भामतीव्याख्या
वेदान्तकल्पतरुः
 
सर्वत्रप्रसिद्ध्यधिकरणविषयाः

अथ द्वितीयं पादमारिप्सुः पूर्वोक्तमर्थं स्मारयति वक्ष्यमाणोपयोगितया -

प्रथमे पाद इति ।

उत्तरत्र हि ब्रह्मणो व्यापित्वनित्यत्वादयः सिद्धवद्धेतुतयोपदेक्ष्यन्ते ।

न चैते साक्षात्पूर्वमुपपादिता इति कथं हेतुभावेन न शक्या उपदेष्टुमित्यत उक्तम् -

समस्तजगत्कारणस्येति ।

यद्यप्येते न पूर्वं कण्ठत उक्तास्तथापि ब्रह्मणो जगज्जन्मादिकारणत्वोपपदानेनाधिकरणसिद्धान्तन्यायेनोपक्षिप्ता इत्युपपन्नस्तेषामुत्तरत्र हेतुभावेनोपन्यास इत्यर्थः ।

अर्थान्तरप्रसिद्धानां चेति ।

यत्रार्थान्तरप्रसिद्धा एवाकाशप्राणज्योतिरादयो ब्रह्मणि व्याख्यायन्ते, तदव्यभिचारिलिङ्गश्रवणात् । तत्र कैव कथा मनोमयादीनामर्थान्तरे प्रसिद्धानां पदानां ब्रह्मगोचरत्वनिर्णयं प्रतीत्यभिप्रायः । पूर्वपक्षाभिप्रायं त्वग्रे दर्शयिष्यामः ।

सर्वत्र प्रसिद्धोपदेशात् । इदमाम्नायते । सर्वं खल्विदं ब्रह्म ।

कुतः,

तज्जलानिति ।

यतस्तस्माद्ब्रह्मणो जायत इति तज्जं, तस्मिंश्च लीयत इति तल्लं, तस्मिंश्चानिति स्थितिकाले चेष्टत इति तदनं जगत् तस्मात्सर्वं खल्विदं जगद्ब्रह्म । अतः कः कस्मिन्रज्यते कश्च कं द्वेष्टीति रागद्वेषरहितः शान्तः सन्नुपासीत ।

अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीर इत्यादि ।

तत्र संशयः - किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते आहोस्विद्ब्रह्मेति । किं तावत्प्राप्तम् । शारीरो जीव इति । कुतः । “क्रतुम्” इत्यादिवाक्येन विहितां क्रतुभावनामनूद्य “सर्वम्” इत्यादिवाक्यं शमगुणे विधिः । तथा च “सर्वं खल्विदं ब्रह्म” (छा. उ. ३ । १४ । १) इति वाक्यं प्रथमपठितमप्यर्थालोचनया परमेव, तदर्थोपजीवित्वात् । एवं च सङ्कल्पविधिः प्रथमो निर्विषयः सन्नपर्यवस्यन्विषयापेक्षः स्वयमनिर्वृत्तो न विध्यन्तरेणोपजीवितुं शक्यः, अनुपपादकत्वात् । तस्माच्छान्ततागुणविधानात्पूर्वमेव “मनोमयः प्राणशरीरः”(छा. उ. ३ । १४ । २) इत्यादिभिर्विषयोपनायकैः सम्बध्यते । मनोमयत्वादि च कार्यकारणसङ्घातात्मनो जीवात्मन एव निरूढमिति जीवात्मनोपास्येनोपरक्तोपासना न पश्चात्ब्रह्मणा सम्बद्धुमर्हति, उत्पत्तिशिष्टगुणावरोधात् । नच “सर्वं खल्विदम्”(छा. उ. ३ । १४ । १) इति वाक्यं ब्रह्मपरमपि तु शमहेतुवन्निगदार्थवादः शान्तताविधिपरः, “शूर्पेण जुहोति” “तेन ह्यन्नं क्रियते” इतिवत् । न चान्यपरादपि ब्रह्मापेक्षिततया स्वीक्रियत इति युक्तं, मनोमयत्वादिभिर्धर्मैर्जीवे सुप्रसिद्धैर्जीवविषयसमर्पणेनानपेक्षितत्वात् । सर्वकर्मत्वादि तु जीवस्य पर्यायेण भविष्यति । एवं चाणीयस्त्वमप्युपपन्नम् । परमात्मनस्त्वपरिमेयस्य तदनुपपत्तिः । प्रथमावगतेन चाणीयस्त्वेन ज्यायस्त्वं तदनुगुणतया व्याख्येयम् । व्याख्यातं च भाष्यकृता । एवं कर्मकर्तृव्यपदेशः सप्तमीप्रथमान्तता चाभेदेऽपि जीवात्मनि कथञ्चिद्भेदोपचारेण राहोः शिर इतिवद्द्रष्टव्या । ‘एतद्ब्रह्म’ इति च जीवविषयं, जीवस्यापि देहादिबृंहणत्वेन ब्रह्मत्वात् । एवं सत्यसङ्कल्पत्वादयोऽपि परमात्मवर्तिनो जीवेऽपि सम्भवन्ति, तदव्यतिरेकात् । तस्माज्जीव एवोपास्यत्वेनात्र विवक्षितः, न परमात्मेति प्राप्तम् । एवं प्राप्तेऽभिधीयते - “समासः सर्वनामार्थः संनिकृष्टमपेक्षते । तद्धितार्थोऽपि सामान्यं नापेक्षाया निवर्तकः ॥ तस्मादपेक्षितं ब्रह्म ग्राह्यमन्यपरादपि । तथा च सत्यसङ्कल्पप्रभृतीनां यथार्थता” ॥ भवेदेतदेवं यदि प्राणशरीर इत्यादीनां साक्षाज्जीववाचकत्वं भवेत् । न त्वेतदस्ति । तथा हि - प्राणः शरीरमस्येति सर्वनामार्थो बहुव्रीहिः संनिहितं च सर्वनामार्थं सम्प्राप्य तदभिधानं पर्यवस्येत् । तत्र मनोमयपदं पर्यवसिताभिधानं तदभिधानपर्यवसानायालं, तदेव तु मनोविकारो वा मनःप्रचुरं वा किमर्थमित्यद्यापि न विज्ञायते । तद्यत्रैष शब्दः समवेतार्थो भवति स समासार्थः । न चैष जीव एव समवेतार्थो न ब्रह्मणीति, तस्य “अप्राणो ह्यमनाः”(मु. उ. २ । १ । २) इत्यादिभिस्तद्विरहप्रतिपादनादिति युक्तम् , तस्यापि सर्वविकारकारणतया, विकाराणां च स्वकारणादभेदात्तेषां च मनोमयतया ब्रह्मणस्तत्कारणस्य मनोमयत्वोपपत्तेः । स्यादेतत् । जीवस्य साक्षान्मनोमयत्वादयः, ब्रह्मणस्तु तद्द्वारा । तत्र प्रथमं द्वारस्य बुद्धिस्थत्वात्तदेवोपास्यमस्तु, न पुनर्जघन्यं ब्रह्म । ब्रह्मलिङ्गानि च जीवस्य ब्रह्मणोऽभेदाज्जीवेऽप्युपपत्स्यन्ते । तदेतदत्र सम्प्रधार्यम् - किं ब्रह्मलिङ्गैर्जीवानां तदभिन्नानामस्तु तद्वत्ता, तथाच जीवस्य मनोमयत्वादिभिः प्रथममवगमात्तस्यैवोपास्यत्वं, उत न जीवस्य ब्रह्मलिङ्गवत्ता तदभिन्नस्यापि । जीवलिङ्गैस्तु ब्रह्म तद्वत्, तथाच ब्रह्मलिङ्गानां दर्शनात् , तेषां च जीवेऽनुपपत्तेर्ब्रह्मैवोपास्यमिति । वयं तु पश्यामः “समारोप्यस्य रूपेण विषयो रूपवान्भवेत् । विषयस्य तु रूपेण समारोप्यं न रूपवत्” ॥ समारोपितस्य हि रूपेण भुजङ्गस्य भीषणत्वादिना रज्जू रूपवती, नतु रज्जूरूपेणाभिगम्यत्वादिना भुजङ्गो रूपवान् । तदा भुजङ्गस्यैवाभावात्किं रूपवत् । भुजङ्गदशायां तु न नास्ति वास्तवी रज्जुः । तदिह समारोपितजीवरूपेण वस्तुसद्ब्रह्म रूपवद्युज्यते, नतु ब्रह्मरूपैर्नित्यत्वादिभिर्जीवस्तद्वान्भवितुमर्हति, तस्य तदानीमसम्भवात् । तस्माद्ब्रह्मलिङ्गदर्शनाज्जीवे च तदसम्भवाद्ब्रह्मैवोपास्यं न जीव इति सिद्धम् । एतदुपलक्षणाय च “सर्वं खल्विदं ब्रह्म” (छा. उ. ३ । १४ । १) इति वाक्यमुपन्यस्तमिति ॥ १ ॥

यद्यप्यपौरुषेय इति ।

शास्त्रयोनित्वेऽपीश्वरस्य पूर्वपूर्वसृष्टिरचितसन्दर्भापेक्षरचनत्वेनास्वातन्त्र्यादपौरुषेयत्वाभिधानं, तथा चास्वातन्त्र्येण विवक्षा नास्तीत्युक्तम् । परिग्रहपरित्यागौ चोपादनानुपादाने उक्ते, न तूपादेयत्वमेव । अन्यथोद्देश्यतयानुपादेयस्य ग्रहादेरविवक्षितत्वेन चमसादावपि संमार्गप्रसङ्गात् । तस्मादनुपादेयत्वेऽपि ग्रह उद्देश्यतया परिगृहीतो विवक्षितः । तद्गतं त्वेकत्वमवच्छेदकत्वेन वर्जितमविवक्षितम् । इच्छानिच्छे च भक्तितः ।

तदिदमुक्तम् -

वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते इति ।

यत्परं वेदवाक्यं तत्तेनोपात्तं विवक्षितम् , अतत्परेण चानुपात्तमविवक्षितमित्यर्थः ॥ २ ॥

स्यादेतत् । यथा सत्यसङ्कल्पत्वादयो ब्रह्मण्युपपद्यन्ते, एवं शारीरेऽप्युपपत्स्यन्ते, शारीरस्य ब्रह्मणोऽभेदात् । शारीरगुणा इव मनोमयत्वादयो ब्रह्मणीत्यत आह सूत्रकारः -

अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥

यत्तदवोचाम समारोप्यधर्माः समारोपविषये सम्भवन्ति, नतु विषयधर्माः समारोप्य इति । तस्येत उत्थानम् । अत्राह चोदकः -

कः पुनरयं शारीरो नामेति ।

न तावद्भेदप्रतिषेधाद्भेदव्यपदेशाच्च भेदाभेदावेकत्र तात्त्विकौ भवितुमर्हतो विरोधादित्युक्तम् । तस्मादेकमिह तात्त्विकमतात्त्विकं चेतरत् , तत्र पौर्वापर्येणाद्वैतप्रतिपादनपरत्वाद्वेदान्तानां द्वैतग्राहिणश्च मानान्तरस्याभावात्तद्बाधनाच्च तेनाद्वैतमेव परमार्थः । तथा च “अनुपपत्तेस्तु”(ब्र.सू. १-२-३) इत्याद्यसङ्गतार्थमित्यर्थः ।

परिहरति -

सत्यमेवैतत् । पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिरविच्छिद्यमानो बालैः शारीर इत्युपचर्यते ।

अनाद्यविद्यावच्छेदलब्धजीवभावः पर एवात्मा स्वतो भेदेनावभासते । तादृशां च जीवानामविद्या, नतु निरूपाधिनो ब्रह्मणः । न चाविद्यायां सत्यां जीवात्मविभागः, सति च जीवात्मविभागे तदाश्रयाविद्येत्यन्योन्याश्रयमिति साम्प्रतम् । अनादित्वेन जीवाविद्ययोर्बीजाङ्कुरवदनवकॢप्तेरयोगात् । नच सर्वज्ञस्य सर्वशक्तेश्च स्वतः कुतोऽकस्मात्संसारिता, यो हि परतन्त्रः सोऽन्येन बन्धनागारे प्रवेश्येत, नतु स्वतन्त्र इति वाच्यम् । नहि तद्भागस्य जीवस्य सम्प्रतितनी बन्धनागारप्रवेशिता, येनानुयुज्येत, किन्त्वियमनादिः पूर्वपूर्वकर्माविद्यासंस्कारनिबन्धना नानुयोगमर्हति । न चैतावता ईश्वरस्यानीशता न ह्युपकरणाद्यपेक्षिता कर्तुः स्वातन्त्र्यं विहन्ति । तस्माद्यत्किञ्चिदेतदपीति ॥ ६ ॥ ॥ ७ ॥ विशेषादिति वक्तव्ये वैशेष्याभिधानमात्यन्तिकं विशेषं प्रतिपादयितुम् । तथाह्यविद्याकल्पितः सुखादिसम्भोगोऽविद्यात्मन एव जीवस्य युज्यते । नतु निर्मृष्टनिखिलाविद्यातद्वासनस्य शुद्धबुद्धमुक्तस्वभावस्य परमात्मन इत्यर्थः । शेषमतिरोहितार्थम् ॥ ६ ॥ ॥ ७ ॥॥ ८ ॥

सर्वत्र प्रसिद्धोपदेशात्॥१॥ प्रथमपादे स्पष्टब्रह्मलिङ्गवाक्यान्युदाहरणम् । द्वितीयतृतीययोस्त्वस्पष्टब्रह्मलिङ्गानि । तयोस्तु प्रायशः सविशेषनिर्विशेषब्रह्मलिङ्गवाक्यविषयतया वा योगरूढिविषयतया वाऽवान्तरभेदः ।

अधिकरणसिद्धान्तेति ।

यत्सिद्धावर्थादन्यसिद्धिः सोऽधिकरणसिद्धान्तः । यद्यर्थान्तररूढा अपि शब्दा ब्रह्मलिङ्गाद्ब्रह्मपरतया व्याख्याताः, तर्हि कैव कथा मनोमयत्वादिलिङ्गेषु ।

अपिचेह ब्रह्मशब्द एवास्ति, सर्वं खल्विदं ब्रह्मेति, अस्ति च वाक्यशेषे सर्वकर्मत्वादि ब्रह्मलिङ्गं, तत्कथं जीवपरत्वशङ्का वाक्यस्यात आह —

पूर्वपक्षाभिप्रायं त्विति ।

क्रतुमित्यादिवाक्येनेत्यारभ्येत्यर्थः ।

तल्लमिति ।

तल्लयमित्यर्थः । तस्मिन्ननितीति तदन् । क्रतुर्ध्यानं तत्प्रधानस्तन्मयः ।

मनोमयत्वादीनां प्रकृतब्रह्मनैरपेक्ष्यसापेक्षत्वाभ्यां संशयमाह —

तत्रेति ।

पादान्तरत्वादेव नावान्तरसङ्गतिः ।

स्ववाक्योपात्तधर्मविशिष्टजीवोपासनानुवादेन शमविधिपरत्वान्न सर्वं खल्विति वाक्यमुपास्यसमर्पकमित्याह —

क्रतुमिति ।

प्रागप्रतीतायाः क्रतुप्रवृत्तेः कथमुपासीतेत्यनुवादस्तत्राह —

तथा चेति ।

ननु सङ्कल्पविधेरुपास्यसापेक्षत्वाद्ब्रह्मण उपास्यत्वम्, अत आह —

एवंचेति ।

सापेक्षस्य गुणविध्यर्थमाश्रयदानायोगान्मनोमयत्वादिभिरेवापेक्षापूरणमित्यर्थः ।

स्यादेतत् — मनोमयत्वादिमद्ब्रह्मैवास्त्वित्यत आह —

मनोमयत्वादि चेति ।

उत्पत्तिशिष्टत्वं कर्मस्वरूपप्रतीतिसमयावगतत्वम् ।

यदि न ब्रह्मोपास्यं, किमर्थं तर्हि ब्रह्माभिधानमित्यत आह —

नचेति ।

हेतुवन्निगद्यत इति तथोक्तः॥ शूर्पेण जुहोतीत्याम्नाय तेन हीति श्रुतम् । तत्र हिशब्दश्रुतेः स्तुतौ च लक्षणाप्रसङ्गादन्नकरणत्वं शूर्पहोमे हेतुरुपदिष्टः । तथाच यद्यदन्नकरणं दर्व्यादि तेन तेन होतव्यमिति प्रापय्य राद्धान्तितं प्रमाणलक्षणे । शूर्पं हि होमकरणं तृतीयाश्रुत्या गम्यते, विध्यर्थस्य च न हेत्वपेक्षा । तस्मात् शूर्पस्तुतिः ।

यत्तु हेतौ हिशब्दश्रुतिरिति ।

तन्न; नहि साक्षाद्दर्व्यादिना शक्यमन्नं कर्तुम् । अथ शक्यं प्रणाड्या, कथं तर्हि श्रुतिवृत्तिता हेतुवचनस्य । ननु शूर्पस्तुतावपि लक्षणा स्यात्, नहि तेनापि साक्षादन्नं क्रियते । अद्धा; स्तुतिर्ह्यनुवादत्वाद्यथाप्राप्ति लक्षणां सहेत न विधिरपूर्वार्थत्वादिति (जै.अ.१.पा.२.सू.२६ — ३०)अत्रायं विशेषो द्रष्टव्यः ।

समास इति ।

प्राणः शरीरमस्येति बहुव्रीहिर्विग्रहवशादन्तर्गर्भितसर्वनामार्थवान्, सर्वनाम च सन्निहितावलम्बीति समासः सन्निकृष्टमपेक्षते, तेन सर्वनामश्रुतिर्ब्रह्मोपास्यत्वे मानमुक्ता ।

ननु न ज्योतिर्वाक्यवदिह वाक्यान्तरोक्तब्रह्मणोऽस्ति सन्निधापिका प्रत्यभिज्ञा, यतः सर्वनाम परामृश्येत, अतः स्ववाक्यस्थेन मनोमय इति मयडर्थेनाकाङ्क्षाशान्तिरत आह —

तद्धितार्थोऽपीति ।

सोऽपि विकारप्राचुर्यसाधारणत्वेन सामान्यम्, अतो नाकाङ्क्षाशमकः; संदिग्धत्वात् ।

फलितमाह —

तस्मादिति ।

अन्यपरादपि शमविधिस्तुतिपरादपि इति ।

ब्रह्मोपादाने वाक्यशेषस्थलिङ्गसामञ्जस्यमाह —

तथाचेति ।

तदभिधानं समासाभिधानम् । तद्धितार्थः ।

इत्येतद्व्याचष्टे —

तत्र मनोमयपदमिति ।

एष मनोमयशब्दो जीव एव निविष्टावयवार्थः, नतु ब्रह्मणि; तस्य मन आदिविरहप्रतिपादनादित्येतच्च न युक्तम् ; कुतो न युक्तमत आह —

तस्यापीति ।

विकाराणां चेति ।

विकारविशेषाणां जीवानामित्यर्थः । विकारत्वं जीवानामवच्छेदापेक्षं ।

यदि जीवद्वारा ब्रह्मणो मनोमयत्वं, तर्हि जीवे एव मनोमयपदं मुख्यमिति तदेव समासाकाङ्क्षायाः परिपूरकमिति शङ्कते —

स्यादेतदिति ।

बलाबलविवेकाय पक्षविभागं करोति —

तदेतदिति ।

अधिष्ठानलिङ्गैः सर्वकर्मत्वादिभिस्तदभिन्नजीवानां तद्वत्त्वपक्षे फलितमाह —

तथा च जीवस्येति ।

वस्तुतो ब्रह्माऽभिन्नस्यापि जीवस्यावच्छिन्नतया न ब्रह्मधर्मवत्ता, ब्रह्म तु सर्वात्मत्वाज्जीवलिङ्गैस्तद्वद् जीवलिङ्गवदिति ।

पक्षे लाभमाह —

तथा च ब्रह्मलिङ्गानामिति ।

ज्ञायमानेन समारोप्यरूपेणाधिष्ठानं विषयो रूपवान् भवेत्, तस्याज्ञायमानत्वेन समारोपकालेऽपि सत्त्वात्, विषयस्य तु रूपेणासाधारणेन ज्ञायमानेन समारोप्यं न रूपवदधिष्ठानासाधारणरूपज्ञाने सति समारोप्याभावादित्यर्थः ।

प्रस्तुतेऽधिष्ठानासाधारणरूपज्ञानमस्तीत्याह —

तस्मादिति ।

ननु यद्युक्तरीत्या मनोमयवाक्येऽपि ब्रह्मलिङ्गात्तत्प्रतीतिः, तर्हि कथं भाष्यकारः सूत्रविवरणावसरे ‘‘इह च सर्वं खल्विदं ब्रह्मे’’ति वाक्योपक्रमे श्रुतमित्येवाह, न पुनर्वाक्यशेषेऽपि सर्वकाम इत्यादिधर्मवत्तया श्रुतमिति, अतआह —

एतदुपलक्षणायेति॥१॥

भाष्ये त्वपौरुषेयशब्देन न कर्मभाव उक्तः, किं तु पुंस्वातन्त्र्याभावः ।

विवक्षाभावाभिधानमपि स्वातन्त्र्यनिषेधार्थमित्याह —

तथाचेति ।

उपादानेन फलेनेति भाष्ये उपादानं नाम परिग्रहो नतूपादेयत्वमुद्देश्यत्वप्रतियोगि ।

विपक्षे दण्डमाह —

अन्यथेति ।

किंचिद्विधातुं सिद्धवन्निर्देश्यत्वमुद्देश्यत्वम् । अनुष्ठेयत्वेन निर्देश्यत्वमुपादेयत्वम् । उद्देश्याविवक्षायां ग्रहं संमार्ष्टीत्यत्रोद्देश्यग्रहस्याविवक्षा स्यात् । तथा  च चमसादेरपि संमार्गप्रसङ्गः स चायुक्तः । चमसाधिकरणे (जै.अ.३.पा.१.सू.१६ — १७) हि प्रकृतयागसंबन्धिसोमाधारत्वाविशेषेण ग्रहपदस्य चोपलक्षणार्थत्वेन चमसानामपि संमार्गमाशङ्क्य सिद्धान्तितम् । केवलं संमार्गविध्ययोगादुद्देश्येन भाव्यं; तच्च ग्रहशब्देन समर्पितम् । न च चमसलक्षणार्थो ग्रहशब्दः ; ग्रहयागावान्तरापूर्वसाधनत्वस्यान्तरङ्गस्य तेन लक्ष्यमाणत्वात् । व्रीहियवयोस्त्ववान्तरापूर्वभेदाभावाद्व्रीहीन् प्रोक्षतीत्यत्र व्रीहिशब्दो यवोपलक्षणार्थ इति युक्तम् ।  ततश्च ग्रहेष्वेव संमार्ग इति॥

ननु परिग्रहो यदि उद्देश्यत्वेन विधिपरिगृहीतस्तर्हि तदेकत्वमपि पश्वेकत्ववद्विवक्षितं स्यादत आह —

तद्गतं त्विति ।

ग्रहगतं त्वेकत्वं ग्रहान्प्रत्यवच्छेदकत्वेन रूपेण न विवक्षितम् । युक्ता हि पशुना यजेतेत्यत्रोपादेयविशेषणत्वादेकलविवक्षा; एकप्रसरतया एकपशुविशिष्टयागविधिसंवात्, अत्रतु ग्रहत्वैकत्वोद्देशेन संमार्गविधाबुद्दिश्यमानयोः परस्परमसंबन्धाद्ग्रहे एवोद्देश्यत्वेन पर्यवसानाच्च प्रत्युद्देश्यं वाक्यपरिसमाप्तिः स्याद् , ग्रहं संमार्टि तं चैकमिति, ततश्च बाक्यभेद इत्यर्थः ।

वेदेऽप्युपादेयत्वेनाभिमतं विवक्षितमित्यादिभाष्ये विवक्षिताविवक्षितशब्दनिर्दिष्टेच्छानिच्छे गौष्या वृत्त्या इत्याह —

इच्छानिच्छे चेति ।

को गुणः ? स भाष्योक्त इत्याह —

तदिदमिति ।

जीवस्य ब्रह्मणो भेदाभेदाभ्यामुभयश्रुत्युपपत्तेराक्षेपायोगमाशङ्ख्याह —

न तावदिति ।

भेदाभेदयोरन्यतरबाधे स्थिते विनिगममाह—

तत्रेति ।

वेदान्ततात्पर्यादद्वैतं तत्वमिति कुतः ? प्रत्यक्षादिविरोधाद् , अत आह—

द्वैतग्राहिणश्चेति ।

विदिमात्र व्यापारत्वात्प्रत्यक्षस्य तत्पूर्वकत्वाच्चान्येषामित्यर्थः ॥ तद्बाधनात् तैर्वेदान्तैर्बाधनात् ।

तस्माज्जीवभेदानुपपत्तेः सूत्रानुपपत्तिरित्याह—

तथाचेति ।

औपाधिकभेदानुवादित्वेन भेदश्रुतीनां सूत्रस्य चोपपत्तिमाह —

अनाद्यविद्येति ।

तादृशानां चेति ।

अविद्यावच्छिन्नानामित्यर्थः ॥

अनादित्वेनेति ।

जीवाविद्ययोर्बीजाङ्कुरवद्धेतुमत्त्वे जीवानित्यत्वं स्यात् — तस्मादुत्तरोत्तरजीवाभिव्यक्तीनां पूर्वपूर्वभ्रमनिमित्तकत्वमत्रोक्तम् । अनादिस्त्वविद्या जीवोपाधिर्देवताधिकरणे वक्ष्यते॥ अनादिजीवाविद्ययोश्चेतरेतरतन्त्रत्वमविद्यातत्संबन्धयोरिवाविरुद्धम् । स्वाश्रिताविद्याश्रितत्वे जीवस्यात्माश्रयमिति चेत्, किमतः? उत्पत्तिज्ञप्तिप्रतिबन्धेन ह्यात्माश्रयस्य दोषता । नचानयोरुत्पत्तिः, अनादित्वात्, प्रतीतिस्तु जीवस्य स्वतस्तद्बलादविद्यायाः, तथापि स्वस्कन्धारूढारोहवत्स्वाश्रिताश्रितत्वं विरुद्धमिति चेन्न; स्वाश्रिताश्रितत्वस्य क्वचित्प्रमितावविरोधादप्रमितावव्याप्यादस्मादव्यापकस्य विरोधस्य दुष्प्रसंजनत्वात् । अपिच नैव कुण्डबदरवदधरोत्तरीभावः ; जीवाविद्ययोरमूर्तत्वात्, अवच्छेद्यावच्छेदकत्वं तु तत्रेतरेतरापेक्षं प्रमाणप्रमेयादिषु सुलभोदाहरणम्॥ अधिष्ठानं विवर्तानामाश्रयो ब्रह्म शुक्तिवत् । जीवाविद्यादिकानां स्यादिति सर्वमनाकुलम् ॥

न वैशेष्यादिति ।

सूत्रे प्रकृतिप्रयोगादेवेष्टसिद्धौ प्रत्ययप्रयोगोऽतिशयद्योतनाय ।

तमेवाह —

तथा हीति ।

अतिशयस्य भावः प्रत्ययार्थो, ननु विशेषस्वरूपभाव इत्यर्थः ॥ इति प्रथमं सर्वत्र प्रसिद्धाधिकरणम्॥