भामतीव्याख्या
वेदान्तकल्पतरुः
 
चमसाधिकरणविषयाः

चमसवदविशेषात् ।

अजाशब्दो यद्यपि छागायां रूढस्तथाप्यध्यात्मविद्याधिकारान्न तत्र वर्तितुमर्हति । तस्माद्रूढेरसम्भवाद्योगेन वर्तयितव्यः । तत्र किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णेनानूद्यतामुत पारमेश्वरी मायाशक्तिस्तेजोऽबन्नव्याक्रियाकारणमुच्यतां किं तावत्प्राप्तं, प्रधानमेवेति । तथाहि - यादृशं प्रधानं साङ्ख्यैः स्मर्यते तादृशमेवास्मिन्नन्यूनानतिरिक्तं प्रतीयते । सा हि प्रधानलक्षणा प्रकृतिर्न जायत इत्यजा च एका च लोहितशुक्लकृष्णा च । यद्यपि लोहितत्वादयो वर्णा न रजःप्रभृतिषु सन्ति, तथापि लोहितं कुसुम्भादि रञ्जयति, रजोऽपि रञ्जयतीति लोहितम् । एवं प्रसन्नं पाथः शुक्लं, सत्त्वमपि प्रसन्नमिति शुक्लम् । एवमावरकं मेघादि कृष्णं, तमोऽप्यावरकमिति कृष्णम् । परेणापि नाव्याकृतस्य स्वरूपेण लोहितत्वादियोग आस्थेयः, किन्तु तत्कार्यस्य तेजोऽबन्नस्य रोहितत्वादिकारण उपचरणीयम् । कार्यसारूप्येण वा कारणे कल्पनीयं, तदस्माकमपि तुल्यम् । “अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः” (श्वे. उ. ४ । ५) इति त्वात्मभेदश्रवणात् साङ्ख्यस्मृतेरेवात्र मन्त्रवर्णे प्रत्यभिज्ञानं न त्वव्याकृतप्रक्रियायाः । तस्यामैकात्म्याभ्युपगमेनात्मभेदाभावात् । तस्मात्स्वतन्त्रं प्रधानं नाशब्दमिति प्राप्तम् ।

तेषां साम्यावस्थावयवधर्मैरिति ।

अवयवाः प्रधानस्यैकस्य सत्त्वरजस्तमांसि तेषां धर्मा लोहितत्वादयस्तैरिति ।

प्रजास्त्रैगुण्यान्विता इति ।

सुखदुःखमोहात्मिकाः । तथाहि - मैत्रदारेषु नर्मदायां मैत्रस्य सुखं, तत्कस्य हेतोः, तं प्रति सत्त्वस्य समुद्भवात् । तथाच तत्सपत्नीनां दुःखं, तत्कस्य हेतोः, ताः प्रति रजःसमुद्भवात् , तथा चैत्रस्य तामविन्दतो मोहो विषादः, स कस्य हेतोः, तं प्रति तमःसमुद्भवात् । नर्मदया च सर्वे भावा व्याख्याताः । तदिदं त्रैगुण्यान्वितत्वं प्रजानाम् ।

अनुशेत इति व्याचष्टे -

तामेवाविद्ययेति ।

विषया हि शब्दादयः प्रकृतिविकारस्त्रैगुण्येन सुखदुःखमोहात्मान इन्द्रियमनोऽहङ्कारप्रणालिकया बुद्धिसत्त्वमुपसङ्क्रामन्ति । तेन तद्बुद्धिसत्त्वं प्रधानविकारः सुखदुःखमोहात्मकं शब्दादिरूपेण परिणमते । चितिशक्तिस्त्वपरिणामिन्यप्रतिसङ्क्रमापि बुद्धिसत्त्वादात्मनो विवेकमबुध्यमाना बुद्धिवृत्त्यैव विपर्यासेनाविद्यया बुद्धिस्थान्सुखादीनात्मन्यभिमन्यमाना सुखादिमतीव भवति ।

तदिदमुक्तम् -

सुखी दुःखी मूढोऽहमित्यविवेकतया संसरति ।

एकः । सत्त्वपुरुषान्यताख्यातिसमुन्मूलितनिखिलवासनाविद्यानुबन्धस्त्वन्यो जहात्येनां प्रकृतिम् ।

तदिदमुक्तम् -

अन्यः पुनरिति ।

भुक्तभोगामिति व्याचष्टे -

कृतभोगापवर्गाम् ।

शब्दाद्युपलब्धिर्भोगः । गुणपुरुषान्यताख्यातिरपवर्गः । अपवृज्यते हि तया पुरुष इति । एवं प्राप्तेऽभिधीयते - न तावत् “अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः”(श्वे. उ. ४ । ५) इत्येतदात्मभेदप्रतिपादनपरमपि तु सिद्धमात्मभेदमनूद्य बन्धमोक्षौ प्रतिपादयतीति । स चानूदितो भेदः “एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा”(श्वे.उ. ६ । ११) इत्यादिश्रुतिभिरात्मैकत्वप्रतिपादनपराभिर्विरोधात्कल्पनिकोऽवतिष्ठते । तथाच न साङ्ख्यप्रक्रियाप्रत्यभिज्ञानमित्यजावाक्यं चमसवाक्यवत्परिप्लवमानं न स्वतन्त्रप्रधाननिश्चयाय पर्याप्तम् । तदिदमुक्तं सूत्रकृता - “चमसवदविशेषात्”(ब्र. सू. १ । ४ । ८) इति ॥ ८ ॥

उत्तरसूत्रमवतारयितुं शङ्कते -

तत्र त्विदं तच्छिर इति ।

सूत्रमवतारयति -

अत्र ब्रूमः । ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।

सर्वशाखाप्रत्ययमेकं ब्रह्मेति स्थितौ शाखान्तरोक्तरोहितादिगुणयोगिनी तेजोऽबन्नलक्षणा जरायुजाण्डजस्वेदजोद्भिज्जचतुर्विधभूतग्रामप्रकृतिभूतेयमजा प्रतिपत्तव्या, “रोहितशुक्लकृष्णाम्” (श्वे. उ. ४ । ५) इति रोहितादिरूपतया तस्या एव प्रत्यभिज्ञानात् । न तु साङ्ख्यपरिकल्पिता प्रकृतिः । तस्या अप्रामाणिकतया श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् , रञ्जनादिना च रोहिताद्युपचारस्य सति मुख्यार्थसम्भवेऽयोगात् ।

तदिदमुक्तम् -

रोहितादीनां शब्दानामिति ।

अजापदस्य च समुदायप्रसिद्धिपरित्यागेन न जायत इत्यवयवप्रसिद्ध्याश्रयणे दोषप्रसङ्गात् । अत्र तु रूपककल्पनायां समुदायप्रसिद्धेरेवानपेक्षायाः स्वीकारात् ।

अपि चायमपि श्रुतिकलापोऽस्मद्दर्शनानुगुणो न साङ्ख्यस्मृत्यनुगुण इत्याह -

तथेहापीति ।

किं कारणं ब्रह्मेत्युपक्रम्येति ।

ब्रह्मस्वरूपं तावज्जगत्कारणं न भवति, विशुद्धत्वात्तस्य । यथाहुः - “पुरुषस्य तु शुद्धस्य नाशुद्धा विकृतिर्भवेत्” इत्याशयवतीव श्रुतिः पृच्छति । किङ्कारणम् । यस्य ब्रह्मणो जगदुत्पत्तिस्तत्किङ्कारणं ब्रह्मेत्यर्थः । ते ब्रह्मविदो ध्यानयोगेनात्मानं गताः प्राप्ता अपश्यन्निति योजना ।

यो योनिं योनिमिति ।

अविद्या शक्तिर्योनिः, सा च प्रतिजीवं नानेत्युक्तमतो वीप्सोपपन्ना । शेषमतिरोहितार्थम् ॥ ९ ॥

सूत्रान्तरमवतारयितुं शङ्कते -

कथं पुनरिति ।

अजाकृतिर्जातिस्तेजोऽबन्नेषु नास्ति ।

न च तेजोऽबन्नानां जन्मश्रवणादजन्मनिमित्तोऽप्यजाशब्दः सम्भवतीत्याह -

न च तेजोऽबन्नानामिति ।

सूत्रमवतारयति -

अत उत्तरं पठति ।

कल्पनोपदेशाच्च मध्वादिवदविरोधः ।

ननु किं छागा लोहितशुक्लकृष्णैवान्यादृशीनामपि छागानामुपलम्भादित्यत आह -

यदृच्छयेति ।

बहुबर्करा बहुशावा । शेषं निगदव्याख्यातम् ॥ १० ॥

चमसवदविशेषात्॥८॥ अजामन्त्रः प्रधानपरः, उत तेजोबन्नरूपावान्तरप्रकृतिमायारूपपरमप्रकृत्योरन्यतरपर इति संशयः; अजाशब्दस्य तु छागतोऽपकृष्टस्य प्रधानमाययोस्तेजोबन्ने च गुणाद् वृत्तिसंभवात् पूर्वत्रार्थतः प्रधानप्रत्यभिज्ञाया अभावान्नाव्यक्तपदवाच्यतेत्युक्तम्, इह तु त्रिगुणत्वादिना प्रधानप्रत्यभिज्ञानात् तत्परो मन्त्र इति पूर्वपक्षमाह –

प्रधानमेवेति ।

एका चेति ।

अनेन मायायाः प्रतिजीवं भेदादेकामित्येकत्वानुपपत्तिरुक्ता।

न च गौणत्वं दोषः, समत्वादित्याह –

परेणापीति ।

उपचारेण कारणे रोहितत्वाद्यस्तिकल्पने त्वस्तीति विभागः। दारशब्दो नित्यबहुवचनान्तः।

तामेवाविद्ययेति भाष्ये तच्छब्दार्थो विषयज्ञानाधारः प्रधानकार्यमन्तःकरणमित्याह –

विषया हीति ।

चितिशक्तिरात्मा स्वयं सुखादिरूपेणापरिणामिनी। परिणामिन्यां बुद्धौ वस्तुतः अप्रविष्टत्वादप्रतिसङ्क्रमा।

अविद्ययेत्येतद्व्याचष्टे –

विपर्यासेनेति ।

सांख्यानामप्यस्ति भ्रमः, स तु बुद्धावेवेति विशेषः।

आत्मत्वेनोपगम्येत्येतद्विवृणोति –

बुद्धिस्थान इति ।

विपर्याससिद्धबुद्ध्यैक्येन बुद्धिधर्मानात्मन्यभिमन्यमानेत्यर्थः।

कृतत्वोपपत्तयेऽपवर्गशब्दस्तदुपायपर इत्याह –

गुणेति ।

न चानुवादसामर्थ्यात् प्रमाणं कल्प्यं, विरोधादित्याह –

स चेति।।८। ।

व्यवधानात् शाखान्तरेणानिर्णयमाशङ्क्याह –

सर्वेति ।

गुणवचनरोहितादिशब्दैर्लक्षणयाऽपि निरूढ्या मुख्यवत्प्रत्यायकैः प्रतीतिमभिप्रेत्य सति मुख्यार्थसंभव इत्युक्तम्।

नन्वजावदजेति गुणवृत्त्यङ्गीकारात् रूढिस्त्यक्ता, नेत्याह –

अत्र त्विति ।

रूढेरपहृते योगे रूढार्थगुणयोगात्सिद्धा वृत्तिराश्रिता इति रूढिः स्वीकृता; इतरथा गुणयोगस्यैवासिद्धेरिति। न केवलं शाखान्तरान्निर्णयः प्रकरणादपीत्यव्याकृतपक्षं प्रस्तौति।

अपि चेति ।

यस्य जगदुत्पत्तौ साध्यायां किं सहकारिकारणमिति पृच्छ्यते। तत्किं कारणमिति बहुव्रीहिः। ध्यानमेव योगो जीवस्य ब्रह्मैक्ययोजकत्वात्। आत्मप्राप्तिस्त्वनात्मविरहेण स्थितिः। नानेत्युक्तमिति । आनुमानिकाधिकरण इति नानाविद्यास्वप्येकामित्येकत्वं जात्याभिप्रायम्; प्रकरणादविद्यानिश्चयात्॥९॥१०॥

देवात्मशक्तिमिति ।

देवात्मविषयां मायिनं मायाविषयं महेश्वरम् इत्यर्थः। भाष्ये च - पारमेश्वर्याः शक्तेरिति परमेश्वरविषयाया इत्यर्थः। एवं च जीवस्थाया अविद्याया विषयं ब्रह्म शुक्तिवत्। ऊचे वाचस्पतिर्भाष्यश्रुत्योर्हृदयवेदिता॥

इति द्वितीयं चमसाधिकरणम्॥