भामतीव्याख्या
वेदान्तकल्पतरुः
 
स्मृत्यधिकरणविषयाः

अथ द्वितीयोऽध्यायः ।

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ।

वृत्तवर्तिष्यमाणयोः समन्वयविरोधपरिहारलक्षणयोः सङ्गतिप्रदर्शनाय सुखग्रहणाय चैतयोः सङ्क्षेपतस्तात्पर्यार्थमाह -

प्रथमेऽध्याय इति ।

अनपेक्षवेदान्तवाक्यस्वरससिद्धसमन्वयलक्षणस्य विरोधतत्परिहाराभ्यामाक्षेपसमाधानकरणादनेन लक्षणेनास्ति विषयविषयिभावः सम्बन्धः । पूर्वलक्षणार्थो हि विषयस्तद्गोचरत्वादाक्षेपसमाधानयोरेष च विषयीति । तदेवमध्यायमवतार्य तदवयवमधिकरणमवतारयति -

तत्र प्रथमं तावदिति ।

तन्त्र्यते व्युत्पाद्यते मोक्षसाधनमनेनेति तन्त्रं, तदेवाख्या यस्याः सा स्मृतिस्तन्त्राख्या परमर्षिणा कपिलेनादिविदुषा प्रणीता । अन्याश्चासुरिपञ्चशिखादिप्रणीताः स्मृतयस्तदनुसारिण्यः । न खल्वमूषां स्मृतीनां मन्वादिस्मृतिवदन्योऽवकाशः शक्यो वदितुमृते मोक्षसाधनप्रकाशनात् । तदपि चेन्नाभिदध्युरनवकाशाः सत्योऽप्रमाणं प्रसज्येरन् । तस्मात्तदविरोधेन कथञ्चिद्वेदान्ता व्याख्यातव्याः । पूर्वपक्षमाक्षिपति

कथं पुनरीक्षत्यादिभ्य इति ।

प्रसाधितं खलु धर्ममीमांसायां “विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्”(जै. सू. १ । ३ । ३) इत्यत्र, यथा श्रुतिविरुद्धानां स्मृतीनां दुर्बलतयानपेक्षणीयत्वं तस्मान्न दुर्बलानुरोधेन बलीयसीनां श्रुतीनां युक्तमुपवर्णनम् , अपि तु स्वतःसिद्धप्रमाणभावाः श्रुतयो दुर्बलाः स्मृतीर्बाधन्त एवेति युक्तम् । पूर्वपक्षी समाधत्ते -

भवेदयमिति ।

प्रसाधितोऽप्यर्थः श्रद्धाजडान्प्रति पुनः प्रसाध्यत इत्यर्थः ।

आपाततः समाधानमुक्त्वा परमसमाधानमाह पूर्वपक्षी -

कपिलप्रभृतीनां चार्षमिति ।

अयमस्याभिसन्धिः - ब्रह्म हि शास्त्रस्य कारणमुक्तं “शास्त्रयोनित्वात्”(ब्र.सू. १-१-३) इति, तेनैष वेदराशिर्ब्रह्मप्रभवः सन्नाजानसिद्धानावरणभूतार्थमात्रगोचरतद्बुद्धिपूर्वको यथा तथा कपिलादीनामपि श्रुतिस्मृतिप्रथिताजानसिद्धभावानां स्मृतयोऽनावरणसर्वविषयतद्बुद्धिप्रभवा इति न श्रुतिभ्योऽमूषामस्ति कश्चिद्विशेषः । न चैताः स्फुटतरं प्रधानादिप्रतिपादनपराः शक्यन्तेऽन्यथयितुम् । तस्मात्तदनुरोधेन कथञ्चिच्छ्रुतय एव नेतव्याः । अपि च तर्कोऽपि कपिलादिस्मृतिरनुमन्यते, तस्मादप्येतदेव प्राप्तम् । एवं प्राप्त आह

तस्य समाधिरिति ।

यथा हि श्रुतीनामविगानं ब्रह्मणि गतिसामान्यात् , नैवं स्मृतीनामविगानमस्ति प्रधाने, तासां भूयसीनां ब्रह्मोपादानत्वप्रतिपादनपराणां तत्र तत्र दर्शनात् । तस्मादविगानाच्छ्रौत एवार्थ आस्थेयो न तु स्मार्तो विगानादिति । तत्किमिदानीं परस्परविगानात्सर्वा एव स्मृतयोऽवहेया इत्यत आह

विप्रतिपत्तौ च स्मृतीनामिति ।

न चातीन्द्रियार्थानिति ।

अर्वाग्दृगभिप्रायम् ।

शङ्कते

शक्यं कपिलादीनामिति ।

निराकरोति

न । सिद्धेरपीति ।

न तावत्कपिलादय ईश्वरवदाजानसिद्धाः, किन्तु विनिश्चतवेदप्रामाण्यानां तेषां तदनुष्ठानवतां प्राचि भवेऽस्मिञ्जन्मनि सिद्धिः, अत एवाजानसिद्धा उच्यन्ते । यदस्मिन् जन्मनि न तैः सिद्ध्युपायोऽनुष्ठितः प्राग्भवीयवेदार्थानुष्ठानलब्धजन्मत्वात्तत्सिद्धीनाम् । तथा चावधृतवेदप्रामाण्यानां तद्विरुद्धार्थाभिधानं तदपबाधितमप्रमाणमेव । अप्रमाणेन च न वेदार्थोऽतिशङ्कितुं युक्तः प्रमाणसिद्धत्वात्तस्य । तदेवं वेदविरोधे सिद्धवचनमप्रमाणमुक्त्वा सिद्धानामपि परस्परविरोधे तद्वचनादनाश्वास इति पूर्वोक्तं स्मारयति

सिद्धव्यपाश्रयकल्पनायामपीति ।

श्रद्धाजडान्बोधयति

परतन्त्रप्रज्ञस्यापीति ।

ननु श्रुतिश्चेत्कपिलादीनामनावरणभूतार्थगोचरज्ञानातिशयं बोधयति, कथं तेषां वचनमप्रमाणं, तदप्रामाण्ये श्रुतेरप्यप्रामाण्यप्रसङ्गादित्यत आह

या तु श्रुतिरिति ।

न तावत्सिद्धानां परस्परविरुद्धानि वचांसि प्रमाणं भवितुमर्हन्ति । नच विकल्पो वस्तुनि, सिद्धे तदनुपपत्तेः । अनुष्ठानमनागतोत्पाद्यं विकल्प्यते, न सिद्धम् । तस्य व्यवस्थानात् । तस्माच्छुतिसामान्यमात्रेण भ्रमः साङ्ख्यप्रणेता कपिलः श्रौत इति । स्यादेतत् । कपिल एव श्रौतो नान्ये मन्वादयः । ततश्च तेषां स्मृतिः कपिलस्मृतिविरुद्धावहेयेत्यत आह

भवति चान्या मनोरिति ।

तस्याश्चागमान्तरसंवादमाह

महाभारतेऽपि चेति ।

न केवलं मनोः स्मृतिः स्मृत्यन्तरसंवादिनी, श्रुतिसंवादिन्यपीत्याह

श्रुतिश्चेति ।

उपसंहरति

अत इति ।

स्यादेतत् । भवतु वेदविरुद्धं कापिलं वचस्तथापि द्वयोरपि पुरुषबुद्धिप्रभवतया को विनिगमनायां हेतुर्यतो वेदविरोधि कापिलं वचो नादरणीयमित्यत आह

वेदस्य हि निरपेक्षमिति ।

अयमभिसन्धिःसत्यं शास्त्रयोनिरीश्वरस्तथाप्यस्य न शास्त्रक्रियायामस्ति स्वातन्त्र्यं कपिलादीनामिव । स हि भगवान् यादृशं पूर्वस्मिन् सर्गे चकार शास्त्रं तदनुसारेणास्मिन्नपि सर्गे प्रणीतवान् । एवं पूर्वतरानुसारेण पूर्वस्मिन् पूर्वतमानुसारेण च पूर्वतर इत्यनादिरयं शास्त्रेश्वरयोः कार्यकारणभावः । तत्रेश्वरस्य न शास्त्रार्थज्ञानपूर्वा शास्त्रक्रिया येनास्य कपिलादिवत्स्वातन्त्र्यं भवत् । शास्त्रार्थज्ञानं चास्य स्वयमाविर्भवदपि न शास्त्रकारणतामुपैति, द्वयोरप्यपर्यायेणाविर्भावात् । शास्त्रं च स्वतोबोधकतया पुरुषस्वातन्त्र्याभावेन निरस्तसमस्तदोषाशङ्कं सदनपेक्षं साक्षादेव स्वार्थे प्रमाणम् । कपिलादिवचांसि तु स्वतन्त्रकपिलादिप्रणेतृकाणि तदर्थस्मृतिपूर्वकाणि, तदर्थस्मृतयश्च तदर्थानुभवपूर्वाः । तस्मात्तासामर्थप्रत्ययाङ्गप्रामाण्यविनिश्चयाय यावत्स्मृत्यनुभवौ कल्पेते तावत्स्वतः सिद्धप्रमाणभावयाऽनपेक्षयैव श्रुत्या स्वार्थो विनिश्चायित इति शीघ्रतरप्रवृत्तया श्रुत्या स्मृत्यर्थो बाध्यत इति युक्तम् ॥ १ ॥

इतरेषां चानुपलब्धेः ।

प्रधानस्य तावत्क्वचिद्वेदप्रदेशे वाक्याभासानि दृश्यन्ते, तद्विकाराणां तु महदादीनां तान्यपि न सन्धि । नच भूतेन्द्रियादिवन्महदादयो लोकसिद्धाः । तस्मादात्यन्तिकात्प्रमाणान्तरासंवादात्प्रमाणमूलत्वाच्च स्मृतेर्मूलाभावादभावो वन्ध्याया इव दौहित्र्यस्मृतेः । न चार्षज्ञानमत्र मूलमुपपद्यत इति युक्तम् । तस्मान्न कापिलस्मृतेः प्रधानोपादानत्वं जगत इति सिद्धम् ॥ २ ॥

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्॥१॥ चेतनजगदुपादानसमन्वयः साङ्ख्यस्मृत्या सङ्कोच्यता न वेति सर्वज्ञभाषितत्वसाम्येन बलाबलाविनिगमात्संदेहे पूर्वपक्षमाह –

न खल्विति ।

विरोधे त्विति ।

औदुम्बरीं स्पृष्ट्वोद्गायेदिति प्रत्यक्षश्रुतिविरुद्धा सर्वामावेष्टेतेति स्मृतिर्मानं वेति सन्देहे वेदार्थानुष्ठातॄणां स्मृतिभिर्मूलश्रुत्यनुमानात्प्रत्यक्षानुमितश्रुत्योश्च स्वपराधीतश्रुतिवत्समबलत्वादुदितानुदितादिवद्विकल्पादिसम्भवान्मानमिति प्राप्ते राद्धान्तः । श्रुतिविरुद्धस्मृतीनां प्रामाण्यमनपेक्षमपेक्षावर्जितं हेयमिति यावत् । यतोऽसति विरोधे मूलश्रुत्यनुमानं स्वपराधीतश्रुत्योस्तुल्यवत्प्रमितत्वात्समबलता । प्रत्यक्षश्रुतिविरुद्धेऽर्थे तु न श्रुत्यनुमानम् ; अर्थापहारेण मानस्याप्यपहारात् ।

अतो मूलाभावादप्रमाणमिति ।

पूर्वपक्षी पूर्वपक्षोपपादकः । अधिकरणारम्भवादीत्यर्थः ।

आर्षप्रत्यक्षमूलापि स्मृतिः सापेक्षा , वेदस्त्वपौरुषेयत्वादनपेक्ष इत्याशङ्क्याह –

अयमस्याभिसंधिरिति ।

आजानसिद्धा स्वभावसिद्धा च साऽनावरणभूतार्थमात्रगोचरा च ।

भ्रमवत्सत्यानृतगोचरत्वं वारयति – 

मात्रेति ।

एवंभूता तस्य ब्रह्मणो या बुद्धिस्तत्पूर्वको वेदराशिरित्यर्थः ।

पौरुषेयत्वेन तुल्यत्वमुक्त्वा स्मृतेर्निरवकाशत्वं प्राबल्यहेतुमाह –

न चैता इति ।

अनन्यपरत्वं स्फुटतरत्वम् । श्रुतिरनुष्ठानपरा ।

अन्यस्मृत्यनवकाशमात्रान्न सिद्धान्तसिद्धिः संदेहादित्याशङ्क्याह –

यथा हीत्यादिना ।

देवताधिकरणे (ब्र.अ.१.पा.३.सू.२४–३३) योगिप्रत्यक्षस्य समर्थितत्वाद्भाष्यमस्मदाद्यभिप्रायमित्याह –

अर्वागिति ।

कपिलादयोऽर्वाचीनपुरुषविलक्षणा इत्याशङ्क्याह –

न तावत्कपिलादय इति ।

प्राचि भवे तदनुष्ठानवताम् इति सम्बन्धः । तच्छब्देन वेदार्थो विवक्षितः ।

पूर्वोक्तमिति ।

विप्रतिपत्तौ चेत्यादिभाष्येण पूर्वोक्तं स्मारयतीत्यर्थः ।

श्रुतिसामान्यमात्रेणेति ।

सगरपुत्रप्रतप्तुः  साङ्ख्यप्रणेतुश्च कपिल इति शब्दसाम्यमात्रेणेत्यर्थः ।

यथा नृत्यं कुर्वत्यपि नर्तकी नर्तकदर्शितक्रमेणैव नृत्यन्ती न स्वतन्त्रा ,  एवमीश्वरः प्राचीनक्रममनुरुध्य विरचयन्वेदं न स्वतन्त्रः , क्रमोपगृहीतवर्णात्मा च वेदोऽर्थप्रमितिकर इति न वक्रपेक्षमस्य प्रामाण्यमित्याह –

सत्यमिति ।

फलितमाह –

तेनेति ।

येनानादिः कार्यकारणभावस्तेन न प्रागभूतस्य  शास्त्रस्य तदर्थभानपूर्विकाऽभिनवा क्रिया , किंतु नियतक्रमस्य तस्य संस्काररूपेणानुवर्तमानस्य स्मारणेन व्यतीकार इत्यर्थः ।

ननु न नर्तक्यादिवदज्ञ ईश्वरस्ततः शास्त्रक्रियातः प्रागेव तदर्थज्ञानवत्त्वात्कपिलतुल्यः किं न स्यादत आह –

शास्त्रार्थज्ञानं चेति ।

पूर्ववर्णानुपूर्वी हि शास्त्रम् । तथा च यदा तदर्थः स्फुरति तदैवानुपूर्व्यपि संस्कारारूढा  स्फुरतीत्यादर्शात्मकशास्त्रस्वरूपमात्रज्ञानात्तत्करणोपपत्तौ न शास्त्रार्थज्ञानस्य हेतुतेत्यर्थः । स्वकृतप्राचीनादर्शापेक्षत्वाच्च माणवकवैलक्षण्यमीश्वरस्य । शास्त्रस्य वक्तृज्ञानाऽजन्यत्वेऽपि नान्तरीयकत्वेन शास्त्रस्फुरणे तदर्थस्फुरणात्सर्वज्ञेश्वरसिद्धिः । तदर्थज्ञानवत्ता च प्रलयान्तरितश्रुतेः ज्ञातृत्वात्सिध्यतीशस्य । न हि माणवकेऽस्ति तत् । सति चैवं शास्त्रयोनित्वशास्त्रविषयाधिकविज्ञानवत्त्वयोर्व्याप्तिः कृत्तिकोदयरोहिण्यासत्तिवत् तद्भावनियतभावत्वरूपा न तु शास्त्रार्थज्ञानशास्त्रकरणयोर्हेतुहेतुमत्त्वकृता ।

ननु - गुणवद्वक्तृज्ञानजन्यत्वाभावे कथं शास्त्रस्य प्रामाण्यमिति - चेत् ; स्वत इत्याह –

शास्त्रं चेति ।

प्रमाणानां प्रामाण्यस्य स्वतस्त्वात्कपिलादिवचस्तथा किं न स्यादत आह –

कपिलादिवचांसि त्विति ।

तेषां कपिलादिवचसामर्था एवार्था यासां तास्तथोक्ताः । तासां स्मृतीनामर्था एवार्था येषामनुभवादीनां ते  तदर्थानुभवास्ते पूर्वा यासां ताः स्मृतयस्तथा । यथाऽनपेक्षत्वेन शीघ्रतरप्रवृत्तश्रुत्या तद्विरुद्धलिङ्गस्य श्रुतिकल्पनापेक्षत्वेन विलम्बितप्रवृत्तेः परिच्छेदकत्वमपह्रियते , एवमनपेक्षश्रुत्या तद्विरुद्धकापिलवचसः सापेक्षत्वेन विलम्बिनः प्रामाण्यमपह्रियते इत्यर्थः ।

यावदिति ।

कथंचिदित्यर्थः॥१॥ दौहित्रस्य कर्म दौहित्र्यम् ।

वन्ध्या चेत्स्मरेदिदं मे दौहित्रेण कृतमिति सा स्मृतिरप्रमाणम् मूलस्य दुहितुरभावात् , एवमत्रापि मूलभूतानुभवाभावात् स्मरणाभाव इत्याह –

वन्ध्याया इवेति ।

न चार्षमिति ।

उपजीव्यवेदविरोधस्योक्तत्वादित्यर्थः ॥२॥ अव्यक्तं ज्ञानाल्लीयते ।

अहं सर्वस्येति ।

प्रभवत्यस्मादिति प्रलीयतेऽस्मिन्निति च प्रभवप्रलयौ । तस्मादात्मनोऽधिष्ठातुः प्रभवन्ति स मूलमुपादानम् । शाश्वतिकः अनादिः । नित्योध्वंसवर्जितः । ज्ञानैः पूरयति यः स सर्वेषामात्मा । पुरुषा जीवाः ।  बहूनां देहिनां योनिः पृथिवी । विश्वं पूर्णम् । गुणैः सर्वज्ञत्वादिभिरधिकम् । सर्वात्मकत्वाद्विश्वमूर्धादित्वम् ॥

इति प्रथमं स्मृत्यधिकरणम्॥