भामतीव्याख्या
वेदान्तकल्पतरुः
 
सुषुप्त्युत्क्रान्त्यधिकरणविषयौ

सुषुप्त्युत्क्रान्त्योर्भेदेन ।

'आदिमध्यावसानेषु संसारिप्रतिपादनात् । तत्परे ग्रन्थसन्दर्भे सर्वं तत्रैव योज्यते” ॥ संसार्येव तावदात्माहङ्कारास्पदप्राणादिपरीतः सर्वजनसिद्धः । तमेव च “योऽयं विज्ञानमयः प्राणेषु”(बृ. उ. ४ । ३ । ७) इत्यादिश्रुतिसन्दर्भ आदिमध्यावसानेष्वामृशतीति तदनुवादपरो भवितुमर्हति । एवं च संसार्यात्मैव किञ्चिदपेक्ष्य महान् , संसारस्य चानादित्वेनानादित्वादज उच्यते, न तु तदतिरिक्तः कश्चिदत्र नित्यशुद्धबुद्धमुक्तस्वभावः प्रतिपाद्यः । यत्तु सुषुप्त्युत्क्रान्त्योः प्राज्ञेनात्मना सम्परिष्वक्त इति भेदं मन्यसे, नासौ भेदः किन्त्वयमात्मशब्दः स्वभाववचनः, तेन सुषुप्त्युत्क्रान्त्यवस्थायां विशेषविषयाभावात्सम्पिण्डितप्रज्ञेन प्राज्ञेनात्मना स्वभावेन परिष्वक्तो न किञ्चिद्वेदेत्यभेदेऽपि भेदवदुपचारेण योजनीयम् । यथाहुः - “प्राज्ञः सम्पिण्डितप्रज्ञः” इति । प्रत्यादयश्च शब्दाः संसारिण्येव कार्यकरणसङ्घातात्मकस्य जगतो जीवकर्मार्जिततया तद्भोग्यतया च योजनीयाः । तस्मात्संसार्येवानूद्यते न तु परमात्मा प्रतिपाद्यत इति प्राप्तम् । एवं प्राप्तेऽभिधीयते - सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशादित्यनुवर्तते । अयमभिसन्धिः - किं संसारिणोऽन्यः परमात्मा नास्ति, तस्मात्संसार्यात्मपरं “योऽयं विज्ञानमयः प्राणेषु”(बृ. उ. ४ । ३ । ७) इति वाक्यम् , आहोस्विदिह संसारिव्यतिरेकेण परमात्मनोऽसङ्कीर्तनात्संसारिणश्चादिमध्यावसानेष्ववमर्शनात्संसार्यात्मपरं, न तावत्संसार्यतिरिक्तस्य तस्याभावः । तत्प्रतिपादका हि शतश आगमाः “ईक्षतेर्नाशब्दम्”(ब्र. सू. १ । १ । ५) “गतिसामान्यात्”(ब्र. सू. १ । १ । १०) इत्यादिभिः सूत्रसन्दर्भैरुपपादिताः । न चात्रापि संसार्यतिरिक्तपरमात्मसङ्कीर्तनाभावः, सुषुप्त्युत्क्रान्त्योस्तत्सङ्कीर्तनात् । नच प्राज्ञस्य परमात्मनो जीवाद्भेदेन सङ्कीर्तनं सति सम्भवे राहोः शिर इतिवदौपचारिकं युक्तम् । नच प्राज्ञशब्दः प्रज्ञाप्रकर्षशालिनि निरूढवृत्तिः कथञ्चिदज्ञविषयो व्याख्यातुमुचितः । नच प्रज्ञाप्रकर्षोऽसङ्कुचद्वृत्तिर्विदितसमस्तवेदितव्यात्सर्वविदोऽन्यत्र सम्भवति । न चेत्थम्भूतो जीवात्मा । तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन जीवात्प्राज्ञस्य परमात्मनो व्यपदेशात् “योऽयं विज्ञानमयः”(बृ. उ. ४ । ३ । ७) इत्यादिना जीवात्मानं लोकसिद्धमनूद्य तस्य परमात्मभावोऽनधिगतः प्रतिपाद्यते । नच जीवात्मानुवादमात्रपराण्येतानि वचांसि । अनधिगतार्थावबोधनपरं हि शाब्दं प्रमाणं, न त्वनुवादमात्रनिष्ठं भवितुमर्हति । अत एव च संसारिणः परमात्मभावविधानायादिमध्यावसानेष्वनुवाद्यतयाऽवमर्श उपपद्यते । एवं च महत्त्वं चाजत्वं च सर्वगतस्य नित्यस्यात्मनः सम्भवान्नापेक्षिकं कल्पयिष्यते ।

यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासादिति ।

नानेनावस्थावत्त्वं विवक्ष्यते । अपि त्ववस्थानामुपजनापायधर्मकत्वेन तदतिरिक्तमवस्थारहितं परमात्मानं विवक्षति, उपरितनवाक्यसन्दर्भालोचनादिति ॥ ४२ ॥

पत्यादिशब्देभ्यः ।

सर्वस्य वशी ।

वशः सामर्थ्यं सर्वस्य जगतः प्रभवत्ययम् , व्यूहावस्थानसमर्थ इति । अत एव सर्वस्येशानः, सामर्थ्येन ह्ययमुक्तेन सर्वस्येष्टे, तदिच्छानुविधानाज्जगतः । अत एव सर्वस्याधिपतिः सर्वस्य नियन्ता । अन्तर्यामीति यावत् । किञ्च स एवंभूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयो न साधुना कर्मणा भूयानुत्कृष्टो भवतीत्येवमाद्याः श्रुतयोऽसंसारिणं परमात्मानमेव प्रतिपादयन्ति । तस्माज्जीवात्मानं मानान्तरसिद्धमनूद्य तस्य ब्रह्मभावप्रतिपादनपरो “योऽयं विज्ञानमयः”(बृ. उ. ४ । ३ । ७) इत्यादिवाक्यसन्दर्भ इति सिद्धम् ॥ ४३ ॥

इति श्रीमद्वाचस्पतिमिश्रविरचितशारीरकभगवत्पादभाष्यविभागे भामत्यां प्रथमस्याध्यायस्य तृतीयः पादः ॥ ३ ॥

॥ इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पादः ॥

सुषुप्त्युत्क्रान्त्योर्भेदेन॥४२॥ अत्र विज्ञानमयशब्दादुपसंहारस्थसर्वेशानादिशब्दाच्च विशयः। अङ्गुष्ठमात्र इत्यत्र नोपक्रमोपसंहारौ जीवे, अत्र तु स्त इत्यगतता। पूर्वत्र नामभेदरूपाभ्यां भेदव्यपदेशाकाशं ब्रह्मेत्युक्तं, तत्र भेदव्यपदेशोऽनेकान्तोऽसत्यपि भेदे ‘प्राज्ञेनात्मना संपरिप्वक्त’ इति भेदोपचारदर्शनादित्याशङ्क्याह –

(???)

अत्रापि मुख्यभेदपरत्वसाध्यत्वात्सङ्गतिः ।

पूर्वपक्षमाह –

आदीति ।

आदावन्ते च विज्ञानमयशब्दाद् मध्ये स्वप्नाद्युक्तेः संसारिपरे ग्रन्थे सति ‘महानज’ इत्यादि सर्वं संसारिण्येव योज्यत इत्यर्थः। संपिण्डिता विषयसंबन्धकृतविक्षेपाभावाद् घनीभूता प्रज्ञा यस्य स तथा, संसार्येवानूद्यत इति। अनुवादप्रयोजनं कर्मापेक्षितकर्तृस्तुतिः।

नन्वसिद्धे ईश्वर धर्मिणि भेदव्यपदेशोऽसिद्ध इत्याशङ्क्याह –

अयमभिसंधिरिति ।

द्वितीयं विकल्पं निराचष्टे –

न चात्रेति ।

नन्वात्मशब्दो जीवस्वभाववचन इत्युक्तं, तत्कथं तदतिरिक्तेश्वरव्यपदेशोऽत आह –

न च प्राज्ञस्येति ।

ननु जीवस्यापि शास्त्रादिविषयप्रज्ञाप्रकर्षोऽस्ति, अत आह –

असंकुचद्वृत्तिरिति ।

ननु भेदेन जीवपरव्यपदेशे वाक्यं भिद्येतात आह –

लोकसिद्धमनूद्येति ।

नन्वतिलाघवादनुवाद एव भवतु, नेत्याह –

न त्विति ।

नन्वभ्यासाज्जीवपरत्वं वाक्यस्य, नेत्याह –

अत एवेति ।

यत एवानुवादमात्रमनर्थकमत एव प्राणादिविवेकार्थमुपक्रमे जीववर्णनं स्वप्नेदेर्व्यभिचारित्वादनात्मधर्मत्वार्थं मध्ये निर्देशः। अन्ते च शोधितजीवं परामृश्य तस्य ब्रह्मत्वं बोध्यत इति विवेकः।

उपरितनवाक्यसंदर्भोऽत ऊर्ध्वं विमोक्षायैव ब्रूहीत्यादिः॥४२॥ वशिशब्दं व्याख्याति –

वश इति ।

वशः शक्तिरस्यास्तीति वशी। ततः फलितमाह

सर्वस्य जगत इति ।

अयमीश्वरः सर्वस्य जगतः प्रभवति प्रभुर्भवति प्रभावं प्रकटयति।

व्यूहेति ।

व्यूहेन विभागेन जगतोऽवस्थाने साध्ये समर्थ इत्यर्थः। शक्तस्य तथैव करणं सर्वेशानपदार्थः। प्रकृतं जगत्प्रति नियन्तृत्वं सर्वाधिपतित्वम्॥ विज्ञानमन्तःकरणम् तन्मयः तत्प्रायः। प्राणेषु हृदीति व्यतिरेकार्थे सप्तम्यौ, प्राणबुद्ध्यतिरिक्त इत्यर्थः। अन्तरिति बुद्धिवृत्तेर्विविनक्ति, ज्योतिरित्यज्ञानाद्भिनत्ति। पुरुषः पूर्णः। योऽयमेवभूतः स आत्मेति याज्ञवल्कीयं प्रतिवचनं कतम आत्मेति जनकप्रश्नानन्तरम्। अन्वारूढः अधिष्ठितः। उत्सर्जद् वेदनातः शब्दं कुर्वन् बुद्धौ ध्यायन्त्यां ध्यायतीव चलन्त्यां चलतीव। बुद्धान्तो जाग्रत्, अतः कामादिविवेकानन्तरं, विमोक्षाय ब्रूहीति जनकः पृच्छति। तेन जाग्रद्भोगादिना, अनन्वागतो भवत्यसङ्गत्वादिति प्रतिवक्ति याज्ञवल्क्यः। तदा सुषुप्तौ, हृदयस्य बुद्धेः संबन्धिनः शोकाँस्तीर्णो भवति॥४३॥

इति त्रयोदशं सुषुप्त्युत्क्रान्त्यधिकरणम्॥ इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंस-परिव्राजकाचार्य-भगवदमलानन्दकृते वेदान्तकल्पतरौ प्रथमाध्यायस्य तृतीयः पादः समाप्तः॥ अस्मिन् पादे आदितः अधिकरणानि १३ ३२ सूत्राणि ४३ १०६