जगद्वाचित्वात् ।
ननु “ब्रह्म ते ब्रवाणि”(बृ. उ. २ । १ । १) इति ब्रह्माभिधानप्रकरणात् , उपसंहारे च “सर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यं पर्येति य एवं वेद” इति निरतिशयफलश्रवणाद्ब्रह्मवेदनादन्यत्र तदसम्भवात् , आदित्यचन्द्रादिगतपुरुषकर्तृत्वस्य च “यस्य वैतत्कर्म”(कौ . ब्रा. ४ । १९) इति चास्यासत्यवच्छेदे सर्वनाम्ना प्रत्यक्षसिद्धस्य जगतः परामर्शेन, जगत्कर्तृत्वस्य च ब्रह्मणोऽन्यत्रासम्भवात्कथं जीवमुख्यप्राणाशङ्का । उच्यते - ब्रह्म ते ब्रवाणीति बालाकिना गार्ग्येण ब्रह्माभिधानं प्रतिज्ञाय तत्तदादित्यादिगताब्रह्मपुरुषाभिधानेन न तावद्ब्रह्मोक्तम् । यस्य चाजातशत्रोः “यो वै बालाके एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म” (कौ . ब्रा. ४ । १९) इति वाक्यं न तेन ब्रह्माभिधानं प्रतिज्ञातम् । न चान्यदीयेनोपक्रमेणान्यस्य वाक्यं शक्यं नियन्तुम् । तस्मादजातशत्रोर्वाक्यसन्दर्भपौर्वापर्यपर्यालोचनया योऽस्यार्थः प्रतिभाति स एव ग्राह्यः । अत्र च कर्मशब्दस्तावद्व्यापारे निरूढवृत्तिः । कार्ये तु क्रियत इति व्युत्पत्त्या वर्तते । नच रूढौ सत्यां व्युत्पत्तिर्युक्ताश्रयितुम् । नच ब्रह्मण उदासीनस्यापरिणामिनो व्यापारवत्ता । वाक्यशेषे च “अथास्मिन् प्राण एवैकधा भवति”(कौ.उ. ३.३.) इति श्रवणात्परिस्पन्दलक्षणस्य च कर्मणो यत्रोपपत्तिः स एव वेदितव्यतयोपदिश्यते । आदित्यादिगतपुरुषकर्तृत्वं च प्राणस्योपपद्यते, हिरण्यगर्भरूपप्राणावस्थाविशेषत्वादादित्यादिदेवतानाम् । “कतम एको देवः प्राणः”(बृ. उ. ३ । ९ । ९) इति श्रुतेः । उपक्रमानुरोधेन चोपसंहारे सर्वशब्दः सर्वान् पाप्मन इति च सर्वेषां भूतानामिति चापेक्षिकवृत्तिर्बहून् पाप्मनो बहूनां भूतानामित्येवंपरो द्रष्टव्यः । एकस्मिन् वाक्ये उपक्रमानुरोधादुपसंहारो वर्णनीयः । यदि तु दृप्तबालाकिमब्रह्मणि ब्रह्माभिधायिनमपोद्याजातशत्रोर्वचनं ब्रह्मविषयमेवान्यथा तु तदुक्ताद्विशेषं विवक्षोरब्रह्माभिधानमसम्बद्धं स्यादिति मन्यते, तथापि नैतद्ब्रह्माभिधानं भवितुमर्हति, अपितु जीवाभिधानमेव, यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामान्त्रणशब्दाश्रवणात् प्राणादीनामभोक्तृत्वमस्वामित्वं प्रतिबोध्य यष्टिघातोत्थानात् प्राणादिव्यतिरिक्तं जीवं भोक्तारं स्वामिनं प्रतिबोधयति । परस्तादपि “तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एनमात्मानं भुञ्जन्ति”(कौ . ब्रा. ४ । २०) इति श्रवणात् । यथा श्रेष्ठी प्रधानः पुरुषः स्वैर्भृत्यैः करणभूतैर्विषयान् भुङ्क्ते, यथा वा स्वा भृत्याः श्रेष्ठिनं भुञ्जन्ति । ते हि श्रेष्ठिनमशनाच्छादनादिग्रहणेन भुञ्जन्ति । एवमेवैष प्रज्ञात्मा जीव एतैरादित्यादिगतैरात्मभिर्विषयान् भुङ्क्ते । ते ह्यादित्यादय आलोकवृष्ट्यादिना साचिव्यमाचरन्तो जीवात्मानं भोजयन्ति, जीवात्मानमपि यजमानं तदुत्सृष्टहविरादानादादित्यादयो भुञ्जन्ति, तस्माज्जीवात्मैव ब्रह्मणोऽभेदाद्ब्रह्मेह वेदितव्यतयोपदिश्यते ।
यस्य वैतत्कर्म इति ।
जीवप्रत्युक्तानां देहेन्द्रियादीनां कर्म जीवस्य भवति । कर्मजन्यत्वाद्वा धर्माधर्मयोः कर्मशब्दवाच्यत्वं रूढ्यनुसारात् । तौ च धर्माधर्मौ जीवस्य । धर्माधर्माक्षिप्तत्वाच्चादित्यादीनां भोगोपकरणानां तेष्वपि जीवस्य कर्तृत्वमुपपन्नम् । उपपन्नं च प्राणभृत्त्वाज्जीवस्य प्राणशब्दत्वम् । ये च प्रश्नप्रतिवचने “क्वैष एतद्बालाके पुरुषोऽशयिष्ट यदा सुप्तः स्वप्नं न कञ्चन पश्यति”(कौ . ब्रा. ४ । १९) इति । अनयोरपि न स्पष्टं ब्रह्माभिधानमुपलभ्यते । जीवव्यतिरेकश्च प्राणात्मनो हिरण्यगर्भस्याप्युपपद्यते । तस्माज्जीवप्राणयोरन्यतर इह ग्राह्यो न परमेश्वर इति प्राप्तम् ।
एवं प्राप्ते
उच्यते - “मृषाावादिनमापोद्य बालाकिं ब्रह्मवादिनम् । राजा कथमसम्बद्धं मिथ्या वा वक्तुमर्हति” ॥ यथा हि केनचिन्मणिलक्षणज्ञमानिना काचे मणिरेव वेदितव्य इत्युक्ते परस्य काचोऽयं मणिर्न तल्लक्षणायोगादित्यभिधाय आत्मनो विशेषं जिज्ञापयिषोस्तत्त्वाभिधानमसम्बद्धम् । अमणौ मण्यभिधानं न पूर्ववादिनो विशेषमापादयति स्वयमपि मृषाभिधानात् । तस्मादनेनोत्तरवादिना पूर्ववादिनो विशेषमापादयता मणितत्त्वमेव वक्तव्यम् । एवमजातशत्रुणा दृप्तबालाकेरब्रह्मवादिनो विशेषमात्मनो दर्शयता जीवप्राणाभिधाने असम्बद्धमुक्तं स्यात् । तयोर्वाब्रह्मणोर्ब्रह्माभिधाने मिथ्याभिहितं स्यात् । तथा च न कश्चिद्विशेषो बालाकेर्गार्ग्यादजातशत्रोर्भवेत् । तस्मादनेन ब्रह्मतत्त्वमभिधातव्यम् । तथा सत्यस्य न मिथ्यावद्यम् । तस्मात् “ब्रह्म ते ब्रवाणि” (बृ. उ. २ । १ । १) इति ब्रह्मणोपक्रमात् , सर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वराज्यं पर्येति य एवं वेदऽइति च सति सम्भवे सर्वश्रुतेरसङ्कोचान्निरतिशयेन फलेनोपसंहारात् , ब्रह्मवेदनादन्यतश्च तदनुपपत्तेः, आदित्यादिपुरुषकर्तृत्वस्य च स्वातन्त्र्यलक्षणस्य मुख्यस्य ब्रह्मण्येव सम्भवादन्येषां हिरण्यगर्भादीनां तत्पारतन्त्र्यात् , “क्वौष एतद्बालाके”(कौ . ब्रा. ४ । १९) इत्यादेर्जीवाधिकरणभवनापादनप्रश्नस्य “यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति” (कौ . ब्रा. ४ । २०) इत्यादेरुत्तरस्य च ब्रह्मण्येवोपपत्तेर्ब्रह्मविषयत्वं निश्चीयते । अथ कस्मान्न भवतो हिरण्यगर्भगोचरे एव प्रश्नोत्तरे, तथा च नैताभ्यां ब्रह्मविषयत्वसिद्धिरित्येतन्निराचिकीर्षुः पठति - एतस्मादात्मनः प्राणा यथा यथायतनं प्रतिष्ठन्त इति । एतदुक्तं भवति - आत्मैव भवति जीवप्राणादीनामधिकरणं नान्यदिति । यद्यपि च जीवो नात्मनो भिद्यते तथाप्युपाध्यवच्छिन्नस्य परमात्मनो जीवत्वेनोपाधिभेदाद्भेदमारोप्याधाराधेयभावो द्रष्टव्यः । एवं च जीवभवनाधारत्वमपादानत्वं च परमात्मन उपपन्नम् ।
तदेवं बालाक्यजातशत्रुसंवादवाक्यसन्दर्भस्य ब्रह्मपरत्वे स्थिते
यस्य वैतत्कर्म इति
व्यापाराभिधाने न सङ्गच्छत इति कर्मशब्दः कार्याभिधायी भवति, एतदितिसर्वनामपरामृष्टं च तत्कार्यं, सर्वनाम चेदं संनिहितपरामर्शि, नच किञ्चिदिह शब्दोक्तमस्ति संनिहितम् । न चादित्यादिपुरुषाः संनिहिता अपि परामर्शार्हाः बहुत्वात्पुंलिङ्गत्वाच्च । एतदिति चैकस्य नपुंसकस्याभिधानात् “एतेषां पुरुषाणां कर्ता” (कौ . ब्रा. ४ । १९) इत्यनेनैव गतार्थत्वाच्च । तस्मादशब्दोक्तमपि प्रत्यक्षसिद्धं सम्बन्धार्हं जगदेव पराम्रष्टव्यम् ।
एतदुक्तं भवति ।
अत्यल्पमिदमुच्यते एतेषामादित्यादिगतानां जगदेकदेशभूतानां कर्तेति, किन्तु कृत्स्नमेव जगद्यस्य कार्यमिति वाशब्देन सूच्यते । जीवप्राणशब्दौ च ब्रह्मपरौ जीवशब्दस्य ब्रह्मोपलक्षणपरत्वात् । न पुनर्ब्रह्मशब्दो जीवोपलक्षणपरः । तथा सति हि बह्वसमञ्जसं स्यादित्युक्तम् । न चानधिगतार्थावबोधनस्वरसस्य शब्दस्याधिगतबोधनं युक्तम् । नाप्यनधिगतेनाधिगतोपलक्षणमुपपन्नम् । नच सम्भवत्येकवाक्यत्वे वाक्यभेदो न्याय्यः । वाक्यशेषानुरोधेन च जीवप्राणपरमात्मोपासनात्रयविधाने वाक्यत्रयं भवेत् । पौर्वापर्यपर्यालोचनया तु ब्रह्मोपासनपरत्वे एकवाक्यतैव । तस्मान्न जीवप्राणपरत्वमपि तु ब्रह्मपरत्वमेवेति सिद्धम् ।
स्यादेतत् । निर्दिश्यन्तां पुरुषाः कार्यास्तद्विषया तु कृतिरनिर्दिष्टा तत्फलं वा कार्यस्योत्पत्तिस्ते यस्येदं कर्मेति निर्देक्ष्येते, ततः कुतः पौनरुक्त्यमित्यत आह -
नापि पुरुषविषयस्येति ।
एतदुक्तं भवति - कर्तृशब्देनैव कर्तारमभिदधता तयोरुपात्तत्वादाक्षिप्तत्वात् । नहि कृतिं विना कर्ता भवति । नापि कृतिर्भावनापराभिधाना भूतिमुत्पत्तिं विनेत्यर्थः ।
ननु यदीदमा जगत्परामृष्टं ततस्तदन्तर्भूताः पुरुषा अपीति य एतेषां पुरुषाणामिति पुनरुक्तमित्यत आह -
एतदुक्तं भवति । य एषां पुरुषाणामिति ॥ १६ ॥ ॥ १७ ॥
ननु “प्राण एवैकधा भवति”(कौ . ब्रा. ४ । २०) इत्यादिकादपि वाक्याज्जीवातिरिक्तः कुतः प्रतीयत इत्यतो वाक्यान्तरं पठति -
एतस्मादात्मनः प्राणा इति ।
अपि च सर्ववेदान्तसिद्धमेतदित्याह -
सुषुप्तिकाले चेति ।
वेदान्तप्रक्रियायामेवोपपत्तिमुपसंहारव्याजेनाह -
तस्माद्यत्रास्य
आत्मनो यतो निःसम्बोधोऽतः स्वच्छतारूपमिव रूपमस्येति स्वच्छतारूपो न तु स्वच्छतैव । लयविक्षेपसंस्कारयोस्तत्र भावात् । समुदाचरद्वृत्तिविक्षेपाभावमात्रेणोपमानम् । एतदेव विभजते - उपाधिभिः अन्तःकरणादिभिः जनितं यद्विशेषविज्ञानं घटपटादिविज्ञानं तद्रहितं स्वरूपमात्मनः यदि विज्ञानमित्येवोच्येत ततस्तदविशिष्टमनवच्छिन्नं सद्ब्रह्मैव स्यात्तच्च नित्यमिति नोपाधिजनितं नापि तद्रिहितं स्वरूपं ब्रह्मस्वभावस्याप्रहाणात् ।
अत उक्तम् -
विशेषेति ।
यदा तु लयलक्षणाविद्योपबृंहितो विक्षेपसंस्कारः समुदाचरति तदा विशेषविज्ञानोत्पादात्स्वप्नजागरावस्थातः परमात्मनो रूपाद्भ्रंशरूपमागमनमिति ।
न केवलं कौषीतकिब्राह्मणे, वाजसनेयेऽप्येवमेव प्रश्नोत्तरयोर्जीवव्यतिरिक्तमामनन्ति परमात्मानमित्याह -
अपि चैवमेक इति ।
नन्वत्राकाशं शयनस्थानं तत्कुतः परमात्मप्रत्यय इत्यत आह -
आकाशशब्दश्चेति ।
न तावन्मुख्यस्याकाशस्यात्माधारत्वसम्भवः । यदपि च द्वासप्ततिसहस्रहिताभिधाननाडीसञ्चारेण सुषुप्त्यवस्थायां पुरीतदवस्थानमुक्तं तदप्यन्तःकरणस्य । तस्मात् “दहरोऽस्मिन्नन्तराकाशः”(छा. उ. ८ । १ । १) इतिवदाकाशशब्दः परमात्मनि मन्तव्य इति ।
प्रथमं भाष्यकृता जीवनिराकरणाय सूत्रमिदमवतारितम् । तत्र मन्दधियां नेदं प्राणनिराकरणायेति बुद्धिर्मा भूदित्याशयवानाह -
प्राणनिराकरणस्यापीति ।
तौ हि बालाक्यजातशत्रू सुप्तं पुरुषमाजग्मतुः । तमजातशत्रुर्नामभिरामन्त्रयाञ्चक्रे “बृहत्पाण्डुरवासः सोमराजन्” इति । स आमन्त्र्यमाणो नोत्तस्थौ । तं पाणिनापेषं बोधयाञ्चकार । स होत्तस्थौ । स होवाचजातशत्रुर्यत्रैष एतत्सुप्तोऽभूत्” इत्यादि । सोऽयं सुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेश इति ॥ १८ ॥
जगद्वाचित्वात्॥१६॥ अत्र क्वचित्कहैरण्यगर्भमतद्योतककर्मशब्दस्य ब्रह्मानुगुण्यवर्णनात्पादसंगतिः। इहोपक्रमानुरोधात् ब्रह्म भाति, उपसंहारानुरोधेन जीवः। ब्रह्मशब्दस्य स ब्रह्म त्यदित्याचक्षत इति प्राणेऽपि प्रयुक्त इति संशयः। एकवाक्ये त्यच्छब्दादसच्छब्दो नीयतां वाक्यभेदे तु न ब्रह्मशब्दात्कर्मशब्दो नेय इति संङ्गतिः। यदा खल्वत्राप्येकवाक्यत्वं तथा यथोत्तरसच्छब्दानुसारेण प्राचीन्नोऽसच्छब्दो नीत एवमुत्तरस्मात्कर्मशब्दात्प्राचो ब्रह्मशब्दस्य नयनमिति सङ्गतिः। प्रातर्दन(ब्र.अ.१.पा.१.सू.२८) विचारेण गतत्वं शङ्कते –
नन्विति ।
तत्र ह्युपक्रमोपसंहारैकरूप्यादेकवाक्येत्वे सति जीवप्राणलिङ्गयोर्ब्रह्मपरतया नयनं कृतम्, तदिहापि सममित्यर्थः। मध्येऽपि ब्रह्मपरामर्शमाह - आदित्येति। पुरुषकर्तृत्वस्य ब्रह्मणोऽन्यत्रासंभवादित्यन्वयः। अवच्छेदके प्रकरणादावसति सर्वनाम्ना प्रमाणमात्रसिद्धजगतः परामर्शे सति यज्जगत्कर्तृत्वमवगतं तस्य च ब्रह्मणोऽन्यत्रासंभवादित्यर्थः। जगत्कर्तृत्वमन्यत्र ब्रह्मणो नेति दुष्यति। वाचस्पतावुपालम्भमनालोच्योचिरे परे॥ जीवाज्जज्ञे जगत्सर्वं सकारणमिति ब्रुवन्। क्षिपन् समन्वयं जीवे न लेजे वाक्पतिः कथम्?॥ इति। अधिष्ठानं हि ब्रह्म न जीवाः। अधिष्ठाने च समन्वय इत्यनवद्यम्।
इह वाक्यभेदापादनेन तावदगतार्थतामाह –
उच्यत इत्यादिना ।
अत्र बालाकिवाक्याद् ब्रह्म मन्यते सिद्धान्ती राजवाक्याद्वा।
नाद्य इत्याह –
ब्रह्म ते इति ।
न द्वितीय इत्याह –
यस्य चेति ।
ननु बालाकिवाक्यगतब्रह्मप्रतिज्ञया राजवाक्यं ब्रह्मपरमस्त्वग्निवाक्यादिवाचार्यवाक्यमित्याशङ्क्याह –
न चेति ।
तत्र हि वक्तृभेदेऽप्येकवाक्यताऽग्निभिः दर्शिताऽऽचार्यस्तु ते गति वक्तेति, इह तु तदभावाद्वाक्यभेद इत्यर्थः।
ननु बालाकिवचने ब्रह्मशब्दस्य का गतिः? अत आह –
तस्मादिति ।
राजवाक्यार्थ एव ग्राह्यः, राद्धान्तत्वात्। भ्रान्तगाग्र्योक्तिस्तु पूर्वपक्षत्वादसद्वादवदग्राह्येत्यर्थः।
ननु राजवाक्येऽपि क्रियमाणसर्वजगत् प्रति कर्तव्यत्वं ब्रह्मलिङ्गं गम्यतेऽत आह –
अत्र चेति ।
ब्रह्मकार्ये जगति योगसंभवमङ्गीकृत्य रूढ्याऽपहारमुक्त्वा योगासंभवमाह –
न च ब्रह्मण इति ।
उदासीनस्येत्यस्पन्दतोक्ता। ब्रह्मणि कृत्यभावाज्जगतस्तत्कृतत्वायोग इत्यर्थः। ब्रह्मणो यदि न व्यापारवत्ता, कस्य तर्हि? ननु प्राणस्यास्तु।
ननु सोऽपि कथं वेदितव्यतयोच्यते? प्रसिद्धत्वादित्याशङ्क्य तस्य हिरण्यगर्भरूपेण वेद्यत्वोपपत्तेः, वाक्यशेषस्य प्राणश्रुतेः कर्मशब्दस्य रूढार्थलाभाच्च प्राण एव कर्मसंबन्धीत्याह –
वाक्यशेषे चेति ।
त्रयस्त्रिंशदादिदेवानां कारणभूत एको देवः कतम इति पृष्टे प्राण इत्युत्तराद्धिरण्यगर्भात्मकप्राणकार्यत्वामादित्यादेरित्यर्थः। पाप्मसु भूतेषु चापेक्षिकवृत्तिः सङ्कुचितवृत्तिः सर्वशब्दः।
सङ्कोचमेवाह –
बहूनिति ।
संप्रति विप्रनृपवचनयोरेकत्वमुपेत्यापि पूर्वपक्षसंभवमाह –
यदि त्विति ।
यद्यपि गार्ग्यो भ्रान्तः; तथापि न भ्रान्तो ब्रह्मोपक्रमः। सहस्रमेतस्यां वाचि दद्म इति ब्रह्मप्रतिज्ञायां राज्ञा गोसहस्रस्य दत्तत्वात्। अत उपक्रान्तं ब्रह्मैव गार्ग्यं प्रति विशेषतो निरूप्यमिति यदि मन्येतानारम्भवादी तथापि नैतत्परब्रह्माभिधानम्; उपसंहारे जीवनिर्णयादित्यर्थः। उपेतं शिष्यभावेन गतम्। प्राणो हि सुषुप्तौ व्याप्रियते, स चेतनश्चेद् बृहत्पाण्डुरवास इत्यादि स्वनाम जानीयाद्, न च जज्ञिवानतः सुषुप्तस्य यष्टिघातेनोत्थापनात् प्राणादिव्यतिरिक्तं बोधयतीत्यर्थः।
उपसंहारोऽपि जीवपर इत्याह –
परस्तादपीति ।
ननु जीवस्यापि सर्वगतस्य निरवयस्य परिस्पन्दपरिणामयोरसंभवात् कथं यस्य वैतत्कर्मेति निर्देशस्तत्राह –
यस्य वै तदिति ।
जीवप्रेर्यदेहादिसंबन्धिकर्मषष्ठ्या जीवसम्बन्धित्वेन उपचर्य्यत इत्यर्थः।
साक्षाज्जीवसम्बन्धिधर्मादौ कर्मशब्दो लाक्षणिक इत्याह –
कर्मजन्यत्वाद्वेति ।
ननु योगवृत्त्या जगदभिधीयतां, नेत्याह –
रूढ्यनुसारादिति ।
रूढ्यर्थं गृहीत्वा तदविनाभूतलक्षणादित्यर्थः। अग्रहे हि न तत्संबन्धिनि लक्षणा।
यद्यपि ब्रह्मशब्दाश्रवणात्स्पष्टं ब्रह्माभिधानं नोपलभ्यते; तथापि प्रश्नप्रतिवचनयोः क्वैष इति प्राण एवैकधा भवतीति च सप्तमीप्रथमाभ्यां जीवप्राणयोर्भेदो गम्यतेऽत आह –
जीवव्यतिरेकश्चेति ।
जीवातिरिक्तहिरण्यगर्भस्य प्राणत्वान्न ब्रह्मसिद्धिरित्यस्माकमिष्टसिद्धिरित्यर्थः।
मृषेति ।
आदित्यादीनब्रह्मणो ब्रह्मेति मृषावादिनं बालाकिं मृषा वै खलु मा संवदिष्ठा इत्यपोद्य निरस्य सत्यं ब्रह्माभिधित्सन् राजा यदि स्वरूपेण जीवं प्राणं वा ब्रूयात्, ततोऽसंबद्धवादी स्यात्। यदि जीवादि ब्रह्मत्वेन वदेत्, ततो मिथ्या वदेत्, तच्चानुपपन्नम्। तस्माद् ब्रह्मैव वदतीत्यर्थः। काच इन्द्रनीलसमानवर्णा मृत्। मिथ्यावद्यम् मिथ्यावदनम्। एवं च भिन्नवक्तृकवाक्यद्वयस्यापि भ्रमप्रसक्तिस्तन्निरासपरतयैकवाक्यत्वाद् ब्रह्मोपक्रमः सिद्धः।
सिद्धं चास्योपसंहारेण सङ्गानमिति ब्रह्मपरत्वं सर्वस्य संदर्भस्येत्याह –
तस्माद् ब्रह्म ते इति ।
हेतूनां ब्रह्मपरत्वं निश्चीयत इत्युपरितनप्रतिज्ञयैवान्वयः। सर्वश्रुतेरसङ्कोचे निरतिशयफलेनोपसंहारो हेतुः।
यदवादि व्यतिरेकनिर्देशो हिरण्यगर्भे स्यादिति, तत्राह –
क्कैष इति ।
हे बालाके एष पुरुषः क्कैतदशयिष्ट। एतदिति क्रियाविशेषणम्। इत्थमिथर्थः। एष जीवाश्रयप्रश्नः। क्व वा एतदभूदिति भवनप्रश्नः। भवनं तादात्म्येन वर्तनम्। शयनमसंबोधः। कुत एतदागादित्यपादानप्रश्नः। प्राण एवैकधा भवतीति भवनप्रश्नोत्तरम्। आदिशब्दात्तदैनं वाक्यसर्वैर्नामभिः सहाप्येति इत्यादि शयनप्रश्नोत्तरम्। ‘‘यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मात्सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते’’ इत्यादेः क्रमयानप्रश्नोत्तरं च द्रष्टव्यम्। एतानि च न हिरण्यगर्भे संभवन्ति, जीवस्य जीवान्तरात्मत्वायोगादित्यर्थः। प्रश्नस्योत्तरस्येति चैकवचनं बहुष्वेव जात्यपेक्षम्।
न केवलमनुपपत्त्या प्रश्नोत्तरयोर्ब्रह्मार्थत्वम्, अपि त्वात्मशब्दादपीति वक्तुं पृच्छति –
अथ कस्मादिति ।
निर्णीतार्थवाक्ये रूढिर्बाध्येत्याह –
तदेवमिति ।
व्यापाराभिधाने सतीत्यर्थः।
ननु तवापि सर्वकर्तृत्वे सिद्धे आदित्यादिकर्तृत्वं पुनरुक्तमत आह –
एतदुक्तमिति ।
न तावद्व्यापकोक्तिरेकदेशोत्तया पुनरुक्ता भवेद्, नाप्येकदेशोक्तिः व्यापकोत्तयाऽऽदित्यादेरन्यत्राविशेषोक्तेरस्तु सङ्कोच इति बालाकिभ्रमापोहार्थत्वादित्यर्थः।
कथं तर्हि ब्रह्मपरे वाक्ये जीववाची पुरुषशब्दः प्राणशब्दश्चात आह –
जीवेति।
प्राणयतीति योगाद्विश्वसत्तास्पदं ब्रह्म प्राणशब्दो वक्ति। जीववाची तु पुरुषशब्दो जीवसुप्तिस्थानभूतब्रह्मलक्षणार्थं इत्यर्थः। ब्रह्मभावापेक्षया ब्रह्मशब्देन जीवोपलक्षणे ब्रह्मशब्दोपक्रमो मृषावादिबालाक्यपवादो विश्वकर्तृत्वं चासमञ्जसमित्यर्थः।
प्रत्यक्षत्वाज्जीवस्य न प्रतिपाद्यताऽपीत्याह –
न चानधिगतेति ।
स्वरसः स्वभावः। ब्रह्मणा लोकानधिगतेनाधिगतजीवोपलक्षणं चानुपपन्नमित्यर्थः।
ननु किं जीवस्य ब्रह्मोपलक्षकत्वेन प्रसिद्धावपि जीवप्राणावनूद्य नामादिवदुपास्तिर्विधीयताम्? इति शङ्कां निराकुर्वन् जीवमुख्येति सूत्रं (ब्र.अ.१.पा.१.सू.३१) व्याचष्टे –
न च संभवत्येकवाक्यत्व इत्यादिना ।
एवं प्रसङ्गागतं जीवमुख्येति सूत्रं व्याख्यायाधिकरणाद्यसूत्रव्याख्यामेवानुसरति –
स्यादेतदित्यादिना ।
पूर्वत्र यस्य चैतत्कर्मेत्येतच्छब्देन नादित्यादिपुरुषाणां परामर्श एतेषां पुरुषाणां कर्तेत्यनेन पुनरुक्तिरित्युक्तम्।
तत्र पूर्ववादिनः पुनरुक्तिपरिहारमाशङ्क्य भाष्यव्याख्यया परिहरति –
निर्दिश्यन्तामित्यादिना ।
कृतिरनिर्दिष्टेति ।
यद्यपि कर्तेति कृतरपि भातिः, तथापि प्राधान्येनार्निर्दिष्टेत्यर्थः। कार्योत्पत्तिः कर्तव्यापारस्य साध्यतया फलम्।
भाष्ये उपात्तत्वं नाभिधेयत्वं, किं त्वनुपपत्तिगम्यत्वं, तदेवं दर्शयति –
न हीति ।
शब्दोक्तपुरुषाणाम् एतच्छब्दापरामर्शेन अर्थसन्निधिना जगन्मात्रपरामर्शे स्वेनैव कृतप्रतिवचनमपि पौनरुक्तयचोद्यम्।
भाष्ये क्रमप्राप्तं व्याचष्टे –
ननु यदीति ।
इदानीमन्यार्थं तु जैमिनि (ब्र.अ.१.पा.४.१८) रिति सूत्रस्थभाष्याणि व्याचष्टे –
ननु प्राण एवेत्यादिना ।
प्राणशब्दो हिरण्यगर्भं वक्ति, कुतो ब्रह्मप्रतीतिरिति शङ्कार्थः। आत्मशब्दाद्गम्यत इति परिहारः।
एतस्मादिति वाक्योदाहृतेरेव वेदान्तार्थत्वसिद्धेरुतरभाष्यवैयर्थ्यमाशङ्क्य सर्ववेदान्तानुगतिस्तेन दर्श्यत इत्याह –
अपि चेति ।
भ्रमसंस्कारे सत्यपि प्रोद्भूतभ्रमाभावान्मुक्तयोपमानं सुषुप्ते रूपशब्देन भाष्ये कृतमित्यर्थः।
विभजते ।
उपाधिजनितविशेषेत्यादिभाष्येणेति शेषः।
तद्व्याचष्टे –
उपाधिभिरिति ।
ननु विज्ञानमित्येवास्तु किं विशेषेति विशेषणेनात आह –
यदिति ।
एतद्विशेषणाऽविशिष्टं विज्ञानं यत्तदनवच्छिन्नं सद्रूपं ब्रह्मैव स्यात्तच्च नित्यमिति कृत्वा नोपाधिजनितम्। नापि तेन ब्रह्मरूपेण रहितमात्मनः स्वरूपम्। अतो विशेषपदेन ब्रह्म व्यवच्छेद्यम्।
राहित्याभावेहेतुमाह –
ब्रह्मस्वभावस्याप्रहाणादिति ।
यतस्तद्भ्रंशरूपमागमनमिति भाष्यं व्याचक्षाणः सुषुप्तौ ब्रह्मभावं दृढीकर्तुं तद्व्यतिरेके संसारमाह –
यदा त्विति ।
ननु हिताऽहितफलप्रदा नाम नाड्यो द्वासप्ततिसहस्राणि ताभिः प्रत्यवसृप्य पुरीतति शेत इत्यत्र पुरीतद्यथाऽऽत्माधार उक्तः, एवमाकाशः किं न स्यादत आह –
यदपीति ।
मन्दधियामिति । जीवनिरासहेतुप्रश्नोत्तराधः स्थितयष्टिघातादेः सूत्रेऽर्थात्सूचनाऽज्ञानात् धीमान्द्यम्।
भाष्योक्तप्राणादिव्यतिरिक्तोपदेशं दर्शयति –
तौ हेति ।
महत्त्वात् हे बृहत् पाण्डुरा आपो वासस्त्वेनास्य चिन्त्यन्त इति तथोक्तः। प्राणस्यैव चन्द्रात्मत्वात्सोमराजत्वम्; अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्र इति श्रुतेः॥१८॥ आपिषम् आपिष्यापिष्य। यत्र सुप्तस्तत्स्थानं किमिति प्रश्नः। यदा पुरुषः स्वपिति अथ तदा प्राणे एकीभवति प्राणः सर्वदेवानामात्मत्वेन महत्त्वाद् ब्रह्म तच्च ब्रह्म त्यदिति परोक्षेणाचक्षते परोक्षप्रियत्वाद्देवानाम्। अस्माद् ब्रह्मशब्दात् पूर्वपक्षे ब्रह्मोपक्रमः प्राणे घटितः। सर्वेषां श्रैष्ठ्यं गुणोत्कर्षम् आधिपत्यमैश्वर्यं स्वराज्यम् अनन्याधीनत्वम्। मनो मनौपाधिको जीवः। प्राणबन्धनः प्राणाश्रयः।