भामतीव्याख्या
वेदान्तकल्पतरुः
 

अत्ता चराचरग्रहणात् ।

कठवल्लीषु पठ्यते - यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स इति ।

अत्र चादनीयौदानोपसेचनसूचितः कश्चिदत्ता प्रतीयते । अत्तृत्वं च भोक्तृता वा संहर्तृता वा स्यात् । नच प्रस्तुतस्य परमात्मनो भोक्तृतास्ति, “अनश्रन्नन्योऽभिचाकशीति”(मु. उ. ३ । १ । १) इति श्रुत्या भोक्तृताप्रतिषेधात् । जीवात्मनश्च भोक्तृताविधानात् “तयोरन्यः पिप्पलं स्वाद्वत्ति”(मु. उ. ३ । १ । १) इति । तद्यदि भोक्तृत्वमत्तृत्वं ततो मुक्तसंशयं जीवात्मैव प्रतिपत्तव्यः । ब्रह्मक्षत्रादि चास्य कार्यकारणसङ्घातो भोगायतनतया वा साक्षाद्वा सम्भवति भोग्यम् । अथ तु संहर्तृता भोक्तृता, ततस्त्रयाणामग्निजीवपरमात्मनां प्रश्नोपन्यासोपलब्धेः संहर्तृत्वस्याविशेषाद्भवति संशयः - किमत्ता अग्निराहो जीव उताहो परमात्मेति । तत्रौदनस्य भोग्यत्वेन लोके प्रसिद्धेर्भोक्तृत्वमेव प्रथमं बुद्धौ विपरिवर्तते, चरमं तु संहर्तृत्वमिति भोक्तैवात्ता । तथा च जीव एव । “न जायते म्रियते”(क. उ. १ । २ । १८) इति च तस्यैव स्तुतिः । यदि तु संहारकालेऽपि संस्कारमात्रेण तस्यावस्थानात् । दुर्ज्ञानत्वं च तस्य सूक्ष्मत्वात् । तस्माज्जीव एवात्तेहोपास्यत इति प्राप्तम् । यदि तु संहर्तृत्वमत्तृत्वं तथाप्यग्निरत्ता, “अग्निरन्नादः”(बृ. उ. १ । ४ । ६) इति श्रुतिप्रसिद्धिभ्याम् । एवं प्राप्तेभिधीयतेअत्तात्र परमात्मा, कुतः, चराचरग्रहणात् । “उभे यस्योदनः” इति “मृत्युर्यस्योपसेचनम्”(क. उ. १ । २ । २५) इति च श्रूयते । तत्र यदि जीवस्य भोगायतनतया तत्साधनतया च कार्यकारणसङ्घातः स्थितः, न तर्ह्येदनः । नह्योदनो भोगायतनं, नापि भोगसाधनं, अपि तु भोग्यः । नच भोगायतनस्य भोगसाधनस्य वा भोग्यत्वं मुख्यम् । न चात्र मृत्युरुपसेचनतया कल्प्यते । नच जीवस्य कार्यकारणसङ्घातो ब्रह्मक्षत्रादिरूपो भक्ष्यः, कस्यचित्क्रूरसत्त्वस्य व्याघ्रादेः कश्चिद्भवेत् न तु सर्वथा सर्वजीवस्य । तेन ब्रह्मक्षत्रविषयमपि सर्वजीवस्यात्तृत्वं न व्याप्नोति, किमङ्ग पुनर्मृत्यूपसेचनव्याप्तं चराचरम् । न चौदनपदात्प्रथमावगतभोग्यत्वानुरोधेन यथासम्भवमत्तृत्वं योज्यत इति युक्तम् । नह्योदनपदं श्रुत्या भोग्यत्वमाह, किन्तु लक्षणया । नच लाक्षणिकभोग्यत्वानुरोधेन “मृत्युर्यस्योपसेचनम्”(क. उ. १ । २ । २५) इति, “ब्रह्म च क्षत्रं च” इति च श्रुती सङ्कोचमर्हतः । नच ब्रह्मक्षत्रे एवात्र विवक्षिते, मृत्यूपसेचनेन प्राणभृन्मात्रोपस्थापनात् । प्राणिषु प्रधानत्वेन च ब्रह्मक्षत्रोपन्यासस्योपपत्तेः, अन्यनिवृत्तेरशाब्दत् , वातनर्थत्वाच्च । तथाच चराचरसंहर्तृत्वं परमात्मन एव । नाग्नेः । नापि जीवस्य । तथाच “न जायते म्रियते वा विपश्चित्”(क. उ. १ । २ । १८) इति ब्रह्मणः प्रकृतस्य न हानं भविष्यति । “क इत्था वेद यत्र सः”(क. उ. १ । २ । २५) इति च दुर्ज्ञानतोपपत्स्यते । जीवस्य तु सर्वलोकप्रसिद्धस्य न दुर्ज्ञानता । तस्मादत्ता परमात्मैवेति सिद्धम् ॥ ९ ॥ ॥ १० ॥

अत्ता चराचरग्रहणात्॥१॥ यस्य मृत्युरुपसेचनमोदनमिश्रघृतवद् । तं नाविरतो दुश्चरितादिति पूर्वमन्त्रप्रकाशितोपायवान्यथा वेद इत्थमन्यस्तद्रहितः  को वेद । यत्र सोऽत्ता कारणरूपो वर्तते तं निर्विशेषमात्मनं को वेदेत्यर्थः । पूर्वाधिकरणान्ते परमेश्वरस्याभोक्तृतोक्तेरिह न सोऽत्तेति सङ्गतिः । विषयवाक्ये अत्तुरश्रवणादत्तेति सूत्रायोगमाशङ्क्याह —

अत्रचेति ।

भोक्तृत्वलक्षणमत्तृत्वं नाग्निपरमात्मसाधारणम्, कथं संशय इत्याशङ्क्याह —

अत्तृत्वं चेति ।

यदा भोक्तृत्वमत्तृत्वम्, तदा न परमात्मशङ्केत्याह —

न च प्रस्तुतस्येति ।

तयोरन्य इति ।

जीवात्मनो भोक्तृत्वप्रतिपादनाच्च न परमात्मशङ्केत्यर्थः ।

फलितमाह —

तद्यदीति ।

ब्रह्मक्षत्रादिनिर्देशाद्भोक्तृत्वमत्तुरिह न निश्चितमपि तु जीवपूर्वपक्षवादिना प्रसाध्यमित्यर्थो यदिकारः ।

ननु जीवस्य कथं ब्रह्मक्षत्रादिभोक्तृत्वं पूर्वपक्षिणा साध्यमत आह —

ब्रह्मक्षत्रादि चेति ।

स्वशरीरं भोगायतनम् । छागादि कस्य चिद्भोग्यम् ।

यदि न भोक्तृत्वात्संशयः? कुतस्तर्ह्यत आह —

अथत्विति ।

अतएव पूर्वं मुक्तसंशयमित्युक्तम् । अत्र च भवति संशय इति उक्तम् ।

भोक्तृतेति ।  अत्तृतेत्यर्थः ; वनितादिषु भोक्तृत्वेऽपि संहर्तृत्वाभावात्, अत्तृत्वस्य भोक्तृत्वात्मत्वप्रसाधनेन पूर्वपक्षमुपपादयति —

अत्रौदनस्येत्यादिना॥

ओदनस्य भोग्यत्वात्प्रथमं भोक्तृत्वप्रतीतिरित्यत्र संबभ्राम भारतीविलासः — न हि मुख्य ओदनो ब्रह्मक्षत्रे, न चोपचरितौदनाद्भोक्तृत्वप्रतीतिः । यदाह — उपमैव तिरोभूतभेदा रूपकमिष्यते । अलङ्कारो रूपकाख्यः कठवल्लीकवेरयम्॥ इति॥ अत्रोच्यते — ओदनभोक्तर्यनोदनयोर्ब्रह्मक्षत्रयोरोदनत्वेन रूपकमवकल्पते । यथा ’’यस्य मृगयाविनोदे मृगाः परनरपतय’’ इत्युक्ते क्षत्रिय एव प्रतीयते, न श्रोत्रियः कश्चिद् ब्राह्मण एवमिहेति ।

ननु प्रलये जीवनाशात्कथमजत्वमत आह —

संहारेति ।

संस्कार उपलक्षणमविद्यायाः ।

अविक्रियस्य परमात्मनः संहर्तृत्वायोगात् अग्निरेव संहृतेत्याह —

यदित्विति ।

तवापि भाक्त ओदनशब्दः, स ममापीत्याह —

न तर्हीति ।

कस्तर्ह्योदनस्तत्राह —

अपित्विति ।

ओदन इत्यनुषङ्गः ।

अपिचौदनशब्दस्य लाक्षणिकस्य सन्निहितमृत्यूपसेचनपदानुसारेणौदनगतविनाशित्वधर्मलक्षणार्थत्वाद्ब्रह्मक्षत्रोपलक्षितजगद्विनाशकर्तेश्वरः प्रतीयते, न जीव इत्याह —

न चेत्यादिना ।

यदवाद्योदनपदात् प्रथमं भोक्ता भातीति, अत्राह —

न चौदनपदादित्यादिना ।

ओदनपदस्य भक्तवाचिनो भोग्यमात्रपरत्वेन तवापि जघन्यवृत्त्याऽऽश्रवणात्तद्बलाद् ब्रह्मक्षत्रमृत्युश्रुतीनां न सङ्कोच इत्यर्थः ।

यदि मृत्युपदाद्विनाशिवस्तुविवक्षा, कथं तर्हि ब्रह्मक्षत्रग्रहणमत आह —

प्राणिष्विति ।

ननु ब्रह्मक्षत्राभ्यामितरव्यावृत्त्यर्थत्वं वाक्यस्य किं न स्यादत आह —

अन्यनिवृत्तेरिति ।

पञ्चपञ्चनखादौ हि मनुष्यादिनिवृत्तिः परिसंख्याफलम् । तया चानर्थनिवृत्तिः । इहान्यनिवृत्तिरनर्थिका; पुरुषार्थविशेषानवगमादित्यर्थः । मायोपाधेः परस्यास्ति संहर्तृत्वमित्याह –  तथाचेति इति द्वितीयमत्त्रधिकरणम्॥