भामतीव्याख्या
वेदान्तकल्पतरुः
 
प्रकृत्यधिकरणविषयाः

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।

स्यादेतत् । वेदान्तानां ब्रह्मणि समन्वये दर्शिते समाप्तं समन्वयलक्षणमिति किमपरमवशिष्यते यदर्थमिदमारभ्यत इति शङ्कां निराकर्तुं सङ्गतिं दर्शयन्नवशेषमाह -

यथाभ्युदयेति ।

अत्र च लक्षणस्य सङ्गतिमुक्त्वा लक्षणेनास्याधिकरणस्य सङ्गतिरुक्ता । एतदुक्तं भवति - सत्यं जगत्कारणे ब्रह्मणि वेदान्तानामुक्तः समन्वयः ।

तत्र कारणभावस्योभयथा दर्शनाज्जगत्कारणत्वं ब्रह्मणः किं निमित्तत्वेनैव, उतोपादानत्वेनापि । तत्र यदि प्रथमः पक्षस्तत उपादानकारणानुसरणे साङ्ख्यस्मृतिसिद्धं प्रधानमभ्युपेयम् । तथा च “जन्माद्यस्य यतः” (ब्र. सू. १ । १ । २) इति ब्रह्मलक्षणमसाधु, अतिव्याप्तेः प्रधानेऽपि गतत्वात् । असम्भवाद्वा । यदि तूत्तरः पक्षस्ततो नातिव्याप्तिर्नाप्यव्याप्तिरिति साधु लक्षणम् । सोऽयमवशेषः । तत्र “ईक्षापूर्वकर्तृत्वं प्रभुत्वमसरूपता । निमित्तकारणेष्वेव नोपादानेषु कर्हिचित्” ॥ तदिदमाह -

तत्र निमित्तकारणमेव तावदिति ।

आगमस्य कारणमात्रे पर्यवसानादनुमानस्य तद्विशेषनियममागमो न प्रतिक्षिपत्यपि त्वनुमन्यत एवेत्याह -

पारिशेष्याद्ब्रह्मणोऽन्यदिति ।

ब्रह्मोपादानत्वस्य प्रसक्तस्य प्रतिषेधेऽन्यत्राप्रसङ्गात्साङ्ख्यस्मृतिप्रसिद्धमानुमानिकं प्रधानं शिष्यत इति । एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानम् “उत तमादेशम्”(छा. उ. ६ । १ । ३) इत्यादिना, “यथा सोम्यैकेन मृत्पिण्डेन” (छा. उ. ६ । १ । ४) इति च दृष्टान्तः, परमात्मनः प्राधान्यं सूचयतः । यथा सोमशर्मणैकेन ज्ञातेन सर्वे कठा ज्ञाता भवन्ति ।

एवं प्राप्त उच्यते -

प्रकृतिश्च ।

न केवलं ब्रह्म निमित्तकारणं, कुतः, प्रतिज्ञादृष्टान्तयोरनुपरोधात् । निमित्तकारणत्वमात्रे तु तावुपरुध्येयाताम् । तथाहि - “न मुख्ये सम्भवत्यर्थे जघन्या वृत्तिरिष्यते । न चानुमानिकं युक्तमागमेनापबाधितम् ॥ सर्वे हि तावद्वेदान्ताः पौर्वापर्येण वीक्षिताः । ऐकान्तिकाद्वैतपरा द्वैतमात्रनिषेधतः” ॥ तदिहापि प्रतिज्ञादृष्टान्तौ मुख्यार्थावेव युक्तौ न तु “यजमानः प्रस्तरः” इतिवद्गुणकल्पनया नेतव्यौ, तस्यार्थवादस्यातत्परत्वात् । प्रतिज्ञादृष्टान्तवाक्ययोस्त्वद्वैतपरत्वादुपादानकारणात्मकत्वाच्चोपादेयस्य कार्यजातस्योपादानज्ञानेन तज्ज्ञानोपपत्तेः । निमित्तकारणं तु कार्यादत्यन्तभिन्नमिति न तज्ज्ञाने कार्यज्ञानं भवति । अतो ब्रह्मोपादानकारणं जगतः । नच ब्रह्मणोऽन्यन्निमित्तकारणं जगत इत्यपि युक्तम् । प्रतिज्ञादृष्टान्तोपरोधादेव । नहि तदानीं ब्रह्मणि ज्ञाते सर्वं विज्ञातं भवति । जगन्निमित्तकारणस्य ब्रह्मणोऽन्यस्य सर्वमध्यपातिनस्तज्ज्ञानेनाविज्ञानात् । यत इति च पञ्चमी न कारणमात्रे स्मर्यते अपि तु प्रकृतौ, “जनिकर्तुः प्रकृतिः”(पा. सू. १ । ४ । ३०) इति । ततोऽपि प्रकृतित्वमवगच्छामः । दुन्दुभिग्रहणं दुन्दुभ्याघातग्रहणं च तद्गतशब्दत्वसामान्योपलक्षणार्थम् ॥ २३ ॥ अनागतेच्छासङ्कल्पोऽभिध्या । एतया खलु स्वातन्त्र्यलक्षणेन कर्तृत्वेन निमित्तत्वं दर्शितम् । “बहु स्याम्” (छा. उ. ६ । २ । ३) इति च स्वविषयतयोपादानत्वमुक्तम् ॥ २४ ॥

आकाशादेव ।

ब्रह्मण एवेत्यर्थः ।

साक्षादिति चेति सूत्रावयवमनूद्य तस्यार्थं व्याचष्टे -

आकाशादेवेति ।

श्रुतिर्ब्रह्मणो जगदुपादानत्वमवधारयन्ती उपादानान्तराभावं साक्षादेव दर्शयतीति

साक्षादिति

सूत्रावयवेन दर्शितमिति योजना ॥ २५ ॥

आत्मकृतेः परिणामात् ।

प्रकृतिग्रहणमुपलक्षणं, निमित्तमित्यपि द्रष्टव्यं, कर्मत्वेनोपादानत्वात्कर्तृत्वेन च तत्प्रति निमित्तत्वात् ।

कथं पुनरिति ।

सिद्धसाध्ययोरेकत्रासमवायो विरोधादिति ।

परिणामादिति ब्रूम इति ।

पूर्वसिद्धस्याप्यनिर्वचनीयविकारात्मना परिणामोऽनिर्वचनीयत्वाद्भेदेनाभिन्न इवेति सिद्धस्यापि साध्यत्वमित्यर्थः ।

एकवाक्यत्वेन व्याख्याया परिणामादित्यवच्छिद्य व्याचष्टे -

परिणामादिति वेति ।

सच्चत्यच्चेति द्वे ब्रह्मणो रूपे । सच्च सामान्यविशेषेणापरोक्षतया निर्वाच्यं, पृथिव्यप्तेजोलक्षणम् । त्यच्च परोक्षमत एवानिर्वाच्यमिदन्तया वाय्वाकाशलक्षणं, कथं च तद्ब्रह्मणो रूपं यदि तस्य ब्रह्मोपादानं, तस्मात्परिणामाद्ब्रह्म भूतानां प्रकृतिरिति ॥ २६ ॥

पूर्वपक्षिणोऽनुमानमनुभाष्यागमविरोधेन दूषयति -

यत्पुनरिति ।

एतदुक्तं भवति - ईश्वरो जगतो निमित्तकारणमेव ईक्षापूर्वकजगत्कर्तृत्वात् , कुम्भकर्तुकुलालवत् । अत्रेश्वरस्यासिद्धेराश्रयासिद्धो हेतुः पक्षश्चाप्रसिद्धविशेषः । यथाहुः - “नानुपलब्धे न्यायः प्रवर्तते” इति । आगमात्तत्सिद्धिरिति चेत् , हन्त तर्हि यादृशमीश्वरमागमो गमयति तादृशोऽभ्युपगन्तव्यः स च निमित्तकारणं चोपादानकारणं चेश्वरमवगमयति । विशेष्याश्रयग्राह्यागमविरोधान्नानुमानमुदेतुमर्हतीति कुतस्तेन निमित्तत्वावधारणेत्यर्थः । इयं चोपादानपरिणामादिभाषा न विकाराभिप्रायेणापि तु तथा सर्पस्योपादानं रज्जुरेवं ब्रह्म जगदुपादानं द्रष्टव्यम् । न खलु नित्यस्य निष्कलस्य ब्रह्मणः सर्वात्मनैकदेशेन वा परिणामः सम्भवति, नित्यत्वादनेकदेशत्वादित्युक्तम् । नच मृदः शरावादयो भिद्यन्ते, न चाभिन्नाः, न वा भिन्नाभिन्नाः किन्त्वनिर्वचनीया एव । यथाह श्रुतिः - “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इति । तस्मादद्वैतोपक्रमादुपसंहाराच्च सर्व एव वेदान्ता ऐकान्तिकाद्वैतपराः सन्तः साक्षादेव क्वचिदद्वैतमाहुः, क्वचिद्द्वैतनिषेधेन, क्वचिद्ब्रह्मोपादानत्वेन जगतः । एतावतापि तावद्भेदो निषिद्धो भवति, न तूपादानत्वाभिधानमात्रेण विकारग्रह आस्थेयः । नहि वाक्यैकदेशस्यार्थोऽस्तीति ॥ २७ ॥

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्॥२३॥ मध्ये पादं वृत्तकीर्तनस्य प्रयोजनमाह –

स्यादेतदिति ।

व्यवहितसंबन्धापौनरुक्तये फले इत्यर्थः।

जन्मादिसूत्र (ब्र.अ.१.पा.१.सू.२) सङ्गत्यभिधित्सायां प्रथमसूत्रार्थानुवादेन यथाभ्युदयहेतुत्वादित्यादिभाष्योक्तेन किं प्रयोजनमत आह –

अत्र चेति ।

ब्रह्मलक्षणस्य कारणत्वस्य विचारप्रतिज्ञया सङ्गतिमुक्त्वा तेनास्याधिकरणस्य कारणविशेषविचारपरस्य सङ्गतिरुक्ता। आकस्मिके हि लक्षणे तद्विशेषचिन्ताप्याकस्मिकी स्यादित्यर्थः। अत एवाध्यायसङ्गतिश्च। ब्रह्मकारणत्वाभ्युपगमेन विशेषविप्रतिपत्तिनिराससाम्यात्पादसङ्गतिः।

अवशेषमाहेत्युक्ते तमवशिष्यमाणमर्थमाह –

एतदुक्तमिति ।

कारणत्वमात्रं लक्षणमुक्त्वा यदि ब्रह्म निमित्तमेवेति पक्ष आश्रीयेत, तदा जगदुपादानमभ्युपेयं न वा।

आद्यं निरस्य द्वितीयं निरस्यति –

असंभवाद्वेति ।

भावकार्यस्य गगनादेरवश्याश्रयणीये उपादाने तदधिष्ठातृत्वेन निमित्तत्वं वक्तव्यं तदनभ्युपगमे तन्न स्यादित्यर्थः। उभयकारणत्वपक्षे प्रधानानन्युपगमान्नातिव्याप्तिः। अद्वैताऽव्यासेधकत्वाच्च एवंविधकारणत्वस्य न लक्ष्याव्याप्तिर्नासंभव इत्यर्थः। एतदधिकरणसिद्धवत्कारेण च जन्मादिसूत्रे उभयकारणत्वव्यवहारः। यद्यपि तदनन्तरमिदमारब्धव्यम्; तथापि निर्णीततात्पर्यैर्वेदान्तैः निमित्तत्वमात्रसाधकानुमानस्य कालातीतत्वं मुवचमिति समन्वयावसाने लिलिखे।

अप्रदर्शिते तु विषये समन्वयो दुष्प्रतिपाद इति कारणतामात्रं तत्रोक्तम्। ईक्षतृत्वश्रुतेरेकविज्ञानेन सर्वविज्ञानप्रतिज्ञानाच्च ब्रह्म निमित्तमेवोतोपादानमपीति संशये पूर्वत्र प्रतिज्ञां मुख्यामाश्रित्य जीवपरत्वं वाक्यस्य निरस्तम्, इह तु निमित्तोपादानभेदाद्गौणी सेति सङ्गतिमभिसन्धाय पूर्वपक्षमाह –

ईक्षेति ।

ब्रह्म न द्रव्यप्रकृतिः ईक्षितृत्वात्, कर्तृत्वात् स्वतन्त्रत्वादिति यावत्। प्रभुत्वाच्च राजवत्। सुखाद्युपादेन राज्ञि साध्यवैकल्यव्यावृत्तये प्रतिज्ञायां द्रव्यपदम्।

ब्रह्म न पृथिवीप्रकृतिः निर्गन्धत्वात् अभाववदित्यप्रयोगान्मत्वाऽऽह –

असरूपतेति ।

एतेषामनुमानानामाशङ्क्यातीतकालतां विषयव्यवस्थया परिहरति –

आगमस्येति ।

आगमे हि यत इति पञ्चमी न प्रकृतावपि तु हेतुत्वमात्रे ‘हेतुमनुष्येभ्योऽन्यतरस्यां रूप्य’ इति हेतोर्मनुष्याच्च रूप्याप्रत्ययविधौ ‘तत आगत’ इति प्रकृतस्य पञ्चम्यर्थस्य हेतोरिति विशेषणेन हेतावपि पञ्चमीज्ञापनात्। अतो न विरोध इत्यर्थः।

ननु निमित्तोपादानभेदे कथं प्रतिज्ञादृष्टान्तयोजना तत्राह –

एकेति ।

इत्यादिना यत्प्रतिज्ञातमित्यन्वयः।

ननु प्रतिज्ञादृष्टान्तौ प्राधान्यपरौ, नेत्याह –

न मुख्ये इति।

नन्वनुमानवाधाद्गौणताऽत आह -

न चेति ।

अस्त्वागमो निमित्तत्वपरस्तत्राह –

सर्वे हीति ।

कथमैकान्तिकाऽद्वैतपरत्वं प्रकृतिविकाराभिधायिवेदान्तानामत आह –

द्वैतेति ।

कार्यस्य विवर्तत्वेनाधिष्ठानन्यतिरेणाभावे वेदान्तानां तात्पर्यमित्यर्थः।

यदि तज्ज्ञानात्सर्वकार्यज्ञानार्थं ब्रह्मोपादानम्, अस्तु तर्हि ततोऽन्यन्निमित्तमत आह –

न चेति ।

न केवलमनुमानस्य प्रतिज्ञादिलिङ्गैर्बाधोऽपि तु श्रुत्याऽपीत्याह –

यत इतीति ।

यत्तु ज्ञापकाद्धेतौ पञ्चमीति, तत्राह –

न कारणमात्र इति ।

ज्ञापनेन विध्युन्नयनाद्वरमिह प्रत्यक्षविधिप्राप्तप्रकृतित्वोपादानमिति भावः। अपि च गुणवचनेषु हेतुपञ्चमी दृश्यते जाड्याद्वद्ध इत्यादिषु। न च ब्रह्म गुणोऽनाश्रितत्वाद्, येन ‘यत’ इत्यस्य गुणवचनता स्यादिति जनिकर्तुर्जायमानस्य प्रकृतिरपादानसंज्ञा भवति ततोऽपादाने पञ्चमीति सूत्रेण प्रकृतौ स्मर्यत इत्यर्थः।

भाष्यस्थश्रुतिं व्याचष्टे -

दुन्दुमीति॥२३॥

सौत्र्यभिध्या ऽनागतवस्तुनीच्छा, तस्या व्याख्या –

संकल्प इति ।

एतयाऽभिष्यया त्वात यं दर्शितं तेन च निमित्तत्वं श्रुतौ दर्शितमित्यर्थः।

बहु स्यामित्याभिध्याया ईश्वरविषयत्वेन कार्यकारणाऽ भेदसूचनादुपादानत्वमुक्तमित्यर्थः॥२४॥ साक्षाच्चेति सूत्रोदाहृतश्रुतावाकाशशब्दो ब्रह्मवचन इत्याह –

ब्रह्मण इति ।

व्याचष्टे इति ।

उपादानान्तरेत्यादिनेति शेषः।

आकाशादेवेति ।

श्रौतावधारणोक्तोपादानान्तराभावं साक्षादिति सूत्रपदेन दर्शयति इत्येवं व्यवहितान्वयेन भाष्यं योजयति –

आकाशादेवेति ॥२५॥

भाष्ये प्रकृतिग्रहणमुपलक्षणार्थमित्यर्थः।

निमित्तोपादानत्वेहेतुपरं यत्कारणमित्यादिभाष्यं व्याचष्टे –

कर्मत्वेनेति ।

पूर्वसिद्धस्येति ।

भेदेनानिर्वचनादिभिन्न इवेति योजना। सामान्येन द्रव्यत्वादिना विशेषेण पृथिवीत्वादिना निर्वाच्यमिति निरुक्तपदव्याख्या।

द्वे वा व ब्रह्मणो रूपे इति मूर्तामूर्तं ब्रह्माभेदेन श्रुतं तत्कथं स्याद्यदि ब्रह्मोपादानं न स्यादिति व्यतिरेकं सिद्धवत्कृत्यान्वयमाह –

यदीति ।

तर्ह्येवंरूपं स्यादिति शेषः॥२६॥

विशेष्येति ।

साध्यं प्रति विशेष्यस्य हेतुं प्रत्याश्रयस्य च ग्राहकतयोपजीव्यागमविरोधादित्यर्थः।

भास्करस्त्विह बभ्राम योनिरिति परिणामादिति च सूत्रनिर्देशाच्छान्दोग्यवाक्यकारेण ब्रह्मनन्दिना परिणामस्तु स्यादित्यभिधानाच्च परिणामवादो वृद्धसंमत इति, तं प्रतिबोधयति –

यं चेति ।

ब्रह्मनन्दिना हि नासतोऽनिष्पाद्यत्वात्प्रवृत्त्यानर्थक्यं तु सत्त्वाविशेषादिति सदसत्पक्षप्रतिक्षेपेण पूर्वपक्षमादर्श्य न संव्यवहारमात्रत्वादिति अनिर्वचनीयता सिद्धान्तिता अतः परिणामस्त्विति मिथ्यापरिणामाभिप्रायं, सूत्रं त्वेतदभिप्रायमेवेत्यर्थः।

उदाहरिष्यमाणश्रुतिसंमतां युक्तिमाह –

न खल्विति ।

परिणामः सर्वात्मना एकदेशेन वा। नाद्यः सर्वात्मना प्राक्तनरूपत्यागादनित्यत्वापत्तौ श्रौतनित्यविरोधात्। न द्वितीयः; निष्कलश्रुत्यवगतानंशत्वविरोधादित्यर्थः। नित्यत्वादिति हेतुगर्भनिर्देशयोर्विवरणम्। एवं सौत्रपरिणामशब्दो विवर्तपरतया योजितः।

इदानीं तु यथाश्रुतमाश्रित्य परिणामत्वेन लोकसिद्धस्य युक्तयसहत्वेन विवर्ततामाह –

न च मृद इति ।

मृद एव सत्यत्वावधारणात्कार्यमिथ्यात्वं श्रुतिराह - एकमेवाद्वितीयमित्यादौ साक्षान्नेति नेतीत्यादौ निषेधेन।

ननु सृष्टिश्रुतेः सप्रपञ्चताऽस्तु, नेत्याह –

न हीति ।

उपक्रमाद्यवगततात्पर्यमहावाक्यमध्यस्थावान्तरवाक्यस्य प्रधानानुरोधेन मायामयसृष्टिविषयत्वमित्यर्थः। अत्र कश्चिदाह - भ्रान्ते ब्रह्मोपादानत्वे पूर्वपक्ष एव समर्थितः स्याद्, निर्विकारत्वश्रुतयः प्राक् सृष्टेरविकारितामाहुः - इति। तन्न; वाक्याभासोत्थभ्रममात्रसिद्धं ब्रह्मोपादानत्वमिति हि पूर्वपक्षाशयः; स्वप्नवदर्थक्रियासमर्थप्रपञ्चास्पदत्वं सिद्धान्तसंमतमिति भेदोपपत्तेः। प्रलयश्रुतिभिरेव प्रागविकारित्वसिद्धिर्न निर्विकारश्रुतिस्तत्परा, निर्विकारित्वं विकारात्यन्ताभावो ब्रह्मधर्मः स चानिर्वाच्यो विकारमनिर्वाच्यं न सहते सत्य इव तव घटाभावः सत्यघटं न चाद्वैतं व्याहन्तीति॥२७॥

इति सप्तमं प्रकृत्यधिकरणम्॥ २७॥