ज्योतिश्चरणाभिधानात् ।
इदमामनन्ति - “अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतःपृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः”(छा. उ. ३ । १३ । ७) इति ।
यज्ज्योतिरतो दिवो द्युलोकात्परं दीप्यते प्रकाशते विश्वतःपृष्ठेषु विश्वेषामुपरि । असङ्कुचद्वृत्तिरयं विश्वशब्दोऽनवयवत्वेन संसारमण्डलं ब्रूत इति दर्शयितुमाह -
सर्वतःपृष्ठेषूत्तमेषु ।
न चेदमुत्तममात्रमपितु सर्वोत्तममित्याह -
अनुत्तमेषु
नास्त्येभ्योऽन्य उत्तम इत्यर्थः । “इदं वाव तद्यदिदमस्मिन्पुरुषेऽन्तर्ज्योतिः”(छा. उ. ३ । १३ । ७) त्वग्राह्येण शारीरेणोष्मणा, श्रोत्रग्राह्येण च पिहितकर्णेन पुंसा घोषेण लिङ्गेनानुमीयते । तत्र शारीरस्योष्मणस्त्वचा दर्शनं दृष्टिः, घोषस्य च श्रवणं श्रुतिः, तयोश्च दृष्टिश्रुती ज्योतिष एव, तल्लिङ्गेन तदनुमानादिति । अत्र संशयः - किं ज्योतिःशब्दः तेज उत ब्रह्मेति । किं तावत्प्राप्तं, तेज इति । कुतः, गौणमुख्यग्रहणविषये मुख्यग्रहणस्य “औत्सर्गिकत्वाद्वाक्यस्थतेजोलिङ्गोपलम्भनात् । वाक्यान्तरेणानियमात्तदर्थाप्रतिसन्धितः” ॥ बलवद्बाधकोपनिपातेन खल्वाकाशप्राणशब्दौ मुख्यार्थत्वात्प्रच्याव्यान्यत्र प्रतिष्ठापितौ । तदिह ज्योतिष्पदस्य मुख्यतेजोवचनत्वे बाधकस्तावत्स्ववाक्यशेषो नास्ति । प्रत्युत तेजोलिङ्गमेव “दीप्यते” इति । कोक्षेयज्योतिःसारूप्यं च चक्षुष्यो रूपवान् श्रुतो विश्रुतो भवतीत्यल्पफलत्वं च स्ववाक्ये श्रूयते । न जातु ज्वलनापरनामा दीप्तिर्विना तेजो ब्रह्मणि सम्भवति । न च कौक्षेयज्योतिःसारूप्यमृते बाह्यात्तोजसो ब्रह्मण्यस्ति । न चौष्ण्यघोषलिङ्गदर्शनश्रवणमौदर्यात्तेजसोऽन्यत्र ब्रह्मण्युपपद्यते । नच महाफलं ब्रह्मोपासनमणीयसे फलाय कल्पते । औदर्ये तु तेजस्यध्यस्य बाह्यं तेज उपासनमेतत्फलानुरूपं युज्यते । तदेतत्तेजोलिङ्गम् । एतदुपोद्बलनाय च निरस्तमपि मर्यादाधारबहुत्वमुपन्यस्तं, इह तन्निरासकारणाभावात् । नच मर्यादावत्त्वं तेजोराशेर्न सम्भवति, तस्य सौर्यादेः सावयवत्वेन तदेकदेशमर्यादासम्भवात्तस्य चोपास्यत्वेन विधानात् , ब्रह्मणस्त्वनवयवस्यावयवोपासनानुपपत्तेः, अवयवकल्पनायाश्च सत्यां गतावनवकल्पनात् । नच “पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि” (छा. उ. ३ । १२ । ६) इति ब्रह्मप्रतिपादकं वाक्यान्तरं, “यदतः परो दिवो ज्योतिः” (छा. उ. ३ । १३ । ७) शब्दं ब्रह्मणि व्यवस्थापयतीति युक्तम् । नहि संनिधानमात्राद्वाक्यान्तरेण वाक्यान्तरगता श्रुतिः शक्या मुख्यार्थाच्च्यावयितुम् । नच वाक्यान्तरेऽधिकरणत्वेन द्यौः श्रुता दिव इति मर्यादाश्रुतौ शक्या प्रत्यभिज्ञातुम् । अपिच वाक्यान्तरस्यापि ब्रह्मार्थत्वं प्रसाध्यमेव नाद्यापि सिध्यति, तत्कथं तेन नियन्तुं ब्रह्मपरतया “यदतः परः” इति वाक्यं शक्यम् । तस्मात्तेज एव ज्योतिर्न ब्रह्मेति प्राप्तम् । तेजःकथनप्रस्तावे तमःकथनं प्रतिपक्षोपन्यासेन प्रतिपक्षान्तरे दृढा प्रतीतिर्भवतीत्येतदर्थम् ।
चक्षुर्वृत्तेर्निरोधकमिति ।
अर्थावरकत्वेन ।
आक्षेप्ताह -
ननु कार्यस्यापीति ।
समाधातैकदेशी ब्रूते -
अस्तु तर्हीति ।
यत्तु तेजोऽबन्नाभ्यामसम्पृक्तं तदत्रिवृत्कृतमुच्यते ।
आक्षेप्ता दूषयति -
नेति ।
नहि तत्क्वचिदप्युपयुज्यते; सर्वास्वर्थक्रियासु त्रिवत्कृतस्यैवोपयोगादित्यर्थः ।
एकदेशिनः शङ्कामाह -
इदमेवेति ।
आक्षेप्ता निराकरोति -
न ।
प्रयोजनान्तरेति ।
'एकैकां त्रिवृतं त्रिवृतं करवाणि” इति तेजःप्रभृत्युपासनामात्रविषया श्रुतिर्न सङ्कोचयितुं युक्तेत्यर्थः ।
एवमेकदेशिनि दूषिते परमसमाधाता पूर्वपक्षी ब्रूते -
अस्तु तर्हि त्रिवृत्कृतमेवेति ।
भागिनी युक्ता ।
यद्यप्याधारबहुत्वश्रुतिर्ब्रह्मण्यपि कल्पितोपाधिनिबन्धना कथञ्चिदुपपद्यते, तथापि यथा कार्ये ज्योतिष्यतिशयेनोपपद्यते न तथात्रेत्यत उक्तम् -
उपपद्येततरामिति ।
प्राकृतं
प्रकृतेर्जातं, कार्यमिति यावत् । एवं प्राप्त उच्यते - “सर्वनामप्रसिद्धार्थं प्रसाध्यार्थविघातकृत् । प्रसिद्ध्यपेक्षि सत्पूर्ववाक्यस्थमपकर्षति ॥ तद्बलात्तेन नेयानि तेजोलिङ्गान्यपि ध्रुवम् । ब्रह्मण्येव प्रधानं हि ब्रह्मच्छन्दो न तत्र तु” ॥ औत्सर्गिकं तावद्यदप्रसिद्धार्थानुवादकत्वं यद्विधिविभक्तिमप्यपूर्वार्थावबोधनस्वभावात्प्रच्यावयति । यथा “यस्याहिताग्नेरग्निर्गृहान्दहेत्” “यस्योभयं हविरार्तिमार्च्छेत्”(तै.ब्रा. ३.७.१) इति । यत्र पुनस्तत्प्रसिद्धमन्यतो न कथञ्चिदाप्यते, तत्र वचनानि त्वपूर्वत्वादिति सर्वनाम्नः प्रसिद्धार्थत्वं बलादपनीयते । यथा “यदाग्नेयोऽष्टाकपालो भवति”(तै.ब्रा. २५.१४.४) इति । तदिह “यदतः परो दिवो ज्योतिः” (छा. उ. ३ । १३ । ७) इति यच्छब्दसामर्थ्यात् द्युमर्यादेनापि ज्योतिषा प्रसिद्धेन भवितव्यम् । नच तस्य प्रमाणान्तरतः प्रसिद्धिरस्ति । पूर्ववाक्ये च द्युसम्बन्धितया त्रिपाद्ब्रह्म प्रसिद्धमिति प्रसिद्ध्यपेक्षायां तदेव सम्बध्यते । नच प्रधानस्य प्रातिपदिकार्थस्य तत्त्वेन प्रत्यभिज्ञाने तद्विशेषणस्य विभक्त्यर्थस्यान्यतामात्रेणान्यता युक्ता । एवं च तद्वाक्यस्थानि तेजोलिङ्गान्यसमञ्जसानीति ब्रह्मण्येव गमयितव्यानि, गमितानि च भाष्यकृता । तत्र ज्योतिर्ब्रह्मविकार इति ज्योतिषा ब्रह्मैवोपलक्ष्यते । अथवा प्रकाशमात्रवचनो ज्योतिःशब्दः प्रकाशश्च ब्रह्मेति ब्रह्मणि मुख्य इति ज्योतिर्बह्मेति सिद्धम् ।
प्रकृतहानाप्रकृतप्रक्रिये इति ।
प्रसिद्ध्यपेक्षायां पूर्ववाक्यगतं प्रकृतं संनिहितं, अप्रसिद्धं तु कल्प्यं न प्रकृतम् ।
अत एवोक्तम् -
कल्पयत इति ।
सन्दंशन्यायमाह -
न केवलमिति ।
परस्यापि ब्रह्मणो नामादिप्रतीकत्ववदिति ।
कौक्षेयं हि ज्योतिर्जीवभावेनानुप्रविष्टस्य परमात्मनो विकारः, जीवाभावे देहस्य शैत्यात् , जीवतश्चौष्ण्याज्ज्ञायते । तस्मात्तत्प्रतीकस्योपासनमुपपन्नम् । शेषं निगदव्याख्यातं भाष्यम् ॥ २४ ॥
छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ।
पूर्ववाक्यस्य हि ब्रह्मार्थत्वे सिद्धे स्यादेतदेवं, नतु तद्ब्रह्मार्थं, अपितु गायत्र्यर्थम् । “गायत्री वा इदं सर्वं भूतं यदिदं किञ्च”(छा. उ. ३ । १२ । १) इति गायत्रीं प्रकृत्येदं श्रूयते - “त्रिपादस्यामृतं दिवि” (छा. उ. ३ । १२ । ६) इति । ननु “आकाशस्तल्लिङ्गात्” (ब्र. सू. १ । १ । २२) इत्यनेनैव गतार्थमेतत् । तथाहि - “तावानस्य महिमा”(छा. उ. ३ । १२ । ६) इत्यस्यामृचि ब्रह्म चतुष्पादुक्तम् । सैव च “तदेतदृचाभ्यनूक्तम्”(छा. उ. ३ । १२ । ५) इत्यनेन सङ्गमितार्था ब्रह्मलिङ्गम् । एवं “गायत्री वा इदं सर्वम्”(छा. उ. ३ । १२ । १) इत्यक्षरसंनिवेशमात्रस्य गायत्र्या न सर्वत्वमुपपद्यते । नच भूतपृथिवीशरीरहृदयवाक्प्राणात्मत्वं गायत्र्याः स्वरूपेण सम्भवति । नच ब्रह्मपुरुषसम्बन्धित्वमस्ति गायत्र्याः । तस्माद्गायत्रीद्वारा ब्रह्मण एवोपासना न गायत्र्या इति पूर्वेणैव गतार्थत्वादनारम्भणीयमेतत् । नच पूर्वन्यायस्मारणे सूत्रसन्दर्भ एतावान्युक्तः । अत्रोच्यते - अस्त्यधिका शङ्का । तथाहिगायत्रीद्वारा ब्रह्मोपासनेति कोऽर्थः, गायत्रीविकारोपाधिनो ब्रह्मण उपासनेति । नच तदुपाधिनस्तदवच्छिन्नस्य सर्वात्मत्वं, उपाधेरवच्छेदात् । नहि घटावच्छिन्नं नभोऽनवच्छिन्नं भवति । तस्मादस्य सर्वात्मत्वादिकं स्तुत्यर्थं, तद्वरं गायत्र्या एवास्तु स्तुतिः कयाचित्प्रणाड्या । “वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च”(छा. उ. ३ । १२ । ६) इत्यादिश्रुतिभ्यः । तथाच “गायत्री वा इदं सर्वम्” इत्युपक्रम्य गायत्र्या एव हृदयादिभिर्व्याख्याय च “सैषा चतुष्पदा षड्विधा गायत्री”(छा. उ. ३ । १२ । ५) इत्युपसंहारो गायत्र्यामेव समञ्जसो भवति । ब्रह्मणि तु सर्वमेतदसमञ्जसमिति । “यद्वै तद्ब्रह्म”(छा. उ. ३ । १२ । ७) इति च ब्रह्मशब्दश्छन्दोविषय एव, यथा “एतां ब्रह्मोपनिषदम्” इत्यत्र वेदोपनिषदुच्यते । तस्माद्गायत्रीछन्दोभिधानान्न ब्रह्मविषयमेतदिति प्राप्तम् ।
एवं प्राप्तेऽभिधीयते -
न ।
कुतः,
तथा चेतोर्पणनिगदात् ।
गायत्र्याख्यच्छन्दोद्वारेण गायत्रीरूपविकारानुगते ब्रह्मणि चेतोर्पणं चित्तसमाधानमनेन ब्राह्मणवाक्येन निगद्यते । एतदुक्तं भवति - न गायत्री ब्रह्मणोऽवच्छेदिका, उत्पलस्येव नीलत्वं, येन तदवच्छिन्नत्वमन्यत्र न स्यादवच्छेदकविरहात् । किन्तु यदेतद्ब्रह्म सर्वात्मकं सर्वकारणं तत्स्वरूपेणाशक्योपदेशमिति तद्विकारगायत्रीद्वारेणोपलक्ष्यते । गायत्र्याः सर्वच्छन्दोव्याप्त्या च सवनत्रयव्याप्त्या च द्विजातिद्वितीयजन्मजननीयतया च श्रुतेर्विकारेषु मध्ये प्राधान्येन द्वारत्वोपपत्तेः । न चान्यत्रोपलक्षणाभावेन नोपलक्ष्यं प्रतीयते । नहि कुण्डलेनोपलक्षितं कण्ठरूपं कुण्डलवियोगेऽपि पश्चात्प्रतीयमानमप्रतीयमानं भवति । तद्रूपप्रत्यायनमात्रोपयोगित्वादुपलक्षणानामनवच्छेदकत्वात् ।
तदेवं गायत्रीशब्दस्य मुख्यार्थत्वे गायत्र्या ब्रह्मोपलक्ष्यत इत्युक्तम् । सम्प्रति तु गायत्रीशब्दः सङ्ख्यासामान्याद्गौण्या वृत्त्या ब्रह्मण्येव वर्तत इति दर्शयति -
अपर आहेति ।
तथाहि - षडक्षरैः पादैर्यथा गायत्री चतुष्पदा, एवं ब्रह्मापि चतुष्पात् । सर्वाणि हि भूतानि स्थावरजङ्गमान्यस्यैकः पादः । दिवि द्योतनवति चैतन्यरूपे । स्वात्मनीति यावत् । त्रयः पादाः । अथवा दिव्याकाशे त्रयः पादाः । तथाहि श्रुतिः - “इदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशः” (छा. उ. ३ । १२ । ७) तद्धि तस्य जागरितस्थानम् । जाग्रत्खल्वयं बाह्यान्पदार्थान्वेद । तथा - “अयं वाव स योऽयमन्तः पुरुष आकाशः” (छा. उ. ३ । १२ । ८) । शरीरमध्य इत्यर्थः । तद्धि तस्य स्वप्नस्थानम् । तथा “अयं वाव स योऽयमन्तर्हृदय आकाशः”(छा. उ. ३ । १२ । ९) । हृदयपुण्डरीक इत्यर्थः । तद्धि तस्य सुषुप्तिस्थानम् । तदेतत् “त्रिपादस्यामृतं दिवि”(छा. उ. ३ । १२ । ६) इत्युक्तम् । तदेवं चतुष्पात्त्वसामान्याद्गायत्रीशब्देन ब्रह्मोच्यत इति ।
अस्मिन्पक्षे ब्रह्मैवाभिहितिमिति ।
ब्रह्मपरत्वादभिहितमित्युक्तम् ॥ २५ ॥
षड्विधेति ।
भूतपृथिवीशरीरहृदयवाक्प्राणा इति षट्प्रकारा गायत्र्याख्यस्य ब्रह्मणः श्रूयन्ते ।
पञ्च ब्रह्मपुरुषा इति च, हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसम्बन्धितायां विवक्षितायां सम्भवति ।
अस्यार्थः - हृदयस्यास्य खलु पञ्च सुषयः पञ्च छिद्राणि । तानि च देवैः प्राणादिभी रक्ष्यमाणानि स्वर्गप्राप्तिद्वाराणीति देवसुषयः । तथाहि - हृदयस्य यत्प्राङ्मुखं छिद्रं तत्स्थो यो वायुः स प्राणः, तेन हि प्रयाणकाले सञ्चरते स्वर्गलोकं, स एव चक्षुः, स एवादित्य इत्यर्थः । “आदित्यो ह वै बाह्यः प्राणः”(प्र.उ. ३.८) इति श्रुतेः । अथ योऽस्य दक्षिणः सुषिस्तत्स्थो वायुविशेषो व्यानः । तत्सम्बद्धं श्रोत्रं तच्चन्द्रमाः, “श्रोत्रेण सृष्टा विशश्चन्द्रमाश्च”(ऐ .आ. २.१.७) इति श्रुतेः । अथ योऽस्य प्रत्यङ्मुखः सुषिस्तत्स्थो वायुविशेषोऽपानः स च वाक्सम्बन्धाद्वाक् , “वाग्वा अग्निः”(श.ब्रा. ६.१.२.२८) इति श्रुतेः । अथ योऽस्योदङ्मुखः सुषिस्तत्स्थो वायुविशेषः स समानः, तत्सम्बद्धं मनः, तत्पर्जन्यो देवता । अथ योऽस्योर्ध्वः सुषिस्तत्स्थो वायुविशेषः स उदानः, पादतलादारभ्योर्ध्वं नयनात् । स वायुस्तदाधारश्चाकाशो देवता । ते वा एते पञ्च सुषयः । तत्सम्बद्धाः पञ्च हार्दस्य ब्रह्मणः पुरुषा न गायत्र्यामक्षरसंनिवेशमात्रे सम्भवन्ति, किन्तु ब्रह्मण्येवेति ॥ २६ ॥
यथा लोक इति ।
यदाधारत्वं मुख्यं दिवस्तदा कथञ्चिन्मर्यादा व्याख्येया । यो हि श्येनो वृक्षाग्रे वस्तुतोऽस्ति स च ततः परोऽप्यस्त्येव । अर्वाग्भागातिरिक्तमप्यपरभागस्थस्य तस्यैव वृक्षात्परतोऽवस्थानात् । एवं च बाह्यद्युभागातिरिक्तशारीरहार्दद्युभागस्थस्य ब्रह्मणो बाह्यात् द्युभागात्परतोऽवस्थानमुपपन्नम् । यदा तु मर्यादैव मुख्यतया प्राधान्येन विवक्षिता तदा लक्षणयाधारत्वं व्याख्येयम् । यथा गङ्गायां घोष इत्यत्र सामीप्यादिति ।
तदिदमुक्तम् -
अपर आहेति ।
अत एव दिवः परमपीत्युक्तम् ॥ २७ ॥
ज्योतिश्चरणाभिधानात्॥२४॥ यदिदमित्यनुभूयमानत्वमुक्तं तद्व्याचष्टे —
त्वग्ग्राह्येणेति ।
तस्यैषा दृष्टिर्यत्रैतदस्मि शरीरे स्पर्शेनोष्णिमानं विजानाति, तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिधाय निनदमिव शृणोतीति वाक्यं व्याचष्टे —
तत्र शारीरस्येति ।
नन्वौष्ण्यघोषोपलब्ध्योः कथं तस्येति ज्योतिः संबन्धनिर्देशोऽत आह —
तल्लिङ्गेनेति ।
औष्ण्यघोषलिङ्गेनेत्यर्थः । गमकसंबन्धिनोर्गम्यसंबन्दोपचार इत्यर्थः ।
श्लोकं पूरयति —
गौणेति ।
नन्वौत्सर्गिकोऽपि मुख्यसंप्रत्यय आकाशप्राणशब्दवदपोद्यतामत आह —
वाक्यस्थेति ।
तत्राहि वाक्यशेषस्य ब्रह्मलिङ्गाद्गौणता, अत्र तु वाक्ये ब्रह्मलिङ्गं नोपलभ्यते, प्रत्युत तेजोलिङ्गमेवोपलभ्यते, अत उत्सर्गोऽनपोदित इत्यर्थः । अनेन सङ्गतिरुक्ता ।
ननु पूर्वत्र गायत्रीवाक्ये तावानस्येति ब्रह्मलिङ्गमस्त्यत आह —
वाक्यान्तरेणेति ।
नहि वाक्यान्तरस्थालिङ्गात्स्ववाक्यस्था श्रुतिर्मुख्यार्थात्प्रच्यावयितुं शक्येत्यर्थः ।
अभ्युपेत्य वाक्यान्तरेण नियममाह —
तदर्थेति ।
दिवि दिव इति च सप्तमीपञ्चमीभ्यां प्रत्यभिज्ञानविच्छेदान्न वाक्यान्तरार्थ इह ग्राह्य इत्यर्थः ।
वाक्यस्थेत्येतद्व्याचष्टे —
बलवदिति ।
तेजोलिङ्गमेव दर्शयति —
दीप्यत इत्यादिना ।
किमुपोद्बलनाय इह तन्निरासेति । निरासकारणं हि प्राप्तिः । नचान्तस्तद्धर्मोपदेशात् (ब्र.अ.१.पा.१.सू.२०) इति निरस्तस्यात्र प्राप्तिरित्यर्थः ।
भवत्वेकदेशस्य मर्यादा न समस्तस्येत्याशङ्क्याह —
तस्य चेति ।
न समस्तं तेज उपास्यं, किं त्ववयव इत्यर्थः ।
वाक्यान्तरेणेत्येतद्व्याख्याति —
न च पादोऽस्येति ।
तदर्थाप्रतिसन्धित इत्येतद्व्याचष्टे —
न च वाक्यान्तरे इति ।
अस्यैव व्याख्यानान्तरमाह —
अपिचेति ।
गायत्र्याश्छन्दोवचनत्वेन सन्देहाद्वाक्यान्तरस्य ब्रह्मार्थत्वं साध्यं न सिद्धम् । अप्रतिसन्धित इत्यस्याप्यनिश्चयादित्यर्थः । तेन वाक्यान्तरेण यदतः पर इति वाक्यं ब्रह्मपरतया नियन्तुं कथं शक्यमिति योजना ।
तमो ज्योतिरिति भाष्ये तमोग्रहणप्रयोजनमाह —
तेज इति ।
अर्थावकरत्वेनेति ।
अनुद्भूतस्पर्शत्वेन तमसो नयनरश्मिनिर्गमनप्रतिबन्धकत्वायोगादर्थप्रकाशनप्रतिबन्धकत्वेन निरोधकत्वं तमस इत्यर्थः । सिद्धान्त्येव पूर्वपक्षाक्षेपक आक्षेप्ता । एकदेशी पूर्वपक्ष्येकदेशी । न प्रयोजनान्तरेति भाष्यस्यायमर्थः । प्राणिकर्मनिमित्ता सृष्टिः सप्रयोजना तत्रात्रिवृत्कृतं तेज उपास्त्यर्थं सृष्टमिति न शक्यं वक्तुं; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादिवदुपास्यत्वसम्भवे तस्य सृष्टिं प्रत्यप्रयोजकत्वाद्वाजिनस्येव दध्यानयनं प्रतीति ।
तासां त्रिवृतं त्रिवृतमिति भाष्यं व्याचष्टे —
एकैकामिति ।
तेजआदिभूतं प्राति सामान्यप्रवृत्ता त्रिवृत्करणश्रुतिरुपास्यमानतेजोविषयत्वेन संकोचयितुं न युक्ता; ततोऽन्यत्र नेतुमयुक्तेत्यर्थः । तेजआदीनि परोक्षत्वसाम्याद्देवताः । त्रिवृतं त्रिवलितम् ।
न वयं वाक्यान्तरस्थलिङ्गात्तेजः श्रुतिं बाधामहे, अपि तु तदुपबृंहितश्रुत्येत्याह —
सर्वनामेति ।
प्रसिद्धं प्रज्ञातम् । प्रसाध्यं नाद्यापि ज्ञातम् ।
यदा यच्छब्दः प्रज्ञातवचनस्तदा गायत्रीवाक्यनिर्दिष्टं ब्रह्म परामृशतीत्याह —
प्रसिद्धीति ।
तद्बलादिति ।
यच्छब्दश्रुतिबलादित्यर्थः ।
तेनेति ।
येन पूर्ववाक्यस्थमपकर्षति तेनेत्यर्थः ।
ननु दिवि दिव इति रूपभेदान्न पूर्ववाक्यस्थब्रह्मण इह प्रत्यभिज्ञा, अतः सर्वनाम तं न परामृशेदत आह —
प्रधानं हीति ।
प्रातिपदिकार्थं इत्यध्याहार्यम् । प्रातिपदिकार्थो द्यौस्तावदुभयत्र समा, सा हि प्रधानं, गुणस्तु विभक्त्यर्थः । तस्माद्गुणे त्वन्याय्यकल्पनेति विभक्तिवैरूप्यं नेयमित्यर्थः ।
यदवादि छन्दोभिधानात्सन्दिग्धं प्राचि वाक्ये ब्रह्मेति तत्राह —
ब्रह्मेति ।
तत्र गायत्रीवाक्ये त्रिपाद् ब्रह्म नतु च्छन्द इत्यर्थः । ‘‘यस्याहिताग्नेरग्निर्गृहान् दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदि’’त्यत्र दहेदिति विधिविभक्तिः प्रसिद्धार्थयच्छब्दोपहता गृहदाहलक्षणनिमित्तपरा । आर्च्छेदिति च विधिविभक्तिः स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदिति विधास्यमाननिर्वापनिमित्तं हविरार्तिमनुवदति । उभयं दधिपयसी ।
वचनानि त्विति ।
ज्योतिष्टोमगतसोमेषु शेषभक्षो विध्यभावान्न विद्यत इति प्राप्ते सर्वतः परिहारमाश्विनं भक्षयति तस्मात्सर्वा दिशः शृणोतीत्याद्यर्थवादा अप्राप्तत्वाद्भक्षानुवादायोगाद्विधायकानि वचनानीत्युक्तं तृतीये । एवं प्राप्त्यभावे प्रसिद्धार्थत्वं सर्वनाम्नोऽपनीयत इति यदाग्नेय इति तुल्यन्यायत्वादुदाहृतम् ।
कार्यज्योतिरुपलक्षित इति भाष्योक्तलक्षणायां सम्बन्धमाह —
ब्रह्मविकार इति ।
ननु वाक्यस्थज्योतिर्लाभे प्रकृतहानं न दोषोत आह —
प्रसिद्ध्यपेक्षायामिति ।
यच्छृतेर्विषयगवेषणायां प्रकरणप्राप्तमपि प्रसिद्धं ग्राह्यं, न स्ववाक्यगतमपि प्रस्तोष्यामाणमपूर्वम्, अप्रसिद्धेरित्यर्थः । शास्त्रवशादन्यदृष्ठ्यालम्बनं प्रतीकम् ।
कौक्षेयज्योतिषो ब्रह्मप्रतीकत्वे ब्रह्मसंबन्धमाह —
कौक्षेयं हीति॥२४॥
न च भूतपृथिवीति ।
एवं हि श्रूयते । ‘‘गायत्री वा इदं सर्वं भूतं यदिदं किं च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च या वै सा गायत्री, इयं वाव सा येयं पृथिवी, या वै सा पृथिवीयं वाव सा यदिदं शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिताः, यद्वै शरीरम् इदं तद्धृदयमस्मिन् हि प्राणाः प्रतिष्ठिता’’ इति । पृथिव्या भूताधारत्वात्सर्वभूतभयगायत्रीत्वं शरीरहृदययोर्भूतात्मकप्राणाश्रयत्वाद्गायत्रीत्वम्, एवमन्यर्थोक्तवाक्प्राणसहितैर्भूतादिभिः षड्विधा गायत्रीति॥
गायत्र्याः सर्वच्छन्द इति ।
एवं हि श्रूयते — चतुरक्षराणि छन्दांस्यग्रे समभवन् तेषु जगती सोमाहरणाय गता त्रीण्यक्षराणि हित्वा आगच्छत् । एकं हित्वा त्रिष्टुबागता । गायत्री तु गत्वा तानि गलितानि चत्वार्यक्षराणि सोमं चाहृतवती । ततः साऽष्टाक्षराऽभवत्तयैव सवनत्रयमतन्वत याज्ञिकाः । माध्यन्दिने सवने त्रिष्टुभा प्रार्थिता गायत्री तामुपाह्वयत् । सा च गायत्र्यक्षरैरष्टभिः स्वीयैरेव शिष्टैस्त्रिभिरक्षरैरेकादशाक्षराभवत् । ततो जगत्या प्रार्थिता गायत्री तां तृतीयसवने उपाह्वयत् । सा च स्वीयेनैकेन प्राचीनैश्चैकादशभिरक्षरैर्द्वादशाक्षराऽभवदित्युक्त्वोपसंहृतं । तस्मादाहुर्गायत्राणि वै सर्वाणि सवनानीति । द्विजातीनां द्वितीयजन्मजननीत्वं श्रुतं गायत्र्या ब्राह्मणमसृजत्, त्रिष्टुभा राजन्यं, जगत्या वैश्यम् इति॥ केनचिदत्र प्रसिद्धा त्रिपादा गायत्री न प्रत्यभिज्ञायते; अस्याश्चातुष्पात्त्वादित्युक्तम् । तन्न; षडक्षरैश्चतुष्पदोप्यष्टाक्षरैस्त्रिपात्त्वोपपत्तेरिति ।
स्वात्मनीति ।
यावत् ।
त्रयः पादा इति ।
अल्पं प्रपञ्चं पादमपेक्ष्य स्वरूपमपरिच्छिन्नत्वात् त्रयः पादा इति॥
दिवीति वाक्यशेषवशात् त्रिपादिति मन्त्रपदस्य व्याख्यान्तरमाह —
अथ वेति ।
पद्यते ज्ञायते एभिस्तुरीयमिति विश्वतैजसप्राज्ञास्त्रयः पादाः एते यस्य तस्त्रिपात्तुरीयं स्वपादद्वारा गगनेऽवस्थितमिति मन्त्रार्थः ।
ननु त्रिपाद् ब्रह्मणः ‘‘अयं वाव स’’ इति कथं भूताकाशैक्योपदेशोऽत आह —
तद्धीति ।
उपलब्धिस्थानस्तुत्यर्थं ब्रह्मत्वोक्तिरित्यर्थः ।
बाह्यानिति ।
शरीराद्बहिष्ठानिति ।
ननु चतुष्पात्त्वगुणयोगाद्गायत्रीशब्दो ब्रह्म गमयति, कथमभिहितमिति भाष्यनिर्देशोऽत आह —
ब्रह्मपरत्वादिति ।
ननु पूर्वत्रापि विकारानुगतं ब्रह्म गायत्रीपदेन लक्षणया तात्पर्येण गमितमतः को विशेषः । उच्यते; गौणे प्रयोगेऽभिधेयगतो गुणस्तात्पर्याल्लभ्यते, लक्षणायां तु संबन्धं निमित्तीकृत्यार्थान्तरे तात्पर्यमिति ।
गायत्र्याख्यस्य ब्रह्मणो हृदि स्थितस्योपासनाङ्गत्वेन द्वारपालानादिगुणविध्यर्थं तस्य हेत्यादि वाक्यं, तदर्थतोऽनुक्रामति —
हृदयस्येत्यादिना ।
प्रागादिदिग्गता हृदयकमलसुषयो द्वाराणि तत्स्थाः प्राणादिवायवो द्वारपालास्ते च चक्षुरादिकरणयुक्ता आदित्यादिदेवैरधिष्ठिता इति समुदायार्थः ।
प्राणशब्दं निर्वक्ति —
प्रायणकाले इति ।
स आदित्य इत्यनन्तरनिर्दिष्टचक्षुष आदित्यत्वं नोच्यते किंतु प्राणस्येत्याह —
स एवेति ।
कारणमाह —
आदित्य इति ।
अधिष्ठात्रधिष्ठेययोरैक्योपचारः । श्रोत्रद्वारा चन्द्रमा व्यानस्याधिष्ठाता । एवमुत्तरत्रापि करणद्वारा वाय्वधिष्ठातृत्वं देवतानां द्रष्ठव्यम् । अधःश्वासस्याऽपानस्य मुखे वाक्संबन्धाद्वाक्त्वमित्यर्थः ।
सोऽग्निरिति श्रुतौ वाचोग्नित्वमुक्तं , तत्र हेतुमाह —
वाग्वा इति ।
तत्पर्जन्य इति ।
पर्जन्यो वृष्ट्यात्मको देवस्तन्निमित्ता आपः , तथा मनोनिमित्ताश्च ; “मनसा सृष्टा आपश्च वरुणश्चे’ति श्रुतेः , अतो मनसः पर्जन्योऽधिष्ठाता । उदानवायुः ; सामान्यात्मकः सहायकत्वे वर्तते , तस्य च वाय्वाधार आकाशः परमेश्वरो देवतेत्यर्थः । हार्दस्य ब्रह्मणः पुरुषाः प्राणादयः ।
यदादावुक्तं प्रधानप्रकृत्यर्थप्रत्यभिज्ञानुरोधेन प्रत्ययार्थवैषम्यं नेयमिति, तदुपदर्शकं भाष्यं व्याचष्टे —
यदाधारत्वमिति ।
अर्वाग्भागेति ।
यदा मुख्यमाधारत्वं वृक्षाग्रस्य विवक्षितं, तदा वृक्षाग्रात्परतः श्येन इति प्रयोगे श्येनशब्दो वृक्षाग्रलग्रश्येनावयवावच्छिन्नावयविलक्षक इत्यर्थः ।
अस्मिन्पक्षे दार्ष्टान्तिके ब्रह्मणः श्येनवदवयवाभावाद्दिव इति श्रुतिं लक्षणया व्याचष्टे —
एवमिति ।
शक्यते च दृष्टान्तेऽपि वृक्षाग्रादित्यवधिश्रुतिर्लक्षणया नेतुम्, अग्रभागादीषदर्वाग्भागपरत्वेन, तदा दार्ष्टान्तिकेन साम्यमिति ।
यदा त्वनौपाधिकं ब्रह्माकाशास्पृष्टं विवक्षित्वा पञ्चम्येव मुख्या, तदा सप्तमी सामीप्यसंबन्धं लक्षयतीत्याह —
यदा त्विति ।
अतएवेति ।
यतः सर्वमर्यादा मुख्या, अत एवेत्यर्थः । या तु दिवि द्योतनवतीति व्याख्या, तस्यां नामी व्याख्या विकल्पाः । अतएव तदपरितोषादथवेत्युक्तमिति॥
तावानस्य महिमेति ।
गायत्री वा इदं सर्वं भूतमित्यादिना भूतपृथिवीशरीरहृदयवाक् प्राणमयी षड्विधा चतुष्पदा गायत्रीत्युक्तम् । अस्य गायत्र्यनुगतस्य ब्रह्मणस्तावान्महिमा विभूतिः । परमार्थतस्त्वयं पुरुषस्ततो ज्यायान्महत्तरः, तदेवाह — सर्वाणि भूतान्यस्य पादः । अस्य त्रिपादमृतं दिवि द्योतनवति स्वात्मन्येव स्थितम् । यथा कार्षापणश्चतुर्धा विभक्त एकस्मात् पादात्पादत्रयीकृतो महान्, एवं पुरुषः पुरुषार्थरूपः प्रपञ्चान्महानित्यर्थः॥
ते वा एते इति ।
संवर्गविद्यायामधिदैवमग्निसूर्यचन्द्रांभांसि वायौ लीयन्ते । अध्यात्मं च वाक्यचक्षुःश्रोत्रमनांसि प्राणे सन्नियन्त इत्युक्तम् । ते वायुना सह पञ्च आध्यात्मिकेभ्योऽन्ये । प्राणेन च सहाधिदैविकेऽभ्योऽन्ये पञ्च । एवं दशसन्तस्तत्कृतम् । अत्रापि चतुरयकद्यूतगतचतुरङ्कव त्सन्ति चत्वारः पदार्थाः त्र्यङ्कायवत् त्रयः द्व्यङ्कायवद्द्वौ एकायवदेकः । द्यूते च चतुरङ्कः कृतसंज्ञः स च दशात्मकः । चतुर्ष्वङ्केषु त्रयोऽन्तर्भवन्ति; एवं सप्त त्रिषु द्वौ , तथा सति नव, द्वयोरेकः इति दश । वाय्वादयोपि दशसंख्यत्वादेवं कृतम् । सैषेति विधेयाभिप्रायः स्त्रीलिङ्गनिर्देशः । दशसंख्यत्वाद्विराट् अन्नम् । ‘दशाक्षरा विराडन्न’मिति हि श्रुतिः । कृतत्वादन्नादीनि, कृते ह्यन्नभूता दशसंख्यान्तर्भूता । अतस्तामत्तीव, अतोऽन्नादत्वेनापि गुणेन वाय्वादय उपास्या इत्यर्थः । इति दशमं ज्योतिरधिकराणम्॥