भामतीव्याख्या
वेदान्तकल्पतरुः
 

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ।

ननु न ब्रह्मणस्तत्त्वतः परिणामो येन कार्त्स्न्यभागविकल्पेनाक्षिप्येत । अविद्याकल्पितेन तु नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मना तत्त्वान्यत्वाभ्यामनिर्वचनीयेन परिणामादिव्यवहारास्पदत्वं ब्रह्म प्रतिपद्यते । नच कल्पितं रूपं वस्तु स्पृशति । नहि चन्द्रमसि तैमिरिकस्य द्वित्वकल्पना चन्द्रमसो द्वित्वमावहति । तदनुपपत्त्या वा चन्द्रमसोऽनुपपत्तिः । तस्मादवास्तवी परिणामकल्पनानुपपद्यमानापि न परमार्थसतो ब्रह्मणोऽनुपपत्तिमावहति । तस्मात्पूर्वपक्षाभावादनारभ्यमिदमधिकरणमिति, अत आह

चेतनमेकम् ।

यद्यपि श्रुतिशतादैकान्तिकाद्वैतप्रतिपादनपरात्परिणामो वस्तुतो निषिद्धस्तथापि क्षीरादिदेवतादृष्टान्तेन पुनस्तद्वास्तवत्वप्रसङ्गं पूर्वपक्षोपपत्त्या सर्वथायं पक्षो न घटयितुं शक्यत इत्यपबाध्य

श्रुतेस्तु शब्दमूलत्वात् ,

'आत्मनि चैवं विचित्राश्च हि” इति सूत्राभ्यां विवर्तदृढीकरणेनैकान्तिकाद्वयलक्षणः श्रुत्यर्थः परिशोध्यत इत्यर्थः ।

तस्मादस्त्यविकृतं ब्रह्म

तत्त्वतः ।

ननु शब्देना

पीति चोद्यमविद्याकल्पितत्वोद्घाटनाय । नहि निरवयवत्वसावयवत्वाभ्यां विधान्तरमस्त्येकनिषेधस्येतरविधानान्तरीयकत्वात् । तेन प्रकारान्तराभावान्निरवयवत्वसावयवत्वयोश्च प्रकारयोरनुपपत्तेर्ग्रावप्लवनाद्यर्थवादवदप्रमाणं शब्दः स्यादिति चोद्यार्थः । परिहारः सुगमः ॥ २६ ॥ ॥ २७ ॥

आत्मनि चैवं विचित्राश्च हि ।

अनेन स्फुटितो मायावादः । स्वप्नदृगात्मा हि मनसैव स्वरूपानुपमर्देन रथादीन् सृजति ॥ २८ ॥

स्वपक्षदोषाच्च ।

चोदयति

ननु नैवेति ।

परहरति

नैवञ्जातीयकेनेति ।

यद्यपि समुदायः सावयवस्तथापि प्रत्येकं सत्त्वादयो निरवयवाः । नह्यस्ति सम्भवः सत्त्वमात्रं परिणमते न रजस्तमसी इति । सर्वेषां सम्भूयपरिणामाभ्युपगमात् । प्रत्येकं चानवयवानां कृत्स्नपरिणामे मूलोच्छेदप्रसङ्गः । एकदेशपरिणामे वा सावयवत्वमनिष्टं प्रसज्येत ।

तथाअणुवादिनोऽपीति ।

वैशेषिकाणां ह्यणुभ्यां संयुज्य द्व्यणुकमेकमारभ्यते, तैस्त्रिभिर्द्व्यणुकैस्त्र्यणुकमेकमारभ्यत इति प्रक्रिया । तत्र द्वयोरण्वोरनवयवयोः संयोगस्तावणू व्याप्नुयात् । अव्याप्नुवन्वा तत्र न वर्तेत । नह्यस्ति सम्भवः स एव तदानीं तत्र वर्तते न वर्तते चेति । तथा चोपर्यधःपार्श्वस्थाः षडपि परमाणवः समानदेशा इति प्रथिमानुपपत्तेरणुमात्रः पिण्डः प्रसज्येत । अव्यापने वा षडवयवः परमाणुः स्यादित्यनवयवत्वव्याकोपः । अशक्यं च सावयवत्वमुपेतुं, तथा सत्यनन्तावयवत्वेन सुमेरुराजसर्षपयोः समानपरिमाणत्वप्रसङ्गः । तस्मात्समानो दोषः । आपातमात्रेण साम्यमुक्तम् , परमार्थतस्तु भाविकं परिणामं वा कार्यकारणभावं वेच्छतामेष दुर्वारो दोषो न पुनरस्माकं मायावादिनामित्याह

परिहृतस्त्विति ॥ २९ ॥

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा॥२६॥ सावयवस्यैव नानाकार्योपादानतेति न्यायेन समन्वयस्य विरोधसन्देहे पूर्वाधिकरणोक्तक्षीरदृष्टान्तात् परिणामित्वभ्रमे तन्निरासात् संगतिमाह –

क्षीरेति ।

तस्मादविकृतं ब्रह्मेति भाष्यं तदस्तीति तत्त्वत इति च पदाध्याहारेण व्याचष्टे –

तस्मादिति ।

इतरथा हि मायामयविकारनिषेधे जगत्सर्गो न स्यादस्तीत्यनुक्तौ च साकाङ्क्षत्वं स्यादिति निरवयवेऽपि ब्रह्मणि विचित्रशक्तिवशेनाकृत्स्नप्रसक्तेरुक्तत्वाच्चोद्यानुपपत्तिमाशङ्क्य शक्तीनामवस्तवत्वकथनार्थत्वेन परिहरति –

अविद्येति॥२६॥२७॥२८॥

अवस्तुत्वात्समुदायो न परिणमते , समुदायिष्वपि यदि सत्त्वमात्रं परिणमते , न रजस्तमसी , ततो मूलोच्छेदो न  स्यान्न चैतदस्ति इत्याह –

यद्यपि समुदाय इति ।

द्व्यणुकमारब्धुमणुना संयुज्यमानोऽणुरुपर्यधःपार्श्वतश्चतसृष्वपि दिक्षुकदाचित् कश्चित्संयुज्यते , ते च सर्वे तेन समानदेशा इति प्रथिमानुपपत्तेर्द्व्यणुकपिण्डः परमाणुमात्रः प्रसज्येतेत्यर्थः । अव्याप्यवृत्तौ संयोगस्य तावन्नैकत्र भावाभावावित्युक्तम् ।

अथ प्रदेशभेदेन भावाभावौ तत्राह –

अव्यापने वेति ।

कार्यकारणभाव आरम्भः॥२९॥

इति नवमं कृत्स्नप्रसक्त्यधिकरणम्॥