भामतीव्याख्या
वेदान्तकल्पतरुः
 
आकाशाधिकरणविषयाः

आकाशस्तल्लिङ्गात् ।

पूर्वस्मिन्नधिकरणे ब्रह्मणोऽसाधारणधर्मदर्शनाद्विवक्षितोपाधिनोऽस्यैवोपासना, न त्वादित्यशरीराभिमानिनो जीवात्मन इति निरूपितम् । इदानीं त्वसाधारणधर्मदर्शनात्तदेवोद्गीथे सम्पाद्योपास्यत्वेनोपदिश्यते, न भूताकाश इति निरूप्यते । तत्र “आकाश इति होवाच” इति किं मुख्याकाशपादानुरोधेन “अस्य लोकस्य का गतिः”(छा. उ. १ । ९ । १) इति, “सर्वाणि ह वा इमानि भूतानि” इति “ज्यायान्” इति च “परायणम्” इति च कथञ्चिद्व्याख्यायतां, उतैतदनुरोधेनाकाशशब्दो भक्त्या परात्माने व्याख्यायतामिति । तत्र “प्रथमत्वात्प्रधानत्वादाकाशं मुख्यमेव नः । तदानुगुण्येनान्यानि व्याख्येयानीति निश्चयः” ॥ “अस्य लोकस्य का गतिः” इति प्रश्नोत्तरे “आकाश इति होवाच” इत्याकाशस्य गतित्वेन प्रतिपाद्यतया प्राधान्यात् , “सर्वाणि ह वा” इत्यादीनां तु तद्विशेषणतया गुणत्वात् , “गुणे त्वन्याय्यकल्पना” इति बहून्यप्यप्रधानानि प्रधानानुरोधेन नेतव्यानि । अपिच “आकाश इति होवाच” इत्युत्तरे प्रथमावगतमाकाशमनुपजातविरोधि, तेन तदनुरक्तायां बुद्धौ यद्यदेव तदेकवाक्यगतमुपनिपतति तत्तज्जघन्यतया उपसञ्जातविरोधि तदानुगुण्येनैव व्यवस्थानमर्हति । नच क्कचिदाकाशशब्दो भक्त्या ब्रह्मणि प्रयुक्त इति सर्वत्र तेन तत्परेण भवितव्यम् । नहि गङ्गायां घोष इत्यत्र गङ्गपदमनुपपत्त्या तीरपरमिति यादांसि गङ्गायामित्यत्राप्यनेन तत्परेण भवितव्यम् । सम्भवश्चोभयत्र तुल्यः । नच ब्रह्मण्यप्याकाशशब्दो मुख्यः, अनैकार्थत्वस्यान्याय्यत्वात् , भक्त्या च ब्रह्मणि प्रयोगदर्शनोपपत्तेः । लोके चास्य नभसि निरूढत्वात् , तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेर्वैपरीत्यानुपपत्तेः । तदानुगुण्येन च “सर्वाणि ह वा” इत्यादीनि भाष्यकृता स्वयमेव नीतानि । तस्माद्भूताकाशमेवात्रोपास्यत्वेनोपदिश्यते, न परमात्मेति प्राप्तम् ।

एवं प्राप्तेऽभिधीयते -

आकाशशब्देन ब्रह्मणो ग्रहणम् ।

कुतः,

तल्लिङ्गात् ।

तथाहि - “सामानधिकरण्येन प्रश्नतत्प्रतिवाक्ययोः । पौर्वापर्यपरामर्शात्प्रधानत्वेऽपि गौणता” ॥ यद्यप्याकाशपदं प्रधानार्थं तथापि यत्पृष्टं तदेव प्रतिवक्तव्यम् । न खल्वनुन्मत्त आम्रान्पृष्टः कोविदारानाचष्टे । तदिह, “अस्य लोकस्य का गतिः” इति प्रश्नो दृश्यमाननामरूपप्रपञ्चमात्रगतिविषय इति तदनुरोधाद्य एव सर्वस्य लोकस्य गतिः स एवाकाशशब्देन प्रतिवक्तव्यः । नच भूताकाशः सर्वस्य लोकस्य गतिः, तस्यापि लोकमध्यपातित्वात् । तदेव तस्य गतिरित्यनुपपत्तेः । न चोत्तरे भूताकाशश्रवणाद्भूताकाशकार्यमेव पृष्टमिति युक्तं, प्रश्नस्य प्रथमावगतस्यानुपजातविरोधिनो लोकसामान्यविषयस्योपजातविरोधिनोत्तरेण सङ्कोचानुपपत्तेस्तदनुरोधेनोत्तरव्याख्यानात् । नच प्रश्नेन पूर्वपक्षरूपेणानवस्थितार्थेनोत्तरं व्यवस्थितार्थं न शक्यं नियन्तुमिति युक्तं, तन्निमित्तानामज्ञानसंशयविपरर्यासानामनवस्थानेऽपि तस्य स्वविषये व्यवस्थानात् । अन्यथोत्तरस्यानालम्बनत्वात्तेर्वैयधिकरण्यापत्तेर्वा । अपि चोत्तरेऽपि बह्वसमञ्जसम् । तथाहि - “सर्वाणि ह वा इमानि भूतान्यकाशादेव समुत्पद्यन्ते” इति सर्वशब्दः कथञ्चिदल्पविषयो व्याख्येयः । एवमेवकारोऽप्यसमञ्जसः । न खल्वपामाकाश एव कारणमपि तु तेजोऽपि । एवमन्नस्यापि नाकाशमेव कारणमपि तु पावकपाथसी अपि । मूलकारणविवक्षायां तु ब्रह्मण्येवावधारणं समञ्जसम् । असमञ्जसं तु भूताकाशे । एवं सर्वेषां भूतानां लयो ब्रह्मण्येव । एवं सर्वेभ्यो ज्यायस्त्वं ब्रह्मण एव । एवं परमयनं ब्रह्मैव । तस्मात्सर्वेषां लोकानामिति प्रश्नेनोपक्रमात् , उत्तरे च तत्तदसाधारणब्रह्मगुणपरामर्शात्पृष्टायाश्च गतेः परमयनमित्यसाधारणब्रह्मगुणोपसंहारात् , भूयसीनां श्रुतीनामनुग्रहाय “त्यजेदेकं कुलस्यार्थे” इतिवद्वरमाकाशपदमात्रमसमञ्जसमस्तु । एतावता हि बहु समञ्जसं स्यात् । न चाकाशस्य प्राधान्यमुत्तरे, किन्तु पृष्टार्थत्वादुत्तरस्य, लोकसामान्यगतेश्च पृष्टत्वात् , “परायणम्” इति च तस्यैवोपसंहाराद्ब्रह्मैव प्रधानम् । तथाच तदर्थं सत् आकाशपदं प्रधानार्थं भवति, नान्यथा । तस्माद्ब्रह्मैव प्रधानमाकाशपदेनेहोपास्यत्वेनोपक्षिप्तं, न भूताकाशमिति सिद्धम् ।

अपि च ।

अस्यैवोपक्रमे “अन्तवत्किल ते साम” इति

अन्तवत्त्वदोषेण शालावत्यस्येति ।

न चाकाशशब्दो गौणोऽपि विलम्बितप्रतिपत्तिः, तत्र तत्र ब्रह्मण्याकाशशब्दस्य तत्पर्यायस्य च प्रयोगप्राचुर्यादत्यन्ताभ्यासेनास्यापि मुख्यवत्प्रतिपत्तेरविलम्बनादिति दर्शनार्थं ब्रह्मणि प्रयोगप्राचुर्यं वैदिकं निदर्शितं भाष्यकृता । तत्रैव च प्रथमावगतानुगुण्येनोत्तरं नीयते, यत्र तदन्यथा कर्तुं शक्यम् । यत्र तु न शक्यं तत्रोत्तरानुगुण्येनैव प्रथमं नीयत इत्याह -

वाक्योपक्रमेऽपीति ॥ २२ ॥

आकाशस्तल्लिङ्गात्॥२२॥ लिङ्गाद् ब्रह्मनिर्णयस्य तुल्यत्वात्पुनरुक्तिमाशङ्क्याह —

पूर्वस्मिन्निति ।

श्रुतिप्राप्तनभसो लिङ्गेन बाधार्थो न्यायोऽधिक इत्यर्थः ।

इदमुक्तं —

न भूताकाश उपास्यत्वेनेति ।

यद्यप्यस्मिन्ग्रन्थे पूर्वत्र सोपाधिब्रह्मण उपास्तिचिन्ता, अत्र तु तस्योद्गीथे संपत्तिचिन्तेति विशेषप्रदर्शनपरं भाति, तथापि न तथार्थो ग्राह्यः, हिरण्मयवाक्येऽपि तस्मादुद्गीथ इत्युद्गीथसंपत्तेस्तुल्यत्वात् । तस्मादेतदपि असाधारणधर्मतुल्यमेवानूदितम् । आकाशशब्दो नभ पर, उत ब्रह्मपर इति रूढिनिरूढप्रयोगाभ्यां विशये पूर्वत्राव्यभिचारिलिङ्गादन्यथासिद्धरूपवत्त्वादि नीतम्, इयं तु श्रुतिर्लिङ्गान्नान्यथयितव्येति प्रत्युदाहरणलक्षणसंगतिः ।

प्रधानत्वहेतुं व्याचष्टे —

अस्येति ।

तदानुगुण्येनेत्येतद्विवृणोति —

सर्वाणीति ।

प्रथमत्वे हेतुं व्याख्याति —

अपिचेति ।

ननु परबलीयस्त्वन्यायेन प्रथममाकाशं बाध्यताम्, अत आह —

एकवाक्यगतमिति ।

निरपेक्षं परं पूर्वं बाधते, एकवाक्यनिविष्टशब्दानां तु पूर्वानुरोधेनोत्तरार्थप्रतीतिः, तद्विरुद्धार्थसमर्पणे वाक्यभेदापत्तेरित्यर्थः ।

‘‘यदेष आकाश आनन्द’’ इत्यादौ ब्रह्मण्याकाशशब्दो गौणो दृष्टः, तद्वदिहापि स्यादित्याशङ्क्याह —

न च क्वचिदिति ।

यादांसि जलचराः ।

यादांसीति प्रयोगे गङ्गापदाभिधेयस्य वाक्यार्थान्वयसंभवान्मुख्यत्वं, न त्विह नभसो वाक्यार्थान्वयः, आनन्त्याद्ययोगादत आह —

संभवश्चेति ।

मुख्यानुगुण्येन गुणानां नयनस्योक्तत्वादित्यर्थः । अस्तु तर्हि ब्रह्मणि मुख्यः, तत्र वक्तव्यं किं ब्रह्मनभसोर्मुख्यः, उत ब्रह्मण्येवेति ।

नाद्य इत्याह —

अनेकार्थत्वस्येति ।

नहि द्वितीय इत्याह —

भक्त्या चेति ।

ननु नभसि गौणः, ब्रह्मणि रूढ किं न स्यात्तत्राह —

तत्पूर्वकत्वाच्चेति ।

प्रश्नोत्तरयोरेकार्थपर्यवसानसामर्थ्यलक्षणं सूत्रगतलिङ्गशब्दार्थमभिप्रेत्य सिद्धन्तयति —

सामानाधिकरण्येनेति ।

नन्वैकार्थेऽपि प्रश्नोत्तरयोः प्रतिवचनस्थाकाशशब्दानुरोधात्प्रश्नोऽपि मुख्याकाशपरोऽस्तु, तत्राह —

पौर्वापर्येति ।

प्रश्नोत्तरयोरर्थतः शब्दतश्च पूर्वापरत्वेनानुसंधानादसंजातविरोधप्रश्नानुसारेण चरममुत्तरं नेयमित्यर्थः । अनेन प्रथमत्वहेतोरसिद्धिरुक्ता, प्राधान्यं तूपक्रमविरोधे सत्यकिंचित्करमित्युक्तम् ।

प्रधानत्वेऽपीति ।

आकाशपदस्य प्रधानार्थत्वेऽपि गौणता, अपिशब्दान्न नभसः प्रधानत्वमपि तु पृष्टस्य सर्वकारणस्यैवेत्यर्थः ।

प्रधानत्वेऽपीत्येतद्व्याचष्टे —

यद्यपीति ।

सामानाधिकरण्येनेत्येतद्विभजते —

यत्पृष्टमिति ।

अस्तु प्रश्नोत्तरयोरेकविषयत्वं प्रश्नविषयस्तु नभ इति नेत्याह —

तदिहेति॥

यत्तु कश्चिदाह — दाल्भ्येन स्वर्गलोकः सामप्रतिष्ठेत्युक्ते शालवत्योऽप्रतिष्ठत्वेन तद्दूषयित्वा पृथिवीलोकः सामाश्रय इत्यूचे । प्रवाहणस्तु तमन्तवत्त्वेनादूदुषत् । तर्ह्यस्य लोकस्य का गतिरिति शालावत्योऽपृच्छत् । तत्र पृथिवीकारणमात्रं पृष्टं, न सर्वलोकगतिः; तस्मात् — पूर्वापरपरामर्शरहितैः प्राज्ञमानिभिः । कल्पितेयं गतिर्नैषा विदुषामनुरञ्जिका॥ इति ॥ तच्छ्रुतिभावानवबोधविजृम्भितम् । तथा हि — पृथिवीमात्रकारणस्यापां प्रसिद्धत्वेन प्रश्नवैयर्थ्यात्, अस्येति च सर्वनामश्रुतेः प्रकरणद्बलीयस्याः सर्वकार्यविषयत्वोपपत्तेः । यस्तु प्रथमप्रश्ने दाल्भ्यकृतेऽस्यशब्दः, स पृथिवीपरोस्तु; न प्रतिष्ठा लोकमतिनयेदिति पृथिव्या एव तदुत्तरेऽभिधानात् । द्वितीये तु शालावत्यकृते न तथा किंचिदस्ति संकोचकम् । किंचाभिधत्तामयमप्यस्यशब्दः पृथिवीमेव; तथाप्यन्तवत्त्वदोषापनिनीषया प्रश्नप्रवृत्तेः पृथिवीमात्रकारणनिरूपणे तदसिद्धे काकेभ्यो रक्षतामन्नमितिवदयमस्यशब्दः सर्वकार्यपरः । तथाच पूर्वापरेत्यादिरुपालम्भ उष्ट्रलकुटन्यायमनुसरतीति॥

पौर्वापर्येत्येतच्छङ्कोत्तरत्वेन विवृणोति —

न चोत्तरे इति ।

यद्यपि कारणविषयप्रश्नः ; तथापि तत्र विशेषणतया कार्यमप्युपात्तमिति कार्यमेव पृष्टमित्युक्तम् ।

कथं न युक्तमत आह —

प्रश्नस्येति ।

यथा हि ‘‘उच्चैॠचा क्रियत‘‘ इत्यत्र विध्युद्धेशगता अप्यृगादिशब्दाः ‘‘त्रयो वेदा अजायन्ते’’ — त्युपक्रमगतमर्थवादस्थमपि वेदशब्दमेकवाक्यत्वसिद्ध्यर्थमनुरुन्धाना ऋगादिजातिवचनतां मुञ्चन्तो वेदलक्षणार्था इति निर्णीतं वेदो वा प्रायदर्शना(जै.अ.३.पा.३.सू.२) दित्यत्र, एवमत्राप्येकस्मिन्वाक्ये ‘‘अस्य लोकस्य का गतिरिति’’ सर्वाकारणत्वावरुद्धायां बुद्धौ तद्विरुद्धार्थस्य वाक्यैक्यविनाशिनो निवेशायोगादाकाशपदं परमकारणे गौणमित्यर्थः ।

ननु निर्णीतार्थ उपक्रम उपसंहारमन्यथयेत्, न प्रश्नोपक्रमः; संदिग्धार्थत्वादिति, तत्राह —

नचेति ।

प्रश्नः स्वविषये व्यवस्थित एव न चेत् तत्र वक्तव्यं स निर्विषयः, पृष्टादन्यविषयो वा ।

नाद्य इत्याह —

अनालम्बनत्वेति ।

न द्वितीय इत्याह —

वैयधिकरण्येति ।

एवं तावत्प्रश्नप्रतिवचनवाक्यसामर्थ्यं तल्लिङ्गादिति सौत्रहेतुवचनार्थ इति व्याख्याय वाक्यशेषस्थलिङ्गपरतया व्याख्यान्तरमाह —

अपिचेत्यादिना॥

सर्वेषां लोकानामिति प्रश्नोपक्रमादिति ।

उत्तरे —

सर्वाणीति दर्शनात् प्रश्नस्थः षष्ठ्यन्तलोकशब्दोऽस्येति सर्वनामसहपठितो व्याख्याय निर्दिष्ट इति । इदंच प्रश्नस्य सर्वकारणविषयत्वे लिङ्गम्, इतरथा ह्युत्तरे पृथिव्याकाशात् समुत्पद्यत इति स्यात्तन्मात्रकारणस्य पृष्टत्वादिति । ननु साम्ये विरोधिनां भूयसामनुग्रहो न्याय्यः, इह तु प्रधानमाकाशशब्दार्थो नाप्रधानैर्भूयोभिरपि बाध्येत । यदाह कश्चित् — त्यजेदेकं कुलस्यार्थे इति राद्धान्तयन्ति ये । शेषिवाधे न तैर्दृष्टमात्मार्थे पृथिवीमिति॥

इति, तत्राह —

नचाकाशस्य प्रधान्यमिति ।

ननु शेष्यर्थत्वादाकाशपदं प्रधानार्थमत आह —

तथाचेति ।

उपक्रान्तं प्रधानं ब्रह्म विशिषम्नाकाशशब्दः प्रधानार्थो नतु गगनमभिदधदित्यर्थः ।

अपि चेति भाष्योक्तान्तवत्त्वप्रतिपादिकं श्रुतिमाह —

अन्तवदिति ।

आस्तां प्रश्नोपक्रमानुरोधः, प्रतिवचनेऽपि वाक्यशेषगताऽनन्यथासिद्धब्रह्मलिङ्गादाकाशपदं गौणार्थमिति भाष्यार्थमाह —

तत्रैव चेति ।

‘‘उद्गीथे कुशलास्त्रयः शालावत्यदाल्भ्यजैवलयः कथमारेभिरे ।

शालावत्या दाल्भ्यं पप्रच्छ का साम्नो गतिः; कारणमिति, इतर आह स्वर इति ।

स्वरस्य प्राणः, प्राणस्यान्नम्, अन्नस्याप, अपां स्वर्गः वृष्टेस्तत आगतेरिति’’ दाल्भ्ये प्रत्युक्तवति स्वर्गस्यापि मनुष्यकृतज्ञाद्यधीनस्थितिकत्वादप्रतिष्ठितं व किल ते दाल्भ्य सामेत्युक्त्वा अयं लोकः स्वर्गस्य गतिरिति शालावत्य प्रतिजज्ञे । तं राजा जैवलिराह ‘अन्तवद्धै किल ते शालावत्य साम कारणमिति’ ‘तर्ह्यस्य लोकस्य का गतिरिति’ पृष्टो राजा ‘आकाश’ इति होवाच । ज्यायान्महत्तर , परमयनमाश्रयः परायणं परोवरेभ्यः स्वरादिभ्योऽतिशयेन वरः परोवरीयान् । स चाकाश उद्गीथे संपाद्योपास्यत्वादुद्गीथः॥ इति अष्टममाकाशाधिकरणम्॥