भामतीव्याख्या
वेदान्तकल्पतरुः
 
आनुमानिकाधिकरणविषयाः

आनुमानिकमप्येकेषामितिचेन्न शारीररूपकविन्यस्तगृहीतेर्दर्शयति च ।

स्यादेतत् । ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम् - “जन्माद्यस्य यतः”(ब्र. सू. १ । १ । २) इति । तच्चेदं लक्षणं न प्रधानादौ गतं, येन व्यभिचारादलक्षणं स्यात् , किन्तु ब्रह्मण्येवेति “ईक्षतेर्नाशब्दम्”(ब्र. सू. १ । १ । ५) इति प्रतिपादितम् । गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितमधस्ततेन सूत्रसन्दर्भेण । तत्किमवशिष्यते यदर्थमुत्तरः सन्दर्भ आरभ्यते । नच “महतः परमव्यक्तम्”(क. उ. १ । ३ । ११) इत्यादीनां प्रधाने समन्वयेऽपि व्यभिचारः । नह्येते प्रधानकारणत्वं जगत आहुः, अपितु प्रधानसद्भावमात्रम् । नच तत्सद्भावमात्रेण “जन्माद्यस्य यतः”(ब्र. सू. १ । १ । २) इति ब्रह्मलक्षणस्य किञ्चिद्धीयते ।

तस्मादनर्थक उत्तरः सन्दर्भ इत्यत आह -

ब्रह्मजिज्ञासां प्रतिज्ञायेति ।

न प्रधानसद्भावमात्रं प्रतिपादयन्ति “महतः परमव्यक्तम्”(क. उ. १ । ३ । ११) “अजामेकाम्” (श्वे. उ. ४ । ५) इत्यादयः, किन्तु जगत्कारणं प्रधानमिति । “महतः परम्”(क. उ. १ । ३ । ११) इत्यत्र हि परशब्दोऽविप्रकृष्टपूर्वकालत्वमाह । तथा च कारणत्वम् । “अजामेकाम्”(श्वे. उ. ४ । ५) इत्यादीनां तु कारणत्वाभिधानमतिस्फुटम् । एवं च लक्षणव्यभिचारादव्यभिचाराय युक्त उत्तरसन्दर्भारम्भ इति ।

पूर्वपक्षयति -

तत्र य एवेति ।

साङ्ख्यप्रवादरूढिमाह -

तत्राव्यक्तमिति ।

साङ्ख्यस्मृतिप्रसिद्धेर्न केवलं रूढिः, अवयवप्रसिद्ध्याप्ययमेवार्थोऽवगम्यत इत्याह -

न व्यक्तमिति ।

शान्तघोरमूढशब्दादिहीनत्वाच्चेति । श्रुतिरुक्ता । स्मृतिश्च साङ्खीया । न्यायश्च - “भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ कारणमस्त्यव्यक्तम्” इति । नच “महतः परमव्यक्तम्”(क. उ. १ । ३ । ११) इति प्रकरणपरिशेषाभ्यामव्यक्तपदं शरीरगोचरम् । शरीरस्य शान्तघोरमूढरूपशब्दाद्यात्मकत्वेनाव्यक्तत्वानुपपत्तेः ।

तस्मात्प्रधानमेवाव्यक्तमुच्यत इति प्राप्ते, उच्यते -

नैतदेवम् । न ह्येतत्काठकं वाक्यमिति ।

लौकिकी हि प्रसिद्धी रूढिर्वेदार्थनिर्णये निमित्तं, तदुपायत्वात् । यथाहुः - “य एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाः” इति । नतु परीक्षकाणां पारिभाषिकी, पौरुषेयी हि सा न वेदार्थनिर्णयनिबन्धनसिद्धौ(यनिमित्तं पो ? )षधादिप्रसिद्धिवत् । तस्माद्रूढितस्तावन्न प्रधानं प्रतीयते । योगस्त्वन्यत्रापि तुल्यः । तदेवमव्यक्तश्रुतावन्यथासिद्धायां प्रकरणपरिशेषाभ्यां शरीरगोचरोऽयमव्यक्तशब्दः । यथा चास्य तद्गोचरत्वमुपपद्यते तथाग्रे दर्शयिष्यति । तेषु शरीरादिषु मध्ये विषयांस्तद्गोचरान् विद्धि । यथाश्वोऽध्वानमालम्ब्य चलत्येवमिन्द्रियहयाः स्वगोचरमालम्ब्येति । आत्मा भोक्तेत्याहुर्मनीषिणः । कथम् , इन्द्रियमनोयुक्तं योगो यथा भवति । इन्द्रियार्थमनः संनिकर्षेण ह्यात्मा गन्धादीनां भोक्ता ।

प्रधानस्याकाङ्क्षावतो वचनं प्रकरणमिति गन्तव्यं विष्णोः परमं पदं प्रधानमिति तदाकाङ्क्षामवतारयति -

तैश्चेन्द्रियादिभिरसंयतैरिति ।

असंयमाभिधानं व्यतिरेकमुखेन संयमवदातीकरणम् । परशब्दः श्रेष्ठवचनः ।

नन्वान्तरत्वेन यदि श्रेष्ठत्वं तदेन्द्रियाणामेव बाह्येभ्यो गन्धाधिभ्यः श्रेष्ठत्वं स्यादित्यत आह -

अर्था ये शब्दादय इति ।

नान्तरत्वेन श्रेष्ठत्वमपि तु प्रधानतया, तच्च विवक्षाधीनं, ग्रहेभ्यश्चेन्द्रियेभ्योऽतिग्रहतयार्थानां प्राधान्यं श्रुत्या विवक्षितमितीन्द्रियेभ्योऽर्थानां प्राधान्यात्परत्वं भवति । घ्राणजिह्वावाक्चक्षुःश्रोत्रमनोहस्तत्वचो हि इन्द्रियाणि श्रुत्याष्टौ ग्रहा उक्ताः । गृह्णन्ति वशीकुर्वन्ति खल्वेतानि पुरुषपशुमिति । न चैतनि स्वरूपवतो वशीकर्तुमीशते, यावदस्मै पुरुषपशवे गन्धरसनामरूपशब्दकामकर्मस्पर्शान्नोपहरन्ति । अत एव गन्धादयोऽष्टावतिग्रहाः, तदुपहारेण ग्रहाणां ग्रहत्वोपपत्तेः ।

तदिदमुक्तम् -

इन्द्रियाणां ग्रहणं विषयाणामतिग्रहत्वमिति श्रुतिप्रसिद्धेरिति ।

ग्रहत्वेनेन्द्रियैः साम्येऽपि मनसः स्वगतेन विशेषेणार्थेभ्यः परत्वमाह -

विषयेभ्यश्च मनसः परत्वमिति ।

कस्मात्पुमान् रथित्वेनोपक्षिप्तो गृह्यत इत्यत आह -

आत्मशब्दादिति ।

तत्प्रत्यभिज्ञानादित्यर्थः ।

श्रेष्ठत्वे हेतुमाह -

भोक्तुश्चेति ।

तदनेन जीवात्मा स्वामितया महानुक्तः । अथवा श्रुतिस्मृतिभ्यां हैरण्यगर्भी बुद्धिरात्मशब्देनोच्यत इत्याह -

अथवेति ।

पूरिति ।

भोग्यजातस्य बुद्धिरधिकरणमिति बुद्धिः पूः । तदेवं सर्वासां बुद्धीनां प्रथमजहिरण्यगर्भबुद्ध्येकनीडतया हिरण्यगर्भबुद्धेर्महत्त्वं चापनादा(चोपादाना ?)त्मत्वं च । अत एव बुद्धिमात्रात्पृथक्करणमुपपन्नम् ।

नन्वेतस्मिन्पक्षे हिरण्यगर्भबुद्धेरात्मत्वान्न रथिन आत्मनो भोक्तुरत्रोपादानमिति न रथमात्रं परिशिष्यतेऽपि तु रथवानपीत्यत आह -

एतस्मिंस्तु पक्ष इति ।

यथा हि समारोपितं प्रतिबिम्बं बिम्बान्न वस्तुतो भिद्यते तथा न परमात्मनो विज्ञानात्मा वस्तुतो भिद्यत इति परमात्मैव रथवानिहोपात्तस्तेन रथमात्रं परिशिष्टमिति ।

अथ रथादिरूपककल्पनायाः शरीरादिषु किं प्रयोजनमित्यत आह -

शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य हीति ।

वेदना सुखाद्यनुभवः । प्रत्यर्थमञ्चतीति प्रत्यगात्मेह जीवोऽभिमतस्तस्य ब्रह्मावगतिः ।

न च जीवस्य ब्रह्मत्वं मानान्तरसिद्धं, येनात्र नागमोऽपेक्ष्येतेत्याह -

तथा चेति ।

वागिति छान्दसो द्वितीयालोपः । शेषमतिरोहितार्थम् ॥ १ ॥

पूर्वपक्षिणोऽनुशयबीजनिराकरणपरं सूत्रम् -

सूक्ष्मं तु तदर्हत्वात् ।

प्रकृतेर्विकाराणामनन्यत्वात्प्रकृतेरव्यक्तत्वं विकार उपचर्यते । यथा “गोभिः श्रीणीत”(ऋ. सं. ९ । ४६ । ४) इति गोशब्दस्ताद्विकारे पयसि ।

अव्यक्तात्कारणात् विकारणामनन्यत्वेनाव्यक्तशब्दार्हत्वे प्रमाणमाह -

तथा च श्रुतिरिति ।

अव्याकृतमव्यक्तमित्यनर्थान्तरम् । नन्वेवं सति प्रधानमेवाभ्युपेतं भवति, सुखदुःखमोहात्मकं हि जगदेवंभूतादेव कारणाद्भवितुमर्हति, कारणात्मकत्वात्कार्यस्य । यच्च तस्य सुखात्मकत्वं तत्सत्त्वम् । यच्च तस्य दुःखात्मकत्वं तद्रजः । यच्च तस्य मोहात्मकत्वं तत्तमः । तथा चाव्यक्तं प्रधानमेवाभ्युपेतमिति ॥ २ ॥

शङ्कानिराकरणार्थं सूत्रम् -

तदधीनत्वादर्थवत् ।

प्रधानं हि साङ्ख्यानां सेश्वराणामनीश्वराणां वेश्वरात् क्षेत्रज्ञेभ्यो वा वस्तुतो भिन्नं शक्यं निर्वक्तुम् । ब्रह्मणस्त्वियमविद्या शक्तिर्मायादिशब्दवाच्या न शक्या तत्त्वेनान्यत्वेन वा निर्वक्तुम् । इदमेवास्या अव्यक्तत्वं यदनिर्वाच्यत्वं नाम । सोऽयमव्याकृतवादस्य प्रधानवादाद्भेदः । अविद्याशक्तेश्चेश्वराधीनत्वं, तदाश्रयत्वात् । नच द्रव्यमात्रमशक्तं कार्यायालमिति शक्तेरर्थवत्त्वम् ।

तदिदमुक्तम् -

अर्थवदिति ।

स्यादेतत् । यदि ब्रह्मणोऽविद्याशक्त्या संसारः प्रतीयते हन्त मुक्तानामपि पुनरुत्पादप्रसङ्गः, तस्याः प्रधानवत्तादवस्थ्यात् । तद्विनाशे वा समस्तसंसारोच्छेदः तन्मूलविद्याशक्तेः समुच्छेदादित्यत आह -

मुक्तानां च पुनः ।

बन्धस्य

अनुत्पत्तिः । कुतः । विद्यया तस्या बीजशक्तेर्दाहात् ।

अयमभिसन्धिः - न वयं प्रधानवदविद्यां सर्वजीवेष्वेकामाचक्ष्महे, यैनेवमुपालभेमहि, किन्त्वियं प्रतिजीवं भिद्यते । तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यैवाविद्यापनीयते न जीवान्तरस्य, भिन्नाधिकरणयोर्विद्याविद्ययोरविरोधात् , तत्कुतः समस्तसंसारोच्छेदप्रसङ्गः । प्रधानवादिनां त्वेष दोषः । प्रधानस्यैकत्वेन तदुच्छेदे सर्वोच्छेदोऽनुच्छेदे वा न कस्यचिदित्यनिर्मोक्षप्रसङ्गः । प्रधानाभेदेऽपि चैतदविवेकख्यातिलक्षणाविद्यासदसत्त्वनिबन्धनौ बन्धमोक्षौ, तर्हि कृतं प्रधानेन, अविद्यासदसद्भावाभ्यामेव तदुपपत्तेः । न चाविद्योपाधिभेदाधीनो जीवभेदो जीवभेदाधीनश्चाविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्धिरिति साम्प्रतम् । अनादित्वाद्बीजाङ्कुरवदुभयसिद्धेः । अविद्यात्वमात्रेण चैकत्वोपचारोऽव्यक्तमिति चाव्याकृतमिति चेति ।

नन्वेवमविद्यैव जगद्बीजमिति कृतमीश्वरेणेत्यत आह -

परमेश्वराश्रयेति ।

नह्यचेतनं चेतनानधिष्ठितं कार्याय पर्याप्तमिति स्वकार्यं कर्तुं परमेश्वरं निमित्ततयोपादानतया वाश्रयते, प्रपञ्चविभ्रमस्य हीश्वराधिष्ठानत्वमहिविभ्रमस्येव रज्ज्वधिष्ठानत्वम् , तेन यथाहिविभ्रमो रज्जूपादान एवं प्रपञ्चविभ्रम ईश्वरोपादानः, तस्माज्जीवाधिकरणाप्यविद्या निमित्ततया विषयतया चेश्वरमाश्रयत इतीश्वराश्रयेत्युच्यते, न त्वाधारतया, विद्यास्वभावे ब्रह्मणि तदनुपपत्तेरिति ।

अत एवाह -

यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवा इति ।

यस्यामविद्यायां सत्यां शरते जीवाः । जीवानां स्वरूपं वास्तवं ब्रह्म, तद्बोधरहिताः शेरत इति लय उक्तः । संसारिण इति विक्षेप उक्तः ।

अव्यक्ताधीनत्वाज्जीवभावस्येति ।

यद्यपि जीवाव्यक्तयोरनादित्वेनानियतं पौर्वापर्यं तथाप्यव्यक्तस्य पूर्वत्वं विवक्षित्वैतदुक्तम् ।

सत्यपि शरीरवदिन्द्रियादीनामिति ।

गोबलीवर्दपदवेतद्द्रष्टव्यम् ।

आचार्यदेशीयमतमाह -

अन्ये त्विति ।

एतद्दूषयति -

तैस्त्विति ।

प्रकरणपारिशेष्ययोरुभयत्र तुल्यत्वान्नैकग्रहणनियमहेतुरस्ति ।

शङ्कते -

आम्नातस्यार्थमिति ।

अव्यक्तपदमेव स्थूलशरीरव्यावृत्तिहेतुर्व्यक्तत्वात्तस्येति शङ्कार्थः ।

निराकरोति -

न ।

एकवाक्यताधीनत्वादिति ।

प्रकृतहान्यप्रकृतप्रक्रियाप्रसङ्गेनैकवाक्यत्वे सम्भवति न वाक्यभेदो युज्यते । न चाकाङ्क्षां विनैकवाक्यत्वम् , उभयं च प्रकृतमित्युभयं ग्राह्यत्वेनेहाकाङ्क्षितमित्येकाभिधायकमपि पदं शरीरद्वयपरम् । नच मुख्यया वृत्त्याऽतत्परमित्यौपचारिकं न भवति । यथोपहन्तृमात्रनिराकरणाकाङ्क्षायां काकपदं प्रयुज्यमानं श्वादिसर्वहन्तृपरं विज्ञायते । यथाहुः “काकेभ्यो रक्ष्यतामन्नमिति बालेऽपि नोदितः । उपघातप्रधानत्वान्न श्वादिभ्यो न रक्षति ॥”(मीमांसाकारिका) इति ।

ननु न शरीरद्वयस्यात्राकाङ्क्षा । किन्तु दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्य, नतु षाट्कौशिकस्य स्थूलस्य । एतद्धि दृष्टबीभत्सतया सुकरं वैराग्यविषयत्वेन शोधयितुमित्यत आह -

न चैवं मन्तव्यमिति ।

विष्णोः परमं पदमवगमयितुं परं परमत्र प्रतिपाद्यत्वेन प्रस्तुतं न तु वैराग्याय शोधनमित्यर्थः ।

अलं वा विवादेन, भवतु सूक्ष्ममेव शरीरं परिशोध्यं, तथापि न साङ्ख्याभिमतमत्र प्रधानं परमित्यभ्युपेत्याह -

सर्वथापि त्विति ॥ ३ ॥

ज्ञेयत्वावचनाच्च ।

इतोऽपि नायमव्यक्तशब्दः साङ्ख्याभिमतप्रधानपरः । साङ्ख्यैः खलु प्रधानाद्विवेकेन पुरुषं निःश्रेयसाय ज्ञातुं वा विभूत्यै वा प्रधानं ज्ञेयत्वेनोपक्षिप्यते । न चेह जानीयादिति चोपासीतेति वा विधिविभक्तिश्रुतिरस्ति, अपि त्वव्यक्तपदमात्रम् । न चैतावता साङ्ख्यस्मृतिप्रत्यभिज्ञानं भवतीति भावः ॥ ४ ॥

ज्ञेयत्वावचनस्यासिद्धिमाशङ्क्य तत्सिद्धिप्रदर्शनार्थं सूत्रम् -

वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।

निगदव्याख्यातमस्य भाष्यम् ॥ ५ ॥

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।

वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादवाक्यप्रवृत्तिरासमाप्तेः कठवल्लीनां लक्ष्यते । मृत्युः किल न चिकेतसे कुपितेन पित्रा प्रहिताय तुष्टस्त्रीन्वरान् प्रददौ । नचिकेतास्तु पथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम् , तृतीयेनात्मविद्याम् । “वराणामेष वरस्तृतीयः”(क. उ. १ । १ । २०) इति वचनात् ।

ननु तत्र वरप्रदाने प्रधानगोचरे स्तः प्रश्नप्रतिवचने । तस्मात्कठवल्लीष्वग्निजीवपरमात्मपरैव वाक्यप्रवृत्तिर्न त्वनुपक्रान्तप्रधानपरा भवितुमर्हतीत्याह -

इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वमिति ।

“हन्तः त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्”(क. उ. २ । २ । ६) इत्यनेन व्यवहितं जीवविषयं “यथा तु मरणं प्राप्यात्मा भवति गौतम” इत्यादिप्रतिवचनमिति योजना । अत्राह चोदकः - किं जीवपरमात्मनोरेक एव प्रश्नः, किं वान्यो जीवस्य “येयं प्रेते”(क. उ. १ । १ । २०) मनुष्य इति प्रश्नः, अन्यश्च परमात्मनः “अन्यत्र धर्मात्” (क. उ. १ । २ । १४) इत्यादिः । एकत्वे सूत्रविरोधस्त्रयाणमिति । भेदे तु सौमनस्यावाप्त्यग्न्यात्मज्ञानविषयवरत्रयप्रदानानन्तर्भावोऽन्यत्र धर्मादित्यादेः प्रश्नस्य । तुरीयवरान्तरकल्पनायां वा तृतीय इति श्रुतिबाधप्रसङ्गः । वरप्रदानानन्तर्भावे प्रश्नस्य तद्वत् प्रधानाख्यानमप्यनन्तर्भूतं वरप्रदानेऽस्तु “महतः परमव्यक्त” (क. उ. १ । ३ । ११) मित्याक्षेपः ।

परिहरति -

अत्रोच्यते, नैवं वयमिहेति ।

वस्तुतो जीवपरमात्मनोरभेदात्प्रष्टव्याभेदेनैक एव प्रश्नः । अत एव प्रतिवचनमप्येकम् । सूत्रं त्ववास्तवभेदाभिप्रायम् । वास्तवश्च जीवपरमात्मनोरभेदस्तत्र तत्र श्रुत्युपन्यासेन भगवता भाष्यकारेण दर्शितः । तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्येत्यादि ।

“येयं प्रेते”(क. उ. १ । १ । २०) इति हि नचिकेतसः प्रश्नमुपश्रुत्य तत्तत्कामविषयमलोभं चास्य प्रतीत्य मृत्युः “विद्याभीप्सिनं नचिकेतसं मन्ये”(क. उ. १ । २ । ४) इत्यादिना नचिकेतसं प्रशस्य प्रश्नमपि तदीयं प्रशंसन्नस्मिन्प्रश्ने ब्रह्मैवोत्तरमुवाच -

तं दुर्दर्शमिति ।

यदि पुनर्जीवात्प्राज्ञो भिद्येत, जीवगोचरः प्रश्नः, प्राज्ञगोचरं चोत्तरमिति किं केन सङ्गच्छेत ।

अपि च यद्विषयं प्रश्नमुपश्रुत्य मृत्युनैष प्रशंसितो नचिकेताः यदि तमेव भूयः पृच्छेत्तदुत्तरे चावदध्यात्ततः प्रशंसा दृष्टार्था स्यात् , प्रश्नान्तरे त्वसावस्थाने प्रसारिता सत्यदृष्टार्था स्यादित्याह -

यत्प्रश्नेति ।

यस्मिन् प्रश्नो यत्प्रश्नः । शेषमतिरोहितार्थम् ॥ ६ ॥

महद्वच्च ।

अनेन साङ्ख्यप्रसिद्धेर्वैदिकप्रसिद्ध्या विरोधान्न साङ्ख्यप्रसिद्धिर्वेद आदर्तव्येत्युक्तम् । साङ्ख्यानां महत्तत्त्वं सत्तामात्रं, पुरुषार्थक्रियाक्षमं सत्तस्य भावः सत्ता तन्मात्रं महत्तत्त्वमिति । या या पुरुषार्थक्रिया शब्दाद्युपभोगलक्षणा च सत्त्वपुरुषान्यताख्यातिलक्षणा च सा सर्वा महति बुद्धौ समाप्यत इति महत्तत्त्वं सत्तामात्रमुच्यत इति ॥ ७ ॥

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च॥१॥ अर्वाचीनमहत्तत्त्वापेक्षया पूर्वकालत्वमविप्रकृष्टमव्यक्तस्य परशब्द आह –

तथा च कारणत्वसिद्धिः । नियतप्रक्सत्त्वं हि तदित्यर्थः। ननु सिद्धे गतिसामान्ये का शङ्का? महतः परमित्यादिवाक्यार्थानिर्णये वा कथं गतिसामान्यसिद्धिः? उच्यते – असाधि प्रतिवेदान्तं ब्रह्मकारणतागतिः। प्रतिवाक्यं न तत्सिद्धिः क्व चिदन्यार्थदर्शनात्॥ पूर्वत्र हि प्रधानाद्येव सर्ववेदान्तार्थ इति प्रत्यवस्थिते तन्निषेधेन सर्ववेदान्तेषु ब्रह्मावगतिः साधिता, इह तु तामुपेत्य प्रधानाद्यपि कारणत्वेन समन्वयविषयः। न चानेककारणवैयर्थ्यम्; कल्पभेदेन व्यवस्थोपपत्तेरिति प्रत्यवस्थीयते। सूत्रकारोऽप्यपिधब्दमेकशब्दं च प्रयुञ्जानो ब्रह्माङ्गीकारेण पूर्वपक्षः क्चाचित्कश्चायं विचार इति सूचयांबभूव। अव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमश्रौतपारिशेप्याभ्याम् उभयोः प्रत्यभिज्ञानात्संशयः। सांख्यानां श्रुतिस्मृत्योरनुमानसिद्धानुवादित्वेन तुल्यता।

भाष्ये स्मृतिशब्दः सांख्यस्मृत्यभिप्राय इत्याह –

सांख्येति ।

शब्दादिहीनत्वादिति भाष्ये गुणवैषम्योत्तरकालभाविशब्दादिहीनत्वमुक्तं प्रधानकालेऽपि सूक्ष्मशब्दादिभावादित्याह –

शान्तेति ।

शान्तः सात्त्विको घोरो राजसो मूढस्तामसः।

श्रुतिस्मृतिन्यायेतिभाष्यं व्याख्याति –

श्रुतिरिति ।

भेदानां महदादिविशेषाणां कारणमव्यक्तमस्तीति संबन्धः। कुतः?

परिमाणात् ।

महदादि, अव्यक्तकारणकम्, अव्यापित्वाद् घटवत्। सत्कार्यवादे प्राक्कार्योत्पत्तेरव्यक्तकार्यत्वात्कारणेऽव्यक्तशब्दप्रयोगः। तावेव प्रतिज्ञादृष्टान्तौ। समन्वयात्तदनुरागविज्ञानवेदनीयत्वात्। यद्येन समन्वितमिति सामान्येनात्र व्याप्तिः। कारणशक्तितः कार्यस्य प्रवृत्तेः कारणगताव्यक्तकार्यं हि शक्तिरित्यर्थः। इदमस्य कारणमिदमस्य कार्यमिति विभागात्। अव्यक्तकार्यसत्त्वरहितस्य नृशृङ्गवत्कारणत्वायोगादित्यर्थः। प्रलयावस्थायां वैश्वरूप्यस्याविभात् लीनानभिव्यक्तकार्याश्रयोऽस्त्यव्यक्तमिति॥ अव्यक्तपदेन किं रूढेः प्रधानप्रतीतिर्योगाद्वा स्मार्तक्रमानुगृहीतयोगाद्वा।

नाद्य इत्याह –

लौकिकी हीति ।

य एव लौकिका इति शाबरं वचः। लोकवेदयोः शब्दार्थभेदः; लौकिका वैदिका इति व्यपदेशभेदादेतद्वै दैव्यं मधु यद् घृतमिति देवमधुनो घृतत्वाभिधानाच्चेति प्रापय्य राद्धान्तितम्। लोकावगतसंबन्धशब्दानां वेदे बोधकत्वोपपत्तेरैक्येन च प्रत्यभिज्ञानाद् घृते मधुत्वस्य स्तुत्यर्थत्वाच्चैक्यं शब्दार्थयोरिति।

द्वितीयं प्रत्याह –

योगास्त्विति ।

तृतीयं निराकरोति –

प्रकरणेति ।

अयं भावः, इह विष्णोः पदं पुरुषः प्रधानं तत्प्रतिपत्त्यङ्गानि इन्द्रियादीनि ‘‘इन्द्रियेभ्यः परा’’ इत्यादिना निर्दिश्यन्ते। तानि ‘‘चात्मानं रथिन’’मिति वाक्ये रथादिरूपितान्येव गृह्यन्ते। एवं स्थिते ‘‘महतः परमव्यक्तमित्यत्र पौरुषेयवाक्यस्थपदार्थतत्क्रमापेक्षप्रधानप्रत्यभिज्ञा दुर्बला। प्रकरणाधीतपदार्थाश्रयत्वादिभिधेयाकाङ्क्षाश्रयत्वाच्च पारिशेष्यनिमित्ता शरीरप्रत्यभिज्ञा प्रबला। तथा हि - रथत्वेन रूपितं शरीरं पुरुषपरत्वप्रतिपादकवाक्यान्वयमपेक्षते; इतरथा निष्प्रयोजनत्वात्, न च स्वाभिधेयावरुद्धा इन्द्रियादिशब्दास्तदभिदधतीति अस्ति अव्यक्तशब्दापेक्षा शरीरस्य।

अव्यक्तशब्दोऽपि यौगिकत्वादभिधेयविशेषाकाङ्क्षी स्वशब्दोपात्तेन्द्रियाद्यभिधातुमक्षमः शरीराकाङ्क्षीति शरीरमेवाव्यक्तशब्दार्थ इति।। ‘‘विषयांस्तेषु गोचरा’’ निति श्रुति व्याचष्टे –

तेष्विति ।

विषयानुद्दिश्य मार्गत्वं विधेयम्।

स्वगोचरमालम्ब्य चलन्तीति विपरिणतानुषङ्गः। ‘‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण’’ इत्येतद्व्याचष्टे –

आत्मेति ।

युक्तमिति भावे निष्ठा, क्रियाविशेषणं चैतत्तदेव दर्शयति –

योग इति ।

प्रकरणपरिशेषाभ्यामित्वुक्तम्।

ननु प्रकरणं कर्तव्यस्येतिकर्तव्याकाङ्क्षस्य वचनम्, कथमिह तदित्याशङ्क्याह –

प्रधानस्येति ।

प्रधानस्येत्युक्तेऽर्थादाकाङ्क्षाऽङ्गविषयेति सिद्ध्यति। काण्डद्वयानुगतं लक्षणमिदमेवेत्यर्थः।

किं प्रधानमत आह –

गन्तव्यमिति ।

इन्द्रियादयश्च तस्य परत्वप्रतिपत्तावङ्गम्। संयतोश्चेतत्प्राप्तावपि।

यस्त्वविज्ञानवानित्यादिश्रुतौ भाष्ये चासंयमाभिधानमनुपयोगीत्याशङ्क्याह –

असंयमेति ।

संयमाभावे मोक्षाभावेन तद्भाव एव दृढीकृत इत्यर्थः।

यदुक्तं पूर्ववादिना महतः परमित्यत्र परशब्दः कारणवचन इति, तत्राह –

परशब्द इति ।

मन आदौ अर्थादिकारणत्वासंभवादस्मिन्प्रकरणे परशब्दः श्रैष्ठ्यवचन इत्यर्थः।

इहाध्यात्मप्रकरणे आन्तरत्वात् श्रैष्ठ्यं वक्तव्यम्, तदर्थेषु नास्तीति शङ्कते –

नन्विति ।

नामैव शब्दो वागभिव्यङ्ग्यः। स एव श्रोत्रेण ग्राह्य इति द्विरुपात्तः। कामो मनसो विषयः, कर्म हस्तयोः।

ननु मनस इन्द्रियत्वेन अर्थेभ्योऽपरस्य कथं तेभ्य एव परत्वम्? अत आह –

ग्रहत्वेनेति ।

‘आत्मानं रथिनम्’ इत्यत्र य आत्मशब्दः स एव ‘बुद्धेरात्मा’ इत्यत्र प्रत्यभिज्ञायत इत्यभिप्रायेणात्मशब्दादिति भाष्यम्, अन्यथाऽऽत्मशब्दमात्रस्य प्रकृतरथिग्रहणहेतुत्वाभावादित्याह –

तत्प्रत्यभिज्ञानादिति ।

इन्द्रियद्वारा बुद्धिस्था भोग्यास्ततः पुरुस्वाम्यं भोग्याश्रयत्वम्। आयनाद् व्याप्तेः। बुद्धिमात्रादस्मदादिबुद्धेः।

ननु रथिनः संसारिणः कथमसंसार्यात्मत्वेन निर्देशोऽत आह –

तथा हीति ।

अञ्चत्यवगच्छति। भाष्योदाहृतायां ‘यच्छेद्वा नसी’ इति श्रुतौ वाक्च्छब्दे द्वितीयालोपश्छान्दस इत्यर्थः। शरीरमेव रूपकेण रथेन विन्यस्तं रूपितम् इति सूत्रपदार्थः॥१॥ अनुशयः असंतोषः। भत्सरं सोमम्, श्रीणीत मिश्रयेत्। एवं सतीति। कार्यकारणाभेदे सतीत्यर्थः। सेश्वराणामीश्वराद्, अनीश्वराणां जीवेभ्य इति संबन्धः। प्रमाणैर्न व्यज्यते न निरूप्यत इत्यव्यक्तत्वमित्यर्थः॥२॥ तदाश्रयत्वात् तद्विषयत्वादित्यर्थः। आधारवाची आश्रयशब्दः।

अविद्याऽप्येकेति भ्रमादाशङ्कते –

स्यादेतदिति ।

अविद्या ब्रह्मगता निवर्तते, न वा।

प्रथमे सर्वमुक्तिः, द्वितीये मुक्तानां पुनर्बन्ध इति अविद्यादाहमुपेत्य सर्वमुक्तेरापादनादपरिहारत्वमाशङ्क्य भाष्यभावमाह –

अयमिति ।

पूर्वभ्रमक्लृप्तेन अप्रधानेनात्मनोऽविवेकसंभवादविवेकप्रतियोगित्वेनापि कृतं प्रधानेनेत्यर्थः।

यद्यविद्या नाना, कथं तर्हि श्रुतावव्यक्तमित्येकवचनमित्यत आह –

अविद्यात्वेति ।

निमित्ततयेति ।

प्रेरकतया, अविद्याविषयत्वेन च तत्प्रेरकत्वं गन्धस्येव घ्राणं प्रति।

उपादानतयेति ।

जगद्भ्रमाधिष्ठानतयेत्यर्थः।

विद्यास्वभावे इति ।

निरवद्यमिति ।

श्रुत्यवगतनिर्दोषज्ञानात्मत्वं विद्यास्वभावत्वम्। एवं चिद्रूपत्वं जीवोऽपि समम्, वाक्यजं प्रमारूपत्वमसिद्धमिति केषां चिदाक्षेपोऽनवकाशः। स्वरूपमविद्याश्रयो बिम्बं तु ब्रह्मनिरवद्यमिति किं न स्यादिति चेद्, न; बिम्बस्य स्वरूपातिरेके कल्पितत्वात्, अनतिरेके स्वरूपस्यैव निरवधित्वात्। मुखमात्रस्य तूपाधियोगः परिच्छिन्नत्वादविरुद्धः। अपि च दर्पणाद्युपाधेर्विषय एव मुखं नाश्रयः। न तु निर्विशेषब्रह्मस्वरूपस्याविद्यासंबन्धसंभवः, इत्यनादिन्यौ जीवाविद्ये परस्पराधीनतया अविद्यातत्संबन्धवदुपेये इति। ये त्वाहुः - ब्रह्मणो जीवभ्रमगोचरस्याधिष्ठानतयोपादानत्वे सोऽकामयत स्वयमकुरुतेति च न स्यात्, प्रतिजीवं च भ्रमासाधारण्याद् जगत्साधारण्यानुभवविरोधः, भ्रमजस्य चाकाशादेरज्ञातसत्त्वायोगः, तस्मादीश्वरस्य प्रतिबिम्बधारिणी साधारणी माया। तद्यष्टश्च जीवोपाधयोऽविद्या मन्तव्या इति। तान् प्रति भ्रूमः। अकामयताकुरुतेति च कामकृती जीवाविद्याविवर्तः। न च ब्रह्मविक्रिया; विवर्तश्च विवर्ते हेतुः सर्प इव विसर्पणस्य। प्रतिमाणवकवर्त्यविद्याभिर्वर्णेषु स्वरादिवैशिष्ट्येन क्लृप्तोपाध्यायवक्रोद्वतवेदस्येव प्रपञ्चसाधारण्यप्रसिद्धिः। अधिष्ठानवर्णसाधारण्यत्तत्साधारण्यं प्रस्तुतेऽपि समं सर्वप्रत्यक्त्वाद् ब्रह्मणः। अज्ञातसत्त्वं प्रपञ्चस्य व्यावहारिकसत्त्वात्। न च जीवाविद्याजत्वे तदयोगः; स्वेन्द्रियादिवदुपपत्तेः। यत्तु जीवस्य मनोवच्छिन्नत्वं भूतसूक्ष्मावच्छिन्नत्वं च दूषितम्, तदस्मदिष्टमेव चेष्टितम्; अस्माभिर्जीवस्यानाद्यविद्यावच्छेदाभ्युपगमादिति। अपि च – न मायाप्रतिबिम्बस्य विमुक्तैरुपसृप्यता। अवच्छेदान्न तज्ज्ञानात्सर्वविज्ञानसंभवः।। अधिष्ठाने तु जैवीभिरविद्या भिरपावृते। जगद्भ्रमप्रसिद्धौ किं साधारण्येह मायया।। ग्रहीतृस्थाया अप्यविद्याया ग्राह्ये स्वसमजडावभासहेतुत्वमविरुद्धम्, पित्तस्येव शङ्खे पीतिमप्रतिभासहेतुतेति विशदमशेषम्। यत एव ब्रह्माविद्याविषयोऽत एव ब्रह्मविषयबोधराहित्यं जीवानामाहेत्यर्थः।

उपाधिभूताविद्यैवाप्रबोधेऽपि हेतुरित्याह –

सत्यामिति ।

जीवाव्यक्तयोरनादित्वेन नियतं पौर्वापर्यं नास्तीति न पौर्वापर्ये च तन्नियम इति यद्यपि; तथापि जीवत्वनियामकेऽव्यक्ते पूर्वत्वमुपचरितमित्यर्थः। यथा बलीवर्दमानयेत्युक्ते गामानयेति प्रयोगे गोपदमितरगोविषयमेवमव्यक्तपदमित्यर्थः।

प्रकृतेति ।

अप्रसङ्गेनेति च्छेदः। अव्यक्तपदस्य स्थूले देहे मुख्यत्वाभावादौपचारिकत्वं स्यान्न च तद्युक्तम्।

सकृच्छ्रुतस्य सूक्ष्मस्थूलदेहविषयतया मुख्यगौणत्वेवैरुप्यापातादत आह –

न च मुख्ययेति ।

अतत्परमिति च्छेदः। अन्नोपघातिनिराकरणाकाङ्क्षायां वक्तुस्तत्प्रयुक्तकाकपदं काकगतोपघातकत्वं लक्षयद्यथा काकतदितरसाधारणमेवं पुरुषपरत्वप्रतिपत्त्यर्थं तुल्यवदाकाङ्क्षितप्रस्तुतशरीरद्वयं छत्रिन्यायेन लक्षयत्यव्यक्तपदं न सूक्ष्ममेवाभिधत्त इत्यर्थः। पूर्वं मायाऽभिधानद्वारा शरीरलक्षणोक्ता, इदानीं तु सूक्ष्मशरीराभिधानद्वारेण, एवमपि हि प्रधानं निरस्तं भवतीति।

त्वङ्मांसरुधिराणि मातृतः, अस्थिस्त्रायुमज्जानः पितृतः, एतैः घट्कोशैरारब्धं षाट्कौशिकम्॥३॥४॥५॥ व्यवहितं जीवविषयं प्रतिवचनमिति भाष्यस्थव्यवहितपदार्थमाह –

इत्यनेनेति ।

हन्तेत्यादि सनातनमित्यन्तं परमात्मप्रतिवचनप्रतिज्ञावाक्यं तेन व्यवहितं यथेत्यादि जीवप्रश्नस्य प्रतिवचनमित्यर्थः।

प्रश्नाभेदे दूषणमाह –

एकत्वे इति ।

अग्न्यात्मविद्ययोः द्वित्वात्सूत्रस्थत्रिशब्दविरोध इत्यर्थः। परमात्मप्रश्नस्य जीवप्रश्नाद्भेदे पितुः सौ सौमनस्याग्निज्ञानात्मज्ञानविषयं यद्वरत्रयप्रदानं तत्रानन्तर्भावोऽन्यत्र धर्मादित्यादेः स्याच्चतुर्थत्वादित्यर्थः।

अथ प्रश्नान्यथानुपपत्त्या वरान्तरं कल्प्येत, तत्राह –

तुरीयेति ।

सन्तु त्रयो वराः परमात्मप्रश्नः तेष्वनन्तर्भूतोऽस्तु यथा सृङ्कां च गृहाणेत्यवृतामपि रत्नमालां प्रीत्या ददौ नेत्याह –

वरप्रदानान्तर्भावे इति ।

महतः परमव्यक्तमिति प्रधानाख्यानमस्त्विति योजना। सृङ्कां चेति च शब्द एवाऽवृतैव माला दत्तेति गमयति, नैवं महतः परमित्यत्र। अतो वरप्रदानानुसारेणैवार्थप्रतिपादनम्। एक एव सन् देहादिव्यतिरेकधर्माद्व्यत्ययप्रवृत्त्यभेदाद् द्विःकृतः प्रश्न इत्यर्थः।

अत एवेति ।

जीवपरयोरभेदादित्यर्थः। शतायुषः पुत्रपौत्रान् वृणीष्वेत्यादिस्तत्तत्कामः। त्वादृङ्नो भूयान्नचिकेतः प्रष्टेति विशेषणपरत्वात्तदीयप्रश्नप्रशंसा। जीवे पृष्टे तं दुर्दर्शमिति तद्व्यतिरिक्तपरमात्मात्मप्रतिवचनम् आत्मप्रश्ने कोचिदारप्रतिवचनवदसङ्गतम्।

अत एव जीवप्रश्नतत्कर्तृप्रशंसाऽपि जीवस्य परमात्माभेदप्रमित्यर्थत्वेन दृष्टार्था स्यादित्याह –

यदि पुनरिति ।

एवं प्रतिवक्तृप्रवृत्त्या जीवपराभेदं साधयित्वा शब्दप्रवृत्याऽपि साधयति –

अपि चेत्यादिना ।

तदुत्तरे तस्य प्रश्नस्योत्तरे। तमेव विषयं यद्यवदध्याज्जानीयादित्यर्थः। यत्प्रश्नेति भाष्ये यच्छब्दो विषयपरो न प्रश्नपरः।

विषयगौरवाद्धि प्रश्नप्रशंसेत्याह –

यस्मिन्निति ॥६॥

अधिकरणादाव्यक्तशब्दस्य पौरुषेयी रूढिर्वोदानुपयोगिनीत्युक्तम्, इदानीं महच्छब्दस्येव वेदविरोधाद्बाध्या च।

अव्यक्तशब्दस्य प्रकरणादिना वेदे शरीरपरत्वावधारणादित्युच्यत इत्याह –

अनेनेति ।

साङ्ख्यैः सत्तामात्रे महच्छब्दः प्रयुक्त इति भाष्यमयुक्तम्; तैर्बुद्धेर्महत्त्वेन स्वीकारादित्याशङ्क्याह –

पुरुषार्थेति ।

अर्थक्रियाकारिणि सच्छब्दः प्रयुक्तः, पुरुषापेक्षितप्रयोजनकारि महत्तत्वं सत्तत्प्रत्ययोऽपि स्वरूपपरो न सामान्यवाचीत्यर्थः। कार्यानुमेयं महन्न प्रत्यक्षमिति मात्रशब्दः॥७॥ गूढ आत्मा, अग्न्या इवाग्न्या, सूक्ष्मवस्तुविषयत्वात् सूक्ष्मा॥ अशब्दमिति। शब्दादिगुणरहितम्। अभूतभौतिकमित्येतत्। अव्ययमपक्षयरहितम्। प्राक् प्रध्वंसाभाववर्जितम्। अनाद्यनन्तम् अत एव नित्यम्। महतः क्षेत्रज्ञात्परम्। ध्रुवमपरिणामि। निचाय्य ज्ञात्वा। मृत्युरज्ञानं तन्मुखं संसारः। स्वर्गाय हितं स्वर्ग्यम्। अध्येषि जानासि। लोककारणविराड् दृष्ठ्योपास्यत्वाल्लोकादिश्रित्योऽग्निः। याः स्वरूपतः, यावतीः सङ्ख्यातः, यथा वाऽग्निश्चीयते तत्सर्वं तस्मै नचिकेतसे उवाच। हन्त इदानीं गुह्यं गोप्यं, सनातनं चिरन्तनं ब्रह्म हे गौतम ते प्रवक्ष्यामीति ब्रह्मप्रतिवचनं प्रतिज्ञाय जीवं चाह। आत्मा मरणं प्राप्य यथा भवति तथा च प्रवक्ष्यामीति। योनिमन्ये देहिनः प्राप्नुवन्ति मानुषादिशरीरग्रहणाय अन्ये स्थावरं स्थाणुं संयन्ति कर्मज्ञानानुसारेण। स्वप्नजाग्रतोरन्तौ मध्ये उभे येनात्मनाऽनुपश्यति लोकः। इह देहे यच्चैतन्यं तदेवामुत्र परत्र। असंसारि ब्रह्म। यच्चामुत्र तदेवेह देहे अनुप्रविष्टं वर्तते य इह ब्रह्मात्मनि नानेव मिथ्या भेदं पश्यति स मरणान्मरणं प्राप्नोति। पुनः पुनर्म्रियते। त्वां बहवः कामा न लोलुपन्त, लुप्लृ च्छेदने श्रेयसो विच्छेदं न कृतवन्तः, ततो विद्यार्थिनं त्वां मन्ये वेद जानेऽहं पुरुषम्॥

इति प्रथममानुमानिकाऽधिकरणम्॥