भामतीव्याख्या
वेदान्तकल्पतरुः
 
अन्तरधिकरणविषयाः

अन्तस्तद्धर्मोपदेशात् ।

पूर्वस्मिन्नधिकरणेऽपास्तसमस्तविशेषब्रह्मप्रतिपत्त्यर्थमुपायतामात्रेण पञ्च कोशा उपाधयः स्थिताः, नतु विवक्षिताः । ब्रह्मैव तु प्रधानं “ब्रह्म पुच्छं प्रतिष्ठा” इति ज्ञेयत्वेनोपक्षिप्तमिति निर्णीतम् । सम्प्रति तु ब्रह्म विवक्षितोपाधिभेदमुपास्यत्वेनोपक्षिप्यते, नतु विद्याकर्मातिशयलब्धोत्कर्षो जीवात्मादित्यपदवेदनीय इति निर्णीयते । तत् “मर्यादाधाररूपाणि संसारिणि परे न तु । तस्मादुपास्यः संसारी कर्मानधिकृतो रविः” ॥ “हिरण्यश्मश्रुः” (छा. उ. १ । ६ । ६) इत्यादिरूपश्रवणात् , “य एषोऽन्तरादित्ये”(छा. उ. १ । ६ । ६), “य एषोऽन्तरक्षिणी”(छा. उ. १ । ७ । ५) इति चाधारभेदश्रवणात् , “ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च” इत्यैश्वर्यमर्यादाश्रुतेश्च संसार्येव कार्यकारणसङ्घातात्मको रूपादिसम्पन्न इहोपास्यः, नतु परमात्मा “अशब्दमस्पर्शम्” (क. उ. १ । ३ । १५) इत्यादिश्रुतिभिः अपास्तसमस्तरूपश्च, “स्वे महिम्नि”(छा. उ. ७ । २४ । १) इत्यादिश्रुतिभिरपाकृताधारश्च, “एष सर्वेश्वरः” (बृ. उ. ४ । ४ । २२) इत्यादिश्रुतिभिरधिगतनिर्मर्यादैश्वर्यश्च शक्य उपास्यत्वेनेह प्रतिपत्तुम् । सर्वपाप्मविरहश्चादित्यपुरुषे सम्भवति, शास्त्रस्य मनुष्याधिकारतया देवतायाः पुण्यपापयोरनधिकारात् । रूपादिमत्त्वान्यथानुपपत्त्या च कार्यकारणात्मके जीवे उपास्यत्वेन विवक्षिते यत्तावदृगाद्यात्मकतयास्य सर्वात्मकत्वं श्रूयते तत्कथञ्चिदादित्यपुरुषस्यैव स्तुतिरिति आदित्यपुरुष एवोपास्यो न परमात्मेत्येवं प्राप्तम् । अनाधारत्वे च नित्यत्वं सर्वगतत्वं च हेतुः । अनित्यं हि कार्यं कारणाधारमिति नानाधारं, नित्यमप्यसर्वगतं च यत्तस्मादधरभावेनास्थितं तदेव तस्योत्तरस्याधार इति नानाधारं, तस्मादुभयमुक्तम् । एवं प्राप्तेऽभिधीयते “अन्तस्तद्धर्मोपदेशात्” । “सार्वात्म्यसर्वदुरितविरहाभ्यामिहोच्यते । ब्रह्मैवाव्यभिचारिभ्यां सर्वहेतुर्विकारवत्” ॥ नामनिरुक्तेन हि सर्वपाप्मापादानतयस्योदय उच्यते । न चादित्यस्य देवतायाः कर्मानधिकारेऽपि सर्वपाप्मविरहः प्राग्भवीयधर्माधर्मरूपपाप्मसम्भवे सति । न चैतेषां प्राग्भवीयो धर्म एवास्ति न पाप्मेति साम्प्रतम् । विद्याकर्मातिशयसमुदाचारेऽप्यनादिभवपरम्परोपार्जितानां पाप्मनामपि प्रसुप्तानां सम्भवात् । नच श्रुतिप्रामाण्यादादित्यशरीराभिमानिनः सर्वपाप्मविरह इति युक्तं, ब्रह्मविषयत्वेनाप्यस्याः प्रामाण्योपपत्तेः । नच विनिगमनाहेत्वभावः, तत्र तत्र सर्वपाप्मविरहस्य भूयोभूयो ब्रह्मण्येव श्रवणात् । तस्यैव चेह प्रत्यभिज्ञायमानस्य विनिगमनाहेतोर्विद्यमानत्वात् । अपिच सार्वात्म्यं जगत्कारणस्य ब्रह्मण एवोपपद्यते, कारणादभेदात्कार्यजातस्य, ब्रह्मणश्च जगत्कारणत्वात् । आदित्यशरीराभिमानिनस्तु जीवात्मनो न जगत्कारणत्वम् । नच मुख्यार्थसम्भवे प्राशस्त्यलक्षणया स्तुत्यर्थता युक्ता । रूपवत्त्वं चास्य परानुग्रहाय कायनिर्माणेन वा, तद्विकारतया वा सर्वस्य कार्यजातस्य, विकारस्य च विकारवतोऽनन्यत्वात्तादृशरूपभेदेनोपदिश्यते, यथा “सर्वगन्धः सर्वरसः” (छा. उ. ३ । १४ । २) इति । नच ब्रह्मनिर्मितं मायारूपमनुवदच्छास्त्रमशास्त्रं भवति, अपितु तां कुर्वत् इति नाशास्त्रत्वप्रसङ्गः । यत्र तु ब्रह्म निरस्तसमस्तोपाधिभेदं ज्ञेयत्वेनोपक्षिप्यते, तत्र शास्त्रम् “अशब्दमस्पर्शमरूपमव्ययम्”(क. उ. १ । ३ । १५) इति प्रवर्तते । तस्माद्रूपवत्त्वमपि परमात्मन्युपपद्यते । एतेनैव मर्यादाधारभेदावपि व्याख्यातौ । अपि चादित्यदेहाभिमानिनः संसारिणोऽन्तर्यामी भेदेनोक्तः, स एवान्तरादित्य इत्यन्तःश्रुतिसाम्येन प्रत्यभिज्ञायमानो भवितुमर्हति ।

तस्मात्ते धनसनय इति ।

धनवन्तो विभूतिमन्त इति यावत् ।

कस्मात्पुनर्विभूतिमत्त्वं परमेश्वरपरिग्रहे घटत इत्यत आह -

यद्यद्विभूतिमदिति ।

सर्वात्मकत्वेऽपि विभूतिमत्स्वेव परमेश्वरस्वरूपाभिव्यक्तिः, न त्वविद्यातमःपिहितपरमेश्वरस्वरूपेष्वविभूतिमत्स्वित्यर्थः ।

लोककामेशितृत्वमपीति ।

अतोऽत्यन्तापारार्थ्यन्यायेन निराङ्कुशमैश्वर्यमित्यर्थः ॥ २० ॥ ॥ २१ ॥

अन्तस्तद्धार्मोपदेशात्॥२०॥ निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः॥१॥ वशीकृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम्॥२॥ समन्वयस्य सविशेषपरत्वमपोद्यानन्दमयाधिकरण उत्सर्गः स्थापितः । इदानीमपवादचिन्तार्थत्वेनाधिकरणमवतारयन् प्रघट्टकसङ्गातिमाह —

पूर्वस्मिन्निति ।

यद्यप्यपवादापवादत्वात् पुच्छब्रह्मचिन्ता प्रातर्दनविचारसन्निधौ कर्तुं युक्ता; तथाप्यवान्तरसङ्गतिमालोच्य कामाच्च नानुमानापेक्षे (ब्र.अ.१.पा.१.सू.१८) ति प्रधाननिरासस्येक्षत्यधिकरणा(ब्र.अ.१.पा१.सू.५) नन्तरं बुद्धिस्थतां चापेक्ष्य प्रथमं कृता । उतादित्यपदवेदनीयो जीव उपास्यत्वेन न तूपक्षिप्यत इत्यनुषङ्गः ।

इह रूपवत्वसर्वपाप्मविरहाभ्यां संशये पूर्वत्र मुख्यत्रितयाख्यबहुप्रमाणानुसारान्निर्विशेषनिर्णयवद् रूपवत्त्वादिबहुप्रमाणवशात्संसारी हिरण्मयः पुरुषः इत्यवान्तरसङ्गतिमभिप्रेत्य पूर्वपक्षं सङ्कलयति —

मर्यादेति ।

सर्वपाप्मविरहस्यान्यथासिद्धिमाह —

कर्मेति ।

इन्द्रस्य वृत्रवधेन ब्रह्महत्याश्रवणादस्ति देवानां कर्माधिकार इति भारतिविलासः । तन्न ; गवां सत्रासनश्रवणात् (तासां) तेषामप्यधिकारप्रसङ्गात् । असंभवस्तूभयत्र तुल्यः । नह्यैन्द्रे दधनि इन्द्रस्याधिकारसंभवः । न च निषेधाधिकारः; ‘‘न ह वै देवान् पापं गच्छती’’ ति श्रुतेः । अथ  प्राकृतस्यैव । पापस्य फलानारम्भकत्वमेतच्छ्रुत्यर्थः, तर्हि तदेव पाप्मोदयस्यालम्बनमस्तु, कर्मानधिकृतत्वोक्तेः तत्प्रदर्शनार्थत्वादिति अमुष्मादादित्यात्पराञ्चः ।

नह्यनाधारस्येति भाष्यं व्याचष्टे —

अनाधारत्वे चेति ।

नित्यत्वमिति स्वमहिमप्रतिष्ठितत्वस्य व्याख्या ।

कथं नित्यत्वेनाऽनाधारत्वसिद्धिस्तत्राह —

अनित्यं हीति ।

तर्हि तत एवानाधारत्वसिद्धौ किं सर्वगतत्वेनात आह —

नित्यमपीति ।

नित्यमपि असर्वगतं चेत्तन्न भवत्याधाररहितं, यतो यद्वस्तु तस्मान्नित्यादधरभावेनावस्थितं, तदेव तस्य नित्यस्योपरिस्थितस्याधारो भवति । तस्मात्सर्वगतत्वमपि नित्यत्वविशेषणत्वेनानाधारत्वे हेतुर्वक्तव्य इत्यर्थः ।

सर्वात्मत्वसर्वदुरितविरहयोः रूपवत्त्वादिभ्यः किं बलमत आह —

अव्यभिचारिभ्यामिति ।

न ब्रह्मणोऽन्यत्र तयोः संभव इत्यर्थः ।

ब्रह्मणि सर्वात्मत्वसंभवमाह —

सर्वेति ।

रूपवत्त्वादेर्ब्रह्मण्यपि सम्भवद्व्यभिचारमाह —

विकारवदिति ।

कार्योपहितमित्यर्थः ।

सर्वदुरितविरहमुदाहृतवाक्येनापि प्रमिमीते —

नामेति ।

पाप्मभ्य इति अपादाने पञ्चमी । ततः सर्वे पाप्मनोऽपादानां यस्योदयस्य तस्य भावस्तत्ता तद्रूपेणोदय उद्गम उच्यत इति । रूपवत्त्वं तादृशेन रूपविशेषेणोपदिश्यत इत्यन्वयः ।

ननु हिरण्मयत्वं कथं? तद्धि शरीरस्यात आह —

विकारस्य चेति ।

नन्वविकारिब्रह्मणो मायामयं रूपं वक्तव्यं, तश्च मिथ्यार्थप्रकाशकतया शास्त्राप्रामाण्यमत आह —

नचेति ।

यथा लोके मायाविदर्शितमायानुवादिवाक्यं प्रमाणमेवं शास्त्रमपि ।

अप्रामाण्यं तर्हि कदा स्यादत आह —

अपित्विति ।

मायां मिथ्याबुद्धिं कुर्वदशास्त्रं स्याद्, नतु तां करोति; तस्याः प्रागेव सिद्धत्वादित्यर्थः ।

विभूतिमत्स्वेवेश्वरावस्थाने सार्वात्म्यविरोधमाशङ्क्याभिव्यक्तिमात्रं तत्र, सत्ता तु सर्वत्रेत्याह —

सर्वेति ।

लोककामेशितृत्वश्रवणाद्देवमनुष्यैरीश्वराज्ञा विनाऽशितुमपि न शक्यमित्यन्तः पारार्थ्यन्यायः । सैवर्क् तत् सामेति तच्छब्दैश्चाक्षुषपुरुषपरामर्शः । ऋगादिविधेयापेक्षया स्त्रीलिङ्गनिर्देशः । उक्थं शस्त्रविशेषः । तत्साहचर्यात्सामस्तोत्रं ऋगुक्थादन्यच्छस्त्रं ब्रह्म त्रयो वेदाः पृथिव्यग्न्याद्यात्मके चेत्यादिभाष्यम् । तत्र ऋगाधिदैवं पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा साम चाग्निवाय्वादित्यचन्द्रम आदित्यगतपरकृष्णाख्यातिकृष्णरूपादिकमाम्नातमियमेवर्गग्निः सामेत्यादिना । अध्यात्मं च ऋग्वाक्चक्षुः श्रोत्रादिगतशुक्लभालक्षणा तावदुक्ता ।

साम च प्राणच्छायात्ममनोक्षिस्थकृष्णभारूपमाम्नातम् —

वागेवर्क् प्राणः सामेत्यादिना ।

एवमात्मके ऋक्सामे तस्य गेष्ण्यौ पर्वणी॥ इति सप्तममन्तरधिकरणम्॥