भामतीव्याख्या
वेदान्तकल्पतरुः
 
गुहाप्रविष्टाधिकरणविषयाः

गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।

संशयमाह -

तत्रेति ।

पूर्वपक्षे प्रयोजनमाह -

यदि बुद्धिजीवाविति ।

सिद्धान्ते प्रयोजनमाह -

अथ जीवपरमात्मानाविति ।

औत्सर्गिकस्य मुख्यताबलात्पूर्वसिद्धान्तपक्षासम्भवेन पक्षान्तरं कल्पयिष्यत इति मन्वानः संशयमाक्षिपति -

अत्राहाक्षेप्तेति ।

ऋतं सत्यम् । अवश्यंभावीति यावत् ।

समाधत्ते -

अत्रोच्यत इति ।

अध्यात्माधिकारादन्यौ तावत्पातारावशक्यौ कल्पयितुम् । तदिह बुद्धेरचैतन्येन परमात्मनश्च भोक्तृत्वनिषेधेन जीवात्मैवैकः पाता परिशिष्यत इति “सृष्टीरुपदधाति” इतिवत् द्विवचनानुरोधादपिबत्संसृष्टतां स्वार्थस्य पिबच्छब्दो लक्षयन्स्वार्थमजहन्नितरेतरयुक्तपिबदपिबत्परो भवतीत्यर्थः ।

अस्तु वा मुख्य एव, तथापि न दोष इत्याह -

यद्वेति ।

स्वातन्त्र्यलक्षणं हि कर्तृत्वं तच्च पातुरिव पाययितुरप्यस्तीति सोऽपि कर्ता । अत एव चाहुः - “यः कारयति स करोत्येव” इति । एवं करणस्यापि स्वातन्त्र्यविवक्षया कथञ्चित्कर्तृत्वं, यथा काष्ठानि पचन्तीति । तस्मान्मुख्यत्वेऽप्यविरोध इति ।

तदेवं संशयं समाधाय पूर्वपक्षं गृह्णाति -

बुद्धिक्षेत्रज्ञाविति ।

'नियताधारता बुद्धिजीवसम्भविनी नहि । क्लेशात्कल्पयितुं युक्ता सर्वगे परमात्मनि” ॥ नच पिबन्तावितिवत्प्रविष्टपदमपि लाक्षणिकं युक्तं, सति मुख्यार्थत्वे लाक्षणिकार्थत्वायोगात् , बुद्धिजीवयोश्च गुहाप्रवेशोपपत्तेः । अपिच “सुकृतस्य लोके” (क. उ. १ । ३ । १) इति सुकृतलोकव्यवस्थानेन कर्मगोचरानतिक्रम उक्तः । बुद्धिजीवौ च कर्मगोचरमनतिक्रान्तौ । जीवो हि भोक्तृतया बुद्धिश्च भोगसाधनतया धर्मस्य गोचरे स्थितौ, न तु ब्रह्म, तस्य तदायत्तत्वात् । किञ्च छायातपाविति तमःप्रकाशावुक्तौ । नच जीवः परमात्मनोऽभिन्नस्तमः, प्रकाशरूपत्वात् । बुद्धिस्तु जडतया तम इति शक्योपदेष्टुम् । तस्माद्बुद्धिजीवावत्र कथ्येते इति तत्रापि प्रेते विचिकित्सापनुत्तये बुद्धेर्भेदेन परलोकी जीवो दर्शनीय इति बुद्धिरुच्यते । एवंप्राप्तेभिधीयते - “ऋतपानेन जीवात्मा निश्चितोऽस्य द्वितीयता । ब्रह्मणैव सरूपेण न तु बुद्ध्या विरूपया ॥ १ ॥ प्रथमं सद्वितीयत्वे ब्रह्मणावगते सति । गुह्याश्रयत्वं चरमं व्याख्येयमविरोधतः” ॥ २ ॥ गौः सद्वितीयेत्युक्ते सजातीयेनैव गवान्तरेणावगम्यते, न तु विजातीयेनाश्वादिना । तदिह चेतनो जीवः सरूपेण चेतनान्तरेणैव ब्रह्मणा सद्वितीयः प्रतीयते, न त्वचेतनया विरूपया बुद्ध्या । तदेवं “ऋतं पिबन्तौ” (क. उ. १ । ३ । १) इत्यत्र प्रथममवगते ब्रह्मणि तदनुरोधेन चरमं गुहाश्रयत्वं शालग्रामे हरिरितिवद्व्याख्येयम् । बहुलं हि गुहाश्रयत्वं ब्रह्मणः श्रुतय आहुः ।

तदिदमुक्तम् -

तद्दर्शनादिति ।

तस्य ब्रह्मणो गुहाश्रयत्वस्य श्रुतिषु दर्शनादिति । एवंच प्रथमावगतब्रह्मानुरोधेन सुकृतलोकवर्तित्वमपि तस्य लक्षणया छत्रिन्यायेन गमयितव्यम् । छायातपत्वमपि जीवस्याविद्याश्रयतया ब्रह्मणश्च शुद्धप्रकाशस्वभावस्य तदनाश्रयतया मन्तव्यम् ॥ ११ ॥

इममेव न्यायं “द्वा सुपर्णा” (मु. उ. ३ । १ । १) इत्यत्राप्युदाहरणे कृत्वाचिन्तया योजयति -

एष एव न्याय इति ।

अत्रापि किं बुद्धिजीवौ उत जीवपरमात्मानाविति संशय्य करणरूपाया अपि बुद्धेरेधांसि पचन्तीतिवत्कर्तृत्वोपचाराद्बुद्धिजीवाविह पूर्वपक्षयित्वा सिद्धान्तयितव्यम् । सिद्धान्तश्च भाष्यकृता स्फोरितः । तद्दर्शनादिति च “समाने वृक्षे पुरुषो निमग्नः”(मु. उ. ३ । १ । २) इत्यत्र मन्त्रे ।

न खलु मुख्ये कर्तृत्वे सम्भवति करणे कर्तृत्वोपचारो युक्त इति कृत्वाचिन्तामुद्धाटयति -

अपर आह ।

सत्त्वं बुद्धिः ।

शङ्कते -

सत्त्वशब्द इति ।

सिद्धान्तार्थं ब्राह्मणं व्याचष्ट इत्यर्थः ।

निराकरोति -

तन्नेति ।

येन स्वप्नं पश्यतीति ।

येनेति करणमुपदिशति । ततश्च भिन्नं कर्तारं क्षेत्रज्ञम् ।

योऽयं शारीर उपद्रष्टेति ।

अस्तु तर्ह्यस्याधिकरणस्य पूर्वपक्षे एव ब्राह्मणार्थः,

वचनविरोधे न्यायस्याभासत्वादित्यत आह -

नाप्यस्याधिकरणस्य पूर्वपक्षं भजत इति ।

एवं हि पूर्वपक्षमस्य भजेत, यदि हि क्षेत्रज्ञे संसारिणि पर्यवस्येत । तस्य तु ब्रह्मरूपतायां पर्यवस्यन्न पूर्वपक्षमपि स्वीकरोतीत्यर्थः ।

अपिच ।

तावेतौ सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि किञ्चन रज आध्वंसत इति ।

रजोऽविद्या नाध्वंसनं संश्लेषमेवंविदि करोतीति ।

एतावतैव विद्योपसंहाराज्जीवस्य ब्रह्मात्मतापरतास्य लक्ष्यत इत्याह -

तावता चेति ।

चोदयति -

कथं पुनरिति ।

निराकरोति -

उच्यते - नेयं श्रुतिरिति ।

अनश्नन् जीवो ब्रह्माभिचाकशीतीत्युक्ते शङ्केत, यदि जीवो ब्रह्मात्मा नाश्नाति, कथं तर्ह्यस्मिन्भोक्तृत्वावगमः, चैतन्यसमानाधिकरणं हि भोक्तृत्वमवभासत इति । तन्निरासायाह श्रुतिः - “तयोरन्यः पिप्पलं स्वाद्वत्ति”(मु. उ. ३ । १ । १) इति । एतदुक्तं भवति - नेदं भोक्तृत्वं जीवस्य तत्त्वतः, अपितु बुद्धिसत्त्वं सुखादिरूपपरिणतं चितिच्छायापत्त्योपपन्नचैतन्यमिव भुङ्क्ते, नतु तत्त्वतो जीवः परमात्मा भुङ्क्ते । तदेतदध्यासाभाष्ये कृतव्याख्यानम् । तदनेन कृत्वाचिन्तोद्धाटिता ॥ १२ ॥

गुहां प्रविष्टात्वात्मानौ हि तद्दर्शनात्॥११॥ ननु — लक्षणया पिबदपिबतोः पिबन्ताविति निर्देशोपपत्तेः पूर्वपक्षसिद्धान्तपक्षाक्षेपे च वाक्यस्य निर्विषयत्वप्रसङ्गाद् आक्षेपायोगमाशङ्क्याह —

औत्सर्गिकस्येति ।

अयं हि आक्षेप्ता पिबन्तावित्यस्य मुख्यमर्थम् औत्सर्गिकमबाध्यं मन्यते, प्राकृतसुपर्णविषयत्वं च वाक्यस्य पक्षान्तरं कल्पयिष्यत इति मन्यते, अत आक्षेप इत्यर्थः ।

लक्षणां वक्तुं मुख्यार्थायोगमाह —

अध्यात्मेत्यादिना ।

अन्यौ पातारौ पक्षिणौ न शक्यौ कल्पयितुं चेत्, तर्हि बुद्धिजीवौ जीवपरौ स्तः, नेत्याह —

बुद्धेरित्यादिना ।

सृष्टीरुपदधातीति समाम्नाय ‘‘एकयास्तुवत प्रजा अधीयन्त प्रजापतिरधिपतिरासीत्तिसृभिरस्तुवत ब्रह्मासृजते’’त्यादयः सृष्ट्यसृष्टिमन्त्रा आम्नाताः, तत्र सृष्टीरुपदधातीति यदि सृष्टिमन्त्रकेष्टकानामुपधाने विधानं, तहीर्ष्टकासु सृष्ट्यसृष्टिमन्त्रकत्वविशेषस्याद्याप्यनवगमात्सर्वा एव सृष्टिमन्त्रकाः, तत्र सृष्टिपदरहितमन्त्राणामानर्थक्यं स्यात्, तन्मा भूदिति सृष्टिशब्दः सृष्ट्यसृष्टिसमुदायं लक्षयित्वा तत्समुदायिनः सर्वान्मन्त्रान् लक्षयति । एवमत्रापि पिबच्छब्दः स्वार्थस्यापिबत्संसृष्टतां पिबदपिबत्समुदायमिति यावन्तं लक्षयन्त्स्वार्थं पिबन्तमजहदितरेतरयोगलक्षणं समुदायं प्रति समुदायीभूतपिबदपिबत्परो भवति, न पिबत्येव वर्तते, नापि लक्षयन् गङ्गाशब्दवत्स्वार्थं त्यजेदित्यर्थः॥

अस्तु वेति ।

प्रत्ययस्य मुख्यत्वं , प्रकृतिस्तु पिबतिः सृष्टिन्यायेन पायनं लक्षयतीत्यर्थः ।

बुद्धिक्षेत्रज्ञपक्षे तु बुद्धौ प्रकृतिर्मुख्या प्रत्ययस्तु बुद्धिजीवगतं कर्तृकरणसाधारणकारकत्वमात्रं लक्षयतीत्याह —

एवमिति ।

अत्र पूर्वोत्तरपक्षयोर्लक्षणासाम्यात् संशयः । पूर्वत्र ब्रह्मक्षत्रशब्दस्य सन्निहितमृत्युपदानुसारेणानित्यवस्तुपरत्ववदिहापि पिबच्छब्दस्य सन्निहितगुहाप्रविष्टादिपदानुसाराद्बुद्धिक्षेत्रज्ञपरत्वमित्याह –  नियतेति ।

अस्य जीवस्य , या द्वितीयता द्वित्वाधारता सा ब्रह्मणैव , तद्धि चेतनत्वात्सरूपं , न तु बुद्व्या; तस्या अचेतनत्वेन विसदृशत्वादित्याह —

ऋतपानेनेति ।

ननु सन्निहितगुहाप्रविष्टपदाद्बुद्धिर्द्वितीया किं न स्यादत आह —

प्रथममिति ।

वचनविरोधे इति ।

अत्तीत्यस्य मुख्यकर्तृत्वसंभवे करणे कर्तृत्वोपचारो न युक्त इति न्यायस्य बुद्धिजीवपरत्वेन मन्त्रव्याख्यायकब्राह्मणविरोधे आभासत्वमित्यर्थः॥

आध्वंसते आगच्छति ।

चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां वक्ष्यामीति श्रुतिः प्रवृत्तेति भाष्यमुपपादयन्मन्त्रार्थमाह —

अनश्नन्निति ।

बुद्धेरन्यो यो जीवः सोऽनश्नन्नभोक्तृ ब्रह्म सन्नभिपश्यतीत्यर्थः ।

अस्मिन्स्वोक्तेऽर्थे स्वयमेव श्रुतिरनुपपत्तिं शङ्कते, तामाह —

यदीति ।

चितेः छाया चित्प्रतिबिम्बं तदापत्त्येति॥ सुकृतस्य कर्मणः, ऋतं सत्यमवश्यंभावित्वात्फलं, पिबन्ताविति संबन्धः । लोके शरीरे । गुहां गुहायां बुद्धौ । परमे बाह्याकाशापेक्षया प्रकृष्टे हार्दे नभसि परस्य ब्रह्मणोऽर्धे स्थाने, त्रिर्नाचिकेतोऽग्निश्चितो यैस्ते तथोक्ताः ।

तं दुर्दर्शमिति ।

गूढं छन्नं यथा भवति तथाऽनुप्रविष्टम् । क्वेत्यत आह — गुहाहितं बुद्धौ स्थितं, गह्वरे अनेकानर्थसंकटे तिष्ठतीति तथोक्तः । पुराणं चिरन्तनं विषयाद्व्यावर्त्यात्मनि मनसो योजनमध्यात्मयोगः, तस्याधिगमेन प्राप्त्या, मत्वा साक्षात्कृत्य ।

मुण्डके —

द्वा सुपर्णेति ।

द्वौ सुपर्णसाम्यात्सुपर्णौ सयुजौ सर्वदा सहयुक्तौ, सखायौ समानाख्यानौ, स्वप्रकाशरूपत्वात्, समानमेकम्, उच्छेद्यत्वात् वृक्षं शरीरं परिष्वक्तवन्तौ । अन्यः एकः, पिप्पलं कर्मफलं; संसारस्याश्वत्थत्वेन रूपितत्वात् । समाने वृक्ष इति — न कस्यचित्समर्थोऽहं दीन इति संभावनाऽनीशा, जुष्टम् अनेकैर्योगमार्गैः सेवितम् । अन्यं प्रपञ्चविलक्षणम् । ईशं यदा पश्यति प्रपञ्चं च महिमानं विभूतिं मायामयीम्, अस्यैवेति यदा पश्यति तदा वीतशोको भवति॥ इति तृतीयं गुहाधिकरणम्॥