अत्ता चराचरग्रहणात् ।
अत्ता चराचरग्रहणात्॥१॥ यस्य मृत्युरुपसेचनमोदनमिश्रघृतवद् । तं नाविरतो दुश्चरितादिति पूर्वमन्त्रप्रकाशितोपायवान्यथा वेद इत्थमन्यस्तद्रहितः को वेद । यत्र सोऽत्ता कारणरूपो वर्तते तं निर्विशेषमात्मनं को वेदेत्यर्थः । पूर्वाधिकरणान्ते परमेश्वरस्याभोक्तृतोक्तेरिह न सोऽत्तेति सङ्गतिः । विषयवाक्ये अत्तुरश्रवणादत्तेति सूत्रायोगमाशङ्क्याह —
अत्रचेति ।
भोक्तृत्वलक्षणमत्तृत्वं नाग्निपरमात्मसाधारणम्, कथं संशय इत्याशङ्क्याह —
अत्तृत्वं चेति ।
यदा भोक्तृत्वमत्तृत्वम्, तदा न परमात्मशङ्केत्याह —
न च प्रस्तुतस्येति ।
तयोरन्य इति ।
जीवात्मनो भोक्तृत्वप्रतिपादनाच्च न परमात्मशङ्केत्यर्थः ।
फलितमाह —
तद्यदीति ।
ब्रह्मक्षत्रादिनिर्देशाद्भोक्तृत्वमत्तुरिह न निश्चितमपि तु जीवपूर्वपक्षवादिना प्रसाध्यमित्यर्थो यदिकारः ।
ननु जीवस्य कथं ब्रह्मक्षत्रादिभोक्तृत्वं पूर्वपक्षिणा साध्यमत आह —
ब्रह्मक्षत्रादि चेति ।
स्वशरीरं भोगायतनम् । छागादि कस्य चिद्भोग्यम् ।
यदि न भोक्तृत्वात्संशयः? कुतस्तर्ह्यत आह —
अथत्विति ।
अतएव पूर्वं मुक्तसंशयमित्युक्तम् । अत्र च भवति संशय इति उक्तम् ।
भोक्तृतेति । अत्तृतेत्यर्थः ; वनितादिषु भोक्तृत्वेऽपि संहर्तृत्वाभावात्, अत्तृत्वस्य भोक्तृत्वात्मत्वप्रसाधनेन पूर्वपक्षमुपपादयति —
अत्रौदनस्येत्यादिना॥
ओदनस्य भोग्यत्वात्प्रथमं भोक्तृत्वप्रतीतिरित्यत्र संबभ्राम भारतीविलासः — न हि मुख्य ओदनो ब्रह्मक्षत्रे, न चोपचरितौदनाद्भोक्तृत्वप्रतीतिः । यदाह — उपमैव तिरोभूतभेदा रूपकमिष्यते । अलङ्कारो रूपकाख्यः कठवल्लीकवेरयम्॥ इति॥ अत्रोच्यते — ओदनभोक्तर्यनोदनयोर्ब्रह्मक्षत्रयोरोदनत्वेन रूपकमवकल्पते । यथा ’’यस्य मृगयाविनोदे मृगाः परनरपतय’’ इत्युक्ते क्षत्रिय एव प्रतीयते, न श्रोत्रियः कश्चिद् ब्राह्मण एवमिहेति ।
ननु प्रलये जीवनाशात्कथमजत्वमत आह —
संहारेति ।
संस्कार उपलक्षणमविद्यायाः ।
अविक्रियस्य परमात्मनः संहर्तृत्वायोगात् अग्निरेव संहृतेत्याह —
यदित्विति ।
तवापि भाक्त ओदनशब्दः, स ममापीत्याह —
न तर्हीति ।
कस्तर्ह्योदनस्तत्राह —
अपित्विति ।
ओदन इत्यनुषङ्गः ।
अपिचौदनशब्दस्य लाक्षणिकस्य सन्निहितमृत्यूपसेचनपदानुसारेणौदनगतविनाशित्वधर्मलक्षणार्थत्वाद्ब्रह्मक्षत्रोपलक्षितजगद्विनाशकर्तेश्वरः प्रतीयते, न जीव इत्याह —
न चेत्यादिना ।
यदवाद्योदनपदात् प्रथमं भोक्ता भातीति, अत्राह —
न चौदनपदादित्यादिना ।
ओदनपदस्य भक्तवाचिनो भोग्यमात्रपरत्वेन तवापि जघन्यवृत्त्याऽऽश्रवणात्तद्बलाद् ब्रह्मक्षत्रमृत्युश्रुतीनां न सङ्कोच इत्यर्थः ।
यदि मृत्युपदाद्विनाशिवस्तुविवक्षा, कथं तर्हि ब्रह्मक्षत्रग्रहणमत आह —
प्राणिष्विति ।
ननु ब्रह्मक्षत्राभ्यामितरव्यावृत्त्यर्थत्वं वाक्यस्य किं न स्यादत आह —
अन्यनिवृत्तेरिति ।
पञ्चपञ्चनखादौ हि मनुष्यादिनिवृत्तिः परिसंख्याफलम् । तया चानर्थनिवृत्तिः । इहान्यनिवृत्तिरनर्थिका; पुरुषार्थविशेषानवगमादित्यर्थः । मायोपाधेः परस्यास्ति संहर्तृत्वमित्याह – तथाचेति इति द्वितीयमत्त्रधिकरणम्॥