भामतीव्याख्या
वेदान्तकल्पतरुः
 
ईक्षत्यधिकरणविषयाः

एवं - “कार्यान्वयं विना सिद्धरूपे ब्रह्मणि मानता । पुरुषार्थे स्वयं तावद्वेदान्तानां प्रसाधिता” ॥ ब्रह्मजिज्ञासां प्रतिज्ञाय “जन्माद्यस्य यतः”(ब्र.सू.१ । १ । २) इत्यादिना “तत्तु समन्वयात्”(ब्र.सू.१ । १ । ३) इत्यन्तेन सूत्रसन्दर्भेण सर्वज्ञे सर्वशक्तौ जगदुत्पत्तिस्थितिविनाशकारणे प्रामाण्यं वेदान्तानामुपपादितम् । तच्च ब्रह्मणीति परमार्थतः । न त्वद्यापि ब्रह्मण्येवेति व्युत्पादितम् । तदत्र सन्दिह्यते - तज्जगदुपादानकारणं किं चेतनमुताचेतनमिति । अत्र च विप्रतिपत्तेः प्रवादिनां विशेषानुपलम्भे सति संशयः । तत्र च प्रधानमचेतनं जगदुपादानकारणमनुमानसिद्धमनुवदन्त्युपनिषद इति साङ्ख्याः । जीवाणुव्यतिरिक्तचेतनेश्वरनिमित्ताधिष्ठिताश्चतुर्विधाः परमाणवो जगदुपादानकारणमनुमितमनुवदन्तीति काणादाः । आदिग्रहणेनाभावोपादानत्वादि ग्रहीतव्यम् । अनिर्वचनीयानाद्यविद्याशक्तिमच्चेतनोपादानं जगदागमिकमिति ब्रह्मविदः । एतासां च विप्रतिपत्तीनामनुमानवाक्यानुमानवाक्यतदाभासा बीजम् । तदेवं विप्रतिपत्तेः संशये किं तावत्प्राप्तम् । तत्र “ज्ञानक्रियाशक्त्यभावाद्ब्रह्मणोऽपरिणामिनः । न सर्वशक्तिविज्ञाने प्रधाने त्वस्ति सम्भवः” ॥ ज्ञानक्रियाशक्ती खलु ज्ञानक्रियाकार्यदर्शनोन्नेयसद्भावे । न च ज्ञानक्रिये चिदात्मनि स्तः, तस्यापरिणामित्वादेकत्वाच्च । त्रिगुणे तु प्रधाने परिणामिनि सम्भवतः । यद्यपि च साम्यावस्थायां प्रधाने समुदाचरद्वृत्तिनी क्रियाज्ञाने न स्तः, तथाप्यव्यक्तेन शक्त्यात्मना रूपेण सम्भवत एव । तथा च प्रधानमेव सर्वज्ञं च सर्वशक्ति च । न तु ब्रह्म । स्वरूपचैतन्यं त्वस्यावृत्तितमनुपयोगि जीवात्मनामिवास्माकम् । न च स्वरूपचैतन्ये कर्तृत्वम् , अकार्यत्वात्तस्य । कार्यत्वे वा न सर्वदा सर्वज्ञता । भोगापवर्गलक्षणपुरुषार्थद्वयप्रयुक्तानादिप्रधानपुरुषसंयोगनिमित्तस्तु महदहङ्कारादिक्रमेणाचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य परिणामः सर्गः । दृष्टं चाचेतनं चेतनानधिष्ठितं पुरुषार्थे प्रवर्तमानम् । यथा वत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्तते । “तदैक्षत बहु स्यां प्रजायेय” (छा. उ. ६ । २ । ३) इत्याद्याश्च श्रुतयोऽचेतनेऽपि चेतनवदुपचारात्स्वकार्योन्मुखत्वमादर्शयन्ति, यथा कूलं पिपतिषतीति । “यत्प्राये श्रूयते यच्च तत्तादृगवगम्यते । भाक्तप्राये श्रुतमिदमतो भाक्तं प्रतीयते” ॥ अपि चाहुर्वृद्धाः - “यथाग्र्यप्राये लिखितं दृष्ट्वा वदन्ति भवेदयमग्र्यः” इति, तथेदमपि “ता आप ऐक्षन्त” (छा. उ. ६ । २ । ४) “तत्तेज ऐक्षत” (छा. उ. ६ । २ । ३) इत्याद्युपचारप्राये क्षुतं “तदैक्षत”(छा. उ. ६ । २ । ३) इत्यौपचारिकमेव विज्ञेयम् । “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि” (छा. उ. ६ । ३ । २) इति च प्रधानस्य जीवात्मत्वं जीवार्थकारितयाह । यथा हि भद्रसेनो राजार्थकारी राज्ञा भद्रसेनो ममात्मेत्युपचर्यते, एवं “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्याद्याः श्रुतयो भाक्ताः सम्पत्त्यर्था वा द्रष्टव्याः । “स्वमपीतो भवति” (छा. उ. ६ । ८ । १) इति च निरुक्तं जीवस्य प्रधाने स्वकीयेऽप्ययं सुषुप्तावस्थायां ब्रूते । प्रधानांशतमःसमुद्रके हि जीवोनिद्राणस्तमसीव मग्नो भवति । यथाहुः - “अभावप्रत्ययालम्बना वृत्तिर्निद्रा”(यो.सू. १.१०) इति । वृत्तीनामन्यासां प्रमाणादीनामभावस्तस्य प्रत्ययकारणं तमस्तदालम्बना निद्रा जीवस्य वृत्तिरित्यर्थः । तथा सर्वज्ञं प्रस्तुत्य श्वेताश्वतरमन्त्रोऽपि “सकारणं करणाधिपाधिपः” इति प्राधानाभिप्रायः । प्रधानस्यैव सर्वज्ञत्वं प्रतिपादितमधस्तात् । तस्मादचेतनं प्रधानं जगदुपादानमनुवदन्ति श्रुतय इति पूर्वः पक्षः । एवं काणादादिमतेऽपि कथञ्चिद्योजनीयाः श्रुतयः । अक्षरार्थस्तु -

प्रधानकारणपक्षेऽपीति प्रधानस्यापीति ।

अपिकारावेवकारार्थौ ।

स्यादेतत् । सत्त्वसम्पत्त्या चेदस्य सर्वज्ञताथ तमःसम्पत्त्या - सर्वज्ञतैवास्य कस्मान्न भवतीत्यत आह -

तेन च सत्त्वधर्मेण ज्ञानेनेति ।

सत्त्वं हि प्रकाशशीलं निरतिशयोत्कर्षं सर्वज्ञताबीजम् । तथाहुः - “निरतिशयं सर्वज्ञताबीजं” इति । यत्खलु सातिशयं तत्क्वचिन्निरतिशयं दृष्टं, यथा कुवलामलकबिल्वेषु, सातिशयं महत्त्वं व्योम्नि परममहति निरतिशयम् । एवं ज्ञानमप्येकद्विबहुविषयतया सातिशयमित्यनेनापि क्वचिन्निरतिशयेन भवितव्यम् । इदमेव चास्य निरतिशयत्वं यद्विदितसमस्तवेदितव्यत्वम् । तदिदं सर्वज्ञत्वं सत्त्वस्य निरतिशयोत्कर्षत्वे सम्भवति । एतदुक्तं भवति - यद्यपि रजस्तमसी अपि स्तः तथापि पुरुषार्थप्रयुक्तगुणवैषम्यातिशयात्सत्त्वस्य निरतिशयोत्कर्षे सार्वज्ञ्यं कार्यमुत्पद्यत इति प्रधानावस्थायामपि तन्मात्रं विवक्षित्वाविवक्षित्वा च तमःकार्यं प्रधानं सर्वज्ञमुपचर्यत इति ।

अपिभ्यामवधारणस्य व्यवच्छेद्यमाह -

न केवलस्येति ।

नहि किञ्चिदेकं कार्यं जनयेदपि तु बहूनि । चिदात्मा चैकः, प्रधानं तु त्रिगुणमिति तत एव कार्यमुत्पत्तुमर्हति, न चिदात्मन इत्यर्थः ।

तवापि च योग्यतामात्रेणैव चिदात्मनःसर्Sवज्ञताभ्युपगमो न कार्ययोगादित्याह -

त्वयापीति ।

न केवलस्याकार्यकारणस्येत्येतत्सिंहावलोकितेन प्रपञ्चयति -

प्रागुत्पत्तेरिति ।

अपि च प्रधानस्येति ।

चस्त्वर्थः ।

एवं प्राप्त उच्यते -

ईक्षतेर्नाशब्दम् ।

नामरूपप्रपञ्चलक्षणकार्यदर्शनादेतत्कारणमात्रवदिति सामान्यकल्पनायामस्ति प्रमाणं, न तु तदचेतनं चेतनमिति वा विशेषकल्पनायामस्त्यनुमानमित्युपरिष्टात्प्रवेदयिष्यते । तस्मान्नामरूपप्रपञ्चकारणभेदप्रमायामाम्नाय एव भगवानुपासनीयः । तदेवमाम्नायैकसमधिगमनीये जगत्कारणे “पौर्वापर्यपरामर्शाद्यदाम्नायोऽञ्जसा वदेत् । जगद्बीजं तदेवेष्टं चेतने च स आञ्जसः” ॥ तेषु तेषु खल्वाम्नायप्रदेशेषु “तदैक्षत”(छा. उ. ६ । २ । ३) इत्येवंजातीयकैर्वाक्यैरीक्षितुः कारणाज्जगज्जन्माख्यायत इति । न च प्रधानपरमाण्वादेरचेतनस्येक्षितृत्वमाञ्जसम् । सत्त्वांशेनेक्षितृ प्रधानं, तस्य प्रकाशकत्वादिति चेन्न । तस्य जाड्येन तत्त्वानुपपत्तेः । कस्तर्हि रजस्तमोभ्यां सत्त्वस्य विशेषः । स्वच्छता । स्वच्छं हि सत्त्वम् । अस्वच्छे च रजस्तमसी । स्वच्छस्य च चैतन्यबिम्बोद्ग्राहितया प्रकाशकत्वव्यपदेशो नेतरयोः, अस्वच्छतया तद्ग्राहित्वाभावात् । पार्थिवत्वे तुल्य इव मणेर्बिम्बोद्ग्राहिता न लोष्टादीनाम् । ब्रह्मणस्त्वीक्षितृत्वमाञ्जसं, तस्याम्नायतो नित्यज्ञानस्वभावत्वविनिश्चयात् । नन्वत एवास्य नेक्षितृत्वं, नित्यस्य ज्ञानस्वभावभूतस्येक्षणस्याक्रियात्वेन ब्रह्मणस्तत्प्रति निमित्तभावाभावात् । अक्रियानिमित्तस्य च कारकत्वनिवृत्तौ तद्व्याप्तस्य तद्विशेषस्य कर्तृत्वस्य निवृत्तेः । सत्यं, ब्रह्मस्वभावश्चैतन्यं नित्यतया न क्रिया, तस्य त्वनवच्छिन्नस्य तत्तद्विषयोपधानभेदावच्छेदेन कल्पितभेदस्यानित्यत्वं कार्यत्वं चोपपद्यते । तथा चैवंलक्षण ईक्षणे सर्वविषये ब्रह्मणः स्वातन्त्र्यलक्षणं कर्तृत्वमुपपन्नम् । यद्यपि च कूटस्थनित्यस्यापरिणामिन औदासीन्यमस्य वास्तवं तथाप्यनाद्यनिर्वचनीयाविद्यावच्छिन्नस्य व्यापारवत्त्वमवभासत इति कर्तृत्वोपपत्तिः । परैरपि च चिच्छेक्तेः कूटस्थनित्याया वृत्तीः प्रति कर्तृत्वमीदृशमेवाभ्युपेयं, चैतन्यसामान्याधिकरण्येन ज्ञातृत्वोपलब्धेः । नहि प्राधानिकान्यन्तर्बहिःकरणानि त्रयोदश सत्त्वगुणप्रधानान्यपि स्वयमेवाचेतनानि, तद्वृत्तयश्च स्वं वा परं वा वेदितुमुत्सहन्ते । नो खल्वन्धाः सहस्रमपि पान्थाः पन्थानं विदन्ति । चक्षुष्मता चैकेन चेद्वेद्यते, स एव तर्हि मार्गदर्शी स्वतन्त्रः कर्ता नेता तेषाम् । एवं बुद्धिसत्त्वस्य स्वयमचेतनस्य चितिबिम्बसङ्क्रान्त्या चेदापन्नं चैतन्यस्य ज्ञातृत्वं, चितिरेव ज्ञात्री स्वतन्त्रा, नान्तर्बहिष्करणान्यन्धसहस्रप्रतिमान्यस्वतन्त्राणि । न चास्याश्चितेः कूटस्थनित्याया अस्ति व्यापारयोगः । न च तदयोगेऽप्यज्ञातृत्वं, व्यापारवतामपि जडानामज्ञत्वात् । तस्मादन्तःकरणवर्तिनं व्यापारमारोप्य चितिशक्तौ कर्तृत्वाभिमानः । अन्तःकरणे वा चैतन्यमारोप्य तस्य ज्ञातृत्वाभिमानः । सर्वथा भवन्मतेऽपि नेदं स्वाभाविकं क्वचिदपि ज्ञातृत्वं, अपि तु सांव्यवहारिकमेवेति परमार्थः । नित्यस्यात्मनो ज्ञानं परिणाम इति च भेदाभेदपक्षमपाकुर्वद्भिरपास्तम् । कूटस्थस्य नित्यस्यात्मनोऽव्यापारवत एव भिन्नं ज्ञानं धर्म इति चोपरिष्टादपाकरिष्यते । तस्माद्वस्तुतोऽनवच्छिन्नं चैतन्यं तत्त्वान्यत्वाभ्यामनिर्वचनीयाव्याकृतव्याचिकीर्षितनामरूपविषयावच्छिन्नं सज्ज्ञानं कार्यं, तस्य कर्ता ईश्वरो ज्ञाता सर्वज्ञः सर्वशक्तिरिति सिद्धम् । तथा च श्रुतिः - “तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥”(मु.उ. १.१.८) इति । तपसा ज्ञानेन अव्याकृतनामरूपविषयेण चीयते तद्व्याचिकीर्षवद्भवति, यथा कुविन्दादिरव्याकृतं पटादि बुद्धावालिख्य चिकीर्षति । एकधर्मवान् द्वितीयधर्मोपजननेन उपचित उच्यते । व्याचिकीर्षायां चोपचये सति ततो नामरूपमन्नमदनीयं साधारणं संसारिणां व्याचिकीर्षितमभिजायते । तस्मादव्याकृताद्व्याचिकीर्षितादन्नात्प्राणो हिरण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठानं जगत्सूत्रात्मा साधारणो जायते, यथाऽव्याकृतात्व्याचिकीर्षितात्पटादवान्तरकार्यं द्वितन्तुकादि । तस्माच्च प्राणान्मन अख्यं सङ्कल्पविकल्पादिव्याकरणात्मकं जायते । ततो व्याकरणात्मकान्मनसः सत्यशब्दवाच्यान्याकाशादीनि जायन्ते । तेभ्यश्च सत्याख्येभ्योऽनुक्रमेण लोका भूरादयः तेषु मनुष्यादिप्राणिनो वर्णाश्रमक्रमेण कर्माणि धर्माधर्मरूपाणि जायन्ते । कर्मसु चामृतं फलं स्वर्गनरकादि । तच्च स्वनिमित्तयोर्धर्माधर्मयोः सतोर्न विनश्यतीत्यमृतम् । यावद्धर्माधर्मभावीति यावत् । यः सर्वज्ञः सामान्यतः, सर्वविद्विशेषतः । यस्य भगवतो ज्ञानमयं तपो धर्मो नायासमयम् , तस्माद्ब्रह्मणः पूर्वस्मादेतत्परं कार्यं ब्रह्म । किञ्च नामरूपमन्नं च व्रीहियवादि जायत इति । तस्मात्प्रधानस्य साम्यावस्थायामनीक्षितृत्वात् , क्षेत्रज्ञानां च सत्यपि चैतन्ये सर्गादौ विषयानीक्षणात् , मुख्यसम्भवे चोपचारस्यान्याय्यत्वात् , मुमुक्षोश्चायथार्थोपदेशानुपपत्तेः, मुक्तिविरोधित्वात् , तेजःप्रभृतीनां च मुख्यासम्भवेनोपचाराश्रयणस्य युक्तिसिद्धत्वात् , संशये च तत्प्रायपाठस्य निश्चायकत्वात् , इह तु मुख्यस्यौत्सर्गिकत्वेन निश्चये सति संशयाभावात् , अन्यथा किरातशतसङ्कीर्णदेशनिवासिनो ब्राह्मणायनस्यापि किरातत्वापत्तेः, ब्रह्मैवेक्षित्रनाद्यनिर्वाच्याविद्यासचिवं जगदुपादानं, शुक्तिरिव समारोपितस्य रजतस्य, मरीचय इव जलस्य, एकश्चन्द्रमा इव द्वतीयस्य चद्रमसः । न त्वचेतनं प्रधानपरमाण्वादि । अशब्दं हि तत् । न च प्रधानं परमाणवो वा तदतिरिक्तसर्वज्ञेश्वराधिष्ठिता जगदुपादानमिति साम्प्रतं कार्यत्वात् । कारणात्कार्याणां भेदाभावात् कारणज्ञानेन समस्तकार्यपरिज्ञानस्य मृदादिनिदर्शनेनागमेन प्रसाधितत्वात् , भेदे च तदनुपपत्तेः । साक्षाच्च “एकमेवाद्वितीयम्” (छा. उ. ६ । २ । १) “नेह नानास्ति किञ्चन” (बृ. उ. ४ । ४ । १९) “मृत्योः स मृत्युमाप्नोति” (क. उ. २ । ४ । १०) इत्यादिभिर्बहुभिर्वचोभिर्ब्रह्मातिरिक्तस्य प्रपञ्चस्य प्रतिषेधाचेतनोपादानमेव जगत् , भुजङ्ग इवारोपितो रज्जूपादान इति सिद्धान्तः ।

सदुपादानत्वे हि सिद्धे जगतस्तदुपादानं चेतनमचेतनं वेति संशय्य मीमांस्येत । अद्यापि तु सदुपादानत्वमसिद्धमित्यत आह -

तत्रेदंशब्दवाच्यमित्यादिदर्शयतिइत्यन्तेन ।

तथापीक्षिता पारमार्थिकप्रधानक्षेत्रज्ञातिरिक्त ईश्वरो भविष्यति, यथाहुर्हैरण्यगर्भा इत्यतः श्रुतिः पठिता “एकमेवाद्वितीयम्” (छा. उ. ६ । २ । १) इति । “बहु स्याम्”(छा. उ. ६ । २ । ३) इति चाचेतनं कारणमात्मन एव बहुभावमाह । तेनापि कारणाच्चेतनादभिन्नं कार्यमभ्युपगम्यते ।

यद्यप्याकाशाद्या भूतसृष्टिस्तथापि तेजोऽबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वात्तत्र तेजसः प्राथम्यात्तेजः प्रथममुक्तम् । एकमद्वितीयं जगदुपादानमित्यत्र श्रुत्यन्तरमपि पठति -

तथान्यत्रेति ।

ब्रह्म चतुष्पादष्टाशफं षोडशकलशम् । तद्यथा - प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला ब्रह्मणः प्रकाशवान्नाम प्रथमः पादः । तदर्धं शफः । तथा पृथिव्यन्तरिक्षं द्यौः समुद्र इत्यपरश्चतस्रः कला द्वितीयः पादोऽनन्तवान्नाम । तथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः, स ज्योतिष्मान्नाम तृतीयः पादः । प्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कालाः, स चतुर्थमायतनवान्नाम ब्रह्मणः पादः । तदेवं षोडशकलं षोडशावयवं ब्रह्मोपास्यमिति सिद्धम् ।

स्यादेतत् । ईक्षतेरिति तिपा धातुस्वरूपमुच्यते । न चाविवक्षितार्थस्य धातुस्वरूपस्य चेतनोपादानसाधनत्वसम्भव इत्यत आह -

ईक्षतेरिति

धात्वर्थनिर्देशोऽभिमतः, विषयिणां विषयलक्षणात् ।

प्रसिद्धा चेयं लक्षणेत्याह -

यजतेरितिवदिति ।

‘यः सर्वज्ञः’ इति सामान्यतः; ‘सर्ववित्’ इति विशेषतः ।

साङ्ख्यीयं स्वमतसमाधानमुपन्यस्य दूषयति -

यत्तूक्तं सत्त्वधर्मेणेति ।

पुनः साङ्ख्यमुत्थापयति -

ननूक्तमिति ।

परिहरति -

तदपीति ।

समुदाचरद्वृत्ति तावन्न भवति सत्त्वं, गुणवैषम्यप्रसङ्गेन साम्यानुपपत्तेः । न चाव्यक्तेन रूपेण ज्ञानमुपयुज्यते, रजस्तमसोस्तत्प्रतिबन्धस्यापि सूक्ष्मेण रूपेण सद्भावादित्यर्थः ।

अपि च चैतन्यप्रधानवृत्तिवचनो जानातिर्न चाचेतने वृत्तिमात्रे दृष्टचरप्रयोग इत्याह -

अपि च नासाक्षिकेति ।

कथं तर्हि योगिनां सत्त्वांशोत्कर्षहेतुकं सर्वज्ञत्वमित्यत आह -

योगिनां त्विति ।

सत्त्वांशोत्कर्षो हि योगिनां चैतन्यचक्षुष्मतामुपकरोति, नान्धस्य प्रधानस्येत्यर्थः ।

यदि तु कापिलमतमपहाय हैरण्यगर्भमास्थीयेत तत्राप्याह -

अथ पुनः साक्षिनिमित्तमिति ।

तेषामपि हि प्रकृष्टसत्त्वोपादानं पुरुषविशेषस्यैव क्लेशकर्मविपाकाशयापरामृष्टस्य सर्वज्ञत्वं, न तु प्रधानस्याचेतनस्य । तदपि चाद्वैतश्रुतिभिरपास्तमिति भावः ।

पूर्वपक्षबीजमनुभाषते -

यत्पुनरुक्तं ब्रह्मणोऽपीति ।

चैतन्यस्य शुद्धस्य नित्यत्वेऽप्युपहितं सदनित्यं कार्यं, आकाशमिव घटावच्छिन्नमित्यभिसन्धाय परिहरति -

इदं तावद्भवानिति ।

प्रततौष्ण्यप्रकाशे सवितरि

इत्येतदपि विषयावच्छिन्नप्रकाशः कार्यमित्येतदभिप्रायम् ।

वैषम्यं चोदयति -

ननु सवितुरिति ।

किं वास्तवं कर्माभावमभिप्रेत्य वैषम्यमाह भवान् उत तद्विवक्षाभावम् । तत्र यदि तद्विवक्षाभावं, तदा प्रकाशयतीत्यनेन मा भूत्साम्यं, प्रकाशत इत्यनेन त्वस्ति । नह्यत्र कर्म विवक्षितम् ।

अथ च प्रकाशस्वभावं प्रत्यस्ति स्वातन्त्र्यं सवितुरिति परिहरति -

न ।

असत्यपि कर्मणीति ।

असत्यपीत्यविवक्षितेऽपीत्यर्थः ।

अथ वास्तवं कर्माभावमभिसन्धाय वैषम्यमुच्येत, तन्न, असिद्धत्वात्कर्माभावस्य, विविक्षितत्वाच्चात्र कर्मण इति परिहरति -

कर्मापेक्षायां त्विति ।

यासां सति कर्मण्यविवक्षिते श्रुतीनामुपपत्तिस्तासां सति कर्मणि विवक्षिते सुतरामित्यर्थः ।

यत्प्रसादादिति ।

यस्य भगवत ईश्वरस्य प्रसादात् तस्य नित्यसिद्धस्येश्वरस्य नित्यं ज्ञानं भवतीति किमु वक्तव्यमिति योजना । यथाहुर्योगशास्त्रकाराः - “ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च”(यो.सू. १.२९) इति । तद्भाष्यकाराश्च ‘भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णाति ज्ञानवैराग्यादिना’ इति ।

सवितृप्रकाशवदिति ।

वस्तुतो नित्यस्य कारणानपेक्षां स्वरूपेणोक्त्वा व्यतिरेकमुखेनाप्याह -

अपि चाविद्यादिमत इत्यादि ।

आदिग्रहणेन कामकर्मादयः सङ्गृह्यन्ते ।

न ज्ञानप्रतिबन्धकारणरहितस्येति ।

संसारिणां वस्तुतो नित्यज्ञानत्वेऽप्यविद्यादयः प्रतिबन्धकारणानि सन्ति, न तु ईश्वरस्याविद्यारहितस्य ज्ञानप्रतिबन्धकारणसम्भव इति भावः । न तस्य कार्यमावरणाद्यपगमो विद्यते, अनावृत्तत्वादिति भावः । ज्ञानबलेन क्रिया । प्रधानस्य त्वचेतनस्य ज्ञानबलाभावाज्जगतो न क्रियेत्यर्थः । अपाणिर्गृहीता, अपादो जवनो वेगवान् विहरणवान् । अतिरोहितार्थमन्यत् ।

स्यादेतेत् । अनात्मनि व्योम्नि घटाद्युपाधिकृतो भवत्ववच्छेदकविभ्रमः, न तु आत्मनि स्वभावसिद्धप्रकाशे स घटत इत्यत आह -

दृश्यते चात्मन एव सत इति ।

अभिनिवेशः

मिथ्याभिमानः ।

मिथ्याबुद्धिमात्रेण पूर्वेणेति ।

अनेनानादिता दर्शिता । मात्रग्रहणेन विचारासहत्वेन निर्वचनीयता निरस्ता । परिशिष्टं निगदव्याख्यातम् ॥ ५ ॥ ॥ ६ ॥

तन्निष्ठस्य मोक्षोपदेशादिति ।

शङ्कोत्तरत्वेन वा स्वातन्त्र्येण वा प्रधाननिराकरणार्थं सूत्रम् । शङ्का च भाष्ये उक्ता ॥ ७ ॥

स्यादेतत् । ब्रह्मैव ज्ञीप्सितं, तच्च न प्रथमं सूक्ष्मतया शक्यं श्वेतकेतुं ग्राहयितुमिति तत्सम्बद्धं प्रधानमेव स्थूलतयात्मत्वेन ग्राह्यते श्वेतकेतुररुन्धतीमिवातीव सूक्ष्मां दर्शयितुं तत्संनिहितां स्थूलतारकां दर्शयतीयमसावरुन्धतीति । अस्यां शङ्कायामुत्तरम् -

हेयत्वावचनाच्च

इति सूत्रम् । चकारोऽनुक्तसमुच्चयार्थः । तच्चानुक्तं भाष्य उक्तम् ॥ ८ ॥

अपि च जगत्कारणं प्रकृत्य स्वपितीत्यस्य निरुक्तं कुर्वती श्रुतिश्चेतनमेव जगत्कारणं ब्रूते । यदि स्वशब्द आत्मवचनस्तथापि चेतनस्य पुरुषस्याचेतनप्रधानत्वानुपपत्तिः । अथात्मीयवचनस्थथाप्यचेतने पुरुषार्थतयात्मीयेऽपि चेतनस्य प्रलयानुपपत्तिः । नहि मृदात्मा घट आत्मीयेऽपि पाथसि प्रलीयतेऽपि त्वात्मभूतायां मृद्येव । नच रजतमनात्मभूते हस्तिनि प्रलीयते, किन्त्वात्मभूतायां शुक्तावेवेत्याह -

स्वाप्ययात् ॥ ९ ॥

गतिसामान्यात् ।

गतिरवगतिः ।

तार्किकसमय इवेति ।

यथा हि तार्किकाणां समयभेदेषु परस्परपराहतार्थता, नैवं वेदान्तेषु परस्परपराहृतिः, अपि तु तेषु सर्वत्र जगत्कारणचैतन्यावगतिः समानेति ।

चक्षुरादीनामिव रूपादिष्विति ।

यथा हि सर्वेषां चक्षू रूपमेव ग्राहयति, न पुना रसादिकं कस्यचिद्दर्शयति कस्यचिद्रूपम् । एवं रसनादिष्वपि गतिसामान्यं दर्शनीयम् ॥ १० ॥

श्रुतत्वाच्च ।

'तदैक्षत” इत्यत्र ईक्षणमात्रं जगत्कारणस्य श्रुतं न तु सर्वविषयम् । जगत्कारणसम्बन्धितया तु तदर्थात्सर्वविषयमवगतं, श्वेताश्वतराणां तूपनिषदि सर्वज्ञ ईश्वरो जगत्कारणमिति साक्षादुक्तमिति विशेषः ।

कार्यान्वयमिति ; तच्चेति ; सिद्धान्ते तु चेतनस्य ब्रह्मैक्यमिति ; ज्ञानेति ; अपरिणामिन इति ; एकत्वाच्चेति ; स्वरूपेति ; न च स्वरूपेति ; कार्यत्वे चेति ; भोगेति ; तदैक्षतेत्यादिना ; यथाग्नेत्यादि ; प्रधानांशेति ; सर्वज्ञं प्रस्तुत्येति ; अपिकाराविति ; यत्खल्विति ; इदमेवेति ; नामरूपेति ; पौर्वापर्येति ; नन्विति ; यद्यपि चेति ; परैरपीति ; चैतन्यसामानाधिकरण्येनेति ; न हीति ; नित्यस्येति ; कूटस्थेति ; तथा चेति ; व्याचिकीर्षायां  चेति ; साधारणमिति ; यथेति ; तस्माच्चेति ; मनआख्यमिति ; आकाशादीनीति ; तेष्विति ; पूर्वस्मादिति ; एतदिति ; मुमुक्षोश्चेति ; संशये चेति ; इहत्विति ; नचेति ; सदिति ; तथापीक्षितेति ; पारमार्थिकेति ; तेनापीति ; यद्यपीति ; एकमिति ; ब्रह्म चतुष्पादिति ; प्रसिद्धेति ; तदपि चेति ; एतदपीति ; तदा प्रकाशयतीत्यनेनेति ; प्रकाशते इत्यनेनेति ; नह्यत्रेति ; अथेति ; विवक्षितत्वाच्चेति ; यस्येति ; वस्तुतो नित्यस्येति ; कारणानपेक्षामिति ; स्वरूपेणेति ; आवरणादीति ; प्रधानस्य त्विति ; पूर्वेणेति ; मात्रेति ५ ६ ; गौणश्चेदिति ; शङ्कोत्तरत्वेनेत्यादिना॥ ; अर्थवादप्रकल्पितेनेति ; कथं न्विति ; यथा सोम्येति ; मनःशब्दवाच्यो भवतीति ; लक्ष्यो भवति ;

ईक्षत्यधिकरणविषयाः

परमा परमानन्दबोधसल्लक्षणाञ्चितम् । यमाश्लिष्यति सर्वज्ञं तं वन्दे पुरुषोत्तमम्॥

कार्यान्वयमिति ।

श्लोकपूरणार्थ एवंकारः । स्वयं पुरुषार्थे इति संबन्धः ।

यदि सर्वज्ञे वेदान्तप्रामाण्यं सिद्धं, किमधिकरणान्तरेण? अत आह —

तच्चेति ।

सर्वज्ञे जगत्कारणे समन्वयप्रदर्शनेन चेतनं तदित्युपक्षिप्तम् । तदाक्षिप्य समर्थ्यत इति सङ्गतिः । प्रयोजनं तु ‘तत्त्वमसीति’ तच्छब्दवाच्यप्रधानैक्यसंपत्तिः पूर्वपक्षे ।

सिद्धान्ते तु चेतनस्य ब्रह्मैक्यमिति ।

जीवाणुव्यतिरिक्तेति  कारणस्य जीवव्यतिरेकेण जीवा एव स्वकर्मद्वारा कर्तार इति मतं निरस्तम् । अणुव्यतिरेकेणाणुसङ्घातवादः । चेतनग्रहणेन प्रधानवादः । परमाणव इति सिद्धान्ताद्भेद इति॥ आदिग्रहणेनेति । सांख्यादय इति  भाष्ये इति । अनुमानवाक्येति । सिद्धान्ते अनुमानानि वाक्यानि च बीजम्, अन्यत्र तु तदाभासा इति ।

ज्ञानेति ।

सर्वजननशक्तिसर्वविषयज्ञाने ब्रह्मणो न स्तः कुतः? तस्य ज्ञानक्रियाशक्त्यभावात्, ज्ञानक्रिययोः शक्ती ज्ञानक्रियाशक्ती तयोरभावादित्यर्थः ।

यस्य हि किंचिन्मात्रजननशक्तिः किंचिन्मात्रज्ञानशक्तिर्वा न संभवति, कुतस्तस्य सर्वविषयजननशक्तिः सर्वविषयज्ञानं च भवेताम्? शक्तिद्वयाभावे हेतुमाह —

अपरिणामिन इति ।

कार्योन्नेये हि शक्ती, कार्ये च ज्ञानक्रिये नास्य स्तोऽपरिणामित्वादित्यर्थः । प्रधाने तु परिणामित्वादस्ति संभव इत्यर्थः ।

नन्वपरिणामिन्यपि ज्ञानगुणः प्रयत्नगुणश्च किं न स्यातामत आह —

एकत्वाच्चेति ।

एकरूपत्वान्निर्गुणत्वादित्यर्थः । अथवाऽपरिणामित्वं साधयति निरवयवत्वादिति  यावत् ।

ननु चेतनत्वादपरिणाम्यपि सर्वज्ञमत आह —

स्वरूपेति ।

अवृत्तिकं सर्वविषयपरिणामरहितम् ।

नन्वावृतज्ञाना जीवाः, ब्रह्म तु अनावृतं किं न सर्वज्ञमत आह —

न च स्वरूपेति ।

ज्ञानकर्तृत्वं हि ज्ञातृत्वमित्यर्थः ।

अङ्गीकृत्यापि स्वरूपस्य कार्यतामाह —

कार्यत्वे चेति ।

स्यादेतत् — कथमचेतनं चेतनानधिष्ठितं प्रवर्तेतात आह —

भोगेति ।

पुरुषार्थेन प्रयुक्त आक्षिप्तश्चासावनादिः प्रधानपुरुषसंयोगः प्रधानस्य पुरुषं प्रति पारार्थ्यलक्षणः संबन्धस्तन्निमित्तः सर्ग इति॥

गौणश्चेत् (ब्र.अ.१.पा.१.सू.६) इत्यादिसूत्रनिरस्याः शङ्काः सौकर्यार्थमेकत्रलिखति —

तदैक्षतेत्यादिना ।

वृद्धाः शबरस्वामिनः ।

यज्ञपुरुषस्य ‘‘शिरो ह वा आग्नेयो हृदयमुपांशुयाज’’ इति प्रधानाग्नेयप्रायवचनात् प्रधानकर्मोपांशुयाज इत्युक्त्वा लोकेऽप्युदाहरति —

यथाग्नेत्यादि ।

अग्नयः श्रेष्ठः ।

कथं नित्यस्य जीवस्य प्रधाने लयोऽत आह —

प्रधानांशेति ।

प्रधानस्यांशस्तमोगुणस्तस्योद्रेके जीवो निद्रां कुर्वंस्तत्र मग्न इव भवत्यतश्च विवेकाभावाल्लयोपचारः । प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (पातं.यो.अ.१.पा.१.सू.६) इति सूत्रोक्ता निद्रातोऽन्या वृत्तयोऽभावं प्रत्ययन्ते प्रतिगच्छन्त्यस्मिन्नित्यभावप्रत्ययस्तदालम्बना जीवस्य या वृत्तिः सा निद्रेति पातञ्जलसूत्रार्थः ।

सर्वज्ञं प्रस्तुत्येति ।

‘ज्ञः कालकालो गुणी सर्वविद्य ‘ इति प्रधानकारणपक्षेऽपि योजयितुं शक्यत इति ।

सर्वशक्तित्वं तावत्प्रधानस्याप्युपपद्यते इति च भाष्येऽपिकारदर्शनादनवधारणेनात्र पूर्वपक्ष इति केचिद्व्याचक्षते, तद्व्यावर्तयति —

अपिकाराविति ।

इह हि ‘गौणश्चे’दितीक्षणे गौणत्वशङ्का मुख्येक्षणवतो ब्रह्मणः कारणत्वासंभवनिश्चयवत एव । तथाच नानवधारणम् । तत्परतयैव वेदान्तवाक्यानि योजयतीति च भाष्यं विपर्ययेण पूर्वपक्षं द्योतयति । यदा योगैश्वर्यात् सत्त्वं निरतिशयोत्कर्षं भवति, तदा तत्सर्वज्ञत्वे बीजं भवतीति सूत्रार्थः ।

निरतिशयतां सत्त्वस्य तत्कार्यज्ञानस्य निरतिशयत्वसाधनेनोपपादयति —

यत्खल्विति ।

कुवलं बदरम् । ज्ञानत्वं, निरतिशयकिंचिदाश्रितं, सातिशयवृत्तिजातित्वात्, परिमाणत्ववदिति समुदायार्थः ।

निरतिशयत्वे कथं सर्वविषयता? न हि नभः परिमाणं सर्वविषयमत आह —

इदमेवेति ।

ज्ञेयभूम्ना हि ज्ञानभूमा, ततो निरतिशयत्वं , सर्वविषयत्वमानयतीत्यर्थः । अपिभ्याम् एवकारार्थत्वेन व्याख्याताभ्याम् । सिंहावलोकितेनेति पुनरुक्तिपरिहारः । चकारो विशेषवाची तुशब्दसमानार्थः॥

नन्वनुमानसिद्धानुवादिषु वेदान्तेषु कथमीक्षतिश्रवणाद् ब्रह्मनिर्णयस्तत्राह —

नामरूपेति ।

प्रवेदयिष्यते तर्कपादे (ब्र.अ.२.पा.२) ।

पौर्वापर्येति ।

पौर्वापर्यमुपक्रमोपसंहारौ । परामर्शो मध्ये निर्देशः । एभिर्यदाम्नायो मुख्यवृत्त्या वदेत्तदेव जगद्बीजं, स चाम्नायश्चेतने मुख्यो न प्रधान इति ।

भवतु ब्रह्मणि प्रकृतिर्मुख्या, प्रत्ययः कथं मुख्य इति शङ्कते —

नन्विति ।

अत एव नित्यज्ञानत्वादेव ।

यदवाद्यपरिणामित्वान्न ज्ञानं ब्रह्मण इति , तत्राह —

यद्यपि चेति ।

उपाध्यपेक्षं ज्ञातृत्वं गौणमित्याशङ्क्य पारमार्थिकेक्षितृत्वासंभवादिदमेव मुख्यमित्याह —

परैरपीति ।

चैतन्यसामानाधिकरण्येनेति ।

यत्रात्मनि स्वरूपभूतं चैतन्यं तत्रैव ज्ञातृत्वोपलब्धेस्तस्य च परिणामानभ्युपगमात्परैरित्यर्थः ।

ननु किं चितिशक्तेर्ज्ञातृत्वेन, प्रधानविकारा एव ज्ञास्यन्ति? नेत्याह —

न हीति ।

भवतु कापिले मतेऽलीकं ज्ञातृत्वं, भाट्टे तु तात्त्विकं तदनभ्युपगच्छतस्तव गौणं स्यादत आह —

नित्यस्येति ।

अस्तु तर्हि न्यायमते वास्तवमत आह —

कूटस्थेति ।

अव्यापारवत इति च्छेदः । धर्मो गुणः । उपरिष्टात् ‘ज्ञोऽत एव’(ब्र.अ.२.पा.३.सू.१८) इत्यादौ ।

औपाधिकमीक्षणकर्तृत्वमित्यत्र श्रुती दर्शयति —

तथा चेति ।

ज्ञानं साधनेनोपलक्षितं तद्विषयनामरूपव्याचिकीर्षावद्भवति । अयं धर्मद्वययोग उपचयः ।

ततोऽन्नमभिजायत इत्येतद्व्याचष्टे —

व्याचिकीर्षायां  चेति ।

उत्पन्नव्याचिकीर्षया नामरूपप्रपञ्चस्य व्याप्तिरभिजायत इत्युक्त्वाऽन्नशब्देन नामरूपमुच्यते, तत्र निमित्तं प्रसिद्धान्नगुणयोगमाह —

साधारणमिति ।

अन्नादिति क्रमार्था पञ्चमी । व्याचिकीर्षितत्वानन्तरमित्यर्थः । हिरण्यगर्भसृष्टिः सूक्ष्मभूतसृष्ठ्यनन्तरमिति द्रष्टव्यम् । मणीनामिव सूत्रं जगतो सूत्रं विधारकः सूत्रात्मा ।

समुदाये सिसृक्षिते प्रथममेकदेशोत्पत्तौ निदर्शनमाह —

यथेति ।

मन इत्यादावपि पूर्वपूर्वसर्गानन्तरमिति द्रष्टव्यमित्याह —

तस्माच्चेति ।

मनआख्यमिति ।

व्यष्टि मन इत्यर्थः । सङ्कल्पादिवृत्तिव्यक्तीकरणात्मकं तत्कारणमिति यावत् ।

सत्यमित्यस्यार्थमाह —

आकाशादीनीति ।

स्थूलानीत्यर्थः । तेषु हि पृथिव्यादिभूतत्रयम् अपरोक्षत्वात्सत् वाय्वाकाशौ परोक्षत्वात्सत्यमिति तत्त्वशब्दप्रयोगः ।

कर्मसृष्टिं सिद्धवत्कृत्य श्रुत्या कर्मसु चेत्युक्तं, तामाह —

तेष्विति ।

सप्तमी निमित्तार्था । ज्ञानमयम् इत्यौपाधिकमीक्षणमुक्तम् ।

अन्नात्प्राण इत्यत्र पञ्चम्याः क्रमार्थत्वस्वीकारादिहापि तत्प्रसङ्गमाशङ्क्याह —

पूर्वस्मादिति ।

नियतपूर्वकालवर्तित्वं कारणत्वं तच्छब्दार्थ इत्यर्थः ।

नियतपूर्वसतः सर्वज्ञाज्जायमानस्य हिरण्यगर्भब्रह्मणः परकालवर्तित्वेन कार्यत्वमेतच्छब्दार्थ इत्याह —

एतदिति ।

नाम देवदत्त इत्यादि । रूपं शुक्लादि ।

मुमुक्षोश्चेति ।

‘तन्निष्ठस्य’ (ब्र.अ.१.पा.१.सू.७) इति सूत्रार्थानुकर्षः । अयथाभूतप्रधानात्मत्वोपदेशश्च मुक्तिविरोधी ।

यदवादि “यत्प्राये श्रूयत’’ इति, तत्राह —

संशये चेति ।

द्वितीये स्थितम् – ‘विशये प्रायदर्शनात्’ (जै.अ.१.पा.३.सू.१६) । ‘‘वत्समालभेत वत्सनिकान्ता हि पशव’’ इत्यत्र किमालभतिर्यजिमत्कर्माभिधानः, उत स्पर्शमात्रवचन इति सशये ‘वायव्यं श्वेतमालभेते’त्यादावालभतिः प्राणिद्रव्यसंयुक्तो यजिमत्कर्माभिधानो दृष्ट इतीहापि तथात्वे प्राप्ते — राद्धान्तः, वायव्यादौ द्रव्यदेवतासंबन्धाद्यागप्रतीतेर्यजिमत्संज्ञपनाभिधाय्यालभतिः, इह तु न, द्रव्यदेवतासंबन्धाभावात्, किंतु गोदोहनादिसंस्कारकर्मसन्निधौ श्रवणात् स्पर्शमात्रसंस्कारकर्मवचन इति॥

प्रकृते वैषम्यामाह —

इहत्विति ।

ब्राह्मण अयनमाश्रयो यस्य स्वयं त्वाभास इति । आरोपे सादृश्यनियमभङ्गाय मरीच्युदाहरणम् । चेतनभेदारोपे चन्द्रभेदः ।

पातञ्जलादिमतेऽप्याह —

नचेति ।

तन्मते कार्याणामधिष्ठातुरुपादानाच्च भेदात् श्रुतौ च तदभावादित्यर्थः ।

चेतनं कारणमिति प्रतिपाद्ये तत्सत्त्वोक्तिरनर्थिकेत्याशङ्क्याह —

सदिति ।

अधिकरणानुक्रमणे उक्तोऽर्थो भाष्यारूढः क्रियते —

तथापीक्षितेति ।

सिद्धान्तेऽप्यनिर्वाच्या त्रिगुणास्ति माया, तत उक्तं —

पारमार्थिकेति ।

तेनापीति ।

चेतनकारणेनात्मन एव बहुभवनकथनेनेत्यर्थः ।

आकाशोपक्रमसृष्टिश्रुत्या तेजः प्राथम्यश्रुतेर्वियदधिकरण (ब्र.अ.२.पा.३.सू.१) सिद्धान्तो नास्तीति कृत्वाचिन्तयैव विरोधमाह —

यद्यपीति ।

छन्दोग्ये हि – ‘‘तासां त्रिवृतं त्रिवृतमेकैकामकरोदि’’ति तिसृणां देवतानां तेजोबन्नानामेव त्रिवृत्करणमनन्तरं वक्ष्यति, न गगनपवनयोः, तत्र च तेजः प्रथममिति स्वरूपोत्पत्तावपि तदुपचार इति॥ संप्रदायाध्वना पञ्चोकरणं यद्यपि स्थितम् । तथापि युक्तियुक्तत्वाद्वाचस्पतिमतं शुभम्॥ पृथिव्यबनलात्मत्वं गगने पवने च चेत् । रूपवत्त्वमहत्वाभ्यां चाक्षुषत्वं प्रसज्यते॥ अर्धभूयस्त्वतः क्षित्याद्यविभावनकल्पने । व्यवहारपथा प्राप्ता मुधा पञ्चीकृतिर्भवेत्॥ अनपेक्ष्य फलं वेदसिद्धेत्येषेष्यते यदि । त्रिवृत्कृतिः श्रुता पञ्चीकृतिर्न क्वचन श्रुता॥ तस्मात्सुष्ठूच्यते तेजोऽबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वादिति । पञ्चीकरणमेवम् — पञ्चभूतानि प्रथमं प्रत्येकं द्विधा विभज्यन्ते तत एकैकमर्धं चतुर्धा क्रियते । ते च चत्वारो भागा इतरभूतेषु चतुर्षु निक्षिप्यन्ते । तत्राकाशस्य स्वार्धेन भूतान्तरागतपादचतुष्केण च पञ्चीकरणम् । एवं भूतान्तरेषु योजना । त्रिवृत्करणे तु त्रीणि भूतानि द्विधा विदार्य प्रतिभूतमेकैकमर्धं द्विधा प्रस्फोष्ठ्येतरभूतद्वये योजनमिति ।

अभ्युच्चयाय श्रुत्यान्तरोदाहरणमित्याह —

एकमिति ।

ब्रह्म चतुष्पादिति ।

क्वचिच्च षोडशकलं पुरुषं प्रस्तुत्येत्यस्य भाष्यस्य व्याख्यानम् । पशोः पादेषु हि पुरतः खुरौ पृष्ठतश्च द्वौ पार्ष्णिस्थानीयाववयवौ दृश्येते । तद्वत्परमात्मन्यपि चतुष्पात्त्वेन षोडशकलत्वेन च पशुरूपकल्पनयोपासनम्॥ इदमुदाहरणमत्र न संगच्छते; प्रश्नोपनिषदि हि – ‘‘इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति’’ प्रस्तुत्य ‘‘स ईक्षांचके कस्मिन्न्वहमुत्कान्ते उत्कान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामिति स प्राणमसृजत्प्राणाच्छ्रद्धां स्वं वायुर्ज्योतिरापः पृथिवीमिन्द्रियं मनोऽन्नमन्नाद्धीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम चेति’’ पठ्यते ।

छान्दोग्ये तु —

दिगाद्यवयवः षोडशकल उपास्यो, न च तत्र स ईक्षांचके इति श्रवणमस्ति । तस्माद् न्यायनिष्ठं शास्त्रमिति द्योतयितुमनुदाहरणमप्युदाहृतम् । अथवा — एवं कथं चित्समर्थनीयम् । परब्रह्मप्रमित्यर्थां सृष्टिमाश्रित्य शासति । उपासनानि वेदान्तास्तत एतदुदाहृतम्॥ या हि कलाः प्रश्ने परमात्मप्रमितिप्रयोजनास्तत उत्पान्ना इत्युक्तास्तभिर्विशिष्टः छान्दोग्ये स एवोपास्य उक्तः । तत्र यद्यपि श्रद्धादयश्छान्दोग्ये न पठिताः नापि दिगादयः प्रश्ने, न च गुणॊपसंहारः, सगुणनिर्गुणत्वेन विद्याभेदादुपसंहारे चाधिकसंख्यापत्तौ षोडशकलत्वभङ्गात्; तथापि पृथिवीन्द्रियमनः प्राणादयः कियन्तः समा उभयत्रापि, दिगादयस्तु लोकेष्वन्तर्भवन्ति, न च यावत्सृष्टावुक्तं तावत्सर्वमुपास्तावुपसंह्रियते; येन संख्यातिरिच्यते, उपयोगि तु । तस्मात्प्रश्नच्छान्दोग्ययोरेकत्वात् षोडशकलस्य शक्यते वक्तुं दिगाद्यवयवं षोडशकलं प्रस्तुत्य स ईक्षांचक्रे इति श्रूयत इति । एवंच निर्गुणप्रकरणे कलाशब्दप्रयोगोऽन्यत्रोपास्यत्वाभिप्रायः सन् सोपयोग इति । कलाः षोडश भूतानि प्राणोऽक्षं नाम कर्म च । श्रद्धा लोकास्तपो मनो वीर्यं शरीरकम्॥

प्रसिद्धेति ।

लक्षणाया एव निरुढत्वार्थं प्रयोगानुगमो न वाचकत्वायेत्यर्थः । सप्तमे स्थितम् — इतिकर्तव्यताविधेर्यजतेः पूर्ववत्त्वम् (जै.अ.७.पा.४.सू.१) सौर्यादिष्वनाम्नानादनितिकर्तव्यताकत्वे प्राप्ते — उच्यते; तथा लोके शाकादिषु सिद्धेषु वदत्योदनं पचेति, तथेह सिद्धवत्कृत्य सामान्येनेतिकर्तव्यतां करणं विहितम् । तस्याश्च विकृतिष्वविधेः सौर्यादीनां विकृतियागानां दर्शादिप्रकृतिविहितपूर्वेतिकर्तव्यतावत्त्वमिति । । समुदाचरणं व्यक्तिः । तेषामपि हैरण्यगर्भाणां मते क्लेशैरविद्याऽस्मितारागद्वेषाभिनिवेशधर्माधर्मकर्मणां विपाकेन तत्फलेन आशयेन फलभोगवासनया अस्पृष्टस्य पुरुषस्यैव प्रकृष्टसत्त्वोपादानं सर्वज्ञत्वं, नाचेतनस्येत्यर्थः ।

नचैतदपिभेदमतं श्रद्धेयमित्याह —

तदपि चेति ।

इदं तावदित्यादिदोषोऽस्तीत्यन्तं भाष्यं ब्रह्मणि प्रकृत्यर्थस्येक्षणस्याञ्जस्यप्रदर्शनपरम् ।

ज्ञाननित्यत्व इत्यादिना प्रत्ययार्थानुपपत्तिमाशङ्क्य परिह्रियते, तदभिप्रायमाह —

एतदपीति ।

अनुपहितनित्यचैतन्ये कर्तृत्वाभावादित्यर्थः । सवितृप्रकाश्यस्य रूपादेर्भावादसत्यपीति भाष्यायोगमाशङ्क्य विकल्पमुखेनावतारयति किमिति । सवितरि कर्मास्ति, इह तु नेति वस्तुत एव कर्माभाव उदाहरणाद्वैषम्यमभिमतम्, उत दृष्टान्ते कर्म विद्यते विवक्षितं च, दार्ष्टान्तिके तु यद्यपि विद्यते, तथाप्यविवक्षितं; तव मतेऽध्यस्तत्वादृश्यस्येति मतम् । तत्र द्वितीये विकल्पे किं सविता प्रकाशयतीत्यस्मादैक्षतेत्यस्य दार्ष्टान्तिकस्य वैषम्यमुत प्रकाशत इत्यस्मात् ।

आद्यमभ्युपगमेन परिहरति —

तदा प्रकाशयतीत्यनेनेति ।

न द्वितीय इत्याह —

प्रकाशते इत्यनेनेति ।

नह्यत्रेति ।

अकर्मकत्वात्प्रकाशतेरित्यर्थः । एवंच सत्यैक्षतेत्येतदपीक्षणं करोतीत्येवंपरं, नत्वालोचयतीत्येवमर्थमिति । प्रकाशत इति कर्तृत्वव्यपदेशदर्शनादित्ययमेव भाष्यपाठः साधुर्न णिजन्तः ।

आद्यविकल्पयोर्मध्ये प्रथमं प्रत्याह —

अथेति ।

ऐक्षतेत्यत्र कर्माविवक्षामुपेत्य प्रकाशत इतिवत्कर्तृत्वनिर्देश उपपादितः, इदानीमविवक्षाप्यसिद्धेत्याह —

विवक्षितत्वाच्चेति ।

न खल्वस्माकं क्वचिद्वास्तवं दृश्यमस्त्यतोऽप्यस्ततयैव कर्मत्वस्य विवक्षेत्यर्थः ।

या तु प्रधानस्य सर्वज्ञत्वे साक्षिणी सत्त्वोत्कर्षे योगिसार्वज्ञप्रसिद्धिरुक्ता, सा समा ब्रह्मण्यपि; चेतनेश्वरप्रसादायत्तयोगिसर्वज्ञत्वस्य पातञ्जलतन्त्रे प्रसिद्धत्वाद्, इत्येवमर्थ यत्प्रसादादित्यादिभाष्यं, तद्व्याचष्टे —

यस्येति ।

तत ईश्वरप्रणिधानात्प्रत्यगात्माधिगमोऽन्तरायस्य रागादेरप्यभाव इति सूत्रार्थः ।

वस्तुतो नित्यस्येति ।

औपाधिकत्वेनानित्यत्वस्योक्तत्वादिति ।

कारणानपेक्षामिति ।

कर्ममात्रमुपाधिमीक्षणमपेक्षते, न शरीरादीतिभावः ।

स्वरूपेणेति ।

अन्वयेनेत्यर्थः ।

ज्ञानाभिव्यक्तये कर्तव्यं नास्तीत्याह —

आवरणादीति ।

ज्ञानमेव बलं सामर्थ्यमुपाध्यवच्छिन्नफलोत्पत्तौ, तेन बलेन फलभूतानुभवस्य करणं क्रिया, सा च न प्रधानस्येत्याह —

प्रधानस्य त्विति ।

अभिनिवेशस्यैव मिथ्याबुद्धित्वात्कथं तस्यैव तं प्रति हेतुत्वमत आह —

पूर्वेणेति ।

ननु लयलक्षणाऽविद्योपादानमस्ति कथं मात्रशब्दोऽत आह —

मात्रेति ।५ ।६ ।

गौणश्चेदिति ।

(ब्र.अ.१.पा.१सू.६) सूत्रसंबन्धिभाष्यमनुक्रमणिकायां व्याख्यातमित्युपरितनभाष्यं व्याचष्टे —

शङ्कोत्तरत्वेनेत्यादिना॥

यः सदाख्यः । एषोऽणिमाऽणोर्भावः । भावभवित्रोरभेदादणुः॥ एतस्यात्मनो भाव ऐतदात्म्यम् । अयमपि प्रयोगो भवितृपरः । एतदात्मकं जगत्॥ सत्येन तप्तपरशुं गृह्वतो मोक्षवत्सत्यब्रह्मज्ञस्य मोक्ष उक्तः ‘तप्तं परशुं गृह्णाती’त्यत्र॥ उक्थं प्राणः ।

अर्थवादप्रकल्पितेनेति ।

‘एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा’’ इति प्रकाशकत्वाज् ज्योतिष्ट्वेन रूपितत्रिवृदादिस्तुतिसमुदायवत्त्वात्क्रतौ ज्योतिः शब्दः॥७॥ हे श्वेतकेतो पुत्र तमप्यादेशम् आदिश्यते इति शास्त्राचार्योपदेशगम्यं वस्त्वप्राक्षीः पृष्टवानसित्वमाचार्यम् । येन श्रुतेन शास्त्रतोऽश्रुतमप्यन्यच्छ्रुतं भवति, अमतमन्यन्मतं तर्कतो एन मतेन , अविज्ञातमनिदिध्यासितं विज्ञातं भवति येन विज्ञातेनेति ।

अन्यज्ञानादन्यन्न ज्ञेयमिति पुत्रप्रश्नः —

कथं न्विति ।

नान्यत्वं कार्यस्य कारणादित्याह —

यथा सोम्येति ।

यो विकारः स वाचारम्भणं वागालम्बनम्, उच्यते परम् । नामधेयं नाममात्रं, नार्थ इति॥८॥

मनःशब्दवाच्यो भवतीति ।

लक्ष्यो भवति ।

‘‘एवमेव खलु सोम्य तन्मन‘‘ इति स्वप्नोपन्यासवाक्ये अर्थवादस्यापि स्वपितिनामनिर्वचनस्य यथार्थत्वाय हृदयादिनिरुक्त्युदाहरणम् । तस्य हृदयशब्दस्य ।    एतन्निरुक्तं निर्वचनम् । ‘‘अशनायापिपासे सोम्य विजानीहि’’ इत्युपक्रम्याषितस्यान्नस्य द्रवीकरणेन नयनाज्जरणादापोऽशनाया । एकवचनं छान्दसम् । द्रावकोदकापनयताच्छोषणादुदन्यं तेजः । आकारश्छान्दसः॥१॥ प्राणाः चक्षुरादयः । यथायतनं यथागोलकम् । प्राणेभ्योऽनन्तरमादित्याद्या अनुग्राहका देवाः । लोक्यन्त इति लोकाः विषयाः॥१०॥ करणाधिपानां जीवनामधिपः॥११॥