भामतीव्याख्या
वेदान्तकल्पतरुः
 

ज्योतिर्दर्शनात् ।

अत्र हि ज्योतिःशब्दस्य तेजसि मुख्यत्वात् , ब्रह्मणि जघन्यत्वात् , प्रकरणाच्च श्रुतेर्बलीयस्त्वात् , पूर्ववच्छ्रुतिसङ्कोचस्य चात्राभावात् , प्रत्युत ब्रह्मज्योतिःपक्षे क्त्वाश्रुतेः पूर्वकालार्थायाः पीडनप्रसङ्गात् , समुत्थानश्रुतेश्च तेज एव ज्योतिः । तथाहि - समुत्थानमुद्गमनमुच्यते, न तु विवेकविज्ञानम् । उद्गमनं च तेजःपक्षेऽर्चिरादिमार्गेणोपपद्यते । आदित्यश्चार्चिराद्यपेक्षया परं ज्योतिर्भवतीति तदुपसम्पद्य तस्य समीपे भूत्वा स्वेन रूपेणाभिनिष्पद्यते, कार्यब्रह्मलोकप्राप्तौ क्रमेण मुच्यते । ब्रह्मज्योतिःपक्षे तु ब्रह्म भूत्वा का परा स्वरूपनिष्पत्तिः । नच देहादिविविक्तब्रह्मस्वरूपसाक्षात्कारो वृत्तिरूपोऽभिनिष्पत्तिः । सा हि ब्रह्मभूयात्प्राचीना न तु पराचीना । सेयमुपसम्पद्येति क्त्वाश्रुतेः पीडा । तस्मात्तिसृभिः श्रुतिभिः प्रकरणबाधनात्तेज एवात्र ज्योतिरिति प्राप्तम् ।

एवं प्राप्तेऽभिधीयते -

परमेव ब्रह्म ज्योतिःशब्दम् । कस्मात् । दर्शनात् । तस्य हीह प्रकरणे अनुवृत्तिर्दृश्यते ।

यत्खलु प्रतिज्ञायते, यच्च मध्ये परामृश्यते, यच्चोपसंह्रियते, स एव प्रधानं प्रकरणार्थः । तदन्तःपातिनस्तु सर्वे तदनुगुणतया नेतव्याः, नतु श्रुत्यनुरोधमात्रेण प्रकरणादपक्रष्टव्या इति हि लोकस्थितिः । अन्यथोपांशुयाजवाक्ये जामितादोषोपक्रमे तत्प्रतिसमाधानोपसंहारे च तदन्तःपातिनो “विष्णुरुपांशु यष्टव्यः” इत्यादयो विधिश्रुत्यनुरोधेन पृथग्विधयः प्रसज्येरन् । तत्किमिदानीं “तिस्र एव साह्नस्योपसदः कार्या द्वादशाहीनस्य” इति प्रकरणानुरोधात्सामुदायप्रसिद्धिबललब्धमहर्गणाभिधानं परित्यज्याहीनशब्दः कथमप्यवयवव्युत्पत्त्या सान्नं ज्योतिष्टोममभिधाय तत्रैव द्वादशोपसत्तां विधत्ताम् । स हि कृत्स्नविधानान्न कुतश्चिदपि हीयते क्रतोरित्यहीनः शक्यो वक्तुम् । मैवम् । अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीति श्रुत्या प्रकरणबाधनान्न द्वादशोपसत्तामहीनगुणयुक्ते ज्योतिष्टोमे शक्नोति विधातुम् । नाप्यतोऽपकृष्टं सदहर्गणस्य विधत्ते । परप्रकरणेऽन्यधर्मविधेरन्याय्यत्वात् । असम्बद्धपदव्यवायविच्छिन्नस्य प्रकरणस्य पुनरनुसन्धानक्लेशात् । तेनानपकृष्टेनैव द्वादशाहीनस्येतिवाक्येन साह्नस्य तिस्र उसपदः कार्या इति विधिं स्तोतुं द्वादशाहविहिता द्वादशोपसत्ता तत्प्रकृतित्वेन च सर्वाहीनेषु प्राप्ता निवीतादिवदनूद्यते । तस्मादहीनश्रुत्या प्रकरणबाधेऽपि न द्वादशाहीनस्येति वाक्यस्य प्रकरणादपकर्षः । ज्योतिष्टोमप्रकरणाम्नातस्य पूषाद्यनुमन्त्रणमन्त्रस्य यल्लिङ्गबलात्प्रकरणबाधेनापकर्षस्तदगत्या । पौष्णादौ च कर्मणि तस्यार्थवत्त्वात् । इह त्वपकृष्टस्यार्चिरादिमार्गोपदेशे फलस्योपायमार्गप्रतिपादकेऽतिविशदे “एष सम्प्रसादः”(छा. उ. ८ । ३ । ४) इति वाक्यस्याविशदैकदेशमात्रप्रतिपादकस्य निष्प्रयोजनत्वात् । नच द्वादशाहीनस्येतिवद्यथोक्तात्मध्यानसाधनानुष्ठानं स्तोतुमेष सम्प्रसाद इति वचनमर्चिरादिमार्गमनुवदतीति युक्तम् , स्तुतिलक्षणायां स्वाभिधेयसंसर्गतात्पर्यपरित्यागप्रसङ्गात् द्वादशाहीनस्येति तु वाक्ये स्वार्थसंसर्गतात्पर्ये प्रकरणविच्छेदस्य प्राप्तानुवदमात्रस्य चाप्रयोजनत्वमिति स्तुत्यर्थो लक्ष्यते । न चैतद्दोषभयात्समुदायप्रसिद्धिमुल्लङ्घयावयवप्रसिद्धिमुपाश्रित्य साह्नस्यैव द्वादशोपसत्तां विधातुमर्हति, त्रित्वद्वादशत्वयोर्विकल्पप्रसङ्गात् । नच सत्यां गतौ विकल्पो न्याय्यः । साह्नाहीनपदयोश्च प्रकृतज्योतिष्टोमाभिधायिनोरानर्थक्यप्रसङ्गात् । प्रकरणादेव तदवगतेः । इह तु स्वार्थसंसर्गतात्पर्ये नोक्तदोषप्रसङ्ग इति पौर्वापर्यालोचनया प्रकरणानुरोधाद्रूढिमपि पूर्वकालतामपि परित्यज्य प्रकरणानुगुण्येन ज्योतिः परं ब्रह्म प्रतीयते । यत्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति । नासावात्यन्तिको मोक्षः, किन्तु कार्यब्रह्मलोकप्राप्तिः । नच क्रममुक्त्यभिप्रायं स्वेन रूपेणाभिनिष्पद्यत इति वचनम् । नह्येतत्प्रकरणोक्तब्रह्मतत्त्वविदुषो गत्युत्क्रान्ती स्तः । तथा च श्रुतिः - “न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समनीयन्ते” (बृ. उ. ४ । ४ । ६) इति । नच तद्द्वारेण क्रममुक्तिः । अर्चिरादिमार्गस्य हि कार्यब्रह्मलोकप्रापकत्वं न तु ब्रह्मभूयहेतुभावः । जीवस्य तु निरूपाधिनित्यशुद्धबुद्धब्रह्मभावसाक्षात्कारहेतुके मोक्षे कृतमर्चिरादिमार्गेण कार्यब्रह्मलोकप्राप्त्या । अत्रापि ब्रह्मविदस्तदुपपत्तेः । तस्मान्न ज्योतिरादित्यमुपसम्पद्य सम्प्रसादस्य जीवस्य स्वेन रूपेण पारमार्थिकेन ब्रह्मणाभिनिष्पत्तिराञ्जसीति श्रुतेरत्रापि क्लेशः । अपिच परं ज्योतिः स उत्तमपुरुष इतीहैवोपरिष्टाद्विशेषणात्तेजसो व्यावर्त्य पुरुषविषयत्वेनावस्थापनाज्ज्योतिःपदस्य, परमेव ब्रह्म ज्योतिः न तु तेज इति सिद्धम् ॥ ४० ॥

ज्योतिदर्शनात् ॥४०॥ ज्योतिरादित्यो ब्रह्म वेति ज्योतिश्श्रुतेः परश्रुतेश्च संशयः। ननु ज्योतिषां ज्योतिरिति ब्रह्मापि ज्योतिःशब्दमतः कथमादित्य इति पूर्वपक्षस्तत्राह –

अत्रेति ।

प्रकरणात्प्राणशब्दं ब्रह्मेति यथोक्तं तथा ज्योतिरप्यस्तु, तत्राह –

पूर्वमिति ।

तत्र हि सर्वशब्दश्रुतिसंकोचोऽस्ति, न त्विह। परमिति तु श्रुतिर्विशेषणार्थेति न प्रधानार्थज्योतिःश्रुतेर्बाधिकेत्यर्थः। अत एव सङ्गतिः। समुत्थानश्रुतेश्च पीडनप्रसङ्गादित्यनुषङ्गः।

ननु समुत्थानं विवेक इति दहराधिकरणे ( ब्र.अ.१.पा.३.सू.१४) व्याख्यातमत आह –

तथा हीति ।

अप्रसिद्धेरित्यर्थः। परमिति विशेषणमादित्यस्यार्चिषः परत्वादित्यर्थः। आदित्यस्य समीपे ब्रह्मलोके स्थित्वा तत्रोत्पन्नज्ञानान्मुच्यते इत्यर्थः।

एवमादित्ये वाक्या ऽऽ ञ्जस्यमुक्त्वा ब्रह्मपक्षे क्त्वाश्रुतिपीडामुक्तां प्रपञ्चयति –

ब्रह्मज्योतिरिति ।

शरीरात्समुत्थायेति वाक्ये ज्योतिः प्राप्यावस्थितेऽस्य स्वरूपनिष्पत्तिरुच्यते, सा ब्रह्मज्योतिर्वादिनो न स्याद्; ब्रह्मण एव स्वरूपत्वात्, स्वरूपं प्राप्य स्वरूपं प्राप्नोतीति सङ्गतिप्रसङ्गादित्यर्थः।

नन्वभिनिष्पत्तिः साक्षात्कार इत्यत आह –

न चेति ।

साक्षात्काररूपाभिनिष्पत्तिर्ज्योतीरूपसंपत्तेः प्राप्तेः पूर्वा सती परत्वेन न वक्तव्या। या च मुखं व्यादाय स्वपितीतिवद्व्यत्यययोजना दहराधिकरणे कृता सा क्लिष्टेत्यर्थः। न चोपसंपत्तिरेव साक्षात्कारः; उत्कर्षवाचिपरशब्दयोगादुपसंपत्तेरेव प्राप्तित्वावगमादिति। ज्योतिरिति समुत्थाथेत्युपसंपद्येति तिसृभिः श्रुतिभिर्य आत्मेति प्रकरणबाधः। अनेन विपक्षे श्रुतिसंकोचान्नाडीखण्डप्रस्तुतादित्यप्ररकरणाच्च तेजो ज्योतिरिति पूर्वाधिकरणसिद्धान्तेन प्रत्यवस्थानात् संगतिरपि ध्वनिता।

उपक्रममध्योपसंहारैकरूप्यान्निर्णीते आत्मनि ज्योतिरादिश्रुतयस्तदनुरोधेन नेतव्या इत्याह –

यत्खल्विति ।

अत्र हि य आत्मेत्यात्मा प्रतिज्ञात एतं त्वेव त इति परामृष्टः स उत्तमः पुरुष इत्युपसंहृतः।

प्रकरणमनुरुध्य श्रुतिभङ्गेऽधिकरणविरोधं शङ्कते –

तदिति ।

ज्योतिष्टोमे श्रूयते –

तिस्र एवेत्यादि ।

उपसद इष्टिविशेषाः, तन्त्रित्वं ज्योतिष्टोमस्यैव, द्वादशत्वं तु साहस्योताऽहीनस्येति चिन्ता। साह एकाहत्वाद् ज्योतिष्टोमः, अहीनोऽहर्गणसाध्यत्वाद् द्वादशाहादिः; अहः खः क्रतुसमूह इति स्मृतेः, खस्येनादेशात्।

अत्रत्यं पूर्वपक्षं प्रस्तुतेऽतिप्रसङ्गप्रदर्शनार्थमाह –

प्रकरणेति ।

अहीनश्रुतिरहर्गणे रूढा। भगवास्तु पाणिनिः स्वरार्थं प्रत्ययमनुशशास। सा ज्योतिःश्रुतिरिव ब्रह्मप्रकरणरुद्धा साहमभिदधीत, तत्रैव च द्वादशोपसत्तां विदधीत। तत्किं विधत्ताम्। अयुक्तं हि विधातुमुत्कर्षस्य सिद्धान्तितत्वादित्यर्थः।

अवयवव्युत्पत्त्येत्युक्तम्, तामाह –

स हीति ।

सर्वप्रकृतित्वेन हीयते कुतश्रिन्न कृत्स्नाङ्गविधानात्, न न्यूनो ज्योतिष्टोम इत्यर्थः। अहीनशब्दस्यागर्हणे रूढत्वान्न दुर्बलावयवप्रसिद्ध्या साह्नवाचिताऽतश्च द्वादशत्वस्य न साह्ने निवेश इति द्वादशाहादावुत्कर्ष इति यथाभाष्यं सिद्धान्तः।

अत्र वार्तिककारपादसंमतं सिद्धान्तमादर्श्य विरोधं परिजिहीर्षुर्यथास्थितसिद्धान्तमध्ये एकदेशमनुजानाति –

अवयवेति ।

द्वादशोपसत्तायाः प्रकरणे विधानाभावेऽपि द्वादशाहीनस्येति वाक्यस्य न प्रकरणादुत्कर्ष इत्याह –

नापीति ।

प्रतिज्ञाद्वयमिदम्। इतः प्रकरणादिदं वाक्यं नापकृष्येतापकृष्टं च सदहर्गणे द्वादशोपसत्तां न विधत्त इति।

तत्राद्यां प्रतिज्ञामुपपादयति –

परेति ।

यदि विधिपरं सदिदं वाक्यमकृष्येत, ततोऽहीनधर्मं ज्योतिष्टोमप्रकरणे विधत्त इति स्यात्, तच्चान्यायम्; कुतः? इत्यत आह –

असंबद्धेति ।

मध्ये प्रकृतासंगतविधाने तत्पदैः प्रकरणं विच्छिद्येत। पुनस्तदुद्धारेणानुसन्धाने सति क्लेशः स्यादिति।

यदि नापकर्षो वाक्यस्य, किं तर्हि प्रयोजनमत आह –

तेनेति ।

द्वाशोपसद इति वाक्येन द्वादशाहप्रकरणे विहिता द्वादशोपसत्ता तद्विकृतिषु अतिदेशप्राप्ताऽनेन वाक्येन ज्योतिष्टोमेऽनूद्यते त्रित्वविधिमौचित्येन स्तोतुम्। अहीनो हि महाँस्तस्य द्वादश साह्नस्तु शिशुस्तस्य तिस्र इत्यर्थः। अनेन द्वितीयाऽपि प्रतिज्ञा समर्थिता प्राप्तत्वान्न विधिरिति॥

निवीतादिवदिति ।

‘‘निवीतं मनुष्याणां प्राचीनावीतं पितॄणामुपवीतं देवानामि’’ति दर्शपूर्णमासयोराम्नायते। तत्रोपवीतं विधीयते एव। इतरयोस्तु विधिरुतार्थवाद इति संशये सत्यपूर्वार्थलाभाद् मनुष्यशब्दस्य च मनुष्यप्राधान्याभिधायित्वात्तत्प्रधाने आतिथ्ये कर्मणि निव्यातव्यं पित्र्ये च प्राचीनमाव्यातव्यम् इति पूर्वपक्षे राद्धान्तः। प्राप्तं हि मनुष्याणां क्रियासु सौकर्याय कण्ठालम्बिवस्त्रधारणं देहार्धे बन्धनं वा निवीतम्। प्राप्तं प्राचीनावीतं वचनान्तरेण पितृयज्ञे। तदनुवादेन निवीतमित्यादिरर्थवाद उपवीतं स्तोतुमिति।

ननु यदि द्वादशोपसत्तावाक्यस्य प्रकरणादनुत्कर्षः कथं तर्हि जैमिनिरपकृष्येतेत्युत्कर्षमाहात आह –

तस्मादिति ।

द्वादशोपसत्तायाः प्रकरणेऽङ्गत्वेन निवेशाभावाभिप्रायोऽपकर्षशब्द इत्यर्थः। ज्योतिष्टोमप्रकरणाम्नातवाक्यस्य नापकर्ष इत्यधस्तादन्वयः। तदेवं द्वादशोपसत्तावाक्यस्य प्रकरणनिवेशसमर्थनेन प्रतिबन्दी निरस्ता।

ननु तर्हि पूष्णोऽहं देवयज्यया प्रजया च पशुभिरभिजनिषीयेत्यादीनाम् इष्टदेवतानामस्मरणाख्यानुमन्त्रणार्थमन्त्राणां दर्शपूर्णमासप्रकरणात् नोत्कर्षः स्यात्तत्राह –

पूषादीति ।

दर्शपौर्णमासिकाग्न्यादिदेवतानुमन्त्रणमन्त्रनिरन्तरपाठात् पूषादिमन्त्राणां नाग्नेयादिविधिभिरर्थवादत्वेन समभिव्याहारावगतिः।

तदिदमुक्तम् –

अगत्येति ।

यत्र निनीष्यन्ते तत्रान्यतो न प्राप्तिरित्याह –

पौष्णादौ चेति ।

अस्तु तर्हि ज्योतिर्वाक्येष्वपि श्रुतिवशादादित्यवादिनो निर्गुणप्रकरणानुपयोगादर्चिरादिमार्गे च सोपयोगत्वादुत्कर्षस्तत्राह –

इह त्विति ।

तुशब्दो नेत्यर्थे। इह ज्योतिर्वाक्ये नोत्कर्षः इत्यर्थः।

हेतुमाह –

अपकृष्टस्येति ।

फलस्य ब्राह्मलौकिकभोगस्योपायो मार्गस्तत्प्रतिपादकः अर्चिरादिमार्गोपदेशः तेऽर्चिषमभिसंभवन्तीत्यादिरतिविशदः। मार्गपर्वत्वेनादित्यस्तत्र स्वशब्दोपात्तः संवत्सरादित्यमिति। ज्योतिर्वाक्ये तु ज्योतिः शब्दमात्रं श्रुतं न मार्गोऽतश्चाविशदमिदमेकदेशमादित्यं वदद्वदेत्ततश्चास्य संपूर्णमार्गोपदेशकेऽर्चिराद्युपदेशेनोत्कर्षः; निष्प्रयोजनत्वादित्यर्थः।

ननु यद्यर्चिरादिमार्गे प्राप्त आदित्यस्तर्हि मैवं ज्योतिर्वाक्यं पूषादिमन्त्रवदुत्कर्षि, एकदेशाभिधानेन त्वर्चिरादिमार्गं निर्गुणप्रकरणेऽनुवदद् ब्रह्मध्यानं स्तोतुं सायासोऽर्चिरादिपथः, इदं तु निरायासमितीत्यत आह –

न च द्वादशेति ।

अस्तु तर्हि द्वादशत्ववाक्येऽपि श्रौतार्थसंसर्गपरत्वलोभेन विधित्वमिति चेत्तत्र वक्तव्यम्। किमहीनशब्दे रूढिमभङ्क्त्वा वाक्यं श्रौतार्थमाश्रीयेतोत भङ्क्त्वा।

नाद्य इत्याह –

द्वादशेति ।

अहीनधर्मस्येह विधौ प्रकरणं विच्छिद्येत विच्छेदस्य चायुक्तत्वं द्वादशाहादौ च प्राप्तद्वादशोपसत्तानुवादस्य च निष्प्रयोजनत्वादित्यर्थः।

न द्वितीय इत्याह –

न चैतदिति ।

उपसदोऽवच्छेत्तुं विंशतेस्त्रित्वद्वादशयोर्विकल्पापत इत्यर्थः। समुच्चये पञ्चदशोपसत्तापातस्तिस्र एवेत्येवकारविरोधश्चेति।

अपि च तिस्र उपसदो द्वादशेत्येतावताऽलम्, यद्युभयोः संख्ययोः प्रकरणे निवेशः, वृथा साह्नाहीनशब्दौ, प्रकरणादेव संख्ययोर्ज्योतिष्टोमसंबन्धसिद्धेरित्याह –

साह्नेति ।

यदा त्वहीनशब्दोऽहर्गणवाची, तदा स तावदवश्यं प्रयोक्तव्यस्ततस्तिस्र इत्येवोच्यमाने त्रित्वमप्यानन्तर्यादहीने स्यात्। तन्निवृत्तये साह्नशब्दोऽप्यर्थवानिति भावः।

ज्योतिर्वाक्ये तु मुख्यार्थेन प्रकरणविच्छेदादिरित्याह –

इह त्विति ।

प्रकरणात् श्रुतेर्बलवत्त्वेऽप्यानर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायात् ज्योतिश्श्रुतेश्च मुख्यार्थत्वे आनर्थक्यस्योक्तत्वात्। प्रकरणानुगुण्येन ज्योतिः परं ब्रह्मेत्यर्थः।

नन्वादित्यस्येत्यप्यस्ति प्रकरणम्; ‘स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छती’ति प्रस्तावादित्युक्तमनुवदिति –

यत्त्विति ।

परिहरति –

नेति ।

दहरविद्याफलं ब्रह्मलोकावाप्तिरादित्यद्वारा उक्ता। इदं तु य आत्माऽपहतपाप्मेत्यादिनिर्गुणप्रकरणमित्यर्थः। दहरविद्या च नाडीखण्डात्पूर्वं प्रस्तुतेति न प्रकरणोत्कर्षशङ्का। नन्वात्यन्तिकमोक्षोऽपि ब्रह्मलोकद्वारा प्राप्यतामिति, तत्र वक्तव्यम् - किं मोक्षस्य गतिपूर्वकानाप्यतत्वमङ्गीकृत्यैतद्वाक्यं क्रममुक्तिपरमित्यभिमतम्? उत नियमेन गतिपूर्वप्राप्यत्वमिति।

नाद्य इत्याह –

न चेति ।

तस्माद्विद्वच्छरीराद् अत्रैव ब्रह्मणि समवनीयन्ते लीयन्ते।

न द्वितीय इत्याह –

न च तद्द्वारेणेति ।

तच्छब्देन ब्रह्मलोकमाह।

यत्तूपसंपद्येति क्त्वाश्रुत्यनुपपत्तिरिति, तत्राह –

तस्मादिति ।

आदित्यमुपसंपद्येति व्याचक्षाणानां मध्ये ब्रह्मलोकप्राप्तिव्यवायाङ्गीकारेण क्त्वाश्रुत्यनाञ्जस्यं तु तुल्यमित्यर्थः।

तदेवं प्रकरणात् श्रुतिभङ्गमभिधाय श्रुतिवशादप्याह –

अपि चेति ।

न च उत्तमः, पुरुषं प्राप्ता न तु प्राप्यं ज्योतिरिति - वाच्यम्; परत्वेन विशेषितस्य ज्योतिष एवोत्तमत्वेन विशेष्टुं योग्यत्वादिति।

भाष्ये करणादिति ।

द्युसंबन्धप्रत्यभिज्ञातस्य ब्रह्मणो यच्छब्देन परामर्शादित्यर्थः। ‘अथ या एता हृदयस्य नाड्य’ इति नाडीखण्डे। अथ विशेषविज्ञानोपरमानन्तरं, यत्र काले, एतदिति क्रियाविशेषणम्। एतदुत्क्रमणं करोति। अथ तदैतै रश्मिभिरूर्ध्वम् आक्रमते उपरि गच्छतीत्युपक्रम्य आदित्यं गच्छतीति श्रुतम्।।४०॥

इति एकादशं ज्योतिरधिकरणम्॥