स्यादेतत् । मा भूत्प्रधानं जगदुपादानं तथापि न ब्रह्मोपादानत्वं सिध्यति, परमाण्वादीनामपि तदुपादानानामुपप्लवमानत्वात् , तेषामपि हि किञ्चिदुपोद्बलकमस्ति वैदिकं लिङ्गमित्याशङ्कामपनेतुमाह सूत्रकारः -
एतेन सर्वे व्याख्याता व्याख्याताः ।
निगदव्याख्यातेन भाष्येण व्याख्यातं सूत्रम् । “प्रतिज्ञालक्षणं लक्ष्यमाणे पदसमन्वयः वैदिकः स च तत्रैव नान्यत्रेत्यत्र साधितम्” ॥ २८ ॥
इति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमच्छारीरकभाष्यविभागे भामत्यां प्रथमाध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥ इति प्रथमाध्यायेऽव्यक्तादिसन्दिग्धपदमात्रसमन्वयाख्यश्चतुर्थः पादः ॥
॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमोऽध्यायः ॥
एतेन सर्वे व्याख्याता व्याख्याताः॥२८॥ अस्वातिदेशस्य जन्मादिसूत्रेणाक्षेपसङ्गतिः दर्शयन् अध्यायसङ्गतिमाह –
स्यादेतदिति ।
ब्रह्मोररीकृत्य कारणान्तरप्रत्यवस्थानात् पादसङ्गतिः। उपप्लवमानत्वात् बुद्धौ प्रतिभासमानत्वात्। जगतः प्रकृतिर्ब्रह्म यदि स्यान्मृन्निदर्शनात्। अण्वादयोऽपि किं न स्युर्वटधानानिदर्शनात्॥ इत्यवान्तरसङ्गत्यधिकशङ्के। न्यग्रोधफलमाहरेति भिन्धीति किमत्र पश्यसीति अण्व्य इमा धाना इति आसामेकां भिन्धीति किमत्र पश्यसीति न किंचन भगव इति एतस्य सोम्यैयोऽणिम्न एवं महान्न्याग्रोधस्तिष्ठतीति जगतः प्रागवस्थाया दृष्टान्तः श्रूयते। अत्र न किंचनेति शून्यस्वभाववादावणिम्न इत्यदृश्यमानाणुनिर्देशादणुवादश्च भान्ति दार्ष्टान्तिका इति। सिद्धान्तस्तु - मृदादयो हि दृष्टान्ताः प्रतिज्ञामसुरुन्धते। धानास्तामुपरुन्धाना भक्तिमार्गं प्रपेदिरे॥ इह खल्वेकविज्ञानात्सर्वविज्ञानप्रतिज्ञानं प्रधानं नासदारिपक्षेषु कल्पते, अतो न किंचनेत्यनभिव्यक्तिरणिम्न इति सूक्ष्मता चोक्तेति।
अध्यायार्थं सङ्कलयति –
प्रतिज्ञेति ।
प्रथम सूत्रे विचारप्रतिज्ञा। लक्षणं द्वितीये। लक्ष्यमाणे समन्वयः चतुर्थे। स च तत्रैवेति शिष्टायां त्रिपाद्याम्, नान्यत्रेति चतुर्थपादे। इत्येतत्सर्वमत्राध्याये साधितमित्यर्थः। इत्यष्टमं सर्वव्याख्यानाधिकरणम्॥