प्राणस्तथानुगमात् ।
'अनेकलिङ्गसन्दोहे बलवत्कस्य किं भवेत् । लिङ्गिनो लिङ्गमित्यत्र चिन्त्यते प्रागचिन्तितम्” ॥ मुख्यप्राणजीवदेवताब्रह्मणामनेकेषां लिङ्गानि बहूनि सम्प्लवन्ते, तत्कतमदत्र लिङ्गं, लिङ्गाभासं च कतमदित्यत्र विचार्यते । न चायमर्थः “अत एव प्राणः”(ब्र.सू. १.१.२३) इत्यत्र विचारितः । स्यादेतत् । हिततमपुरुषार्थसिद्धिश्च निखिलभ्रूणहत्यादिपापापरामर्शश्च प्रज्ञात्मत्वं चानन्दादिश्च न मुख्ये प्राणे सम्भवन्ति । तथा “एष साधु कर्म कारयति”(कौ.उ. ३.८) “एष लोकाधिपतिः” (कौ. उ. ३ । ९) इत्याद्यपि । जीवे तु प्रज्ञात्मत्वं कथञ्चिद्भवेदितरेषां त्वसम्भवः । वक्तृत्वं च वाक्करणव्यापारवत्त्वं यद्यपि परमात्मनि स्वरूपेण न सम्भवति तथाप्यनन्यथासिद्धबहुब्रह्मलिङ्गविरोधपरिहाराय जीवद्वारेण ब्रह्मण्येव कथञ्चिद्व्याख्येयं जीवस्य ब्रह्मणोऽभेदात् । तथाच श्रुतिः - “यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि”(के. उ. १ । ५) इति वाग्वदनस्य ब्रह्म कारणमित्याह । शरीराधारणमपि यद्यपि मुख्यप्राणस्यैव तथापि प्राणव्यापारस्य परमात्मायत्तत्वात्परमात्मन एव । यद्यपि चात्रेन्द्रदेवताया विग्रहवत्या लिङ्गमस्ति, तथाहि - इन्द्रधामगतं प्रतर्दनं प्रतीन्द्र उवाच, “मामेव विजानीहि”(कौ. उ. ३ । १) इत्युपक्रम्य, “प्राणोऽस्मिप्रज्ञात्मा”(कौ. उ. ३ । २) इत्यात्मनि प्राणशब्दमुच्चचार । प्रज्ञात्मत्वं चास्योपपद्यते, देवतानामप्रतिहतज्ञानशक्तित्वात् । सामर्थ्यातिशयाच्चेन्द्रस्य हिततमपुरुषार्थहेतुत्वमपि । मनुष्याधिकारत्वाच्छास्त्रस्य देवान्प्रत्यप्रवृत्तेर्भ्रूणहत्यादिपापापरामर्शस्योपपत्तेः । लोकाधिपत्यं चेन्द्रस्यलोकपालत्वात् । आनन्दादिरूपत्वं च स्वर्गस्यैवानन्दत्वात् । “आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते” (वि. पु. २ । ८ । ९७) इति स्मृतेश्चामृतत्वमिन्द्रस्य । “त्वाष्ट्रमहनम्” इत्याद्या च विग्रहवत्त्वेन स्तुतिस्तत्रैवोपपद्यते । तथापि परमपुरुषार्थस्यापवर्गस्य परब्रह्मज्ञानादन्यतोऽनवाप्तेः, परमानन्दरूपस्य मुख्यस्यामृतत्वस्याजरत्वस्य च ब्रह्मरूपाव्यभिचारात् , अध्यात्मसम्बन्धभूम्नश्च पराचीन्द्रेऽनुपपत्तेः, इन्द्रस्य देवताया आत्मनि प्रतिबुद्धस्य चरमदेहस्य वामदेवस्येव प्ररब्धविपाककर्माशयमात्रं भोगेन क्षपयतो ब्रह्मण एव सर्वमेतत्कल्पत इति विग्रहवदिन्द्रजीवप्राणवायुपरित्यागेन ब्रह्मैवात्र प्राणशब्दं प्रतीयत इति पूर्वपक्षाभावादनारभ्यमेतदिति । अत्रोच्यते - “यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः सह ह्येतवस्मिन् शरीरे वसतः सहोत्क्रामतः” (कौ. उ. ३ । ३) इति यस्यैव प्राणस्य प्रज्ञात्मन उपास्यत्वमुक्तं तस्यैव प्राणस्य प्रज्ञात्मना सहोत्क्रमणमुच्यते । नच ब्रह्मण्यभेदे द्विवचनं, न सहभावः न चोत्क्रमणम् । तस्माद्वायुरेव प्राणः । जीवश्च प्रज्ञात्मा । सह प्रवृत्तिनिवृत्त्या भक्त्यैकत्वमनयोरुपचरितं “यो वै प्राणः” (कौ. उ. ३ । ३) इत्यादिना । आनन्दामराजरापहतपाप्मत्वादयश्च ब्रह्मणि प्राणे भविष्यन्ति । तस्माद्यथायोगं त्रय एवात्रोपास्याः । न चैष वाक्यभेदो दोषमावहति । वाक्यार्थावगमस्य पदार्थावगमपूर्वकत्वात् । पदार्थानां चोक्तेन मार्गेण स्वातन्त्र्यात् । तस्मादुपास्यभेदादुपासात्रैविध्यमिति पूर्वः पक्षः । सिद्धान्तस्तु - सत्यं पदार्थावगमोपायो वाक्यार्थावगमः, नतु पदार्थावगमपराण्येव पदानि, अपि त्वेकवाक्यार्थावगमपराणि । तमेव त्वेकं वाक्यार्थं पदार्थावगममन्तरेण न शक्नुवन्ति कर्तुमित्यन्तरा तदर्थमेव तमप्यवगमयन्ति, तेन पदानि विशिष्टैकार्थावबोधनस्वरसान्येव बलवद्बाधकोपनिपातान्नानार्थबोधपरतां नीयन्ते । यथाहुः - “सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते” इति । तेन यथोपांशुयाजवाक्ये जामितादोषोपक्रमे तत्प्रतिसमाधानोपसंहारे चैकवाक्यत्वाय “प्रजापतिरुपांशु यष्टव्यः” इत्यादयो न पृथग्विधयः किन्त्वर्थवादा इति निर्णीतं, तथेहापि “मामेव विजानीहि”(कौ. उ. ३ । १) इत्युपक्रम्य, “प्राणोऽस्मि प्रज्ञात्मा”(कौ. उ. ३ । २) इत्युक्त्वान्ते “स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः” (कौ. उ. ३ । ९) इत्युपसंहाराद्ब्रह्मण्येकवाक्यत्वावगतौ सत्यां जीवमुख्यप्राणलिङ्गे अपि तदनुगुणतया नेतव्ये । अन्यथा वाक्यभेदप्रसङ्गात् । यत्पुनर्भेददर्शनं “सह ह्येतौ” (कौ. उ. ३ । ३) इति, तज्ज्ञानक्रियाशक्तिभेदेन बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्निर्देशः प्रत्यगात्मानमेवोपलक्षयितुम् । अत एवोपलक्ष्यस्य प्रत्यगात्मस्वरूपस्याभेदमुपलक्षणं भेदेनोपलक्षयति “प्राण एव प्रज्ञात्मा” (कौ. उ. ३ । ९) इति । “तस्मादनन्यथासिद्धब्रह्मलिङ्गानुसारातः । एकवाक्यबलात्प्राणजीवलिङ्गोपपादनम्” इति सङ्ग्रहः ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥
न ब्रह्मवाक्यं भवितुमर्हतीति ।
नैष सन्दर्भो ब्रह्मवाक्यमेव भवितुमर्हतीति, किन्तु तथायोगं किञ्चिदत्र जीववाक्यं, किञ्चिन्मुख्यप्राणवाक्यं, किञ्चिद्ब्रह्मवाक्यमित्यर्थः ।
प्रज्ञासाधनप्राणान्तराश्रयत्वादिति ।
प्राणान्तराणीन्द्रियाणि, तानि हि मुख्ये प्राणे प्रतिष्ठितानि । जीवमुख्यप्राणयोरन्यतर इत्युपक्रममात्रम् । उभाविति तु पूर्वपक्षतत्त्वम् । ब्रह्म तु ध्रुवम् ।
न ब्रह्मेति ।
न ब्रह्मैवेत्यर्थः ।
दशानां भूतमात्राणामिति ।
पञ्च शब्दादयः, पञ्च पृथिव्यादय इति दश भूतमात्राः । पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः ।
तदेवं स्वमतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टे -
अथवेति ।
पूर्वं प्राणस्यैकमुपासनमपरं जीवस्यापरं ब्रह्मण इत्युपासनात्रैविध्येन वाक्यभेदप्रसङ्गो दूषणमुक्तम् । इह तु ब्रह्मण एकस्यैवोपासात्रयविशिष्टस्य विधानान्न वाक्यभेद इत्यभिमानः प्राचां वृत्तिकृताम् । तदेतदालोचनीयं कथं न वाक्यभेद इति । युक्तं “सोमेन यजेत” इत्यादौ सोमादिगुणविशिष्टयागविधानं, तद्गुणविशिष्टस्यापूर्वस्य कर्मणोऽप्राप्तस्य विधिविषयत्वात् । इह तु सिद्धरूपं ब्रह्म न विधिविषयो भवितुमर्हति, अभावार्थत्वात् । भावार्थस्य विधिविषयत्वनियमात् । वाक्यान्तरेभ्यश्च ब्रह्मावगतेः प्राप्तत्वात्तदनूद्याप्राप्तोपासना भावार्थो विधेयस्तस्य च भेदाद्विध्यावृत्तिलक्षणो वाक्यभेदोऽतिस्फुट इति भाष्यकृता नोद्घाटितः, स्वव्याख्यानेनैवोक्तप्रायत्वादिति सर्वमवदातम् ॥ ३१ ॥
इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां प्रथमस्याध्यायस्य प्रथमः पादः ॥ १ ॥
इति प्रथमस्याध्यायस्य स्पष्टब्रह्मलिङ्गश्रुतिसमन्वयाख्यः प्रथमः पादः ॥
प्राणस्तथाऽनुगमात्॥२८॥
अनेकेति ।
अनेकेषां लिङ्गान्यनेकानि च तानि लिङ्गनि वा प्रतिपदार्थमनेकानीत्यर्थः । तेषामेकत्वेन प्रतिभासमानवाक्ये समावेशे किं बलवत्, किममूनि सर्वाणि समबलानि, उतैकमेव बलवत् यदा चैलमेव बलवत्तदा कस्य लिङ्गनो लिङ्गं बलवत्, किं ब्रह्मणः, उत प्राणादेरित्येतदत्र चिन्त्यते । एतच्च प्राक् अतएव प्राणः(ब्र.अ.१.पा.१.सू.८) इत्यत्र न चिन्तितम् । तत्र हि ब्रह्मलिङ्गात् प्राणश्रुतिर्नीता, नतु ब्रह्माब्रह्मलिङ्गानां बलाबलमित्यर्थः । ज्योतिर्वाक्येऽपि यच्छब्देन समाकृष्टे ब्रह्मणि तल्लिङ्गं तेजोलिङ्गाद्बलवदित्युक्तम् । न तथेह किंचिन्निर्णयकारणमिति तेनाप्यगता चिन्ता, अतएव सङ्गतिः । अथवा — दिवि दिव इत्यत्र प्रधानप्रकृत्यर्थमनुरुध्य प्रत्ययार्थो नीतः, एवमिहापि स्वतन्त्रप्राणादिपदार्थभेदप्रतीतौ तत्सापेक्षत्वेन गुणभूतवाक्यार्थप्रतीतेर्युक्तमन्यथाऽऽनयनमिति भिन्नोपासनविध्युपगमेन पूर्वपक्षोत्थानस्य वक्ष्यमाणत्वात्सङ्गतिः ।
बहूनीति ।
बहुग्रहणमनेकानि च तानि लिङ्गानीति संग्रहे समासप्रदर्शनार्थम् । एवंच प्राणादिषु प्रत्येकमपि बहुलिङ्गदर्शनाद् भूयसां न्यायेनाप्यनिर्णयात्, आकाशस्तल्लिङ्गात् – (ब्र.अ.१.पा.१.सू.२२) इत्यनेनाप्यगतार्थत्वमुक्तम् ।
अनन्यथासिद्धब्रह्मलिङ्गानुसारेणेतरेषामन्यथासिद्धिं वदन्नन्तस्तद्धार्मोपदेशात्(ब्र.अ.१.पा.१.सू.२०) इत्यनेन पुनरुक्तिं शङ्कते —
स्यादेतदित्यादिना ।
देवतालिङ्गस्यान्यथासिद्धिमाह —
तथापीति ।
शास्त्रदृष्ट्या तूपदेशः(ब्र.अ.१.पा.१.सू.३०) इति सूत्रार्थं मनसि निधायाह —
इन्द्रस्य देवताया इति ।
ध्यानजसाक्षात्काराभ्युपगमो वाचस्पतेरेतत्सूत्रार्थाबोधादिति कैश्चिदयुक्तमुक्तम् । यतः — अपि संराधने सूत्राच्छास्त्रार्थध्यानजा प्रमा । शास्त्रदृष्टिर्मता तां तु वेत्ति वाचस्पतिः परं॥
वसतः इति द्विवचनश्रुत्या सहोत्क्रमणादिलिङ्गानुगृहीतयोपास्यभेदप्रतीतेर्न वाक्यस्य ब्रह्ममात्रपरत्वनिर्णय इति वदन् पूर्वपक्षसंभवमाह —
अत्रोच्यत इति ।
तस्य प्राणस्य प्रज्ञात्मना जीवेन सहोपास्यत्वमुक्तमित्यर्थः ।
ब्रह्मणि प्राण इति ।
स एष प्राण आनन्दोऽजर इत्यत्र प्राणशब्दो ब्रह्मवाचीत्यर्थः ।
भवतु पदार्थावगमपूर्वको वाक्यार्थावगमः, तथापि गामानयेत्यादाविवैकवाक्यता किं न स्यादत आह —
पदार्थानां चेति ।
गुणप्रधानयोग्यपदार्थावगमे भवत्वेकवाक्यता, इहतु सहोत्कामत इत्यादिभिः स्वातन्त्र्यावगतेर्वाक्यभेद इत्यर्थः । हेतुः पदार्थावबोधो हि वाक्यार्थबोधे, अतएव स गुणः ।
उद्देश्यस्तु वाक्यार्थप्रत्ययः प्रधानम्, अतो न प्रतीतैकवाक्यत्वभङ्ग इति सिद्धान्तयति —
सत्यमित्यादिना ।
ज्ञानशक्तिमती बुद्धिः, क्रियाशक्तिमांश्च प्राणः ।
यदि प्रत्यगात्मोपाधी भेदेन निर्दिष्टौ, नतु जीवप्राणौ स्वातन्त्र्येण, कथं तर्हि प्राण एव प्रज्ञात्मेत्युपक्रम्योपास्वेति तयोरुपास्यत्वनिर्देशः, भेदेनोक्तयोर्वा कथमभेदेन निर्देशः, अत आह —
अतएवेति ।
ननु जीवप्राणब्रह्मणामुपास्यत्वेन यदि पूर्वः पक्षः, कथं तर्हि जीवमुख्यप्राणलिङ्गसूत्रावतारकपूर्वपक्षभाष्ये ब्रह्मपरत्वनिषेधोऽत आह —
ब्रह्मवाक्यमेवेति ।
ब्रह्मपरत्वनियमो निषिध्यत इत्यर्थः । एतत्सूत्रपूर्वपक्षभाष्य एव प्राणस्य प्रज्ञात्वमुपपादयितुं प्रज्ञेत्यादिभाष्यम् ।
तत्र प्राणान्तरशब्दार्थमाह —
प्राणान्तराणीति ।
मुख्यप्राणस्थितौ स्थितेस्तदुत्क्रान्तावुत्क्रान्तेस्तत्प्रतिष्ठानीन्द्रियाणि ।
एतत्सूत्रपूर्वपक्षोपसंहारभाष्यं — तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां न ब्रह्मेति, तदप्युपासनात्रयपरतया नयति —
जीवेति ।
अन्यतरत्वं उपक्रममात्रम् — अस्थिरमित्यर्थः ।
ननु त्रयाणामुपासने कथमुभाविति निर्देशोऽत आह —
ब्रह्म त्विति ।
उभयोः प्राप्त्यर्थोऽयं निर्देशो न ब्रह्मव्यावृत्त्यर्थः ।
तर्हि न ब्रह्मेति कथमत आह —
न ब्रह्मैवेति ।
एवमेता भूतमात्रा इति वाक्यस्यार्थत उपादानेन ब्रह्मलिङ्गस्यानन्यथासिद्धिप्रदर्शकं जीवमुख्यप्राणलिङ्गसूत्र(ब्र.अ.१.पा.४.सू.१७) सिद्धान्तभाष्यं दशानामित्यादि, तद्व्याचष्टे पञ्चेति । श्रुतौ भूतमात्राशब्दे द्वन्द्वसमासः, भूतानि च मात्राश्चेति । भूतानि पृथिव्यादीनि पञ्च, मात्राः शब्दादयः सूक्ष्मभूतानि च पञ्चेति दशेत्यर्थः ।
प्रज्ञामात्राणां चेति भाष्ये दशानामित्यनुषञ्जनीयं, चशब्दादित्यभिप्रेत्य व्याचष्टे —
पञ्च बुद्धीन्द्रियाणीति ।
पञ्चबुद्धय इति ।
पञ्चेन्द्रियजनिता बुद्धय इत्यर्थः । अत्रापि द्वन्द्व एव । प्रज्ञाः बुद्धयः । मीयन्ते शब्दादय आभिरिति मात्रा इन्द्रियाणि ।
पूर्वोत्तरव्याख्ययोः सूत्रार्थं विभजते —
पूर्वमिति ।
उपासनात्रैविध्यप्रसङ्गादिति पूर्वत्र व्याख्या, अत्र त्वेकस्या उपासनायास्त्रिविधत्वाद् न वाक्यभेदे इति व्याख्येत्यर्थः । किमुपासनात्रयविशिष्टं ब्रह्म विधीयते, उत ब्रह्मविशिष्टमुपासनात्रयं, किं वा तदनुवादेन तदाश्रितोपासनात्रयमिति ।
नाद्य इत्याह —
युक्तमिति ।
न द्वितीय इत्याह —
वाक्यान्तरेभ्यश्चेति ।
विशेषणब्रह्मणः सन्निधौ प्राप्तत्वाद् न तद्विशिष्टोपास्तिविधिरित्यर्थः ।
ततस्तृतीयपक्षः परिशिष्यत इत्याह —
तदनूद्येति ।
तं दूषयति —
तस्य चेति ।
ब्रह्मानुवादेनोपासनविधावेकविशेष्यावशीकारादुपासनानां च परस्परमसङ्गात्प्रत्युपास्तिविध्यावृत्त्यापात इत्यर्थः । — अत्र केचित् — प्रकरणित्वेऽपि ब्रह्मणोऽवान्तरवाक्यभेदेन श्रवणादिवद्यज्ञादिवच्चोपासनात्रयं विधेयम्, अत एकवाक्यत्वेऽपि नानावाक्यत्वमविरुद्धम् । अपिच नैव वाक्यभेदः; प्राणादित्रितयधर्मविशिष्टैकोपासनविधेः — इत्याहुः । तन्न ; । यतः अगत्याकल्प्योऽपूर्वत्वाद्वाक्यभेदो हि धारणे । इह ब्रह्मातिरेकेण नापूर्वार्थावधारणा॥ उपक्रमोपसंहारैक्यादवगते एकवाक्यत्वे सर्वात्मत्वविवक्षया प्राणजीवधर्मा ब्रह्मणि स्तुत्यर्थं निर्दिष्टा इति शक्यते योजयितुम् । सर्वात्मत्वं च सृष्टिवाक्यसिद्धं शक्यमनुवदितुं नत्वेवमुपरिधारणमन्यतः प्राप्तमित्यशंक्यानुवादत्वाद्वाक्यभेदस्तत्र कल्पितः । श्रवणादिविधिस्त्वनिष्ठः, यज्ञादिविधिरपूर्वत्वाद्विषमः॥ यच्च त्रितयधर्मविशिष्टमेकमुपासनमिति, तदपि न; इह हि किं जीवप्राणौ स्वधर्मैर्विशिष्य पुनस्ताभ्यां विशिष्टं ब्रह्मोपास्यमिष्यते, उतारुणैकहायनीवत्सर्वविशेषणविशिष्टब्रह्मोपासनां विधाय पार्ष्ठिको जीवप्राणयोस्तद्धर्माणां च विशेषणविशेष्यभावो विशिष्टविधिसामर्थ्यात्प्रमीयते इति । नाद्यः; जीवप्राणयोः स्वधर्मान् प्रति विशेष्यत्वं ब्रह्म प्रति विशेषणत्वम् इति वैरूप्यात् । न चरमः; प्राणादीनां विप्रकीर्णत्वादेकविशिष्टप्रतीत्ययोगादिति॥ दिवोदासस्यापत्यं दैवोदासिः । धाम गृहम् ।
अरुन्मुखानिति ।
रौति यथार्थं शब्दयति इति रुद् वेदान्तवाक्यं तत्र मुखं येषां ते रुन्मुखाः तेभ्योऽन्ये अरुन्मुखाः । शालावृकेभ्यः आरण्यश्वभ्यः ।
अस्तित्वे चेति ।
प्राणशब्दवाच्यस्य परमात्मनोऽस्तित्वे, प्राणानां इन्द्रियाणां । निःश्रेयसं जीवनादिपुरुषार्थसिद्धिः ।
एवमेवैता इति ।
पृथिव्यादीनि शब्दादयश्चेन्द्रियेषु तज्जन्यज्ञानेषु च विषयत्वेनार्पिताः । प्रज्ञाः बुद्धयः । मात्राः इन्द्रियाणि । प्राणे परमात्मनि अर्पितानि । नेमिवद्विषयाः । अरवदिन्द्रियबुद्धयः । नाभिवदात्मा ।
तान्वरिष्ठ इति ।
प्राणाः किलास्मासु कः श्रेष्ठ इति निर्दिधारयिषव प्रजापतिं जग्मुः, स आह यस्मिन् उत्क्रान्ते इदं शरीरं पापिष्ठमिव भवति स श्रेष्ठ इति । तथेति वागादय उच्चक्रमुः । तथापि शरीरमव्यग्रमवर्तत प्राणोच्चिक्रमिषायां शरीरकरणेष्वनवस्थामाप्नुवत्सु तान् श्रेष्ठंमन्यान् चक्षुरादीन् श्रेष्ठः प्राण उवाच । प्राणापानादिभिः पञ्चधात्मानं स्वं विभज्यैतदिति क्रियाविशेषणमित्थत्यर्थः । वाति गच्छतीति वानं वानमेव वाणम् । वा गतिगन्धनयोः । अस्थिरं शरीरमित्यर्थः ।
तस्मादेतदेवेति ।
उत्थापयति शरीरादिकमित्युक्थम् ।
अथ यथेति ।
अस्या जीवलक्षणायाः प्रज्ञायाः संबन्धीनि भूत्वा सर्वा सर्वाणि भूतानि तादृशत्वेन कल्पितानि, वस्तुत एकं भवन्ति । अस्या एकमङ्गं फलरूपं चैतन्यं स्वविषयोपाधिनाऽदूदुहद्रेचितवती । तस्या दुग्धायाः प्रज्ञाया उपरि विषयत्वेन नामलक्षणं भूतमात्रा भूतसूक्ष्मं प्रतिविहितम् ।
उपहितचैतन्यद्वारा स्वरूपे द्रष्टृत्वाध्यासमाह —
प्रज्ञया द्वारा वाचं समारुह्य वाचं करणं प्रति कर्तेत्यध्यासमनुभूय तया करणेन सर्वाणि नामान्याप्नोतीति । वक्तृत्वेन कर्मेन्द्रियप्रवृत्तिरपि चैतन्याधीनेति प्रज्ञादोह उक्तः ।
ता वा इति ।
भूतानि शब्दादयश्चाधिप्रज्ञम् । प्रज्ञाशब्द इन्द्रियाण्यप्युपलक्षयति॥ इन्द्रियेषु तज्जज्ञानेषु च दश प्रज्ञामात्राः, इन्द्रियतज्जप्रज्ञाः अधिभूतम्, भूतेषु ग्राह्यग्राहकयोरन्योन्यापेक्षत्वात् कल्पितत्वमतोऽद्वैतं तत्त्वमित्यर्थः॥ इति एकादशं प्रतर्दनाधिकरणम् । इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकाचार्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ प्रथमाध्यायस्य प्रथमः पादः॥