भामतीव्याख्या
वेदान्तकल्पतरुः
 
कारणत्वाधिकरणविषयाः

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।

अथ समन्वयलक्षणे केयमकाण्डे विरोधाविरोधचिन्ता, भविता हि तस्याः स्थानमविरोधलक्षणमित्यत आह -

प्रतिपादितं ब्रह्मण इति ।

अयमर्थः - नानेकशाखागततत्तद्वाक्यालोचनया वाक्यार्थावगमे पर्यवसिते सति प्रमाणान्तरविरोधेन वाक्यार्थावगतेरप्रामाण्यमाशङ्क्याविरोधव्युत्पादनेन प्रामाण्यव्यवस्थापनमविरोधलक्षणार्थः । प्रासङ्गिकं तु तत्र सृष्टिविषयाणां वाक्यानां परस्परमविरोधप्रतिपादनं न तु लक्षणार्थः । तत्प्रयोजनं च तत्रैव प्रतिपादयिष्यते । इह तु वाक्यानां सृष्टिप्रतिपादकानां परस्परविरोधे ब्रह्मणि जगद्योनौ न समन्वयः सेद्धुमर्हति । तथाच न जगत्कारणत्वं ब्रह्मणो लक्षणं, नच तत्र गतिसामान्यं, नच तत्सिद्धये प्रधानस्याशब्दत्वप्रतिपादनं, तस्माद्वाक्यानां विरोधाविरोधाभ्यामुक्तार्थाक्षेपसमाधानाभ्यां समन्वयः एवोपपाद्यत इति समन्वयलक्षणे सङ्गतमिदमधिकरणम् । “वाक्यानां कारणे कार्ये परस्परविरोधतः । समन्वयो जगद्योनौ न सिध्यति परात्मनि” ॥ “सदेव सोम्येदमग्र आसीत्” (छा. उ. ६ । २ । १) इत्यादीनां कारणविषयाणां, “असद्वा इदमग्र आसीत्”(तै. उ. २ । ७ । १) इत्यादिभिर्वाक्यैः कारणविषयैर्विरोधः । कार्यविषयाणामपि विभिन्नक्रमाक्रमोत्पत्तिप्रतिपादकानां विरोधः । तथाहि - कानिचिदन्यकर्तृका जगदुत्पत्तिमाचक्षते वाक्यानि । कानिचित्स्वयङ्कर्तृकाम् । सृष्ट्या च कार्येण तत्कारणतया ब्रह्म लक्षितम् । सृष्टिविप्रतिपत्तौ तत्कारणतायां ब्रह्मलक्षणे विप्रतिपत्तौ सत्यां भवति तल्लक्ष्ये ब्रह्मण्यपि विप्रतिपत्तिः । तस्माद्ब्रह्मणि समन्वयाभावान्न समन्वयागम्यं ब्रह्म । वेदान्तास्तु कर्त्रादिप्रतिपादनेन कर्मविधिपरतयोपचरितार्था अविवक्षितार्था वा जपोपयोगिन इति प्राप्तम् ।

क्रमादीति ।

आदिग्रहणेनाक्रमो गृह्यते । एवं प्राप्त उच्यते - “सर्गक्रमविवादेऽपि न स स्रष्टरि विद्यते । सतस्त्वसद्वचो भक्त्या निराकार्यतया क्वचित्” ॥ न तावदस्ति सृष्टिक्रमे विगानं, श्रुतीनामविरोधात् । तथाहि - अनेकशिल्पपर्यवदातो देवदत्तः प्रथमं चक्रदण्डादि करोति, अथ तदुपकरणः कुम्भं, कुम्भोपकरणश्चाहरत्युदकं, उदकोपकरणश्च संयवनेन गोधूमकणिकानां करोति पिण्डं, पिण्डोपकरणस्तु पचति घृतपूर्णं, तदस्य देवदत्तस्य सर्वत्रैतस्मिन् कर्तृत्वाच्छक्यं वक्तुं देवदत्ताच्चक्रादि सम्भूतं तस्माच्चक्रादेः कुम्भादीति । शक्यं च देवदत्तात्कुम्भः समुद्भूतस्तस्मादुदकाहरणादीत्यादि । नह्यस्त्यसम्भवः सर्वत्रास्मिन् कार्यजाते क्रमवत्यपि देवदत्तस्य साक्षात्कर्तुरनुस्यूतत्वात् । तथेहापि यद्यप्याकाशादिक्रमेणैव सृष्टिस्तथाप्याकाशानलानिलादौ तत्र तत्र साक्षात्परमेश्वरस्य कर्तृत्वाच्छक्यं वक्तुं परमेश्वरादाकाशः सम्भूत इति । शक्यं च वक्तुं परमेश्वरादनलः सम्भूत इत्यादि । यदि त्वाकाशाद्वायुर्वायोस्तेज इत्युक्त्वा तेजसो वायुर्वायोराकाश इति ब्रूयाद्भवेद्विरोधः । न चैतदस्ति । तस्मादमूषामविवादः श्रुतीनाम् । एवं “स इमांल्लोकानसृजत”(ऐ.उ. १-१-२) इत्युपक्रमाभिधायिन्यपि श्रुतिरविरुद्धा । एषा हि स्वव्यापारमभिधानक्रमेण कुर्वती नाभिधेयानां क्रमं निरुणद्धि । ते तु यथाक्रमावस्थिता एवाक्रमेणोच्यन्ते - यथा क्रमवन्ति ज्ञानानि जानातीति । तदेवमविगानम् । अभ्युपेत्य तु विगानमुच्यतेसृष्टौ खल्वेतद्विगानम् । स्रष्टा तु सर्ववेदान्तवाक्येष्वनुस्यूतः परमेश्वरः प्रतीयते । नात्र श्रुतिविगानं मात्रयाप्यस्ति । नच सृष्टिविगानं स्रष्टरि तदधीननिरूपणे विगानमावहतीति वाच्यम् । नह्येष स्रष्टृत्वमात्रेणोच्यतेऽपि तु “सत्यं ज्ञानमनन्तं ब्रह्म” (तै. उ. २ । १ । १) इत्यादिना रूपेणोच्यते स्रष्टा । तच्चास्य रूपं सर्ववेदान्तवाक्यानुगतम् । तज्ज्ञानं च फलवत् । “ब्रह्मविदाप्नोति परम्” (तै. उ. २ । १ । १) “तरति शोकमात्मवित्”(छा. उ. ७ । १ । ३) इत्यादि श्रुतेः । सृष्टिज्ञानस्य तु न फलं श्रूयते । तेन “फलवत्संनिधावफलं तदङ्गम्” इति सृष्टिविज्ञानं स्रष्टृब्रह्मविज्ञानाङ्गं तदनुगुणं सद्ब्रह्मज्ञानावतारोपायतया व्याख्येयम् । तथाच श्रुतिः - “अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छ”(छा. उ. ६ । ८ । ४) इत्यादिका । शुङ्गेनाग्रेण । कार्येणेति यावत् । तस्मान्न सृष्टिविप्रतिपत्तिः स्रष्टरि विप्रतिपत्तिमावहति । अपि तु “गुणे त्वन्यायकल्पना” इति तदनुगुणतया व्याख्येया । यच्च कारणे विगानम् “असद्वा इदमग्र असीत्”(तै. उ. २ । ७ । १) इति, तदपि “तदप्येष श्लोको भवति”(तै. उ. २ । ६ । १) इति पूर्वप्रकृतं सद्ब्रह्मणाकृष्य “असदेवेदमग्र आसीत्” (छा. उ. ३ । १९ । १) इत्युच्यमानं त्वसतोऽभिधानेऽसम्बद्धं स्यात् । श्रुत्यन्तरेण च मानान्तरेण च विरोधः । तस्मादौपचारिकं व्याख्येयम् । “तद्धैक आहुरसदेवेदमग्र आसीत्” (छा. उ. ६ । २ । १) इति तु निराकार्यतयोपन्यस्तमिति न कारणे विवाद इति सूत्रे चशब्दस्त्वर्थः । पूर्वपक्षं निवर्तयति । आकाशादिषु सृज्यमानेषु क्रमविगानेऽपि न स्रष्टरि विगानम् । कुतः । यथैकस्यां श्रुतौ व्यपदिष्टः परमेश्वरः सर्वस्य कर्ता तथैव श्रुत्यन्तरेषूक्तेः, केन रूपेण, कारणत्वेन, अपरः कल्पो यथा व्यपदिष्टः क्रम आकाशादिषु, “आत्मन आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी” (तै. उ. २ । १ । १) इति, तस्यैव क्रमस्यानपबाधनेन “तत्तेजोऽसृजत”(छा. उ. ६ । २ । ३) इत्यादिकाया अपि सृष्टेरुक्तेर्न सृष्टावपि विगानम् ॥ १४ ॥

नन्वेकत्रात्मन आकाशकारणत्वेनोक्तिरन्यत्र च तेजः कारणत्वेन, तत्कथमविगानमिति । अत आह -

कारणत्वेति ।

हेतौ तृतीया । सर्वत्राकाशानलानिलादौ साक्षात्कारणत्वेनात्मनः । प्रपञ्चितं चैतदधस्तात् । व्याक्रियत इति च कर्मकर्तरि कर्मणि वा रूपं, न चेतनमतिरिक्तं कर्तारं प्रतिक्षिपति किन्तूपस्थापयति । नहि लूयते केदारः स्वयमेवेति वा लूयते केदार इति वा लवितारं देवदत्तादिं प्रतिक्षिपति । अपि तूपस्थापयत्येव । तस्मात्सर्वमवदातम् ॥ १५ ॥

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः॥१४॥ अकाण्डेऽनवसरे। भविता भविष्यति। मानान्तरविरोधपरिहारो द्वितीयाध्यायार्थः। श्रुतीनाम् इतरेतरविरोधपरिहारस्तु नानाशाखागतपूर्वापरवाक्यपर्यालोचनया नानाशाखानामन्योन्यवाक्यानां चेतरेतरविरोधपरिहारेण अद्वितीयब्रह्मप्रतिपत्तिसिद्ध्या समन्वयसिद्ध्यर्थत्वादिह सङ्गत इत्याह –

नानेति ।

नाना भिन्ना एका चेति तथोक्ता।

यदि मनान्तराविरोधो द्वितीयाध्यायार्थस्तर्हि वियत्पादादौ (व्या.सू.अ.२.प.३) कथं श्रुतीनामितरेतराविरोधचिन्ताऽत आह –

प्रासङ्गिकं त्विति ।

विप्रतिषेधात् परपक्षाणामनपेक्ष्यत्वे उक्ते स्वपक्षस्यापि तत्प्रसङ्गे तन्निवृत्तिः प्रयोजनं तत्रैव प्रतिपादयिष्यत इत्यर्थः। परैरुद्भावितो दोष उद्धर्तव्यः स्वदर्शने। इति शिक्षार्थमत्रत्यचिन्तां तत्राकरोन्मुनिः॥ क्वाचित्कस्यासच्छब्दस्य कर्मकर्तृप्रयोगस्य चासद्वादपरत्वं स्वभाववादपरत्वं च व्युदस्य गतिसामान्यव्यवस्थापनात्पादसङ्गतिः। अथवा एतदारभ्य त्रीण्यधिकरणानि पादान्तरसङ्गतान्यपि अवान्तरसङ्गतिलोभादिह लिखितानि। प्रकृतिश्चेत्यस्य त्वध्यायावसाने लेखे निमित्तं वक्ष्यते। एतेनेत्यस्यापि सर्वन्यायातिदेशत्वादध्यायावसान एव निवेशः। जगत्कारणवादिवाक्यानि ब्रह्मणि प्रमाणं न वेति विप्रतिपत्तेर्विशये पूर्वत्रान्नज्योतिषोर्विकल्पेनोपास्तौ निवेशादविरोध उक्तः।

इह तु सिद्धे कारणे त्रैकाल्यायोगाद्विरोधे सत्यप्रामाण्यमिति पूर्वपक्षमाह –

वाक्यानामिति ।

वाक्यानां कार्ये विरोधात्कार्यद्वारगम्ये जगद्योनौ न समन्वयो वेदान्तानां कारणे विगानात् तदुपलक्ष्य परमात्मनि च न सिद्ध्यतीत्यर्थः। विभिन्नक्रमा अक्रमा च युगपद्भाविनी या उत्पत्तिस्तत्प्रतिपादकानामित्यर्थः। आत्मन आकाशस्तत्तेजोऽसृजतेत्यत्र भिन्नः क्रमः। स इमाल्लोकान सृजतेत्यक्रम इति। तन्नामरूपाभ्यां व्याक्रियतेत्यादीनि कर्मकत्रभिधानात्स्वयंकर्तृकत्वशंसीनीति।

ननु कार्यविगाने ब्रह्मणि किमायातमत आह –

सृष्ट्या चेति ।

धूमधूलिसंदेहे तद्गम्याग्निसंदेहवद् गमककार्यसंदेहाद् गम्यब्रह्मसन्देह इत्यर्थः।

कार्यविगानमभ्युपेत्याह –

सर्गेति ।

स्वयंकर्तृकत्वान्यकर्तृकत्वाभ्यां सर्गे क्रमाक्रमव्युत्क्रमैस्तत्क्रमे च विवादेऽपि स्रष्टरि स विवादो न विद्यते, सर्गस्य च अविवक्षितत्वात् तद्विवादोऽकिञ्चित्कर इत्यर्थः।

कारणविगानं परिहरति –

सतस्त्विति ।

असद्वा इदमग्र आसीदित्यादौ असद्वचो भक्त्या। अनभिव्यक्तिश्च भक्तिः। तद्धैक आहुरित्यत्र निराकरणीयत्वेनानुवादोऽसद्वच इत्यर्थः। अपिशब्दात्सर्गे क्रमे च न विवाद इति सूचितम्।

तत्प्रकटयति –

न तावदित्यादिना ।

तत्र विभिन्नक्रमत्वं तावत्परिहरति –

अनेकशिल्पेति ।

पर्यवदातः कुशलः। संयवनं मिश्रणं, घृतपूर्णं पक्वान्नविशेषः। क्रमेण नाना कार्याणि कुर्वाणे देवदत्ते प्रथमस्येव चरमस्यापि तेन साक्षात्सृष्टत्वात्ततो निष्पत्तिर्वक्तुं शक्या। तथा पूर्वकार्यस्योत्तरकार्यनिमित्तत्वात्कार्यात्कार्यान्तरसर्गस्य शक्यवचनः।

दृष्टान्तमुक्त्वा एवं ब्रह्मैक्यादाकाशादेर्वाय्वाद्युपादानत्वमिति दार्ष्टान्तिकमाह –

तथेहापीति ।

अनलाऽनिलेति तेजसः प्राथम्यनिर्देशः, तत्प्राथम्यघटनस्य प्रस्तुतत्वात्।

तर्हि कदा निर्देशविरोधस्तत्राह –

यदि त्विति ।

आकाशवायुतेजसां क्रमेणोत्पत्तिमुक्त्वा व्युत्क्रमाभिधाने हि विरोधः स्यान्न तु तेजसः साक्षाद् ब्रह्मणः सृष्टिमात्राभिधाने। न ह्यनेन क्रमो बाध्यत इत्यर्थः।

एवमपिशब्दस्य भावमुक्त्वा न स स्रष्टरीति श्लोकभागं व्याचष्टे –

अभ्युपेत्येति ।

यदवादि धूमसन्देहेन दहनसन्देहवत्सृष्टिसन्देह इति तदनूद्यापनुदति –

न च सृष्टिविगानमिति ।

सत्यादिलक्षणं ब्रह्मावगमय्य तदानन्त्योपपिपादयिषया जगतस्तत्रारोपः श्रुत्या सृष्टिरुच्यते, न तु सृष्टौ तात्पर्यम्, अतो मिथ्याभूतायां सृष्टौ विगानं न दोषोऽपि त्वलंकार इत्यर्थः।

ननु सृष्टेः कुत आत्मप्रमित्यर्थता? विपरीतता कस्मान्न स्यादत आह –

तज्ज्ञानं चेति ।

तदनुगुणतयेति ।

व्याख्यातं च घृतपूर्णटीकायामित्यर्थः।

सतस्त्वसद्वचो भत्तयेति श्लोकभागं व्याचष्टे –

यच्च कारणइत्यादिना ।

तदप्येष इत्यादिः परिहारः। अस्ति ब्रह्मेति चेद्वेदेति प्रकृतं ब्रह्म तत्रशब्दसमानार्थतच्छब्देन परामृश्य श्लोकेनासदभिधाने श्लोकवाक्यमसंबद्धं स्यादित्यर्थः। श्रुत्यन्तरं सदेव सोम्येत्यादि। मानान्तरं विमतं, सज्जन्यं, कार्यत्वात्, कुम्भवदित्यादि।

निराकार्यतया क्वचिदिति श्लोकभागं विभजते –

तद्धैक इति ।

यदा कार्ये विगानमुपेत्य कारणे तदभाव उच्यते, तदा समुच्चयाभावात् चकारस्तुशब्दसमानार्थतया समन्वयो न सिद्ध्यति परात्मनीत्येवंरूपपूर्वपक्षनिषेधार्थ इत्यर्थः।

कारणत्व इति सप्तमीमादाय सूत्रैकदेशेन वाक्यानां कारणे परस्परविरोध इति पूर्वपक्षोक्तहेतोः असिद्धिरविगानप्रतिज्ञयोच्यत इत्याह –

आकाशादिष्वित्यादिना ।

प्रतिज्ञातविगानभावे हेतुपरं सूत्रावयवं व्याचष्टे –

कुत इति ।

पुनरावृत्त्या कारणत्वेनेति तृतीयान्तमित्थंभावार्थं विवक्षित्वा यथाव्यपदिष्टपदार्थविवरणपरत्वेन व्याख्याति –

केनेति ।

एवं कारणविगाननिषेधपरत्वेन सूत्रं व्याख्याय संप्रति कार्यविगानपरिहारपरतया योजयति –

अपर इति ।

कल्पः प्रकारः। अस्यां व्याख्यायां चकारः समुच्चये।

तदुक्तं –

न सृष्टावपीति।

कारणत्वेन विगानं न च कार्यक्रमे इति सूत्रे द्वे प्रतिज्ञे।

आद्या प्रागुपपादिता, द्वितीयायां हेतुं योजयति –

यथाव्यपदिष्ट इति ।

यथाशब्दोऽनतिक्रमार्थः। ब्रह्मणस्तेजःसृष्टिमात्रमुक्तं, न क्रमो भग्न इत्यर्थः।

परस्तु कार्यान्तरव्यवधानमन्तरेण तेजसो ब्रह्मप्रभवत्वाभिधानात् प्रथमोत्पत्तिरभिप्रेताऽतः क्रमभङ्गाद्यथाव्यपदिष्टोक्तिरसिद्धेति शङ्कते –

नन्वेकत्रेति ।

सिद्धान्ती तु साक्षाद् ब्रह्मसृज्यत्वमव्यवधाननिर्देशस्य प्रयोजनम् न तु कार्यान्तरस्यासर्ग इति मन्वानः पूर्ववदावृत्त्या तृतीयान्ततामादाय साक्षात्पदं चाध्याहृत्य सूत्रावयवव्याख्यया परिहरति –

अत आहेति ।

पूर्वत्रेत्थंभावे व्याख्यातत्वात्तद्भ्रमापनुत्त्यर्थमाह –

हेताविति ।

अधस्ताद् घृतपूर्णटीकायाम्। नामरूपाभ्यां व्याक्रियतेति कर्मकर्तरि कर्मणि वा लकारः।

आद्ये कर्त्रप्रतिक्षेपस्तत्र हेतुमाह –

न हीति ।

लूयते केदारः स्वयमेवेति भिन्नकर्तृकमेव सौकर्यापेक्षया कर्मकर्तृ इत्युच्यते इत्यर्थः। द्वितीये स्फुटैवान्यकर्त्रपेक्षेत्यर्थः॥१५॥ इदमसदिवाव्यक्तमासीत्, तद्यदात्मना आसीत् तत्कारणसदर्थक्रियोन्मुखम् आसीत्। कार्यरूपेण च समभवत्।

तत्तत्र कारणविषये एक आहुस्तेषां मतं दूषयति –

कुतस्त्विति ।

तदेवाह –

कथमिति ।

व्यतिरेकमुक्त्वाऽन्वयमाह –

सदेवेति ।

इदं जगत्। तर्हि तदानीम्, अव्याकृतं कारणमासीत्। ह किल तत्कारणं शब्दार्थात्मना व्याक्रियत व्यक्तमभवत्। भाष्ये - तद्विषयेण कामयितृत्ववचनेनेति सोऽकामयतेत्यनेनेत्यर्थः। अपरप्रेष्यत्वमिदं सर्वमसृजतेति स्वातदृयम् तस्माद्वा एतस्मादात्मन इति तद्विषय आत्मशब्दः। संप्रदायविदां वचने अन्यथा अन्यथेति वीप्सा द्रष्टव्या। लोहं सुवर्णम्। अवताराय ब्रह्मात्मैक्यबुद्धेरिति शेषः। प्रतिपाद्ये ब्रह्मणि नास्ति भेदो न विगानमित्यर्थः। मृत्युमत्येतीत्यन्वयः। असद् ब्रह्मेति वेद चेदसाधुः स्यात्। पश्यन्नात्माचष्टे उपलभत इति चक्षुः शृणोति मनुत इति च श्रोत्राद्याख्यो भवति॥

इति चतुर्थं कारणत्वाधिकरणम्॥१५॥