृतश्रवणादीनामपि केषांचिदिह साक्षात्कारासमुन्मेषात्, तात्कालिकश्रवणादिविधुरवामदेवादेरप्यपरोक्षज्ञानसमुदयाच्च, जन्मान्तरकृतस्य च विधिमन्तरेण साधनभावानवकल्पनात्, श्रवणादिविध्यनभ्युपगमे च तद्विध्युररीकारप्रवृत्तप्रथमसूत्रतद्भाष्यकदर्थनादयुक्तस्तदनभ्युपगमः —
इति । ।
तत्र न तावदनुष्ठितसाधनस्येह फलादर्शनं तद्विधिव्याप्तम्; अनवरतं वैशेषिकाद्यसच्छास्त्रश्राविणामप्यपटुमतीनां केषांचित्तच्छास्त्रार्थानवबोधदर्शनेऽपि तच्छ्रवणविध्यभावात् । नापि भवान्तरकृतकर्मण इह फलजनकता तद्विधिव्याप्ता; जातिस्मरस्य प्राचि भवे धनमुपार्ज्य भुवि निखन्य प्रमीतस्येह जन्मनि तदादाय भोगान्भुञ्जानस्यापि प्राग्भवीयधनोपार्जनायाः संप्रतितनफलार्थमविहिताया अपि हेतुभावोपलम्भात् । प्रथमसूत्रं तु शास्त्रीयविषयफलनिरूपकं न विधिविचारपरमिति । किंच — प्राधान्यं श्रवणादेर्न भवतामपि संमतम् । गुणकर्मत्वमत्रैव भाष्यकृद्भिर्निजुह्वुवे॥
‘यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येतेत्यादिनेति’
इत्युक्तमधस्तादिति ।
गान्धर्वशास्त्राभ्यासवदपूर्वानपेक्षया साक्षात्कारहेतुतोक्तेत्यर्थः । गुणकर्म ह्युपयोक्ष्यमाणशेषः; यथाऽवघातादि, उपयुक्तशेषो वा; यथा कृतप्रयोजनप्रयाजशेषाज्यस्य हविष्षु क्षारणं ‘प्रयाजशेषेण हवींष्यभिघारयेदिति’ विहितम् ।
तदिहात्मन उपयुक्तोपयोक्ष्यमाणत्वाभावान्न तद्विषयं मननादि गुणकर्मेत्याह —
तदपीति ।
न च श्रवणादिसंस्कृतस्यात्मनः साक्षात्कारजन्मन्यस्तूपयोग इति श्रवणादिगुणकर्मत्वसिद्धिः; अपूर्वोपयोगिन एव गुणकर्मत्वाद्, दृष्टे तु साक्षात्कारेऽपूर्वाभावेन तदयोगादिति । ननु बाह्यक्रियाविधिः प्रथमकाण्डे गतो मानसज्ञानविधिविचाराय पृथगारंभ इति शङ्कापोहार्थमारभ्यमाणं चेति भाष्यम्॥
अहं ब्रह्मास्मीति वाक्यस्य तदर्थस्य चेतरप्रमाणावसानत्वमयुक्तं, नित्यनिवृत्तिप्रसङ्गादित्याशङ्क्य ज्ञानपर इतिशब्द इत्याह —
इतिकरणेनेति ।
विधीनामद्वैतज्ञानविरोधं दर्शयति —
विधयो हीति ।
त्र्यंशा भावना हि धर्मः । तद्विषया विधयः साध्यादिभेदाधिष्ठानास्तद्विषयाः ।
अपि चैतेऽनुष्ठेयं धर्ममुपदिशन्तस्तदुत्पादिनः पुरुषेण तमनुष्ठापयन्तीति साध्यधर्माधिष्ठानास्तत्प्रमाणानीति यावत्, अतो नित्यसिद्धाद्वैतब्रह्मावगमे तेषां विरोध इत्याह —
धर्मोत्पादिन इति ।
नहीति ।
हेतुभाष्यस्य प्रतीकोपादानम् ।
नहीत्यादिनिर्विषयाणीत्यन्तं भाष्यं व्याख्याति —
अद्वैते हीति ।
विषयनिषेधो वाक्यार्थभेदः साध्यसाधनादिपदार्थभेदस्तम्भाद्यर्थभेदश्चाद्वैतावगतौ न भवतीति भाष्यार्थः ।
अप्रमातृकाणीत्येतद्व्याचष्टे —
न च कर्तृत्वमिति ।
ज्ञानकर्तृत्वमित्यर्थः । निर्विषयाण्यप्रमातृकाणीति बहुव्रीही विशेषणपरौ । तथा सति हि विषयप्रमातृनिषेधयोर्हेतुत्वसिद्धिः ।
भाष्ये चकारः करणनिषेधार्थ इत्याह —
तदिदमिति ।
भाष्यस्थप्रमाणशब्दो भावसाधनत्वेन ज्ञानवाची ततश्चकारेण करणनिषेधः ।
पुत्रादावहमित्यभिमानो गौणात्मा चेत्तर्हि मुख्यात्मना किं गुणसाम्यमत आह —
यथेति ।
वाहीको नाम देशविशेषस्तन्निवासी तच्छब्दोक्तः ।
पुत्रादेरुपकारकत्वारोपाद्य आत्माभिमानस्तस्मिन्निवृत्ते ममत्वबाधनेत्याह —
गौणात्मन इति ।
श्रवणादिप्रमाणबाधमुक्त्वा प्रमित्यभावमाह —
न केवलमिति ।
बोधीतीनन्तपाठो व्याख्यातः । सप्तम्यन्तस्तु निगदव्याख्यातः ।
नियतप्राक्सत्त्वं हि कारणत्वं, प्रमात्रादिश्च ज्ञानकारणं, तस्मिन् सकृदुदिततत्त्वसाक्षात्कारान्निवृत्ते नोर्ध्वं ज्ञानानुवृत्तिरित्यर्थपरत्वेन प्रथमार्धं व्याख्याय प्रमातृलये फलिनोऽभावाद् मोक्षस्यापुमर्थतेति शङ्कां द्वितीयार्धव्याख्यया निरस्यति —
न च प्रमातुरिति ।
अन्वेष्टव्यः परमात्माऽन्वेष्टुः प्रमातृत्वोपलक्षिताच्चिदेकरसान्न भिन्नस्ततोऽध्यस्तप्रमातृत्वबाधेऽप्युपलक्षित आत्मैव पापदोषादिरहितोऽन्विष्टो विदितः स्यादतो नोक्तदोष इत्यर्थः ।
ननु यद्यन्वेष्टुरात्मभूतं ब्रह्म, किमिति तर्हि संसारे न चकास्ति? तत्राह —
उक्तमिति ।
प्रमात्रादेस्तत्त्वज्ञानहेतुतां सिद्धवत्कृत्य ज्ञानात्तन्निवृत्तौ हेत्वभावात्फलाभाव उक्तः ।
स न, बाध्यस्य प्रमात्रादेः प्रमानुत्पादकत्वापाताद् इति शङ्कोत्तरत्वेन तृतीयश्लोकं व्याख्याति —
स्यादेतदिति ।
यदलीकं तन्न प्रमाहेतुरिति व्याप्तिं प्रशिथिलयति —
एतदुक्तमिति ।
य उत्पद्यतेऽनुभवो न स पारमार्थिको यः पारमार्थिको न स उत्पद्यतेऽतश्चाप्रमाणात्कथं पारमार्थिकानुभवोत्पत्तिरित्ययमिष्टप्रसङ्ग इत्याह —
नचायमिति ।
वृत्तावपि प्रतिबिम्बितचिदंशः सत्यो ऽस्ति, तत उक्तम् —
एकान्तत इति ।
ननु वृत्तिरूपसाक्षात्कारोऽलीकत्वादविद्यात्मकः कथमविद्यामुच्छिन्द्यादविद्या वा कथं स्वविरोधिनं तं जनयेदत आह —
अविद्या त्विति ।
अलीकस्यापि सत्यविषयत्वादविद्यानिवर्तकत्वोपपत्तिः, दृष्टं च स्वप्नोपलब्धव्याघ्नादीनां स्वोपादानाविद्यानिवर्तकत्वमिति भावः । अविद्यामयी वृत्तिर्यद्यविद्यामुच्छिन्द्यात्तामेव स्वनिवर्तिकामविद्यां जनयेद्वोभयथाप्युक्तमार्गेण न काचिदनुपपत्तिरित्यर्थः । विद्यां वृत्तिमविद्यां च कार्यकारणभावेन सहिते यो वेद सोऽविद्योपादानत्वेन तन्मय्या वृत्त्या तदुपादानं मृत्युमविद्यां तीर्त्वा स्वरूपभूतविद्योपलक्षितममृतमनुत इति श्रुतेरर्थः॥ भाष्योदाहृतश्रुतयो व्याख्यायन्ते । उत्तरत्रापि तत्तदधिकरणसमाप्तौ श्रुतयो व्याख्यास्यन्ते ।
सदेवेति ।
सदित्यस्तितामात्रमुक्तम् । एवशब्दोऽवधारणार्थः ।
किं तदवध्रियत इत्यत आह —
इदमिति ।
यदिदं व्याकृतं जगदुपलभ्यते तत्, अग्रे प्रागुत्पत्तेः विकृतरूपपरित्यागेन सदेवासीत्, हे सौम्य प्रियदर्शनेति श्वेतकेतुः पित्रा संबोध्यते ।
मा भूत्स्थूलं पृथिवीगोलकादीदम्बुद्धिग्राह्यं प्रागुत्पत्तेः, अन्यत्तु महदादिकं किमासीत्? नेत्याह —
एकमेवेति ।
स्वकार्यपतितमन्यन्नासीदित्यर्थः ।
मृदो घटाकारेण परिणमयितृकुम्भकारवत् किं सतोऽन्यन्निमित्तकारणमासीत्? नेत्याह —
अद्वितीयमिति ।
आप्नोतीत्यात्मा परमकारणं, वै इति जगतः प्रागवस्थां स्मारयति । इदमित्यादिपदव्याख्या पूर्ववत् । तदिति प्रकृत आत्मा परामृश्यते, य इन्द्रो मायाभिः पुरुरूप ईयत इत्युक्तः । नपुंसकप्रयोगस्तु विधेयब्रह्मापेक्षः ।
तदेतदेव यद्ब्रह्म तद्वा किंलक्षणमित्यत आह —
अपूर्वमिति ।
नास्य पूर्वं कारणं विद्यत इत्यपूर्वम्, अकार्यमित्यर्थः । तथा नास्यापरं कार्यं वास्तवं विद्यत इत्यनपरम्, अकारणमिति यावत् । नास्यान्तरं जात्यन्तरम् अन्तराले विद्यत इत्यनन्तरम्, दाडिमादिवत्स्वगतरसान्तरविधुरमित्यर्थः । एवंविधमन्यदपि कूटस्थमेतदनात्मकतया बाह्यमस्य न विद्यत इत्यबाह्यमिति । यत्पुरस्ताद् दृश्यमविद्यादृष्टीनामब्रह्मेव प्रतिभासते, तत्सर्वमिदममृतं ब्रह्मैव वस्तुत इत्यर्थः । तथा पश्चाद्दक्षिणतः इत्यादिमन्त्रशेषेण सर्वात्मत्वमवगन्तव्यम्॥ संपतत्यस्मादमुं लोकं फलभोगायेति संपातः कर्म, तद्यावत्तावदुषित्वा आवर्तत इति । इष्टं श्रौतम् । पूर्तं स्मार्तम् । दत्तं दानम्॥ परमार्थतः शरीरसंबन्धरहितं वाव एव सन्तं भवन्तम् तमात्मानं वैषयिके प्रियाप्रिये न स्पृशतः । । एवं परमार्थतोऽशरीरं शरीरेष्वनवस्थेष्वनित्येष्ववस्थितं नित्यं, महान्तम् ।
??महत्त्वमापेक्षिकमित्याशङ्क्याह —
विभुम् ॥
मन्तृमन्तव्यभेदनिषेधार्थमाह —
आत्मानमिति ।
ईदृशमात्मानं मत्वा धीरो धीमान्न शोचति॥ प्राणः क्रियाशक्तिः परमार्थतो न विद्यते यस्य सोऽप्राणः । तथा ज्ञानशक्तिमन्मनो यस्य नास्ति सोऽमनाः । क्रियाशक्तिमत्प्राणनिषेधेन तत्प्रधानानि कर्मेन्द्रियाणि, ज्ञानशक्तिमन्मनोनिषेधेन तत्प्रधानानि ज्ञानेन्द्रियाणि च सविषयाणि निषिद्धानि । यस्मादेवं तस्माच्छुभ्रः शुद्ध इति । स्वप्नाद्यवस्थाकृतकर्मस्वकर्तात्मेत्युक्तं स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन भवतीति पूर्ववाक्ये ।
तत्र हेतुरुच्यते —
असङ्गो हीति ।
मूर्तं हि मूर्तान्तरेण संसृज्यमानं सृज्यते । आत्मा स्वयं पुरुषो न मूर्तः । अतो न केनचित्सृज्यत इत्यसङ्गः । अतो न कर्तेति॥ धर्मादधर्मात्तत्फलसुखदुःखाच्च कृतात् कार्यप्रपञ्चाद् अकृतात्कारणाद् अन्यत्र पृथक् भूतं भूतादेः कालादन्यत्र तेनानवच्छेद्यं, चेत्पश्यसि तद्वदेति मृत्युं प्रति नचिकेतसः प्रश्नः॥ अस्य विदुषोऽप्रवृत्तफलानि कर्माणि, तस्मिन् परावरे ब्रह्मणि आत्मत्वेन दृष्टे क्षीयन्ते । परं कारणम् । अवरं कार्यम् । तद्रूपे तदधिष्ठाने ॥ ब्रह्मणः स्वभावमानन्दं विद्वान् । यदस्मिन्देहे जलसूर्यवत् प्रविष्टं ब्रह्म जीवाभिधं तदाचार्येण बोध्यमानमात्मानमेव विधूतकल्पनमवेद् विदितवत् । किं साङ्ख्यमत इव द्वैतमध्ये? न, अपि तु अहं ब्रह्माद्वितीयमस्मीति । तस्मादेव विज्ञानादविद्याकृतासर्वत्वनिवृत्त्या तद् ब्रह्म सर्वमभवत्॥ यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानत इति यः सर्वात्मभावो विद्याभिव्यक्त उक्तः, तत्रात्मनि तत्र चाज्ञानकाले आत्मैकत्वं पश्यतः को मोहः । तत्पदलक्ष्यं ब्रह्म एतदात्मभावेनावस्थितमहमस्मीति पश्यन्नेतस्मादेव दर्शनादृष्टिः वामदेवाख्यः परं ब्रह्म अविद्यानिवृत्तिद्वारा प्रतिपन्नवान् किलेति । हशब्दो व्यवधानेन संबन्धनीयः । स एतस्मिन्दर्शने स्थितः सर्वात्मभावप्रकाशकानहं मनुरित्यादीन्मन्त्रांश्च ददर्श॥ भारद्वाजादयः षडृषयः परं विद्याप्रदं पिप्पलादं गुरुं विद्यानिष्क्रयार्थमनुरूपमन्यदपश्यन्तः पादयोः प्रणम्य प्रोचुः । त्वं ह्यास्माकं पिता ब्रह्मशरीरस्याजरामरस्य विद्याया जनयितृत्वाद्, इतरौ तु शरीरमेव जनयतः । जनयितृत्वमपि सिद्धस्यैवाविद्यानिवृत्तिमुखेनेत्याह — यस्त्वं नः । अस्मानविद्यामहोदधेः परमपुनरावृत्तिलक्षणं पारं तारयसि विद्याबलेनेति प्रश्नोपनिषत्॥ श्रुतं ह्येव मे इत्यादिच्छन्दोगश्रुतिः सनत्कुमारनारदसंवादरूपा । तत्रापि तारयत्वित्यन्तमुपक्रमस्थं वाक्यं शेषमाख्यायिकोपसंहारस्थं वाक्यान्तरम् । मे मम भगवद्दृशेभ्यो भगवत्सदृशेभ्यः । इदं श्रुतम् । यत्तरति शोकं मनस्तापमकृतार्थबुद्धिमात्मविदिति । सोऽहमनात्मवित्त्वाच्छोचामि अतस्तं मां शोकसागरस्य पारमन्तं भगवांस्तारयतु आत्मज्ञानोडुपेनेति । वल्कलादिवच्चित्तरञ्जको रागादिकषायो मृदितः क्षालितो विनाशितो यस्य ज्ञानवैराग्याभ्यासक्षारजलेन तस्मै नारदाय तमसोऽविद्यालक्षणस्य पारं परमार्थतत्त्वं दर्शितवान्॥ संवर्गविद्यायां श्रूयते । वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति उपशाम्यति वायुमेवाप्येति प्रलीयते यदा सूर्योऽस्तमेति वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति वायुमेवाप्येति । यदाऽप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान्संवृङ्क्ते इत्याधिदैवतम् । अथाध्यात्मम् — प्राणोवाव संवर्गो यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मन इति । तद् ब्रह्मविदि तत्कार्यादन्यदेव । अथो अपि अविदितात्कारणात् अधि उपरि अन्यदित्यर्थः । येन प्रमात्रा इदं सर्वं वस्तु विजानाति लोकः, तं केन करणेन विजानीयात्? करणस्य ज्ञेयविषयत्वात्प्रमातरि वृत्त्यनुपपत्तेः । तस्मात्प्रमातापि न ज्ञेयः किन्तु तत्साक्षीत्यर्थः । यद्वाचा शब्देनानभ्युदितम् अप्रकाशितम् ।
येन ब्रह्मणा सा वागभ्युद्यते प्रकाश्यते इत्यविषयत्वम् उपन्यस्याह —
??।
तदेवात्मभूतम् प्रमातृत्वादिकल्पना अपोह्येत्येवकारार्थः । ब्रह्म महत्तममिति त्वं विद्धि, हे शिष्य यदुपाधिविशिष्टं देवतादीदमित्युपासते जनाः इदं त्वं ब्रह्म न विद्धीति । यस्य ब्रह्मामतमविषय इति निश्चयः, तस्य तद् ब्रह्म मतं सम्यग् ज्ञातं यस्य पुनर्मतं विषयतया मतं ब्रह्मेति मतिर्न, स वेद ब्रह्मभेदबुद्धित्वात् । एतौ विद्वदविद्वत्पक्षावनुवदति — अनियमार्थम् । अविज्ञातमिति विषयत्वेनाविज्ञातमेव ब्रह्म सम्यग्विजानतां विज्ञातमेव विषयतया भवति यथावदविजानताम् । दृष्टेश्चक्षुर्जन्यायाः कर्मभूताया द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्ययाऽनया न पश्येः । विज्ञातेर्बुद्धिधर्मस्य निश्चयस्य विज्ञातारमिति पूर्ववत् । तयोर्जीवपरयोर्मध्ये एको जीवः पिप्पलं कर्मफलम् अन्यः परमात्माऽभिचाकशीति पश्यत्येव नात्ति । आत्मीयं शरीरम् आत्मा शरीरादिसंयुक्तमात्मानमित्यर्थः । एको देवो गूढः । छन्नः । सर्वव्यापित्वं न गगनवत्, किंतु सर्वभूतान्तरात्मा, कर्माध्यक्षः कर्मफलप्रदाता, सर्वभूतानामधिवासोऽधिष्ठानम् ।
साक्षित्वे हेतुश्चेतेति ।
चैतन्यस्वभाव इत्यर्थः । केवलो दृश्यवर्जितः निर्गुणो ज्ञानादिगुणवान् न भवति॥ स आत्मा, परितः समन्तात् अगात्सर्वगतः शुक्रमित्यादयः शब्दाः पुल्लिङ्गत्वेन परिणेयाः; स इत्युपक्रमात् । अकायो लिङ्गशरीरवर्जितः । अव्रणोऽक्षतः । अस्नाविरः शिररहितः । अव्रणास्नाविरत्वाभ्यां स्थूलदेहराहित्यमुक्तम् ।
शुक्र इति ।
बाह्यशुद्धिविरहउक्तः । शुद्ध इत्यान्तररागाद्यभावः । अपापविद्धो धर्माऽधर्मरहितः । भाष्येऽनाधेयातिशयत्वनित्यशुद्धत्वयोः पूर्वसिद्धवदुक्तहेत्वोः सिद्धिमेतौ मन्त्रौ दर्शयत इति बोद्धव्यम् । आत्मानं साक्षिणमयं परमात्माऽस्मीत्यपरोक्षतया जानीयाच्चेत्, कश्चित्पुरुषः चेच्छब्दः आत्मसाक्षात्कारस्य दुर्लभत्वप्रदर्शनार्थः । स स्वव्यतिरिक्तमात्मनः किं फलमिच्छुः कस्य वा पुत्रादेः कामाय प्रयोजनाय, तदलाभनिमित्ततया शरीरं संतप्यमानमनु तदुपाधिः सन् संज्वरेत् संतप्येत । निरुपाध्यात्मदर्शिनो नान्यदस्ति प्रयोजनं नाप्यन्यः पुत्रादिरित्याक्षेपः । य आत्मा चतुर्थेऽथात आदेशो नेति नेतीति वाक्येन विश्वदृश्यनिषेधेन व्याख्यातः स एष पञ्चमेऽध्याये निरुप्यत इत्यर्थः । यथेन्द्रियादिभ्यः परं परमासीन्नैवं पुरुषादस्ति किंचित्परं सा पुरुषलक्षणा काष्ठावधिः सूक्ष्मत्वमहत्वादेः सैव गतिः परः पुरुषार्थः । यस्योदाहृतसविशेषब्रह्मणा । पृथिव्येव यस्यायतनमित्युपक्रम्योपन्यस्तानामधिष्ठानं तमौपनिषदमुपनिषद्भिरेव विज्ञेयम् । विशेषणस्य व्यावर्तकत्वादयमर्थो लभ्यते । पुरुषं त्वा त्वां पृच्छामि हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः । ‘अत्र ब्रह्म समश्नुत’ इति पूर्ववाक्ये जीवन्मुक्तिरुक्ता । तत्र देहे वर्तमानोऽपि पूर्ववन्न संसारीत्यत्र दृष्टान्तः । तत्तत्र यथाऽहिनिर्ल्वयिनी अहित्वग् वल्मीकादौ प्रत्यस्ता प्रक्षिप्ता मृता प्राग्वदहिनात्मत्वेनानभिमता शयीत वर्तेत एवमेवेदं विद्वच्छरीरं मुक्तेन पूर्ववदात्मत्वेनानभिमतं शेते । अथायं सर्पस्थानीयो जीवन्मुक्तः शरीरे वर्तमानोऽप्यशरीरः । अहिरपि हि त्यक्तत्वचा संयुक्तोऽपि तामहमिति नाभिमन्यते । अशरीरत्वादेवामृतः प्राणिति जीवतीति प्राणः निरुपाधिः सन्नित्यर्थः । एवंच ब्रह्मैव तच्च ब्रह्मतेज एव विज्ञानज्योतिः परमार्थविवेकतोऽचक्षुरपि बाधितानुवृत्त्या सचक्षुरिवेत्यादिश्रुत्यन्तरयोजना॥ इति वेदान्तकल्पतरौ चतुस्सूत्री समाप्ता॥