भामतीव्याख्या
वेदान्तकल्पतरुः
 
वाक्यान्वयाधिकरणविषयाः

वाक्यान्वयात् ।

ननु मैत्रेयीब्राह्मणोपक्रमे याज्ञवल्क्येन गार्हस्थ्याश्रमादुत्तमाश्रमं यियासता मैत्रैय्या भार्यायाः कात्यायन्या सहार्थसंविभागकरण उक्ते मैत्रेयी याज्ञवल्क्यं पतिममृतत्वार्थिनी पप्रच्छ, यन्नु म इयं भगोः सर्वा पृथ्वी वित्तेन पूर्णा स्यात्किमहं तेनामृता स्यामुत नेति । तत्र नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेन । एवं वित्तेनामृतत्वाशा भवेद्यदि वित्तसाध्यानि कर्माण्यमृतत्वे उपयुज्येरन् । तदेव तु नास्ति, ज्ञानसाध्यत्वादमृतत्वस्य कर्मणां च ज्ञानविरोधिनां तत्सहभावित्वानुपपत्तेरिति भावः । सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेनं कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि । अमृतत्वसाधनमिति शेषः । तत्रामृतत्वसाधनज्ञानोपन्यासाय वैराग्यपूर्वकत्वात्तस्य रागविषयेषु तेषु तेषु पतिजायादिषु वैराग्यमुत्पादयितुं याज्ञवल्क्यो “न वा अरे पत्युः कामाय”(बृ. उ. ४ । ५ । ६) इत्यादिवाक्यसन्दर्भमुवाच । आत्मौपाधिकं हि प्रियत्वमेषां न तु साक्षात्प्रियाण्येतानि ।

तस्मादेतेभ्यः पतिजायादिभ्यो विरम्य यत्र साक्षात्प्रेम स एव

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।

वाशब्दोऽवधारणे । आत्मैव द्रष्टव्यः साक्षात्कर्तव्यः । एतत्साधनानि च श्रवणादीनि विहितानि श्रोतव्य इत्यादिना । कस्मात् । आत्मनो वा अरे दर्शनेन श्रवणादिसाधनेनेदं जगत्सर्वंविदितं भवतीति वाक्यशेषः । यतो नामरूपात्मकस्य जगतस्तत्त्वं पारमार्थिकं रूपमात्मैव भुजङ्गस्येव समारोपितस्य तत्त्वं रज्जुः । तस्मादात्मनि विदिते सर्वमिदं जगत्तत्त्वं विदितं भवति, रज्ज्वामिव विदितायां समारोपितस्य भुजङ्गस्य तत्त्वं विदितं भवति, यतस्तस्मादात्मैव द्रष्टव्यो न तु तदतिरिक्तं जगत् स्वरूपेण द्रष्टव्यम् । कुतः । यतो “ब्रह्म तं परादात्”(बृ. उ. २ । ४ । ६) ब्राह्मणजातिर्ब्राह्मणोऽहमित्येवमभिमान इति यावत् । परादात् पराकुर्यादमृतत्वपदात् । कं, योऽन्यत्रात्मनो ब्रह्म ब्राह्मणजातिं वेद । एवं क्षत्रियादिष्वपि द्रष्टव्यम् । आत्मैव जगतस्तत्त्वं न तु तदतिरिक्तं किञ्चित्तदिति । अत्रैव भगवती श्रुतिरुपपत्तिं दृष्टान्तप्रबन्धेनाह । यत् खलु यद्ग्रहं विना न शक्यते ग्रहीतुं तत्ततो न व्यतिरिच्यते । यथा रजतं शुक्तिकायाः, भुजङ्गो वा रज्जोः, दुन्दुभ्यादिशब्दसामान्याद्वा तत्तच्छब्दभेदाः । न गृह्यन्ते च चिद्रूपग्रहणं विना स्थितिकाले नामरूपाणि । तस्मान्न चिदात्मनो भिद्यन्ते ।

तदिदमुक्तम् -

स यथा दुन्दुभेर्हन्यमानस्येति ।

दुन्दुभिग्रहणेन तद्गतं शब्दसामान्यमुपलक्षयति । न केवलं स्थितिकाले नामरूपप्रपञ्चश्चिदात्मातिरेकेणाग्रहणाच्चिदात्मनो न व्यतिरिच्यतेऽपि तु नामरूपोत्पत्तेः प्रागपि चिद्रूपावस्थानात् तदुपादानत्वाच्च नामरूपप्रपञ्चस्य तदनतिरेकः, रज्जूपादानस्येव भुजङ्गस्य रज्जोरनतिरेक इत्येतद्दृष्टान्तेन साधयति भगवती श्रुतिः - “स यथार्द्रैधोऽग्रेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः”(बृ. उ. २ । ४ । १०) इत्यादिना चतुर्विधो मन्त्र उक्तः । इतिहास इत्यादिनाष्टविधं ब्राह्मणमुक्तम् । एतदुक्तं भवति - यथाग्निमात्रं प्रथममवगम्यते क्षुद्राणां विस्फुलिङ्गानामुपादानम् । अथ ततो विस्फुलिङ्गा व्युच्चरन्ति । न चैतेऽग्नेस्तत्त्वान्यत्वाभ्यां शक्यन्ते निर्वुक्तम् । एवमृग्वेदादयोऽप्यल्पप्रयत्नाद्ब्रह्मणो व्युच्चरन्तो न ततस्तत्त्वान्यत्वाभ्यां निरुच्यन्ते । ऋगादिभिर्नामोपलक्ष्यते । यदा च नामधेयस्येयं गतिस्तदा तत्पूर्वकस्य रूपधेयस्य कैव कथेति भावः । न केवलं तदुपादानत्वात्ततो न व्यतिरिच्यते नामरूपप्रपञ्चः, प्रलयसमये च तदनुप्रवेशात्ततो न व्यतिरिच्यते । यथा सामुद्रमेवाम्भः पृथिवीतेजःसम्पर्कात्काठिन्यमुपगतं सैन्धवं खिल्यः, स हि स्वाकरे समुद्रे क्षिप्तोऽम्भ एव भवति, एवं चिदम्भोधौ लीनं जगच्चिदेव भवति न तु ततोऽतिरिच्यत इति ।

एतद्दृष्टान्तप्रबन्धेनाह -

स यथा सर्वासामपामित्यादि ।

दृष्टान्तप्रबन्धमुक्त्वा दार्ष्टान्तिके योजयति -

एवं वा अरे इदं महदिति ।

बृहत्वेन ब्रह्मोक्तम् । इदं ब्रह्मेत्यर्थः । भूतं सत्यम् । अनन्तं नित्यम् । अपारं सर्वगतम् ।

विज्ञानघनः ।

विज्ञानैकरस इति यावत् । एतेभ्यः कार्यकारणभावेन व्यवस्थितेभ्यो भूतेभ्यः समुत्थाय साम्येनोत्थाय । कार्यकारणसङ्घातस्य ह्यवच्छेदाद्दुःखित्वशोकित्वादयस्तदवच्छिन्ने चिदात्मनि तद्विपरीतेऽपि प्रतीयन्ते, यथोदकप्रतिबिम्बिते चन्द्रमसि तोयगताः कम्पादयः । तदिदं साम्येनोत्थानम् । यदा त्वागमाचार्योपदेशपूर्वकमनननिदिध्यासनप्रकर्षपर्यन्तजोऽस्य ब्रह्मस्वरूपसाक्षात्कार उपावर्तते तदा निर्मृष्टनिखिलसवासनाविद्यामलस्य कार्यकारणसङ्घातभूतस्य विनाशे तान्येव भूतानि नश्यन्त्यनु तदुपाधिश्चिदात्मनः खिल्यभावो विनश्यति । ततो न प्रेत्य कार्यकारणभूतनिवृत्तौ रूपगन्धादिसंज्ञास्तीति । न प्रेत्य संज्ञास्तीति संज्ञामात्रनिषेधादात्मा नास्तीति मन्यमाना सा मैत्रेयी होवाच, अत्रैव मा भगवानमूमुहन्मोहितवान् न प्रेत्य संज्ञास्तीति । स होवाच याज्ञवल्क्यः स्वाभिप्रायं, द्वैते हि रूपादिविशेषसंज्ञानिबन्धनो दुःखित्वाद्यभिमानः । आनन्दज्ञानैकरसब्रह्माद्वयानुभवे तु तत्केन कं पश्येत् , ब्रह्म वा केन विजानीयात् । नहि तदास्य कर्मर्भावोऽस्ति स्वप्रकाशत्वात् । एतदुक्तं भवति - न संज्ञामात्रं मया व्यासेधि, किन्तु विशेषसंज्ञेति । तदेवममृतत्वफलेनोपक्रमात् , मध्ये चात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनात् , उपसंहारे च महद्भूतमनन्तमित्यादिना च ब्रह्मरूपाभिधानात् , द्वैतनिन्दया चाद्वैतगुणकीर्तनाद्ब्रह्मैव मैत्रेयीब्राह्मणे प्रतिपाद्यं न जीवात्मेति नास्ति पूर्वपक्ष इत्यनारभ्यमेवेदमधिकरणम् । अत्रोच्यते - भोक्तृत्वज्ञातृताजीवरूपोत्थानसमाधये मैत्रेयीब्राह्मणे पूर्वपक्षेणोपक्रमः कृतः । पतिजायादिभोग्यसम्बन्धो नाभोक्तुर्ब्रह्मणो युज्यते, नापिज्ञानकर्तृत्वमकर्तुः साक्षाच्च महतो भूतस्य विज्ञानात्मभावेन समुत्थानाभिधानं विज्ञानात्मन एव द्रष्टव्यत्वमाह । अन्यथा ब्रह्मणो द्रष्टव्यत्वपरेऽस्मिन् ब्राह्मणे तस्य विज्ञानात्मत्वेन समुत्थानाभिधानमनुपयुक्तं स्यात्तस्य तु द्रष्टव्यमुपयुज्यत इत्युपक्रममात्रं पूर्वपक्षः कृतः ।

भोक्त्रर्थत्वाच्च भोग्यजातस्येति

तदुपोद्बलमात्रम् । सिद्धान्तस्तु निगदव्याख्यातेन भाष्येणोक्तः ॥ १९ ॥

तदेवं पौर्वापर्यालोचनया मैत्रेयीब्राह्मणस्य ब्रह्मदर्शनपरत्वे स्थिते भोक्त्रा जीवात्मनोपक्रममाचार्यदेशीयमतेन तावत्समाधत्ते सूत्रकारः -

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ।

यथा हि वह्नेर्विकारा व्युच्चरन्तो विस्फुलिङ्गा न वह्नेरत्यन्तं भिद्यन्ते, तद्रूपनिरूपणत्वात् , नापि ततोऽत्यन्तमभिन्नाः, वह्नेरिव परस्परव्यावृत्त्यभावप्रसङ्गात् , तथा जीवात्मनोऽपि ब्रह्मविकारा न ब्रह्मणोऽत्यन्तं भिद्यन्ते, चिद्रूपत्वाभावप्रसङ्गात् । नाप्यत्यन्तं न भिद्यन्ते, परस्परं व्यावृत्त्यभावप्रसङ्गात् , सर्वज्ञं प्रत्युपदेशवैयर्थ्याच्च । तस्मात्कथञ्चिद्भेदो जीवात्मनामभेदश्च । तत्र तद्विज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये विज्ञानात्मपरमात्मनोरभेदमुपादाय परमात्मनि दर्शयितव्ये विज्ञानात्मनोपक्रम इत्याश्मरथ्य आचार्यो मेने ॥ २० ॥

आचार्यदेशीयान्तरमतेन समाधत्ते -

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ।

जीवो हि परमात्मनोऽत्यन्तं भिन्न एव सन् देहेन्द्रियमनोबुद्ध्युपधानसम्पर्कात्सर्वदा कलुषः, तस्य च ज्ञानध्यानादिसाधनानुष्ठानात्सम्प्रसन्नस्य देहेन्द्रियादिसङ्घातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रमणम् । एतदुक्तं भवति - भविष्यन्तमभेदमुपादाय भेदकालेऽप्यभेद उक्तः । यथाहुः पाञ्चरात्रिकाः - “आमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च । मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः” ॥ इति ।

अत्रैव श्रुतिमुपन्यस्यति -

श्रुतिश्चैवमिति ।

पूर्वं देहेन्द्रियाद्युपाधिकृतं कलुषत्वमात्मन उक्तम् । सम्प्रति स्वाभाविकमेव जीवस्य नामरूपप्रपञ्चाश्रयत्वलक्षणं कालुष्यं पार्थिवानामणूनामिव श्यामत्वं केवलं पाकेनेव ।

ज्ञानध्यानादिना तदपनीय जीवः परात्परतरं पुरुषमुपैतीत्याह -

क्वचिच्च जीवाश्रयमपीति ।

नदीनिदर्शनम् “यथा सोम्येमा नद्यः”(प्र.उ. ६-५) इति ॥ २१ ॥

तदेवमाचार्यदेशीयमतद्वयमुक्त्वात्रापरितुष्यन्नाचार्यमतमाह सूत्रकारः -

अविस्थितेरिति काशकृत्स्नः ।

एतद्व्याचष्टे -

अस्यैव परमात्मन इति ।

न जीव आत्मनोऽन्यः । नापि तद्विकारः किन्त्वात्मैवाविद्योपाधानकल्पितावच्छेदः । आकाश इव घटमणिकादिकल्पितावच्छेदो घटाकाशो मणिकाकाशो न तु परमाकाशादन्यस्तद्विकारो वा । ततश्च जीवात्मनोपक्रमः परामात्मनैवोपक्रमस्तस्य ततोऽभेदात् । स्थूलदर्शिलोकप्रतीतिसौकर्यायौपाधिकेनात्मरूपेणोपक्रमः कृतः ।

अत्रैव श्रुतिं प्रमाणयति -

तथा चेति ।

अथ विकारः परमात्मनो जीवः कस्मान्न भवत्याकाशादिवदित्याह -

न च तेजःप्रभृतीनामिति ।

न हि यथा तेजःप्रभृतीनामात्मविकारत्वं श्रूयते एवं जीवस्येति ।

आचार्यत्रयमतं विभजते -

काशकृत्स्नस्याचार्यस्येति ।

आत्यन्तिके सत्यभेदे कार्यकारणभावाभावादनात्यन्तिकोऽभेद आस्थेयः, तथाच कथञ्चिद्भेदोऽपीति तमास्थाय कार्यकारणभाव इति मतत्रयमुक्त्वा काशकृत्स्नीयमतं साधुत्वेन निर्धारयति -

तत्र तेषु मध्ये । काशकृत्स्नीयं मतमिति ।

आत्यन्तिके हि जीवपरमात्मनोरभेदे तात्त्विकेऽनाद्यविद्योपाधिकल्पितो भेदस्तत्त्वमसीति जीवात्मनो ब्रह्मभावतत्त्वोपदेशश्रवणमनननिदिध्यासनप्रकर्षपर्यन्तजन्मना साक्षात्कारेण विद्यया शक्यः समूलकाषं कषितुं, रज्ज्वामहिविभ्रम इव रज्जुतत्त्वसाक्षात्कारेण, राजपुत्रस्येव च म्लेच्छकुले वर्धमानस्यात्मनि समारोपितो म्लेच्छभावो राजपुत्रोऽसीति आप्तोपदेशेन । न तु मृद्विकारः शरावादिः शतशोऽपि मृन्मृदिति चिन्त्यमानस्तज्जन्मना मृद्भावसाक्षात्कारेण शक्यो निवर्तयितुं, तत्कस्य हेतोः, तस्यापि मृदो भिन्नाभिन्नस्य तात्त्विकत्वात् , वस्तुतस्तु ज्ञानेनोच्छेत्तुमशक्यत्वात् , सोऽयं प्रतिपिपादयिषितार्थानुसारः । अपि च जीवस्यात्मविकारत्वे तस्य ज्ञानध्यानादिसाधनानुष्ठानात्स्वप्रकृतावप्यये सति नामृतत्वस्याशास्तीत्यपुरुषार्थत्वममृतत्वप्राप्तिश्रुतिविरोधश्च ।

काशकृत्स्नमते त्वेतदुभयं नास्तीत्याह -

एवं च सतीति ।

ननु यदि जीवो न विकारः किन्तु ब्रह्मैव कथं तर्हि तस्मिन्नामरूपाश्रयत्वश्रुतिः, कथञ्च “यथाग्नेः क्षुद्रा विस्फुलिङ्गा” (बृ. उ. २ । १ । २०) इति ब्रह्मविकारश्रुतिरित्याशङ्कामुपसंहारव्याजेन निराकरोति -

अतश्च स्वाश्रयस्येति ।

यतः प्रतिपिपादयिषितार्थानुसारश्चामृतत्वप्राप्तिश्च विकारपक्षे न सम्भवतः, अतश्चेति योजना ।

द्वितीयपूर्वपक्षबीजमनयैव त्रिसूत्र्यापाकरोति -

यदप्युक्तमिति ।

शेषमतिरोहितार्थं व्याख्यातार्थं च । तृतीयपूर्वपक्षबीजनिरासे काशकृत्स्नीयेनैवेत्यवधारणं तन्मताश्रयणेनैव तस्य शक्यनिरासत्वात् । ऐकान्तिके ह्यद्वैते आत्मनोऽन्यकर्मकरणे “केन कं पश्येत्”(बृ. उ. ४ । ५ । १५) इति आत्मनश्च कर्मत्वं “विज्ञातारमरे केन विजानीयात्” (बृ. उ. २ । ४ । १४) इति शक्यं निषेद्धुम् । भेदाभेदपक्षे वैकान्तिके वा भेदे सर्वमेतदद्वैताश्रयमशक्यमित्यवधारणस्यार्थः ।

न केवलं काशकृत्स्नीयदर्शनाश्रयणेन भूतपूर्वगत्या विज्ञातृत्वमपि तु श्रुतिपौर्वापर्यपर्यालोचनयाप्येवमेवेत्याह -

अपि च यत्र हीति ।

कस्मात् पुनः काशकृत्स्नस्य मतमास्थीयते नेतरेषामाचार्याणामित्यत आह -

दर्शितं तु पुरस्तादिति ।

काशकृत्स्नीयस्य मतस्य श्रुतिप्रबन्धोपन्यासेन पुनः श्रुतिमत्त्वं स्मृतिमत्त्वं चोपसंहारोपक्रममाह -

अतश्चेति ।

क्वचित्पाठ आतश्चेति । तस्यावश्यं चेत्यर्थः । जननजरामरणभीतयो विक्रियास्तासां सर्वासां “महानजः”(बृ. उ. ४ । ४ । २५) इत्यादिना प्रतिषेधः । परिणामपक्षेऽन्यस्य चान्यभावपक्षे ऐकान्तिकाद्वैतप्रतिपादनपराः “एकमेवाद्वितीयम्” (छा. उ. ६ । २ । १) इत्यादयः, द्वैतदर्शननिन्दापराश्च “अन्योऽसावन्योऽहमस्मि” (बृ. उ. १ । ४ । १०) इत्यादयः, जन्मजरादिविक्रियाप्रतिषेधपराश्च “एष महानजः”(बृ. उ. ४ । ४ । २५) इत्यादयः श्रुतय उपरुध्येरन् । अपिच यदि जीवपरमात्मनोर्भेदाभेदावास्थीयेयातां ततस्तयोर्मिथो विरोधात्समुच्चयाभावादेकस्य बलीयस्त्वे नात्मनि निरपवादं विज्ञानं जायेत, बलीयसैकेन दुर्बलपक्षावलम्बिनो ज्ञानस्य बाधनात् । अथ त्वगृह्यमाणविशेषतया न बलाबलावधारणं, ततः संशये सति न सुनिश्चितार्थमात्मनि ज्ञानं भवेत् । सुनिश्चितार्थं च ज्ञानं मोक्षोपायः श्रूयते - “वेदान्तविज्ञानसुनिश्चितार्थाः” (मु. उ. ३ । २ । ६) इति ।

तदेतदाह -

अन्यथा मुमुक्षूणामिति ।

'एकत्वमनुपश्यतः” इति श्रुतिर्न पुनरेकत्वानेकत्वे अनुपश्यत इति ।

ननु यदि क्षेत्रज्ञपरमात्मनोरभेदो भाविकः, कथं तर्हि व्यपदेशबुद्धिभेदौ क्षेत्रज्ञः परमात्मेति कथञ्च नित्यशुद्धबुद्धमुक्तस्वभावस्य भगवतः संसारिता । अविद्याकृतनामरूपोपाधिवशादिति चेत् । कस्येयमविद्या । न तावज्जीवस्य, तस्य परमात्मनो व्यतिरेकाभावात् । नापि परमात्मनः, तस्य विद्यैकरसस्याविद्याश्रयत्वानुपपत्तेः । तदत्र संसारित्वासंसारित्वविद्याविद्यावत्त्वरूपविरुद्धधर्मसंसर्गाद्बुद्धिव्यपदेशभेदाच्चास्ति जीवेश्वरयोर्भेदोऽपि भाविक इत्यत आह -

स्थिते च परमात्मक्षेत्रज्ञात्मैकत्वेति ।

न तावद्भेदाभेदावेकत्र भाविकौ भवितुमर्हत इति विप्रपञ्चितं प्रथमे पादे । द्वैतदर्शननिन्दया चैकान्तिकाद्वैतप्रतिपादनपराः पौर्वापर्यालोचनया सर्वे वेदान्ताः प्रतीयन्ते । तत्र यथा बिम्बादवदतात्तात्त्विके प्रतिबिम्बानामभेदेऽपि नीलमणिकृपाणकाचाद्युपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदौ वर्तयति, इदं बिम्बमवदातमिमानि च प्रतिबिम्बानि नीलोत्पलपलाशश्यामलानि वृत्तदीर्घादिभेदभाञ्जि बहूनीति, एवं परमात्मनः शुद्धस्वभावाज्जीवानमभेद ऐकान्तिकेऽप्यनिर्वचनीयानाद्यविद्योपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदावयं च परमात्मा शुद्धविज्ञानानन्दस्वभाव इमे च जीवा अविद्याशोकदुःखाद्युपद्रवभाज इति वर्तयति । अविद्योपधानं च यद्यपि विद्यास्वभावे परमात्मनि न साक्षादस्ति तथापि तत्प्रतिबिम्बकल्पजीवद्वारेण परस्मिन्नुच्यते । न चैवमन्योन्याश्रयो जीवविभागाश्रयाऽविद्या, अविद्याश्रयश्च जीवविभाग इति, बीजाङ्कुरवदनादित्वात् । अत एव कानुद्दिश्यैष ईश्वरो मायामारचयत्यनर्थिकां, उद्देश्यानां सर्गादौ जीवानामभावात् , कथं चात्मानं संसारिणं विविधवेदनाभाजं कुर्यादित्याद्यनुयोगो निरवकाशः । न खल्वादिमान् संसारः, नाप्यादिमानविद्याजीवविभागः, येनानुयुज्येतेति । अत्र च नामग्रहणेनाविद्यामुपलक्षयति ।

स्यादेतत् । यदि न जीवात् ब्रह्म भिद्यते, हन्त जीवः स्फुट इति ब्रह्मापि तथा स्यात् , तथा च “निहितं गुहायाम्”(तै. उ. २ । १ । १) इति नोपपद्यत इत्यत आह -

न हि सत्यमिति ।

यथा हि बिम्बस्य मणिकृपाणादयो गुहा एवं ब्रह्मणोऽपि प्रतिजीवं भिन्ना अविद्या गुहा इति । यथा प्रतिबिम्बेषु भासमानेषु बिम्बं तदभिन्नमपि गुह्यमेवं जीवेषु भासमानेषु तदभिन्नमपि ब्रह्म गुह्यम् ।

अस्तु तर्हि ब्रह्मणोऽन्यद्गुह्यमित्यत आह -

न च ब्रह्मणोऽन्य इति ।

ये तु

आश्मरथ्यप्रभृतयः

निर्बन्धं कुर्वन्ति ते वेदान्तार्थमिति ।

ब्रह्मणः सर्वात्मना भागशो वा परिणामाभ्युपगमे तस्य कार्यत्वादनित्यत्वाच्च तदाश्रितो मोक्षोऽपि तथा स्यात् । यदि त्वेवमपि मोक्षं नित्यमकृतकं ब्रूयुस्तत्राह -

न्यायेनेति ।

एवं ये नदीसमुद्रनिदर्शनेनामुक्तेर्भेदं मुक्तस्य चाभेदं जीवस्यास्थिषत तेषामपि न्यायेनासङ्गतिः । नो जातु घटः पटो भवति । ननूक्तं यथा नदी समुद्रो भवतीति । का पुनर्नद्यभिमता आयुष्मतः । किं पाथःपरमाणव उतैषां संस्थानभेद आहोस्वित्तदारब्धोऽवयवी । तत्र संस्थानभेदस्य वावयविनो वा समुद्रनिवेशे विनाशात् कस्य समुद्रेणैकता । नदीपाथःपरमाणूनां तु समुद्रपाथःपरमाणुभ्यः पूर्ववस्थितेभ्यो भेद एव नाभेदः । एवं समुद्रादपि तेषां भेद एव । ये तु काशकृत्स्नीयमेव मतमास्थाय जीवं परमात्मनोंऽशमाचख्युस्तेषां कथं “निष्कलं निष्क्रियं शान्तम्”(श्वे. उ. ६ । १९) इति न श्रुतिविरोधः । निष्कलमिति सावयवत्वं व्यासेधि न तु सांशत्वम् , अंशश्च जीवः परमात्मनो नभस इव कर्णनेमिमण्डलावच्छिन्नं नभः शब्दश्रवणयोग्यं, वायोरिव च शरीरावच्छिन्नः पञ्चवृत्तिः प्राण इति चेत् । न तावन्नभो नभसोंऽशः, तस्य तत्त्वात् । कर्णनेमिमण्डलावच्छिन्नमंश इति चेत् , हन्त तर्हि प्राप्ताप्राप्तविवेकेन कर्णनेमिमण्डलं वा तत्संयोगो वेत्युक्तं भवति । नच कर्णनेमिमण्डलं तस्यांशः, तस्य ततो भेदात् । तत्संयोगो नभोधर्मत्वात्तस्यांश इति चेत् । न । अनुपपत्तेः । नभोधर्मत्वे हि तदनवयवं सर्वत्राभिन्नमिति तत्संयोगः सर्वत्र प्रथेत । नह्यस्ति सम्भवोऽनवयवमव्याप्यवर्तत इति । तस्मात्तत्रास्ति चेद्व्याप्यैव । न चेद्व्याप्नोति तत्र नास्त्येव । व्याप्यैवास्ति केवलं प्रतिसम्बन्ध्यधीननिरूपणतया न सर्वत्र निरूप्यत इति चेत् , न नाम निरूप्यताम् । तत्संयुक्तं तु नभः श्रवणयोग्यं सर्वत्रास्तीति सर्वत्र श्रवणप्रसङ्गः । नच भेदाभेदयोरन्यतरेणांशः शक्यो निर्वक्तुं न चोभाभ्यां, विरुद्धयोरेकत्रासमवायादित्युक्तम् । तस्मादनिर्वचनीयानाद्यविद्यापरिकल्पित एवांशो नभसो न भाविक इति युक्तम् । नच काल्पनिको ज्ञानमात्रायत्तजीवितः कथमविज्ञायमानोऽस्ति, असंश्चांशः कथं शब्दश्रवणलक्षणाय कार्याय कल्पते, न जातु रज्ज्वामज्ञायमान उरगो भयकम्पादिकार्याय पर्याप्त इति वाच्यम् । अज्ञातत्वासिद्धेः कार्यव्यङ्गत्वादस्य । कार्योत्पादात्पूर्वमज्ञातं कथं कार्योत्पादाङ्गमिति चेत् । न । पूर्वपूर्वकार्योत्पादव्यङ्ग्यत्वादसत्यपि ज्ञाने तत्संस्कारानुवृत्तेरनादित्वाच्च कल्पना तत्संस्कारप्रवाहस्य । अस्तु वानुपपत्तिरेव कार्यकारणयोर्मायात्मकत्वात् । अनुपपत्तिर्हि मायामुपोद्बलयत्यनुपपद्यमानार्थत्वान्मायायाः । अपि च भाविकांशवादिनां मते भाविकांशस्य ज्ञानेनोच्छेत्तुमशक्यत्वान्न ज्ञानध्यानसाधनो मोक्षः स्यात् । तदेवमकाशांश इव श्रोत्रमनिर्वचनीयम् । एवं जीवो ब्रह्मणोंऽश इति काशकृत्स्नीयं मतमिति सिद्धम् ॥ २२ ॥

नन्वित्यादिना ; एवमिति ; अमृतत्वेति ; आत्मेति ; कुत इति ; यत्खल्विति ; यदा चेति ; एतदिति ; दार्ष्टान्तिके इति ; स होवाचेति ; आनन्देति ; ब्रह्म वेति ; अत्रोच्यत इति ; भोक्तृत्वेति ; पतीति ; नापीति ; साक्षाच्चेति ; सिद्धान्तस्त्विति ; तदेवमित्यादिना ; आचार्यदेशीयेति ; प्रतिज्ञेति ; जीवो हीति ; न च तेज इति ; आत्यन्तिके इति ; काशकृत्स्नीयेनैवेति ; ऐकान्तिके हीति ; न केवलमिति ; कस्मात्पुनरिति ; श्रुतिप्रबन्धेति ; जननेति ; परिणामेति ; अपि चेति ; विरोधादिति ; नात्मनीति ; अथ त्विति ; एकत्वमिति ; कथं तर्हीति ; कथं चेति ; अविद्येत्यादिना ; न तावद्भेदाभेदाविति ; द्वैतेति ; तत्र यथेत्यादिना ; न खल्विति ; अत्र चेति ; यथा हीति ; अस्तु तर्हीति ; अपि त्वित्यादिना इतीत्यन्तेन ; ब्रह्मण इति ; एवमिति ; एवं समुद्रादपीति ; ये त्वित्यादिना ; वायोरिति ; न हीति ; व्याप्यैवेति ; न नामेति ; न चेति ; न च काल्पनिक इति ; असंश्चेति ; अज्ञातत्वेति ; कार्येति ; कार्योत्पादादिति ; न पूर्वेति ; असत्यपीति ; अनादित्वाच्चेति ; अस्तु वेति ;

वाक्यान्वयाधिकरणविषयाः

वाक्यान्वयात्॥१९॥ अत्र जीवब्रह्मालिङ्गाभ्यां विशयः। पूर्वत्र ब्रह्मोपक्रमात् तत्परत्वदिहापि जीवोपक्रमात्तत्परतेति सङ्गतिः। क्वचित्समन्वयस्य जीवमात्रपर्यवसाननिषेधात्पादसङ्गतिः। मैत्रेयीब्राह्माणार्थमनुक्रामन् प्रातर्दननयेन गतार्थतामाशङ्कते –

नन्वित्यादिना।

यियासता गन्तुमिच्छता। कात्यायन्या द्वितीयभार्यया। यत् यदि। भगोः भगवन् तेनामृता किं स्यामिति प्रश्नः। उपकरणवताम् अशनवसनादिमताम्।

सिद्धरूपस्य वित्तस्य अमृतत्वसाधनभावाप्राप्तेः प्रतिषेधायोगमाशङ्क्य तत्साध्यकर्मद्वारा प्राप्तिमुपपादयति –

एवमिति ।

श्रुतौ तच्छब्दार्थमाह –

अमृतत्वेति ।

अमृतत्वसाधनज्ञानोपन्यासाय वैराग्यमुत्पादयितुं वाक्यसन्दर्भमुवाचेत्यन्वयः।

वाक्यसन्दर्भं व्याख्याति –

आत्मेति ।

आत्मा वा अरे इति कृतसन्धिको वैशब्दोऽनुकाराद्वादशब्द उक्तः। विहितानि विधिवन्निगदैर्बोधितानीत्यर्थः। कस्मादित्यत्र द्रष्टव्य इत्यनुषङ्गः श्रवणादीनि साधनानि यस्य तत्तथोक्तम्। आत्मनो वेत्यादिवाक्ये विदितमित्यस्यानन्तरं भवतीति शेषो द्रष्टव्य इत्यर्थः। मतिर्मननम्। विज्ञानं निदिध्यासनम्। श्रवणादिना यद्दर्शनं तेनेत्यर्थः।

आत्मदर्शनफलमुक्त्वाऽनात्मदृष्टौ दोषदर्शकं वाक्यमवतारयति –

कुत इति ।

ब्राह्मण्याद्यभिमानो नियोज्यत्वाविर्भावनेनात्मतत्त्वाद् भ्रंशयेदित्यर्थः।

स यथा दुन्दुभेर्हन्यमानस्य न ब्राह्यान् शब्दान् शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीत इत्यादिश्रुतिसूचितमनुमानं विशदयति –

यत्खल्विति ।

स दृष्टान्तो यथा लोके दुन्दुभेर्हन्यमानस्य लक्षणया हन्यमानदुन्दुभ्यभिव्यक्तशब्दत्वसामान्यस्य विशेषभूतान् सामान्याद्बाह्यत्वेन ग्रहीतुं न शक्नुयादिति व्यतिरेकः। एवमन्वयोऽपि। दुन्दुभिशब्दस्य ग्रहणेन तद्विशेषशब्दो दुन्दुभ्याघातसंज्ञको गृहीतः, आघातस्य वा ग्रहणेन तदवान्तरविशेषशब्दो गृहीत इति श्रुत्यर्थः। आर्द्रैरेधोभिरिद्ध आर्द्रैधाः। अभ्याहितः उपचितः। पञ्चम्यर्थे षष्ठ्यौ। धूमग्रहणं विस्फुलिङ्गाद्युपलक्षणार्थम्। किं तन्निः श्वसितं तदाह श्रुतिः - यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीति। अथर्वाङ्गिरसोन्तश्चतुर्विधो मन्त्रः। इतिहासः - उर्वशी हाप्सराः पुरूरवसमैलं चकमे इत्यादि। पुराणं – सादेव सोम्येदमग्र आसीदित्यादि सर्गादिकथकम्। विद्याः - देवयजनविद्याद्याः। उपनिषदः - प्रियमित्येतदुपासीतेत्याद्या रहस्योपासनाः। श्लोकाः - ब्राह्मणप्रभवा मन्त्रास्तदेते श्लोका इत्यादौ निर्दिष्टाः। सूत्राण्यात्मेत्येवोपासीतेत्यादिवस्तुसग्रहवाक्यानि। अनुव्याख्यानानि संग्रहविवराणानि। व्याख्यानानि मन्त्रव्याख्याः। इत्यष्टविधं ब्राह्मणमित्यर्थः।

श्रुतौ शब्दसृष्ठ्यर्थादर्थसृष्टिरुक्तेति वदन्नामरूपप्रपञ्चकारणतां व्याचक्षण इति भाष्याभिप्रायमाह –

यदा चेति ।

सिद्धान्त एव प्रकट इति गतार्थत्वं शङ्क्यतेऽतः शङ्कावसरेऽपि युक्ता सिद्धान्तभाप्यव्याख्या। स यथा सैन्धवखिल्य इति वाक्येन ज्ञाननिमित्त आत्यन्तिकः प्रलयः प्रपञ्चस्योक्तस्तमाह - यथा सामुद्रमिति। खिल्यो घनः।

आत्यन्तिकप्रलये पराकृतो लयो दृष्टान्तत्वेनोच्यत इत्याह –

एतदिति ।

समुद्रेऽपां लयः प्राकृतलये दृष्टान्तो न त्वात्यन्तिकलये। सर्वेषां स्पर्शानां त्वगेकायनमित्यादिदृष्टान्तप्रबन्धः।

तत्र हि महाप्रलयसमये त्वगादिशब्दलक्ष्यस्पर्शत्वादिसामान्येषु तद्विशेषाणां तेषां च सामान्यानां क्रमेण ब्रह्मणि लय उच्यते इति। ‘एवं वा अरे इदं मह’दिति श्रुतिं व्याचक्षाण उदाहरति –

दार्ष्टान्तिके इति ।

अवच्छेदोऽल्पत्वम्। ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्य’तीति वाक्यं विभजते –

स होवाचेति ।

‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन विजानीया’दिति वाक्यं विवृणोति –

आनन्देति ।

विषयाभावेऽप्यात्मभूतं ब्रह्म जानीयादिति शङ्कापनुत्तये विज्ञातारमरे केन विजानीया’दिति वाक्यं, तद्व्याचष्टे –

ब्रह्म वेति ।

येनाहं नामृता स्यामित्यमृतत्वोपक्रमाद् दुन्दुभ्यादिभिस्तदुपपादनात्। ब्रह्म तं परादादित्यादि द्वैतनिन्दा। इदं ब्रह्मेदं क्षत्रमित्यारभ्येदं सर्वं यदयमात्मेत्यन्तमद्वैतगुणकीर्तनम्। अस्तीत्याख्यातप्रतिरूपकमव्ययम्। विद्यामानपूर्वपक्षमित्यर्थः। यद्यपीह जीवब्रह्मलिङ्गसंदेहे सर्वात्मब्रह्मण्यन्तर्भवन्तो जीवधर्मा न ब्रह्मपरतया योज्यन्ते।

प्रातर्दनाधिकरणे (ब्र.अ.१.पा.१.सू.२६) एव तत्सिद्धेः नापि प्रसिद्धजीवानुवादेनाप्रसिद्धब्रह्मात्मबोधनपरताऽवधार्यते, सुषुप्त्युत्क्रान्त्याधिकरणे(ब्र.अ.१.पा.३.सू.४४) तत्सिद्धेः; तथापि जीवमनूद्य ब्रह्मत्वाबोधनादनुवाद्यविधेययोर्भेदाभेदाविति मतनिरासेन ऐकान्तिकमद्वैतं प्रतिपाद्यत इत्याह –

अत्रोच्यत इति ।

मैत्रेयीब्राह्मणविषये जीवमात्रपरत्वपूर्वपक्षेण प्रस्तावमात्रं कृतं, तत्किमर्थमत आह –

भोक्तृत्वेति ।

भोक्तृत्वादीनां भेदपरत्वेन शङ्क्यमानानां समाधये इत्यर्थः।

भोक्तृत्वं विभजते –

पतीति ।

आत्मनस्तु कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय जाया प्रियेत्यादिसंबन्ध इत्यर्थः।

ज्ञातृतामाह –

नापीति ।

विज्ञातारमरे केन विजानीयादिति श्रुतमित्यर्थः।

जीवरूपेण ब्रह्मण उत्थानमुत्पत्तिमाह –

साक्षाच्चेति ।

भोक्तृत्वादेरर्थापत्त्या जीवधीः, इह तु ब्रह्मण उत्पत्त्या मुखत एवेति साक्षाद्ग्रहणम्। भाष्ये भोक्त्रर्थत्वाद्भोग्यजातस्य जीवज्ञानात् सर्वज्ञानोपचार इति जीवपक्षस्योपबृंहणाभासो दुन्दुभ्यादिभिः सर्वज्ञानोपपादनादुपचाराऽयोगादित्यर्थः।

सिद्धान्तभाष्यं गतार्थत्ववर्णनच्छलेन विवृतमित्यभिप्रेत्याह –

सिद्धान्तस्त्विति ।

लिङ्गत्रयसमाधिं श्लोकोक्तं दर्शयति –

तदेवमित्यादिना ।

पूर्वपक्षमाह –

आचार्यदेशीयेति ।

प्रतिज्ञेति ।

तद्रूपेण वह्निरूपेण निरूपणं येषां ते तथा। अत्यन्तमभेदे ब्रह्मवत्परस्परमव्यावृत्तिप्रसङ्गात् ब्रह्मव्यतिरिक्तजीवाभावे च तस्यैवोपदेशः स्यात् तस्य चायुक्तत्वादित्यर्थः। परमात्मनि दर्शयितव्ये यो विज्ञानात्मनोपक्रमः स तयोरभेदमादाय।

स चाभेदः प्रतिज्ञासिद्धये इति योजना॥२०॥ आश्मरथ्यमताद्भिनत्ति –

जीवो हीति ।

उपाधिसंपर्को हेतुः कालुष्ये, न जीवपरभेदे। सर्वदेति अनादिकाले। भेदहेतोः गमकस्य संसारित्वादेरीश्वरविरुद्धधर्मस्येत्यर्थः। वृद्धवैशेषिकदृष्ट्याऽनाद्यणुश्यामतोदाहृता। यथा नद्यः स्यान्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहायेत्युदाहर्तव्यम्। तद्धि तथा विद्वानित्यस्य पूर्वार्धम्।

अर्थसाम्यात्तु यथा सोम्येमा नद्यः स्यन्दमानाः समुद्रं प्राप्यास्तं गच्छन्तीत्युदाहरत्॥२१॥ अनेन जीवेनात्मनेति सामानाधिकरण्यं कार्यकारणभावेन भेदाभेदपरमिति शङ्किते परिहरति –

न च तेज इति ।

आश्मरथ्यमते कार्यकरणभावस्य वास्तवत्वेनान्यूनत्वात्कियानपीति भाष्यनिर्देशायोगमाशङ्क्याह –

आत्यन्तिके इति ।

अभेदे आत्यन्तिके सति विद्यमान इति च्छेदः। आस्थिते कथंचिदभेदेऽपीषद्भेद आपततीति स कार्यकारणभावनिर्वाहक इति लक्षणया तथोक्त इत्यर्थः। ननूच्छेदाभिधानमेतदिति शेषं भाष्यं न संज्ञामात्रं व्यासेधीत्यादिग्रन्थेन व्याख्यातार्थमित्यर्थः।

भाष्ये - विज्ञातारमिति कर्तृनिर्देशलिङ्गं काशकृत्स्नमतेनैव परिहरणीयमित्येवकारस्याभिप्रायमाह –

काशकृत्स्नीयेनैवेति ।

शक्यनिराकरणत्वमेव दर्शयति –

ऐकान्तिके हीति ।

‘‘यत्र त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्ये’’ दित्यात्मनोऽन्यकर्मकरणे निषिद्धे तत आत्मनं जानात्विति शङ्कायां स्वप्रकाशं विज्ञातारं केन विजानीयादिति तत्कर्मत्वं प्रतिषिद्धम्। एतानि भेदपक्षे भेदाभेदपक्षे च निषेद्धुं न शक्यानि प्रमाणादेः सत्त्वादित्यर्थः। अत्यन्तभिन्नस्य तत्केनेति प्रतिषेधो विज्ञातारमिति व्यावृत्तत्वेन जीवग्रहणाऽनिषेध इति केनचिदयुक्तमुक्तम्, आत्मैवाभूदिति भेदाभेदप्रतिषेधात् यत्र हि द्वैतमिवेति इवकारेण द्वैतवैतथ्योपक्रमाच्च। श्रुत्यनुसारिकाशकृत्स्नमतादत्यन्ताद्वैतसिद्धौ जीवस्य यत् ज्ञातृत्वमविद्यावस्थायां भूतं तदालोचनेन तन्निर्देश इत्यर्थात्स्थितम्।

इदानीं पौरुषेयीं काशकृत्स्नदृष्टिमनपेक्ष्य श्रुतित एव निर्धार्यते इत्याह –

न केवलमिति ।

यदि श्रुतिवित्काशकृत्स्न इति तन्मतमादृतं, हन्त किं न श्रुतिविद इतरे आचार्याः? इति शङ्कते –

कस्मात्पुनरिति ।

पुंगौरवेण श्रुत्यनुमानाद्वरं प्रत्यक्षश्रुतिदृष्टं मतं गृहीतमिति परिहारार्थः। दर्शितं तु पुरस्ताद् । यत्र हीत्यादिश्रुतिमत्त्वमित्यर्थः।

उक्तश्रुत्युदाहरणभाष्यस्य पौनरुक्त्यमाशङ्क्य बहुवाक्यप्रदर्शकत्वेन परिहरति –

श्रुतिप्रबन्धेति ।

स्मृतिमत्त्वं च स्मृत्युपन्यासेनेति शेषः। भाष्यगत उपसंहार उपक्रमे यस्य तच्छुतिमत्त्वं तथोक्तम्। उपसंहारोक्तिस्तद्द्वाराप्यजामित्वाय। अतश्चेत्याद्यभ्युपगन्तव्य इत्यन्तं भाष्यमुपसंहारार्थम्, ततः परं श्रुतिप्रबन्धोपन्यसाय। आतश्चेति पाठे बहुप्रमाणदृष्टिरवश्यतया सूचिता।

भाष्यकारेण स वा एष इति श्रुतिमुदाहृत्य सर्वविक्रियाप्रतिषेधादिति तात्पर्यमभाणि तद्विशदयति –

जननेति ।

श्रुतावमर इत्यपक्षयप्रतिषेधः।

भाष्यस्थश्रुतीनामनन्यथासिद्धिमाह –

परिणामेति ।

अन्यथा निरपवादविज्ञानानुपपत्तेरिति भाष्यं व्याकरोति –

अपि चेति ।

भेदाभेदावविरुद्धावुत विरुद्धौ, नाद्य इत्याह –

विरोधादिति ।

अविरोधश्चेद्भेदेऽप्यत्यन्ताभेदाविरोधान्न भेदाभेदावकाश इति भावः।

द्वितीये विषमबलौ, समबलौ वा; आद्यमनूद्य प्रत्याह –

नात्मनीति ।

भाष्ये - निरपवादत्वमबाध्यत्वम्।

द्वितीयमनुभाष्य दूषयन् सुनिश्चितार्थत्वानुपपत्तेश्चेति भाष्यभावमाह –

अथ त्विति ।

समबलबोधितविपर्यये विषये संशयः सत्प्रतिपक्षानुमानवदित्यर्थः। भेदाभेदव्यवस्था चेद्धिंसाविधिनिषेधवत्। कार्यकारणयोस्तर्हि नैकत्र स्तो भिदाभिदे॥ यथाग्नीषोमीयहिंसायां विधिः, वृथाहिंसायां निषेधः, नैकत्रैव; एवं कारणमेकं कार्याणि नानेति भेदवाद एव स्यात्। सामानाधिकरण्यं यद्धेमकुण्डलगं न तत्।

भेदाभेदावगाहीति प्राग्वाचस्पतिनेरितम्॥ भाष्यस्थश्रुत्या भेदाभेदौ निरस्तावित्याह –

एकत्वमिति ।

स्थितप्रज्ञेति भाष्ये स्थितिर्निस्संशयता।

लोकप्रसिद्ध्या जीवेश्वरभेदमाह –

कथं तर्हीति ।

अनुमानादप्याह –

कथं चेति ।

यद्विरुद्धर्मवत्तया दहनतुहिनवत्तया च जीवेशावित्यर्थः।

स्वाभाविकं विरुद्धधर्मवत्त्वमसिद्धमौपाधिकं तु बिम्बप्रतिबिम्बयोरनेकान्तमिति शङ्कित्वा परिहरति भेदवादी –

अविद्येत्यादिना ।

भाष्यकृद्भिः श्रौताभेदसिद्धौ मृषा भेद इति प्रतिपादितं तदयुक्तम्।

भेदाभेदसंभवादित्याशङ्क्याह –

न तावद्भेदाभेदाविति ।

अविद्याश्रयं त्वविद्योपधानं चेत्यादिना वक्ष्याम इति तावच्छब्दः।

मा भूतामेकत्र भेदाभेदौ, भेद एवास्तु, नेत्याह –

द्वैतेति ।

लोकप्रसिद्धिम् अन्यथासिद्धयत्यनुमानं वाऽनेकान्तयति –

तत्र यथेत्यादिना ।

परस्मिन्नुच्यते प्राचीनैराचार्यैरविद्या ब्रह्मणीति वदद्भिरित्यर्थः। अनादित्वमात्रे बीजाङ्कुरदृष्टान्तो न तु जीवाविद्याव्यक्तिभेदे। उत्पत्तौ हीतरेताश्रयदोषः अनाद्योर्जीवाविद्ययोश्च नोत्पत्तिः। इतरेतराधीनत्वं तु स्यात्। तच्च दृष्टमविद्यातत्संबन्धयोर्वाच्यवाचकत्वादीनां चेत्यर्थः। यदत्राह केशवः - यद्युपाधिविशिष्टस्य संसारो नाशितात्मनः। तल्लक्षितस्य चेद् ब्रह्म मुक्त्वा तद्रूपमुच्यताम्॥ इति। तन्न; यतो न विशेषणम् अविद्या, नाप्युपलक्षणम्, किं तूपाधिः। कः पुनरेषां भेदः? उच्यते। कार्यान्वयित्वेन विभेदकं हि विशेषणं नैल्यमिवोत्पलस्य। अनन्वयित्वेन तु भेदकानाम् उपाधिता उपलक्षणता च सिद्धा। तत्र च - यावत्कार्यमवस्थाय भेदहेतोरुपाधिता। कादाचित्कतया भेदधीहेतुरुपलक्षणम्॥ नीलोत्पलमानयेत्यत्र हि नैल्यं व्यावृत्तिप्रयुक्तानयनकार्यान्वयि सदुत्पलं रक्ताद्व्यावर्तयति। अलक्तककाकौ तु स्फुटिकगृहकार्ययोर्नान्वीयेते। अलक्तकं तु यावद्रक्तस्फटिकानयनमनुवर्तते। काकस्तु न चैत्रगृहगमनं यावदनुवर्तते। तदिहाऽविद्या न विशेषणमिति न तन्नाशे जीवनाशः। न चोपलक्षणमिति न ब्रह्मणि संसारो यावत्संसारं चानुवर्तिष्यते। तन्निवृत्तौ च जीवः स्वं ब्रह्मभावमेष्यति। त्वयापि लिङ्गरीरावच्छेदाभ्युपगमात् समौ पर्यनुयोगपरिहारौ। न चौपाधिकस्य सत्यत्वमित्यनन्तरमेव वक्ष्यत इति।

अत एवेत्येतद्विवृणोति –

न खल्विति ।

अविद्याधीनजीवविभागस्यानादित्वादुद्देश्याभावोऽसिद्धः। अनादित्वाच्च मायाया आरचनाभावः। संसारस्यानादित्वात्संसारिणं कथं कुर्यादित्यचोद्यमित्यर्थः। न मायाकृतसंसारे प्रयोजनानुयोगो गन्धर्वनगरादिभ्रमवदित्यादिशब्दार्थः।

अविद्योपाधिवर्णनं नाममात्रभेदादिति भाष्यविरुद्धमित्याशङ्क्याह –

अत्र चेति ।

नामेत्यवस्तुत्वेनाविद्योक्तिरित्यर्थः।

यदा दर्पणादयोऽपि मुखादाववदातत्वादेर्भानाभाने तन्वते, तदा कैवाविद्यायाः कथेत्याह –

यथा हीति ।

अविद्या गुहा न गिरिदरी। सा चैकस्मिन् स्वयंप्रभेनिरंशेऽपि भानाभाने वर्तयत्यसंभावनीयावभासचतुरत्वादिति भाष्यटीकयोर्भावः।

नन्वैक्यसिद्धावुपाधिना भानाभानसमर्थनम्, तदेवासिद्धमिति शङ्कते –

अस्तु तर्हीति ।

ये तु निर्बन्धं कुर्वन्तीति भाष्यं व्याख्यानपूर्वकं प्रतीकत आदत्ते –

अपि त्वित्यादिना इतीत्यन्तेन ।

आश्मरथ्यस्य वेदान्तार्थबाधकत्वं भाष्योक्तं स्फुटयति –

ब्रह्मण इति ।

भागशः परिणामे कार्यत्वं सावयवत्वात्ततश्चानित्यत्वं सर्वात्मना परिणामे च सर्वाभावादनित्यत्वं साक्षादित्यर्थः। अनेन कृतकमनित्यमिति भाष्यं व्याख्यातम्। न्यायेनासङ्गतिर्व्याघातात्।

औडुलोमेर्न्यायासङ्गतिमाह –

एवमिति ।

भिन्नयोरैक्यायोगादेकत्वशास्त्रविकत्थनमसङ्गतमित्यर्थः। संस्थानभेदो नैरन्तर्येणावस्थानम्।

अथ नदीपाथःपरमाणवः समुद्रावयविनैक्यं यान्ति तत्राह –

एवं समुद्रादपीति ।

भास्करस्य मतमनूद्य दूषयति –

ये त्वित्यादिना ।

सावयवत्वमवयवारब्धत्वं सांशत्वं भागवत्त्वमात्रमिति परो मेने। शब्दश्रवणयोग्यमित्याज्ञानदशायां कार्यकरत्वात् सत्यत्वमित्युक्तम्।

दिगारभ्यं श्रोत्रमिति मते दृष्टान्तमाह –

वायोरिति ।

नेम्याकारकर्णवलयतत्संयोगयोः प्राप्तयोराकाशांशनिर्देशादन्यथा चानिर्देशात् कल्पितनभोऽवच्छेदानभ्युपगमाच्च कर्णस्तत्संयोगो वा आकाशाशं इत्युक्तं स्यादित्यर्थः। किं व्यापी संयोगो न वा।

आद्यमनुपलम्भान्निरस्य द्वितीयं निरस्यति –

न हीति ।

व्याप्तिपक्षमादाया ऽनुपलम्भस्य अन्यथासिद्धिमाशङ्क्याह –

व्याप्यैवेति ।

कर्णस्य परिच्छेदात्क्वाचित्कप्रथेत्यर्थः।

परिहृतेऽपि सर्वत्र प्रथनप्रसङ्गे तत्कार्यस्य सर्वत्रापत्तिमाह –

न नामेति ।

अज्ञातस्य तस्य शब्दधीहेतुत्वादित्यर्थः।

इदानीमंशमात्रे साधारणं दूषणमाह –

न चेति ।

भिन्नयोः नाशांशित्वमश्वमहिषवन्नाभिन्नस्यैकैवन्नापि भिन्नाभिन्नयोस्तद्विरोधस्य समन्वयसूत्रे (ब्र.अ.१.पा.१.सू.४) उक्तत्वादित्यर्थः।

नर्भोशस्याविद्याकल्पितत्वमाक्षिप्य समाधत्ते –

न च काल्पनिक इति ।

यत्काल्पनिकं न तदज्ञातदशायामस्ति रज्जुभुजङ्गवच्छ्रोत्रलक्षणांशो यदि काल्पनिकत्वेन ज्ञानमात्रप्राप्तजीविकः प्रतीतसत्ताकस्तर्हि कथमज्ञायमानेऽस्ति।

इष्टप्रसङ्गत्तामाशङ्क्याह –

असंश्चेति ।

अज्ञातत्वेन हि श्रोत्रं शब्दधीहेतुस्तदज्ञातदशायां यद्यसत्स्यात्ततः शब्दधीर्न स्यादित्यर्थः।

अज्ञातत्वं तदानीमसिद्धमित्यापादकासिद्धिमाह –

अज्ञातत्वेति ।

कुतोऽसिद्धिरत आह –

कार्येति ।

निगूढोऽत्राभिसन्धिस्तमजानन् शङ्कते –

कार्योत्पादादिति ।

शब्दोपलब्धिकार्यलिङ्गकानुमानाद्या श्रोत्रस्याभिव्यक्तिः सा कार्यात्पराचीति प्राक् कार्यादसच्छ्रोत्रं स्यात्तद्बलात्तु तत्सत्त्वे चक्रकं सति श्रोत्रे तत्कार्यं तस्मिन्सन्ति श्रोत्रानुमानं ततश्च श्रोत्रसत्त्वमिति तथा च नियतप्राक्सत्त्वात्मककारणत्वमस्य न स्यादित्यर्थः।

निगूढाभिसन्धिं प्रकटयति –

न पूर्वेति ।

पूर्वपूर्वकार्यलिङ्गकानुमित्युपाधिकसत्त्ववतः श्रोत्रादिदानीन्तनकार्योदय इत्युक्तम्; अजानतामपि श्रोत्रं शब्दोपलम्भादिति चेत्तत्राह –

असत्यपीति ।

यथा कल्पितप्रतीतिः सत्त्वापाधिस्तथा तत्संस्कारोऽपीत्यर्थः। एतदुक्तं भवति - अभासमानं कार्यकरं श्रोत्रमिति न वास्तवं सत्त्वं कल्प्यम्; भ्रमसंस्कारोपाधिकसत्वसंभवादिति।

अथ संस्कारः कुतः? प्राक्तनानुमितेरिति चेत् तर्हि अनवस्थेति शङ्कां परिहरति –

अनादित्वाच्चेति ।

अथ नैकैकस्यानादित्वं न च प्रवाहो नाम वस्त्वत आह –

अस्तु वेति ।

नोपपद्यतेऽर्थः परमार्थत्वं यस्यास्तस्या भावस्तत्त्वम्। कर्णनेमिमण्डलोपाध्यधीनं सत्त्वम् श्रोत्रस्येति नाज्ञातसत्त्वविरोधो निरुपाधिकभ्रमेषु प्रतीतिकसत्ता इति वा परिहारः। किं च - आरभ्यं श्रोत्रमस्माकं नभसा दिग्भिरेव वा। वायोः सांशत्वतः प्राणो भागः सत्यश्च संभवेत्॥ रूपाणि शरीराणि विचित्य निर्माय तेषां नामानि कृत्वा तेषु प्रविश्याभिवदन् य आस्ते एतं महान्तं पुरुषमहं वेदेत्यर्थः॥२२॥

इति षष्ठं वाक्यान्वयाधिकरणम्॥