भामतीव्याख्या
वेदान्तकल्पतरुः
 
आनन्दमयाधिकरणविषयाः

उत्तरसूत्रसन्दर्भमाक्षिपति -

जन्माद्यस्य यत इत्यारभ्येति ।

ब्रह्म जिज्ञासितव्यमिति हि प्रतिज्ञातं, तच्च शस्त्रैकसमधिगम्यं, शस्त्रं च सर्वज्ञे सर्वशक्तौ जगदुत्पत्तिस्थितिप्रलयकारणे ब्रह्मण्येव प्रमाणं न प्रधानादाविति न्यायतो व्युत्पादितम् । न चास्ति कश्चिद्वेदान्तभागो यस्तद्विपरीतमपि बोधयेदिति च “गतिसामान्यात्”(ब्र.सू. १.१.१०) इत्युक्तम् । तत्किमपरमवशिष्यते, यदर्थान्तरसूत्रसन्दर्भस्यावतारः स्यादिति ।

किमुत्थानमिति ।

किमाक्षेपे ।

समाधत्ते -

उच्यते - द्विरूपं हीति ।

यद्यपि तत्त्वतो निरस्तसमस्तोपाधिरूपं ब्रह्म तथापि न तेन रूपेण शक्यमुपदेष्टुमित्युपहितेन रूपेणोपदेष्टव्यमिति । तत्र च क्वचिदुपाधिर्विवक्षितः ।

तदुपासनानि

कानिचित् अभ्युदयार्थानि

मनोमात्रसाधनतयात्र पठितानि ।

कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि ।

क्वचित्पुनरुक्तोऽप्युपाधिरविवक्षितः, यथात्रैवान्नमयादय आनन्दमयान्ताः पञ्च कोशाः । तदत्र कस्मिन्नुपाधिर्विवक्षितः कस्मिन्नेति नाद्यापि विवेचितम् । तथा गतिसामान्यमपि सिद्धवदुक्तं, न त्वद्यापि साधितमिति तदर्थमुत्तरग्रन्थसन्दर्भारम्भ इत्यर्थः ।

स्यादेतत् । परस्यात्मनस्तत्तदुपाधिभेदविशिष्टस्याप्यभेदात्कथमुपासनाभेदः, कथं च फलभेदमित्यत आह -

एक एव त्विति ।

रूपाभेदेऽप्युपाधिभेदादुपहितभेदादुपासनाभेदस्तथा च फलभेद इत्यर्थः । क्रतुः सङ्कल्पः ।

ननु यद्येक आत्मा कूटस्थनित्यो निरतिशयः सर्वभूतेषु गूढः, कथमेतस्मिन् भूताश्रये तारतम्यश्रुतय इत्यत आह -

यद्यप्येक आत्मेति ।

यद्यपि निरतिशयमेकमेव रूपमात्मन ऐश्वर्यं च ज्ञानं चानन्दश्च, तथाप्यनाद्यविद्यातमःसमावृतं तेषु तेषु प्राणभृद्भेदेषु क्वचिदसदिव, क्वचित्सदिव, क्वचिदत्यन्तापकृष्टमिव, क्वचिदपकृष्टमिव, क्वचित्प्रकर्षवत् , क्वचिदत्यन्तप्रकर्षवदिव भासते, तत्कस्य हेतोः, अविद्यातमसः प्रकर्षनिकर्षतारतम्यादिति । यथोत्तमप्रकाशः सविता दिङ्मण्डलमेकरूपेणैव प्रकाशेनापूरयन्नपि वर्षासु निकृष्टप्रकाश इव शरदि तु प्रकृष्टप्रकाश इव प्रथते, तथेदमपीति ।

अपेक्षितोपाधिसम्बन्धम्

उपास्यत्वेन ।

निरस्तोपाधिसम्बन्धं

ज्ञेयत्वेनेति ॥ ११ ॥

आनन्दमयोऽभ्यासात् ।

तत्र तावत्प्रथममेकदेशिमतेनाधिकरणमारचयति -

तैत्तिरीयकेऽन्नमयमित्यादि ।

'गौणप्रवाहपातेऽपि युज्यते मुख्यमीक्षणम् । मुख्यत्वे तूभयोस्तुल्ये प्रायदृष्टिर्विशेषिका” ॥ आनन्दमय इति हि विकारे प्राचुर्ये च मयटस्तुल्यं मुख्यार्थत्वमिति विकारार्थान्नमयादिपदप्रायपाठादानन्दमयपदमपि विकारार्थमेवेति युक्तम् । न च प्राणमयादिषु विकारार्थत्वायोगात्स्वार्थिको मयडिति युक्तम् । प्राणाद्युपाध्यवच्छिन्नो ह्यात्मा भवति प्राणादिविकाराः, घटाकाशमिव घटविकाराः । न च सत्यर्थे स्वार्थिकत्वमुचितम् । “चतुःकोशान्तरत्वे तु न सर्वान्तरतोच्यते । प्रियादिभागी शरीरो जीवो न ब्रह्म युज्यते” ॥ न च सर्वान्तरतया ब्रह्मैवानन्दमयं, न जीव इति साम्प्रतम् । नहीयं श्रुतिरानन्दमयस्य सर्वान्तरतां ब्रूते अपि त्वन्नमयादिकोशचतुष्टयान्तरतामानन्दमयकोशस्य । न चास्मादन्यस्यान्तरस्याश्रवणादयमेव सर्वान्तर इति युक्तम् । यदपेक्षं यस्यान्तरत्वं श्रुतं तत्तस्मादेवान्तरं भवति । नहि देवदत्तो बलवानित्युक्ते सर्वान्सिंहशार्दूलादीनपि प्रति बलवानप्रतीयतेऽपि तु समानजातीयनरान्तरमपेक्ष्य । एवमानन्दमयोऽप्यन्नमयादिभ्योऽन्तरो न तु सर्वस्मात् । न च निष्कलस्य ब्रह्मणः प्रियाद्यवयवयोगः, नापि शरीरत्वं युज्यत इति संसार्येवानन्दमयः । तस्मादुपहितमेवात्रोपास्यत्वेन विवक्षितं, न तु ब्रह्मरूपं ज्ञेयत्वेनेति पूर्वः पक्षः । अपि च यदि प्राचुर्यार्थोऽपि मयट् , तथापि संसार्येवानन्दमय; न तु ब्रह्म । आनन्दप्राचुर्य हि तद्विपरीतदुःखलवसम्भवे भवति न तु तदत्यन्तासम्भवे ।

न च परमात्मनो मनागपि दुःखलवसम्भवः, आनन्दैकरसत्वादित्याह -

न च सशरीरस्य सत इति ।

अशरीरस्य पुनरप्रियसम्बन्धो मनागपि नास्तीति प्राचुर्यार्थोऽपि मयड्नोपपद्यत इत्यर्थः ।

उच्यते ।

आनन्दमयावयवस्य तावद्ब्रह्मणः पुच्छस्याङ्गतया न प्राधान्यं, अपि त्वङ्गिन आनन्दमयस्यैव ब्रह्मणः प्राधान्यम् । तथाच तदधिकारे पठितमभ्यस्यमानमानन्दपदं तद्बुद्धिमाधत्त इति तस्यैवानन्दमयस्याभ्यास इति युक्तम् । ज्योतिष्टोमाधिकारे ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इति ज्योतिःपदमिव ज्योतिष्टोमाभ्यासः कालविशेषविधिपरः । अपि च साक्षादानन्दमयात्माभ्यासः श्रूयते - “एतमानन्दमयमात्मानमुपसङ्क्रामति”(तै. उ. २ । ८ । ५) इति ।

पूर्वपक्षबीजमनुभाष्यं दूषयति -

यत्तूक्तमन्नमयादिति ।

न हि मुख्यारुन्धतीदर्शनं तत्तदमुख्यारुन्धतीदर्शनप्रायपठितमप्यमुख्यारुन्धतीदर्शनं भवति । तादर्थ्यात्पूर्वदर्शनानामन्त्यदर्शनानुगुण्यं न तु तद्विरोधितेति चेत् , इहाप्यानन्दमयादान्तरस्यान्यस्याश्रवणात् , तस्य त्वन्नमयादिसर्वान्तरत्वश्रुतेस्तत्पर्यवसानात्तादर्थ्यं तुल्यम् । प्रियाद्यवयवयोगशरीरत्वे च निगदव्याख्यातेन भाष्येण समाहिते । प्रियाद्यवयवयोगाच्च दुःखलवयोगेऽपि परमात्मन औपाधिक उपपादितः । तथाचानन्दमय इति प्राचुर्यार्थता मयट उपपादितेति ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥

अपि च मन्त्रब्राह्मणयोरुपेयोपायभूतयोः सम्प्रतिपत्तेर्ब्रह्मैवानन्दमयपदार्थः । मन्त्रे हि पुनः पुनः “अन्योऽन्तर आत्मा” (तै. उ. २ । ५ । १) इति परब्रह्मण्यान्तरत्वश्रवणात् , तस्यैव च “अन्योऽन्तर आत्मानन्दमयः” इति ब्राह्मणे प्रत्यभिज्ञानात् , परब्रह्मैवानन्दमयमित्याह सूत्रकारः -

मान्त्रवर्णिकमेव च गीयते ।

मान्त्रवर्णिकमेव परं ब्रह्म ब्राह्मणेऽप्यानन्दमय इति गीयत इति ॥ १५ ॥

अपि चानन्दमयं प्रकृत्य शरीराद्युत्पत्तेः प्राक्स्रष्टृत्वश्रवणात् , “बहु स्याम्”(छा. उ. ६ । २ । ३) इति च सृज्यमानानां स्रष्टुरानन्दमयादभेदश्रवणात् , आनन्दमयः पर एवेत्याह । सूत्रम् -

नेतरोऽनुपपत्तेः ।

नेतरो जीव आनन्दमयः, तस्यानुपपत्तेरिति ॥ १६ ॥

भेदव्यपदेशाच्च ।

रसः सारो ह्ययमानन्दमय आत्मा “रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति” (तै. उ. २ । ७ । १) इति । सोऽयं जीवात्मनो लब्धृभावः, आनन्दमयस्य च लभ्यता, नाभेद उपपद्यते । तस्मादानन्दमयस्य जीवात्मनो भेदे परब्रह्मत्वं सिद्धं भवति ।

चोदयति -

कथं तर्हीति ।

यदि लब्धा न लब्धव्यः, कथं तर्हि परमात्मनो वस्तुतोऽभिन्नेन जीवात्मना परमात्मा लभ्यत इत्यर्थः ।

परिहरति -

बाढम् ।

तथापीति ।

सत्यम् , परमार्थतोऽभेदेऽप्यविद्यारोपितं भेदमुपाश्रित्य लब्धृलब्धव्यभाव उपपद्यते । जीवो ह्यविद्यया परब्रह्मणो भिन्नो दर्शितः, न तु जीवादपि । तथा चानन्दमयश्चेज्जीवः, न जीवस्याविद्ययापि स्वतो भेदो दर्शित इति न लब्धृलब्धव्यभाव इत्यर्थः । भेदाभेदौ च न जीवपरब्रह्मणोरित्युक्तमधस्तात् ।

स्यादेतत् । यथा परमेश्वराद्भिन्नो जीवात्मा द्रष्टा न भवत्येवं जीवात्मनोऽपि द्रष्टुर्न भिन्नः परमेश्वर इति जीवस्यानिर्वाच्यत्वे परमेश्वरोऽप्यनिर्वाच्यः स्यात् । तथा च न वस्तुसन्नित्यत आह -

परमेश्वरस्त्वविद्याकल्पितादिति ।

रजतं हि समारोपितं न शुक्तितो भिद्यते । न हि तद्भेदेनाभेदेन वा शक्यं निर्वक्तुम् । शुक्तिस्तु परमार्थसती निर्वचनीया अनिर्वचनीयाद्रजताद्भिद्यत एव ।

अत्रैव सरूपमात्रं दृष्टान्तमाह -

यथा मायाविन इति ।

एतदपरितोषेणात्यन्तसरूपं दृष्टान्तमाह -

यथा वा घटाकाशादिति ।

शेषमतिरोहितार्थम् ॥ १७ ॥ ॥ १८ ॥

स्वमतपरिग्रहार्थमेकदेशिमतं दूषयति -

इदं त्विह वक्तव्यमिति ।

एष तावदुत्सर्गो यत् “ब्रह्म पुच्छं प्रतिष्ठेति ब्रह्मशब्दात्प्रतीयते । विशुद्धं ब्रह्म विकृतं त्वानन्दमयशब्दतः” ॥ तत्र किं पुच्छपदसमभिव्याहारात् अन्नमयादिषु चास्यावयवपरत्वेन प्रयोगात् , इहाप्यवयवपरत्वात्पुच्छपदस्य, तत्समानाधिकरणं ब्रह्मपदमपि स्वार्थत्यागेन कथञ्चिदवयवपरं व्याख्यायताम् । आनन्दमयपदं चान्नमयादिविकारवाचिप्रायपठितं विकारवाचि वा, कथञ्चित्प्रचुरानन्दवाचि वा, ब्रह्मण्यप्रसिद्धं कयाचिद्वृत्या ब्रह्मणि व्याख्यायताम् । आनन्दपदाभ्यासेन च ज्योतिःपदेनेव ज्योतिष्टोम आनन्दमयो लक्ष्यतां, उतानन्दमयपदं विकारार्थमस्तु, ब्रह्मपदं च ब्राह्मण्येव स्वार्थेऽस्तु, आनन्दपदाभ्यासश्च स्वार्थे, पुच्छपदमात्रमवयवप्रायलिखितमधिकरणपरतया व्याक्रियतामिति कृतबुद्धय एव विदाङ्कुर्वन्तु । तत्र “प्रायपाठपरित्यागो मुख्यत्रितयलङ्घनम् । पूर्वस्मिन्नुत्तरे पक्षे प्रायपाठस्य बाधनम्॥” पुच्छपदं हि वालधौ मुख्यं सदानन्दमयावयवे गौणमेवेति मुख्यशब्दार्थलङ्घनमवयवपरतायामधिकरणपरतायां च तुल्यम् । अवयवप्रायलेखबाधश्च विकारप्रायलेखबाधेन तुल्यः । ब्रह्मपदमानन्दमयपदमानन्दपदमिति त्रितयलङ्घनं त्वधिकम् । तस्मान्मुख्यत्रितयलङ्घनादसाधीयान्पूर्वः पक्षः । मुख्यत्रयानुगुण्येन तूत्तर एव पक्षो युक्तः । अपि चानन्दमयपदस्य ब्रह्मार्थत्वे, “ब्रह्म पुच्छम्” (तै. उ. २ । ५ । १) इति न समञ्जसम् । न हि तदेवावयव्यवयवश्चेति युक्तम् । आधारपरत्वे च पुच्छशब्दस्य, प्रतिष्ठेत्येतदप्युपपन्नतरं भवति । आनन्दमयस्य चान्तरत्वमन्नमयादिकोशापेक्षया । ब्रह्मणस्त्वान्तरत्वमानन्दमयादर्थाद्गम्यत इति न श्रुत्योक्तम् । एवं चान्नमयादिवदानन्दमयस्य प्रियाद्यवयवयोगो युक्तः । वाङ्मनसागोचरे तु परब्रह्मण्युपाधिमन्तर्भाव्य प्रियाद्यवयवयोगः, प्राचुर्यं च, क्लेशेन व्याख्यायेयाताम् । तथा च मान्त्रवर्णिकस्य ब्रह्मण एव “ब्रह्म पुच्छं प्रतिष्ठा” (तै. उ. २ । ५ । १) इति स्वप्रधानस्याभिधानात् , तस्यैवाधिकारो नानन्दमयस्येति । “सोऽकामयत”(तै. उ. २ । ६ । १) इत्याद्या अपि श्रुतयो ब्रह्मविषया न आनन्दमयविषया इत्यर्थसङ्क्षेपः । सुगममन्यत् ।

सूत्राणि त्वेवं व्याख्येयानीति ।

वेदसूत्रयोर्विरोधे “गुणे त्वन्याय्यकल्पना” इति सूत्राण्यन्यथा नेतव्यानि । आनन्दमयशब्देन तद्वाक्यस्य “ब्रह्म पुच्छं प्रतिष्ठा” (तै. उ. २ । ५ । १) इत्येतद्गतं ब्रह्मपदमुपलक्ष्यते । एतदुक्तं भवति - आनन्दमय इत्यादिवाक्ये यत् “ब्रह्म पुच्छं प्रतिष्ठा” (तै. उ. २ । ५ । १) इति ब्रह्मपदं तत्स्वप्रधानमेवेति । यत्तु ब्रह्माधिकरणमिति वक्तव्ये “ब्रह्म पुच्छम्” (तै. उ. २ । ५ । १) इत्याह श्रुतिः, तत्कस्य हेतोः, पूर्वमवयवप्रधानप्रयोगात्तत्प्रयोगस्यैव बुद्धौ संनिधानात्तेनापि चाधिकरणलक्षणोपपत्तेरिति ।

मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥

यत् “सत्यं ज्ञानम्”(तै. उ. २ । १ । १) इत्यादिना मन्त्रवर्णेन ब्रह्मोक्तं तदेवोपायभूतेन ब्राह्मणेन स्वप्रधान्येन गीयते “ब्रह्म पुच्छं प्रतिष्ठा” (तै. उ. २ । ५ । १) इति । अवयववचनत्वे त्वस्य मन्त्रे प्राधान्यं, ब्राह्मणे त्वप्राधान्यमित्युपायोपेययोर्मन्त्रब्राह्मणयोर्विप्रतिपत्तिः स्यादिति ।

नेतरोऽनुपपत्तेः ॥ १६ ॥

अत्र ‘इतश्चानन्दमयः’ इति भाष्यस्य स्थाने ‘इतश्च ब्रह्म पुच्छं प्रतिष्ठा’ इति पठितव्यम् ।

भेदव्यपदेशाच्च ॥ १७ ॥

अत्रापि “इतश्चानन्दमयः” इत्यस्य च ‘आनन्दमयाधिकारे’ इत्यस्य च भाष्यस्य स्थाने ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति ‘ब्रह्मपुच्छाधिकारे’ इति च पठितव्यम् ।

कामाच्च नानुमानापेक्षा ॥ १८ ॥

अस्मिन्नस्य च तद्योगं शास्ति ।। १९ ।।

इत्यनयोरपि सूत्रयोर्भाष्ये आनन्दमयस्थाने ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति पाठो द्रष्टव्यः ।

तद्धेतु व्यपदेशाच्च ।। १४ ।।

विकारस्यानन्दमयस्य ब्रह्म पुच्छमवयवश्चेत्कथं सर्वस्यास्य विकारजातस्य सानन्दमयस्य ब्रह्म पुच्छं कारणमुच्येत “इदं सर्वमसृजत । यदिदं किञ्च”(तै. उ. २ । ६ । १) इति श्रुत्या । नह्यानन्दमयविकारावयवो ब्रह्म विकारः सन् सर्वस्य कारणमुपपद्यते । तस्मादानन्दमयविकारावयवो ब्रह्मेति तदवयवयोग्यानन्दमयो विकार इह नोपास्यत्वेन विवक्षितः, किन्तु स्वप्रधानमिह ब्रह्म पुच्छं ज्ञेयत्वेनेति सिद्धम् ॥ १९ ॥

भाष्ये जन्मादिसूत्रमारभ्य वृत्तानुवादः प्रतिज्ञासूत्रसिद्धवत्कारेणेत्याह —

ब्रह्म जिज्ञासितव्यमिति हीति ।

इति पञ्चममीक्षत्यधिकरणम्॥

वेदान्तानां ब्रह्मपरत्वे सिद्धेऽपि प्रमाणान्तरैरविरोधार्थमुत्तरसूत्रारम्भमाशङ्क्य तेषां ब्रह्मण्यप्रवेशमाह —

तच्चेति ।

अत्र भाष्यं –‘द्विरूपं ही’ति, तदयुक्तं; निरुपाधिन एव जिज्ञास्यत्वादित्याशङ्क्याह —

यद्यपीति ।

यदि सोपाधिकरूपस्य निरुपाधिकोपदेशशेषता, कथं तर्हि उपास्तिरिति? तत्राह —

क्वचिदिति ।

अवान्तरवाक्यभेदेनोपाधिविवक्षयोपासनविधिरित्यर्थः ।

उपास्तीनामपि मोक्षसाधनत्वव्यावृत्तये फलान्तराण्याह —

तदुपासनानीति ।

अभ्युदयार्थानि प्रतीकोपासनानि । क्रममुक्त्यर्थानि दहरादीनि । कर्मसमृद्ध्यर्थान्युद्गीथादीनि । एतानि विधेयत्वाद्यद्यपि कर्मकाण्डे वक्तव्यानि; तथापि मानसत्वेन विद्यासाम्यादिहाधीतानीत्यर्थः ।

गुणभेदेऽपि गुणिन एवकत्वादुपासनातत्फलभेदाभाव इति शङ्कते —

स्यादेतदिति ।

न विशेषणमात्रमुपाधयः, किंत्वप्पात्रमिव सवितुरवच्छेदकाः । तत उपहितभेद इति भाष्याभिप्रायमाह — रूपाभेदे नोपासनविधिरर्थवान्निरतिशयेश्वरस्य प्रत्युपाध्यवस्थानेनोपासकस्यापि स्वत एवैश्वर्यादत औपाधिकानां मध्ये एक उपासकोऽपकृष्टोऽपरमुपास्यमुत्कृष्टमिति तारतम्यं सूचयन्त्य उपासनविधिश्रुतयः कथमित्यर्थः ।

वस्तुतः स्वतःसिद्धैश्वर्योऽप्युपासक उपाधिनिकर्षादनभिव्यक्तैश्वर्यस्तं प्रत्याविर्भूतैश्वर्यं विशुद्धोपाधिमद्ब्रह्मोपास्यमिति परिहाराभिप्रायमाह —

यद्यपीति ।

स्थावरादिष्वसदिव ज्ञानादि तिर्यगादिषु सत्तत्रैवात्यन्तापकृष्टं मनुष्येष्वपकृष्टमात्रम्, गन्धर्वादिषु प्रकर्षवद्देवादिष्वत्यन्तप्रकर्षवदिति । अविशेषेण वेदान्तानां निर्विशेषे ब्रह्मणि समन्वयः साधितः, तस्य क्वचिद्धिरण्मयवाक्यादावपवादः, क्वचिदानन्दमयवाक्यादावपवादाभासप्राप्तौ तदपवादश्च पतिपाद्य इत्यध्यायशेष आरभ्यते॥ आनन्दमयोऽभ्यासाइ ॥१२॥

ननु ‘‘ता आप ऐक्षन्त’’ इत्याद्यब्रह्मसन्निधिमपबाध्य मुख्येक्षितृ ब्रह्म निर्णीतम्, इह कथमन्नमयाद्यब्रह्मसन्निधिपाठादानन्दमयस्याब्रह्मत्वशङ्का? अत आह —

गौणेति ।

अनादिगौणेक्षणप्रवाहपातेऽपि जगत्कारणे मुख्यमीक्षणमिति युज्यते; मुख्यसंभवे गौणस्यानवकाशत्वात् । अतस्तत्र विशयानुदये प्रायपाठोऽकिंचित्करः । अत्र तु मयटो विकारप्राचुर्ययोर्मुख्यत्वे सति विकारार्थग्रहणे प्रायदृष्टिर्विशेषिका प्राचुर्यार्थत्वाद्व्यावर्तिकेत्यर्थः । एवचं पूर्वाधिकरणसिद्धान्ताभावेन पूर्वपक्षोत्थानात् प्रत्युदाहरणलक्षणसंगतिरपि सूचिता । संशयबीजं च मयटो विकारप्राचुर्यसाधारण्यमुक्तम् । प्रयोजने च तत्तदुपास्तिः प्रमितिर्वेति सर्वत्र द्रष्टव्यम् । ।

भास्करोक्तमाशङ्क्याह —

नचेति ।

विकारो हि द्विप्रकारः कश्चिच्छुक्तिरूप्यादिः स्वरूपेणाध्यस्तः, कश्चित्तु प्रतिबिम्बघटाकाशादिरूपाधितो विभक्तः, तत्र प्राणाद्युपाधिविभक्त आत्मा तद्विकारः ।

अथवा —

भृगुवल्ल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिका अन्नमयादयः कोशा विकारा इति ।

विकारसन्निधेः सर्वान्तरत्वलिङ्गेन बाधमाशङ्क्याह —

चतुष्कोशेति ।

आनन्दमयस्य सर्वान्तरत्वमन्नमयाद्यान्तरत्वमन्नमयाद्यान्तरत्वेनोक्तं तस्मादन्यस्यान्तरस्याश्रवणात् ।

प्रथमं निरस्य द्वितीयं निराचष्टे  —

नचास्मादिति ।

यथा ‘बलवान्देवदत्त’ इत्युक्ते यज्ञदत्ताद्यपेक्षमेव बलवत्त्वं, सिंहादीनां ततोऽपि बलवत्त्वमनुक्तमपि गम्यते; तथानन्दमयस्येतरकोशापेक्षमान्तरत्वं, ब्रह्म तु ततोऽऽप्यान्तरमनुक्तमपि गम्यत इत्यर्थः ।

ब्रह्मत्वे लिङ्गाभासं निरस्य जीवत्वे लिङ्गमाह —

न च निष्कलस्येति ।

श्रुतिमप्याह —

नापीति ।

सशरीरस्य प्रियादि दुर्वारमित्येतावता कथं मयटः प्राचुर्यार्थत्वे ब्रह्मत्वानुपपत्तिरुक्ता? तत्राह —

अशरीरस्येति ।

एवमुक्ते ह्यशरीरे ब्रह्मणि नाप्रियमित्युक्तं भवति । तथाच दुःखगन्धाद्योती प्राचुर्यार्थो मयङ् न संभवतीत्युक्तं स्यादित्यर्थः ।

आनन्दप्रातिपदिकाभ्यासलिङ्गात्कथमानन्दमयस्य ब्रह्मत्वं? वैयधिकरण्यादिति शङ्कानिराकरणार्थं भाष्यं  —

आनन्दमयं प्रस्तुत्येति ।

तदिदमनुपपन्नं पुच्छब्रह्मणः प्राकरणिकत्वादत आह —

आनन्दमयावयवस्येति ।

ननु ज्योतिषेति कर्मान्तरविधिर्नाभ्यासोऽत आह —

कालेति ।

वसन्तकालगुणसंक्रान्तत्वान्न कर्मान्तरविधिरित्यर्थः । देवदत्तादपि बलवत्त्वं सिंहादेर्मानान्तरसिद्धम् ।

आनन्दमयादान्तरे वस्तुनि न मानान्तरं, नापि श्रुतिरित्यभिप्रेत्याह —

न हीति ।

दृष्टान्तवैषम्यं शङ्कते —

तादर्थ्यादिति ।

मुख्यारुन्धतीदर्शनाविरोधेनानुगुण्यं चेदत्रापि तुल्यमित्यर्थः ।

योऽपि पूर्वपक्षे प्राचुर्यार्थत्वमुपेत्य दुःखलवयोग आपादितः सोऽप्युपाधिवशादित्यर्थात्परिहृत इत्याह —

प्रियादीति॥१२॥

एवंच विकारशब्दात् (ब्र.अ.१.पा.१.सू.१३) इति सूत्रं व्याख्यातम् । ‘तत्प्रकृतवचने मयट्’ तदिति प्रथमासमर्थात्प्राचुर्यविशिष्टप्रस्तुतवचनाभिधाने गम्यमाने मयडिति सूत्रार्थः । वचनग्रहणात्प्राचुर्यवैशिष्ट्यसिद्धिः । तादृशस्यैव लोके मयटाभिधानादिति॥१४॥ मान्त्रवर्णिकम् (ब्र.अ.१.पा.१.सू.१६) इति सूत्रं — भाष्यकृद्भिः सत्यं ज्ञानमनन्तमिति मन्त्रप्रस्तुतं ब्रह्म, आनन्दमयवाक्ये निर्दिश्यते, प्रकृतत्वादसंबद्धपदव्यवायाभावाच्चेति विवृतं ।

तत्रेतरेतरत्रार्थप्रत्यभिज्ञानाभावाद् मन्त्रब्राह्मणयोर्व्याख्यानव्याख्येयभावस्याविशदत्वात्प्रकारान्तरेण सूत्रं व्याचष्टे —

अपिच मन्त्रेति ।

यथा मन्त्रः प्रयोगोपायः, एवं कोशचतुष्कवाक्यमानन्दमयब्रह्मप्रतिपत्त्युपायस्य देहादिव्यतिरेकस्य समर्पकत्वाद्गौण्या वृत्त्या मन्त्र उच्यते । आनन्दमयवाक्यमुपेयप्रयोगविधायिब्राह्मणवदुपेयब्रह्मप्रत्यायकत्वाद्ब्राह्मणं विवक्षितम् ।

तयोश्चेतरेतरत्रार्थप्रत्यभिज्ञानमाह —

मन्त्रे हीति ।

परब्रह्मणीति ।

विज्ञानमयादिशब्दैरपि ब्रह्मैव तत्तदुपाधिभ्यः प्रविविच्य निर्दिष्टमित्यर्थः । नचैवं प्राणमयादान्तरात्मनो विज्ञानमयस्यात्मत्वापत्तिः; तस्मादान्तरोपदेशादिति भावः । सूत्रकारग्रहणं व्याख्येयभाष्यानपेक्षत्वसूचनार्थम् । भाष्येऽपि महाप्रकरणोपन्यासः सूत्रार्थो, न मन्त्रब्राह्मणतया व्याख्यानव्याख्येयभाव ।

अतएवाह —

अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्यातामिति । मन्त्रब्राह्मणयोश्चेत्यपि भाष्यं प्रकरणप्रदर्शनपरमेवेत्यविरुद्धम् । सौत्रं तु मान्त्रवर्णिकपदं विवक्षितं कृतं टीकाकृता ।

ननु सर्वस्रष्टृत्वाद्यनेकहेतूपदेशे वाक्यभेदः स्यादत आह —

सूत्रमिति ।

सूत्रस्य विश्वतोमुखत्वमलङ्कार इत्यर्थः॥

ननु जीवादन्यत्वान्नानन्दमयस्य ब्रह्मत्वं; घटादिष्वदर्शनात्, अत आह —

तस्मादिति ।

आनन्दमयो ह्यात्मशब्दाच्चेतनस्तस्य च जीवत्वराहित्ये ब्रह्मत्वं सिद्धमित्यर्थः ।

एकत्वेऽपि परजीवयोरौपाधिकभेदाल्लब्धृलब्धव्यभावे जीवस्यापि स्वं प्रति स्यात्; तस्यापि स्थूलसूक्ष्माद्युपाधिभेदात्, अत आह —

न त्विति ।

स्वतन्त्रोपाधिभेदे चेतनभेदः, परब्रह्मणस्तु जीवोऽविद्यायां विभक्तः सत्वविद्यावच्छिन्न एव स्थूलसूक्ष्मोपाधिभ्यामवच्छिद्यत इति न स्वस्मादौपाधिकोऽपि भेद इत्यर्थः ।

सूत्रारूढो हि स्वरूपेणापि मिथ्या, जीवे तु भेदमात्रं कल्पितं, न स्वरूपमतः कल्पितत्वमात्रे दृष्टान्त इत्याह —

अत्रैवेति॥

ब्रह्मानन्दमयं प्रत्यवयवः, उत प्रधानमिति पुच्छब्रह्मशब्दाभ्यां संशये मुख्येक्षणाद् ब्रह्मनिर्णयेन गौणप्रायपाठो बाधितः, इह तु पुच्छशब्दस्यावयवमात्रत्वे आधारमात्रत्वे च लाक्षणिकत्वसाम्ये सत्यवयवप्रायदर्शनादवयव इति सङ्गतिः ।

यदुक्तं — आनन्दमयस्याङ्गं ब्रह्म — इति, तन्न, श्रुतिबाधप्रसङ्गादिति वदन् सिद्धान्तस्य बीजमावपति ब्रह्म पुच्छमिति ।  बल विवेकाय पूर्वोत्तरपक्षयुक्तीर्विभजते —

तत्र किमिति ।

उपेक्ष्यापि प्रायपाठं कथंचित्प्रचुरानन्दवाचि चानन्दमयपदं कल्पितमपि ब्रह्मण्यप्रसिद्धं; स्तोकदुःखनुवृत्त्यापत्तेरित्यर्थः ।

कयाचिद्वृत्त्येति ।

अल्पत्वनिवृत्तिलक्षणयेत्यर्थः । ननु प्रचुरप्रकाशः सवितेतिवदल्पत्वनिवृत्तिपरः कि न स्याद्, उच्यते; यत्र प्राचुर्यविशिष्टपदार्थप्रतीतिस्तत्रैवं भवति । यत्र पुनः प्राचुर्यमेव पदार्थेन विशेष्यते तत्र विरोधिन ईषदनुवृत्तिः प्रतीयते, ब्राह्मणप्रचुरोऽयं ग्राम इत्यादौ । तथाच आनन्दमयपदेऽपि प्रधानं प्रत्ययार्थ प्राचुर्यं प्रति आनन्दस्य विशेषणत्वाद् दुर्निवारा दुःखानुवृत्तिरिति॥ ‘तत्रापिशब्दबलाद्विरोध्यनुवृत्तिः प्रतीयते, मानान्तरेण तु तदभावावगमे प्राचुर्यमल्पत्वनिवृत्तिपरं कल्प्यते । तस्मान्मयडर्थस्य मुख्यस्य त्यागः’ । कृतबुद्धयः शिक्षितबुद्धयः । विदाङ्कुर्वन्तु विवेचयन्तु । विभागमात्रेणैव सिद्धान्तप्राबल्यमुन्मीलयन्वित्यर्थः ।

उक्तविवेकं स्फोरयति —

प्रायेति ।

मयड्विकारे मुख्यः ब्रह्मशब्दः परब्रह्मणि मुख्यः अभ्यस्यमानानन्दशब्दश्च प्रकृत्यर्थएव मुख्यो न मयडर्थे । पूर्वपक्षे एतत्त्रितयलङ्घनम्, आनन्दमयपदस्यान्नमयादिविकारप्रायपाठपरित्यागश्च स्यात् । उत्तरे तु पक्षे पुच्छशब्दस्यावयवप्रायपाठस्यैव बाधनम्, अनुगुणं तु मुख्यत्रितयमित्यर्थः । ननु यथा पूर्वपक्षे मयट् च्छ्रुतिबाधः ।

एवं सिद्धान्ते पुच्छश्रुतिबाधस्तत्राह —

पुच्छपदं हीति ।

लाङ्गूले मुख्यं पुच्छपदं , न करचरणाद्यवयवमात्रे; आनन्दमयस्य चात्मनो न मुख्यलाङ्गूलसंभव इति ।

अपिच पुच्छशब्देनाधारलक्षणा प्रतिष्ठेत्युपपदसामर्थ्याच्छ्रुत्यनुमथा, नावयवलक्षणेत्याह —

आधारपरत्वे चेति ।

आनन्दमयस्यकोशस्यैवेतरकोशापेक्षयाऽन्तरत्वं चेत्, तर्हि ततोऽभ्यन्तरं ब्रह्म किमिति नो़क्तमत आह —

ब्रह्मणस्त्विति ।

अर्थात्प्रतिष्ठात्वसामर्थ्यादित्यर्थः ।

यदुक्तमुपाधिवशात्प्रियादियोगः प्राचुर्यप्रयुक्तदुःखलेशान्वयश्चेति, तत्राह —

वाङ्मानसेति॥

गुणे त्विति ।

यथा ह्यग्नीषोमीये पशावेकपाशके ‘‘अदितिः पाशान् प्रमुमोक्त्वेतान्‘‘ इति, ‘‘अदितिः पाशं प्रमुमोक्त्वेत’’मिति च मन्त्रौ श्रुतौ ।

तत्र बहुवचनवान्मन्त्रः किं प्रकरणादुत्क्रष्ठव्यो न वेति विशये बहुवचनस्यासमवेतार्थत्वादुत्कर्षे प्राप्ते विशेषप्रधानभूतपाशवाचिप्रातिपदिकस्याग्नीषोमीये समवेतार्थत्वात् तदनुरोधेन बहुवचनं पाशगुणत्वेन तद्विशेषणभूतबहुत्ववाचकमन्याय्यया लक्षणया पाशावयवाल्लक्षयतीति नवमे निर्धारितम् —

विप्रतिपत्तौ विकल्पः स्यात्समत्वाद् गुणे त्वन्याय्यकल्पनैकदेशत्वात् (जै.अ.९.पा.३.सू.१५) इति । उत्कर्षोऽनुत्कर्षो वेत्यस्यां विप्रतिपत्तौ पाशं पाशानिति च मन्त्रयोर्विकल्पः स्यात्; पाशप्रातिपदिकस्योभयत्र समत्वात् गुणे प्रत्ययार्थे त्वन्याय्यकल्पना न तद्बलान्मन्त्रोत्कर्षः; प्रत्ययस्य पदैकदेशत्वात्प्रातिपदिकपारतन्त्र्येणोत्कर्षकत्वायोगादिति सूत्रार्थः । एवमिहापि प्रधानश्रुतिविरोधे गुणभूतसूत्राण्यध्याहारादिभिर्नेयानीति ।

तथाचाचार्यशबरस्वामी वर्णयांबभूव — लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति वेदाविरोधसंभवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यमिति॥अपराण्यपीति भाष्ये येषु सूत्रेषु व्याख्याऽतिदिष्टा तान्यल्पवक्तव्यत्वात्प्रथमं योजयति —

यत्सत्यमिति ।

तद्धेतुव्यपदेशाच्चेति (ब्र.अ.१.पा.१.सू.१४) सूत्रव्याख्यानपरमधिकरणसमाप्तिभाष्यं व्याख्याति —

विकारजातस्येति ।

अवयवो यदीति शेषः ।

अवयवश्चेत् कथं कारणमुच्येत, तत्र हेतुमाह —

न हीति ।

आनन्दमयस्तावद्विकारः, तदवयवो ब्रह्मापि विकारः स्यात्परिच्छिन्नत्वात् तथाभूतं सन्न विश्वहेतुरित्यर्थः ।

चिन्ताप्रयोजनमाह —

तस्मादिति ।

आनन्दमयविकारस्यावयवो ब्रह्मेति कृत्वेत्यर्थः । तेन ब्रह्मणाऽवयवेन योगो यस्य स तथोक्तः॥ इति षष्ठं आनन्दमयाधिकरणम्॥