रचनानुपपत्तेश्च नानुमानम् ।
स्यादेतत् । इह हि पादे स्वतन्त्रा वेदनिरपेक्षाः प्रधानादिसिद्धिविषयाः साङ्ख्यादियुक्तयो निराकरिष्यन्ते । तदयुक्तमशास्त्राङ्गत्वात् । नहीदं शास्त्रमुच्छृङ्खलतर्कशास्त्रवत्प्रवृत्तमपि तु वेदान्तवाक्यानि ब्रह्मपराणीति पूर्वपक्षोत्तरपक्षाभ्यां विनिश्चेतुम् । तत्र कः प्रसङ्गः शुष्कतर्कवत्स्वतन्त्रयुक्तिनिराकरणस्येत्यत आह
यद्यपीदं वेदान्तवाक्यानामिति ।
नहि वेदान्तवाक्यानि निर्णेतव्यानीति निर्णीयन्ते, किन्तु मोक्षमाणानां तत्त्वज्ञानोत्पादनाय । यथा च वेदान्तवाक्येभ्यो जगदुपादानं ब्रह्मावगम्यते, एवं साङ्ख्याद्यनुमानेभ्यः प्रधानाद्यचेतनं जगदुपादानमवगम्यते । न चैतदेव चेतनोपादानमचेतनोपादानं चेति समुच्चेतुं शक्यं, विरोधात् । न च व्यवस्थिते वस्तुनि विकल्पो युज्यते । न चागमबाधितविषयतयानुमानमेव नोदीयत इति साम्प्रतम् । सर्वज्ञप्रणीततया साङ्ख्याद्यागमस्य वेदागमतुल्यत्वात्तद्भाषितस्यानुमानस्य प्रतिकृतिसिंहतुल्यतयाSबाध्यत्वात् । तस्मात्तद्विरोधान्न ब्रह्मणि समन्वयो वेदान्तानां सिध्यतीति न ततस्तत्त्वज्ञानं सेद्धुमर्हति । नच तत्त्वज्ञानादृते मोक्ष इति स्वतन्त्राणामप्यनुमानानामाभासीकरणमिह शास्त्रेसङ्गतमेवेति । यद्येवं ततः परकीयानुमाननिरास एव कस्मात्प्रथमं न कृत इत्यत आह
वेदान्तार्थनिर्णयस्य चेति ।
ननु वीतरागकथायां तत्त्वनिर्णयमात्रमुपयुज्यते न पुनःपरपक्षाधिक्षेपः, स हि सरागतामावहतीति चोदयति
ननु मुमुक्षूणामिति ।
परिहरति
बाढमेवं, तथापीति ।
तत्त्वनिर्णयावसाना वीतरागकथा । नच परपक्षदूषणमन्तरेण तत्त्वनिर्णयः शक्यः कर्तुमिति तत्त्वनिर्णयाय वीतरागेणापि परपक्षो दूष्यते न तु परपक्षतयेति न वीतरागकथात्वव्याहतिरित्यर्थः । पुनरुक्ततां परिचोद्य समाधत्ते
नन्वीक्षतेरिति ।
तत्र साङ्ख्या इति ।
यानि हि येन रूपेणा स्थौल्यादा च सौक्ष्म्यात्समन्वीयन्ते तानि तत्करणानि दृष्टानि, यथा घटादयो रुचकादयश्चा स्थौल्यादा च सौक्ष्म्यान्मृत्सुवर्णान्वितास्तत्करणाः, तथा चेदं बाह्यमाध्यात्मिकं च भावजातं सुःखदुःखमोहात्मनान्वितमुपलभ्यते, तस्मात्तदपि सुःखदुःखमोहात्मसामान्यकारणकं भवितुमर्हति । तत्र जगत्कारणस्य येयं सुखात्मता तत्सत्त्वं, या दुःखात्मता तद्रजः, या च मोहात्मता तत्तम इति त्रैगुण्यकारणसिद्धिः । तथाहि प्रत्येकं भावास्त्रैगुण्यवन्तोऽनुभूयन्ते । यथा मैत्रदारेषु पद्मावत्यां मैत्रस्य सुखं, तत्कस्य हेतोः, तम्प्रति सत्त्वगुणसमुद्भवात् । तत्सपत्नीनां च दुःखम्, तत्कस्य हेतोः, ताः प्रत्यस्या रजोगुणसमुद्भवात् । चैत्रस्य तु स्त्रैणस्य तामविन्दतो मोहो विषादः, तत्कस्य हेतोः, तं प्रत्यस्यास्तमोगुणसमुद्भवात् । पद्मावत्या च सर्वे भावा व्याख्याताः । तस्मात्सर्वं सुःखदुःखमोहान्वितं जगत्तत्कारणं गम्यते । तच्च त्रिगुणं प्रधानं प्रधीयते क्रियतेऽनेन जगदिति, प्रधीयते निधीयतेऽस्मिन्प्रलयसमये जगदिति वा प्रधानम् । तच्च मृत्सुवर्णवदचेतनं चेतनस्य पुरुषस्य भोगापवर्गलक्षणमर्थं साधयितुं स्वभावत एव प्रवर्तते, न तु केनचित्प्रवर्त्यते । तथा ह्याहुः “पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्”(सां.का.३१) इति । परिमाणादिभिरित्यादिग्रहणेनऽशक्तितः प्रवृत्तेश्च । “कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य”(सां.का.१७) इत्यव्यक्तसिद्धिहेतवो गृह्यन्ते । एतांश्चेपरिष्टाद्व्याख्याय निराकरिष्यत इति । तदेतत्प्रधानानुमानं दूषयति
तत्र वदाम इति ।
यदि तावदचेतनं प्रधानमनधिष्ठितं चेतनेन प्रवर्तते स्वभावत एवेति साध्यते, तदयुक्तम्, समन्वयादेर्हेतोश्चेतनानधिष्ठितत्वविरुद्धचेतनाधिष्ठितत्वेन मृत्सुवर्णादौ दृष्टान्तधर्मिणि व्याप्तेरुपलब्धेर्विरुद्धत्वात् । नहि मृत्सुवर्णदार्वादयः कुलालहेमकाररथकारादिभिरनधिष्ठिताः कुम्भरुचकरथाद्युपाददते । तस्मात्कृतकत्वमिव नित्यत्वसाधनाय प्रयुक्तं साध्यविरुद्धेन व्याप्तं विरुद्धम् , एवं समन्वयादि चेतनानधिष्ठितत्वे साध्य इति रचनानुपपत्तेरिति दर्शितम् । यदुच्येत दृष्टान्तधर्मिण्यचेतनं तावदुपादानं दृष्टं, तत्र यद्यपि तच्चेतनप्रयुक्तमपि दृश्यते, तथापि तत्प्रयुक्तत्वं हेतोरप्रयोजकं बहिरङ्गत्वात् , अन्तरङ्गं त्वचैतन्यमात्रमुपादानानुगतं हेतोः प्रयोजकम् । यथाहुः"व्याप्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकः"इति । तत्राह
नच मृदादीति ।
स्वभावप्रतिबद्धं हि व्याप्यं व्यापकमवगमयति । स च स्वभावप्रतिबन्धः शङ्कितसमारोपितोपाधिनिरासे सति निश्चीयते । तन्निश्चयश्चान्वयव्यतिरेकयोरायतते । तौ चान्वयव्यतिरेकौ न तथोपादानाचैतन्ये यथा चेतनप्रयुक्तत्वेऽतिपरिस्फुटौ । तदलमत्रान्तरङ्गत्वेनेति भावः । एवमपि चेतनप्रयुक्तत्वं नाभ्युपेयेत यदि प्रमाणान्तरविरोधो भवेत् , प्रत्युत श्रुतिरनुगुणतरात्रेत्याह
न चैवं सतीति ।
चकारेण सुःखदुःखादिसमन्वयलक्षणस्य हेतोरसिद्धत्वं समुच्चिनोतीत्याह
अन्वयाद्यनुपपत्तेश्चेति ।
आन्तराः खल्वमी सुःखदुःखमोहविषादा बाह्येभ्यश्चन्दनादिभ्योऽतिविच्छिन्नप्रत्ययप्रवेदनीयेभ्यो व्यतिरिक्ता अध्यक्षमीक्ष्यन्ते । यदि पुनरेत एव सुःखदुःखादिस्वभावा भवेयुस्ततः स्वरूपत्वाद्धेमन्तेऽपि चन्दनः सुखः स्यात् । नहि चन्दनः कदाचिदचन्दनः । तथा निदाघेष्वपि कुङ्कुमपङ्कः सुखो भवेत् । नह्यसौ कदाचिदकुङ्कुमपङ्क इति । एवं कण्टकः क्रमेलकस्य सुख इति मनुष्यादीनामपि प्राणभृतां सुखः स्यात् । नह्यसौ कांश्चित्प्रत्येव कण्टक इति । तस्मादसुखादिस्वभावा अपि चन्दनकुङ्कुमादयो जातिकालावस्थाद्यपेक्षया सुखदुःखादिहेतवो न तु स्वयं सुखादिस्वभावा इति रमणीयम् । तस्मात्सुखादिरूपसमन्वयो भावानामसिद्ध इति नानेन तद्रूपं कारणमव्यक्तमुन्नीयत इति । तदिदमुक्तम्
शब्दाद्यविशेषेऽपि च भावनाविशेषादिति ।
भावना वासना संस्कारस्तद्विशेषात् । करभजन्मसंवर्तकं हि कर्म करभोचितामेव भावनामभिव्यनिक्ति, यथास्मै कण्टका एव रोचन्ते । एवमन्यत्रापि द्रष्टव्यम् । परिमाणादिति साङ्ख्यीयं हेतुमुपन्यस्यति
तथा परिमितानां भेदानामिति ।
संसर्गपूर्वकत्वे हि संसर्गस्यैकस्मिन्नद्वयेऽसम्भवान्नानात्वैकार्थसमवेतस्य नानाकारणानि संसृष्टानि कल्पनीयानि, तानि च सत्त्वरजस्तमांस्येवेति भावः । तदेतत्परिमितत्वं साङ्ख्यीयराद्धान्तालोचनेनानैकान्तिकमिति दूषयति
सत्त्वरजस्तमसामिति ।
यदि तावत्परिमितत्वमियत्ता, सा नभसोऽपि नास्तीत्यव्यापको हेतुः परिमाणादिति । अथ न योजनादिमितत्वं परिमाणमियत्तां नभसो ब्रूमः किन्त्वव्यापिताम् , अव्यापि च नभस्तन्मात्रादेः । नहि कार्यं कारणव्यापि, किन्तु कारणं कार्यव्यापीति परिमितं नभस्तन्मात्राद्यव्यापित्वात् । हन्त सत्त्वरजस्तमांस्यपि न परस्परं व्याप्नुवन्ति, नच तत्त्वान्तरपूर्वकत्वमेतेषामिति व्यभिचारः । नहि यथा तैः कार्यजातमाविष्टमेवं तानि परस्परं विशन्ति, मिथः कार्यकारणभावाभावात् । परस्परसंसर्गस्त्वावेशश्चितिशक्तौ नास्ति । नहि चितिशक्तिः कूटस्थनित्या तैः संसृज्यते, ततश्च तदव्यापका गुणा इति परिमिताः । एवं चितिशक्तिरपि गुणैरसंसृष्टेति सापि परिमितेत्यनैकान्तिकत्वं परिमितत्वस्य हेतोरिति । तथा कार्यकारणविभागोऽपि समन्वयवद्विरुद्ध इत्याह
कार्यकारणभावस्त्विति ॥ १ ॥
प्रवृत्तेश्च ।
न केवलं रचनाभेदा न चेतनाधिष्ठानमन्तरेण भवन्त्यपि तु साम्यावस्थायाः प्रच्युतिर्वैषम्यं, तथा च यदुद्भूतं बलीयस्तदङ्ग्यभिभूतं च तदनुगुणतया स्थितमङ्गम् , एवं हि गुणप्रधानभावे सत्यस्य महदादौ कार्ये का प्रवृत्तिः, सापि चेतनाधिष्ठानमेव गमयति । न हि चेतनाधिष्ठानमन्तरेण मृत्पिण्डे प्रधानेऽङ्गभावेन चक्रदण्डसलिलसूत्रादयोऽवतिष्ठन्ते । तस्मात्प्रवृत्तेरपि चेतनाधिष्ठानसिद्धिरिति “शक्तितः प्रवृत्तेश्च” इत्ययमपि हेतुः साङ्ख्यीयो विरुद्ध एवेत्युक्तं वक्रोक्त्या । अत्र साङ्ख्यश्चोदयति
ननु चेतनस्यापि प्रवृत्तिरिति ।
अयमभिप्रायः त्वया किलौपनिषदेनास्मद्धेतून् दूषयित्वा केवलस्य चेतनस्यैवान्यनिरपेक्षस्य जगदुपादानत्वं निमित्तत्वं च समर्थनीयम् । तदयुक्तम् । केवलस्य चेतनस्य प्रवृत्तेर्दृष्टान्तधर्मिण्यनुपलब्धेरिति । औपनिषदस्तु चेतनहेतुकां तावदेष साङ्ख्यः प्रवृत्तिमभ्युपगच्छतु पश्चात्स्वपक्षमत एव समाधास्यामीत्यभिसन्धिमानाह
सत्यमेतत् ।
न केवलस्य चेतनस्य प्रवृत्तिर्दृष्टेति । साङ्ख्य आह
न त्वचेतनसंयुक्तस्येति ।
तुशब्द औपनिषदपक्षं व्यावर्तयति । अचेतनाश्रयैव सर्वा प्रवृत्तिर्दृश्यते न तु चेतनाश्रया काचिदपि । तस्मान्न चेतनस्य जगत्सर्जने प्रवृत्तिरित्यर्थः । अत्रौपनिषदो गूढाभिसन्धिः प्रश्नपूर्वकं विमृशति
किं पुनरत्रेति ।
अत्रान्तरे साङ्ख्यो ब्रूते
ननु यस्मिन्निति ।
न तावच्चेतनः प्रवृत्त्याश्रयतया तत्प्रयोजकतया वा प्रत्यक्षमीक्ष्यते, केवलं प्रवृत्तिस्तदाश्रयश्चाचेतनो देहरथादिः प्रत्यक्षेण प्रतीयते, तत्राचेतनस्य प्रवृत्तिस्तन्निमित्तैव न तु चेतननिमित्ता । सद्भावमात्रं तु तत्र चेतनस्य गम्यते रथादिवैलक्षण्याज्जीवद्देहस्य । नच सद्भावमात्रेण कारणत्वसिद्धिः । मा भूदाकाश उत्पत्तिमतां घटादीनां निमित्तकारणमस्ति हि सर्वत्रेति । तदनेन देहातिरिक्ते सत्यपि चेतने तस्य न प्रवृत्तिं प्रति निमित्तभावोऽस्तीत्युक्तम् । यतश्चास्य न प्रवृत्तिहेतुभावोऽस्ति अत एव प्रत्यक्षे देहे सति प्रवृत्तिदर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमिति लौकायतिकाः प्रतिपन्नाः, तथा च न चिदात्मनिमित्ता प्रवृत्तिरिति सिद्धम् । तस्मान्न रचनायाः प्रवृत्तेर्वा चिदात्मकारणत्वसिद्धिर्जगत इति औपनिषदः परिहरति
तदभिधीयते न ब्रूम इति ।
न तावत्प्रत्यक्षानुमानागमसिद्धः शारीरो वा परमात्मा वास्माभिरिदानीं साधनीयः, केवलमस्य प्रवृत्तिं प्रति कारणत्वं वक्तव्यम् । तत्र मृतशरीरे वा रथादौ वानधिष्ठिते चेतनेन प्रवृत्तेरदर्शनात्तद्विपर्यये च प्रवृत्तिदर्शनादन्वयव्यतिरेकाभ्यां चेतनहेतुकत्वं प्रवृत्तेर्निश्चीयते, न तु चेतनसद्भावमात्रेण, येनातिप्रसङ्गो भवेत् । भूतचैतनिकानामपि चेदनाधिष्ठानादचेतनानां प्रवृत्तिरित्यत्राविवाद इत्याह
लौकायतिकानामपीति ।
स्यादेतत् । देहः स्वयं चेतनः करचरणादिमान् स्वव्यापारेण प्रवर्तयतीति युक्तं, न तु तदतिरिक्तः कूटस्थनित्यश्चेतनो व्यापाररहितो ज्ञानैकस्वभावः प्रवृत्त्यभावात्प्रवर्तको युक्त इति चोदयति
ननु तवेति ।
परिहरति
न ।
अयस्कान्तवद्रूपादिवच्चेति ।
यथा च रूपादय इति ।
साङ्ख्यानां हि स्वदेशस्था रूपादय इन्द्रियं विकुर्वते, तेन तदिन्द्रियमर्थं प्राप्तमर्थाकारेण परिणमत इति स्थितिः । सम्प्रति चोदकः स्वाभिप्रायमाविष्करोति
एकत्वादिति ।
येषामचेतनं चेतनं चास्ति तेषामेतद्युज्यते वक्तुं चेतनाधिष्ठितमचेतनं प्रवर्तत इति । यथा योगिनामीश्वरवादिनाम् । येषां तु चेतनातिरिक्तं नास्त्यद्वैतवादिनां, तेषां प्रवर्त्याभावे कं प्रति प्रवर्तकत्वं चेतनस्येत्यर्थः । परिहरति
न अविद्येति ।
कारणभूतया लयलक्षणयाविद्यया प्राक्सर्गोपचितेन च विक्षेपसंस्कारेण यत्प्रत्युपस्थापितं नामरूपं तदेव माया, तदावेशेनास्य चोद्यस्यासकृत्प्रयुक्तत्वात् । एतदुक्तं भवति नेयं सृष्टिर्वस्तुसती येनाद्वैतिनो वस्तुसतो द्वितीयस्याभावादनुयुज्येत । काल्पनिक्यां तु सृष्टावस्ति काल्पनिकं द्वितीयं सहायं मायामयम् । यथाहुः “सहायास्तादृशा एव यादृशी भवितव्यता ।' इति । न चैवं ब्रह्मोपादानत्वव्याघातः, ब्रह्मण एव मायावेशेनोपादानत्वात्तदधिष्ठानत्वाज्जगद्विभ्रमस्य, रजतविभ्रमस्येव शुक्तिकाधिष्ठानस्य शुक्तिकोपादानत्वमिति निरवद्यम् ॥ २ ॥
पयोम्बुवच्चेत्तत्रापि ।
यथा पयोम्बुनोश्चेतनानधिष्ठितयोः स्वत एव प्रवृत्तिरेवं प्रधानस्यापीति शङ्कार्थः । तत्रापि चेतनाधिष्ठितत्वं साध्यं, न च साध्येनैव व्यभिचारः, तथा सत्यनुमानमात्रोच्छेदप्रसङ्गात् , सर्वत्रास्य सुलभत्वात् । न चासाध्यम् । अत्रापि चेतनाधिष्ठानस्यागमसिद्धत्वात् । न च सपक्षेण व्यभिचार इति शङ्कानिराकरणस्यार्थः ।
साध्यपक्षेत्युपलक्षणम् ।
सपक्षनिक्षिप्तत्वादित्यपि द्रष्टव्यम् । ननु “उपसंहारदर्शनात्”(ब्र. सू. २ । १ । २४) इत्यत्रानपेक्षस्य प्रवृत्तिर्दर्शिता, इह तु सर्वस्य चेतनापेक्षा प्रवृत्तिः प्रतिपाद्यत इति कुतो न विरोध इत्यत आह
उपसंहारदर्शनादिति ।
स्थूलदर्शिलोकाभिप्रायानुरोधेन तदुक्तं न तु परमार्थत इत्यर्थः ॥ ३ ॥
व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ।
यद्यपि साङ्ख्यानामपि विचित्रकर्मवासनावासितं प्रधानं साम्यावस्थायामपि तथापि न कर्मवासनाः सर्गस्येशते, किन्तु प्रधानमेव स्वकार्ये प्रवर्तमानमधर्मप्रतिबद्धं सन्न सुखमयीं सृष्टिं कर्तुमुत्सहत इति धर्मेणाधर्मप्रतिबन्धोऽपनीयते । एवमधर्मेण धर्मप्रतिबन्धोऽपनीयते दुःखमय्यां सृष्टौ । स्वयमेव च प्रधानमनपेक्ष्य सृष्टौ प्रवर्तते । यथाहुः “निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्”(यो.सू. ४-३) इति । ततश्च प्रतिबन्धकापनयसाधने धर्माधर्मवासने अपि संनिहिते इत्यागन्तोरपेक्षणीयस्याभावात्सदैव साम्येन परिणमेत वैषम्येण वा, न त्वयं कादाचित्कः परिणामभेद उपपद्येत । ईश्वरस्य तु महामायस्य चेतनस्य लीलया वा यदृच्छया वा स्वभाववैचित्र्याद्वा कर्मपरिपाकापेक्षस्य प्रवृत्तिनिवृत्ती उपपद्येते एवेति ॥ ४ ॥
अन्यत्राभावाच्च न तृणादिवत् ।
धेनूपयुक्तं हि तृणपल्लवादि यथा स्वभावत एव चेतनानपेक्षं क्षीरभावेन परिणमते न तु तत्र धेनुचैतन्यमपेक्ष्यते, उपयोगमात्रे तदपेक्षत्वात् । एवं प्रधानमपि स्वभावत एव परिणंस्यते कृतमत्र चेतनेनेति शङ्कार्थः । धेनूपयुक्तस्य तृणादेः क्षीरभावे किं निमित्तान्तरमात्रं निषिध्यते, उत चेतनम् । न तावन्निमित्तान्तरं, धेनुदेहस्थस्यौदर्यस्य वह्न्यादिभेदस्य निमित्तान्तरस्य सम्भवात् । बुद्धिपूर्वकारी तु तत्रापीश्वर एव सर्वज्ञः सम्भवतीति शङ्कानिराकरणस्यार्थः । तदिदमुक्तम्
किञ्चिद्दैवसम्पाद्यमिति ॥ ५ ॥
अभ्युपगमेऽप्यर्थाभावात् ।
पुरुषार्थापेक्षाभावप्रसङ्गात् । तदिदमुक्तम्
एवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यत इति ।
अथवा पुरुषार्थाभावादिति योज्यम् । तदिदमुक्तम्
तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यमिति ।
न केवलं तात्त्विको भोगोऽनाधेयातिशयस्य कूटस्थनित्यस्य पुरुषस्य न सम्भवति, अनिर्मोक्षप्रसङ्गश्च । येन हि प्रयोजनेन प्रधानं प्रवर्तितं तदनेन कर्तव्यं, भोगेन चैतत्प्रवर्तितमिति तमेव कुर्यान्न मोक्षं, तेनाप्रवर्तितत्वादित्यर्थः ।
अपवर्गश्चेत्प्रागपीति ।
चितेः सदा विशुद्धत्वान्नैतस्यां जातु कर्मानुभववासनाः सन्ति । प्रधानं तु तासामनादीनामाधारः । तथा च प्रधानप्रवृत्तेः प्राक्चितिर्मुक्तैवेति नापवर्गार्थमपि तत्प्रवृत्तिरिति ।
शब्दाद्यनुपलब्धिप्रसङ्गश्च ।
तदर्थमप्रवृत्तत्वात्प्रधानस्य ।
उभयार्थताभ्युपगमेऽपीति ।
न तावदपवर्गः साध्यस्तस्य प्रधानाप्रवृत्तिमात्रेण सिद्धत्वात् । भोगार्थं तु प्रवर्तेत । भोगस्य च सकृच्छब्दाद्युपलब्घिमात्रादेव समाप्तत्वान्न तदर्थं पुनः प्रधानं प्रवर्तेतेत्ययत्नसाध्यो मोक्षः स्यात् । निःशेषशब्दाद्युपभोगस्य चानन्त्येन समाप्तेरनुपपत्तेरनिर्मोक्षप्रसङ्गः । कृतभोगमपि प्रधानमासत्त्वपुरुषान्यताख्यातेः क्रियासमभिहारेण भोजयतीति चेत् , अथ पुरुषार्थाय प्रवृत्तं किमर्थं सत्त्वपुरुषान्यताख्यातिं करोति । अपवर्गार्थमिति चेत् , हन्तायां सकृच्छब्दाद्युपभोगेन कृतप्रयोजनस्य प्रधानस्य निवृत्तिमात्रादेव सिध्यतीति कृतं सत्त्वान्यताख्यातिप्रतीक्षणेन । न चास्याः स्वरूपतः पुरुषार्थत्वम् । तस्मादुभयार्थमपि न प्रधानस्य प्रवृत्तिरुपपद्यत इति सिद्धोऽर्थाभावः । सुगममितरत् । शङ्कते
दृक्शक्तीति ।
पुरुषो हि दृक्शक्तिः । सा च दृश्यमन्तरेणानर्थिका स्यात् । नच स्वात्मन्यर्थवती, स्वात्मनि वृत्तिविरोधात् । प्रधानं च सर्गशक्तिः । सा च सर्जनीयमन्तरेणानर्थिका स्यादिति यत्प्रधानेन शब्दादि सृज्यते तदेव दृक्शक्तेर्दृश्यं भवतीति तदुभयार्थवतत्त्वाय सर्जनमिति शङ्कार्थः । निराकरोति
सर्गशक्त्यनुच्छेदवदिति ।
यथा हि प्रधानस्य सर्गशक्तिरेकं पुरुषं प्रति चरितार्थापि पुरुषान्तरं प्रति प्रवर्ततेऽनुच्छेदात् । एवं दृक्शक्तिरपि तं पुरुषं प्रत्यर्थवत्त्वायानुच्छेदात्सर्वदा प्रवर्तेतेत्यनिर्मोक्षप्रसङ्गः । सकृद्दृश्यदर्शनेन वा चरितार्थत्वे न भूयः प्रवर्तेतेति सर्वेषामेकपदे निर्मोक्षः प्रसज्येतेति सहसा संसारः समुच्छिद्येतेति ॥ ६ ॥
पुरुषाश्मवदिति चेत्तथापि ।
नैव दोषात्प्रच्युतिरिति शेषः । मा भूत्पुरुषार्थस्य शक्त्यर्थवत्त्वस्य वा प्रवर्तकत्वम् , पुरुष एव दृक्शक्तिसम्पन्नः पङ्गुरिव प्रवृत्तिशक्तिसम्पन्नं प्रधानमन्धमिव प्रवर्तयिष्यतीति शङ्का । दोषादनिर्मोक्षमाह
अभ्युपेतहानं तावदिति ।
न केवलमभ्युपेतहानम् , अयुक्तं चैतद्भवद्दर्शनालोचनेनेत्याह
कथं चोदासीन इति ।
निष्क्रियत्वे साधनम्
निर्गुणत्वादिति ।
शेषमतिरोहितार्थम् ॥ ७ ॥
अङ्गित्वानुपपत्तेश्च ।
यदि प्रधानावस्था कूटस्थनित्या, ततो न तस्याः प्रच्युतिरनित्यत्वप्रसङ्गात् । यथाहुः “नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति” इति । तदिदमुक्तम्
स्वरूपप्राणाशभयादिति ।
अथ परिणामिनित्या । यथाहुः “यस्मिन् विक्रियमाणेऽपि यत्तत्वं न विहन्यते । तदपि नित्यम्” इति । तत्राह
बाह्यस्य चेति ।
यत्साम्यावस्थया सुचिरं पर्यणमत्कथं तदेवासति विलक्षणप्रत्ययोपनिपाते वैषम्यमुपैति । अनपेक्षस्य स्वतो वापि वैषम्ये न कदाचित्साम्यं भवेदित्यर्थः ॥ ८ ॥
अन्यथानुमितौ च ज्ञशक्तिवियोगात् ।
एवमपि प्रधानस्येति ।
अङ्गित्वानुपपत्तिलक्षणो दोषस्तावन्न भवद्भिः शक्यः परिहर्तुमिति वक्ष्यामः । अभ्युपगम्याप्यस्यादोषत्वमुच्यत इत्यर्थः । संप्रत्यङ्गित्वानुपपत्तिमुपपादयति
वैषम्योपगमयोग्या अपीति ॥ ९ ॥
विप्रतिषेधाच्चासमञ्जसम् ।
क्वचित्सप्तेन्द्रियाणीति ।
त्वङ्मात्रमेव हि बुद्धीन्द्रियमनेकरूपादिग्रहणसमर्थमेकं, कर्मेन्द्रियाणि पञ्च, सप्तमं च मन इति सप्तेन्द्रियाणि ।
क्वचित्त्रीण्यन्तःकरणानि ।
बुद्धिरहङ्कारो मन इति ।
क्वचिदेकं
बुद्धिरिति । शेषमतिरोहितार्थम् ।
अत्राह साङ्ख्यः
नन्वौपनिषदानामपीति ।
तप्यतापकभावस्तावदेकस्मिन्नोपपद्यते । नहि तपिरस्तिरिव कर्तृस्थभावकः, किन्तु पचिरिव कर्मस्थभावकः । परसमवेतक्रियाफलशालि च कर्म । तथा च तप्येन कर्मणा तापकसमवेतक्रियाफलशालिना तापकादन्येन भवितव्यम् । अनन्यत्वे चैत्रस्येव गन्तुः स्वसमवेतगमनक्रियाफलनगरप्राप्तिशालिनोऽप्यकर्मत्वप्रसङ्गात् । अन्यत्वे तु तप्यस्य तापकाच्चैत्रसमवेतगमनक्रियाफलभाजो गम्यस्येव नगरस्य तप्यत्वोपपत्तिः । तस्मादभेदे तप्यतापकभावो नोपपद्यत इति । दूषणान्तरमाह
यदि चेति ।
नहि स्वभावाद्भावो वियोजितुं शक्य इति भावः । जलधेश्च वीचितरङ्गफेनादयः स्वभावाः सन्त आविर्भावतिरोभावधर्माणो न तु तैर्जलधिः कदाचिदपि मुच्यते । न केवलं कर्मभावात्तप्यस्य तापकादन्यत्वमपि त्वनुभवसिद्धमेवेत्याह
प्रसिद्धश्चायमिति ।
तथाहि अर्थोऽप्युपार्जनरक्षणक्षयरागवृद्धिहिंसादोषदर्शनादनर्थः सन्नर्थिनं दुनोति, तदर्थी तप्यस्तापकश्चार्थः, तौ चेमौ लोके प्रतीतभेदौ । अभेदे च दूषणान्युक्तानि । तत्कथमेकस्मिन्नद्वये भवितुमर्हत इत्यर्थः । तदेवमौपनिषदं मतमसमञ्जसमुक्त्वा साङ्ख्यः स्वपक्षे तप्यतापकयोर्भेदे मोक्षमुपपादयति
जात्यन्तरभावे त्विति ।
दृग्दर्शनशक्त्योः किल संयोगस्तापनिदानं, तस्य हेतुरविवेकदर्शनसंस्कारोऽविद्या, सा च विवेकख्यात्या विद्यया विरोधित्वाद्विनिवर्त्यते, तन्निवृत्तौ तद्धेतुकः संयोगो निवर्तते, तन्निवृत्तौ च तत्कार्यस्तापो निवर्तते । तदुक्तं पञ्चशिखाचार्येण “तत्संयोगहेतुविवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारः” इति । अत्र च न साक्षात्पुरुषस्यापरिणामिनो बन्धमोक्षौ, किन्तु बुद्धिसत्त्वस्यैव चितिच्छायापत्त्या लब्धचैतन्यस्य । तथाहि इष्टानिष्टगुणस्वरूपावधारणमविभागापन्नमस्य भोगः, भोक्तृस्वरूपावधारणमपवर्गः, तेन हि बुद्धिसत्वमेवापवृज्यते, तथापि यथा जयः पराजयो वा योधेषु वर्तमानः प्राधान्यात्स्वामिन्यपदिश्यते, एवं बन्धमोक्षौ बुद्धिसत्त्वे वर्तमानौ कथञ्चित्पुरुषेऽपदिश्येते, स ह्यविभागापत्या तत्फलस्य भोक्तेति । तदेतदभिसन्धायाह
स्यादपि कदाचिन्मोक्षोपपत्तिरिति ।
अत्रोच्यते
न । एकत्वादेव तप्यतापकभावानुपपत्तेः ।
यत एकत्वे तप्यतापकभावो नोपपद्यत एकत्वादेव, तस्मात्सांव्यवहारिकभेदाश्रयस्तप्यतापकभावोऽस्माभिरभ्युपेयः । तापो हि सांव्यवहारिक एव न पारमार्थिक इत्यसकृदावेदितम् । भवेदेष दोषो यद्येकात्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयातामित्यस्मदभ्युपगम इति शेषः । साङ्ख्योऽपि हि भेदाश्रयं तप्यतापकभावं ब्रुवाणो न पुरुषस्य तपिकर्मतामाख्यातुमर्हति, तस्यापरिणामितया तपिक्रियाजनितफलशालित्वानुपपत्तेः । केवलमनेन सत्त्वं तप्यम् , अभ्युपेयं तापकं च रजः । दर्शितविषयत्त्वात्तु बुद्धिसत्वे तप्ये तदविभागापत्त्या पुरुषोऽप्यनुतप्यत इव न तु तप्यतेऽपरिणामित्वादित्युक्तं, तदविभागापत्तिश्चाविद्या, तथा चाविद्याकृतस्तप्यतापकभावस्त्वयाभ्युपेयः, सोऽयमस्माभिरुच्यमानः किमिति भवतः पुरुष इवाभाति । अपि च नित्यत्वाभ्युपगमाच्च तापकस्यानिर्मोक्षप्रसङ्गः । शङ्कते
तप्यतापकशक्त्योर्नित्यत्वेऽपीति ।
सहादर्शनेन निमित्तेन वर्तत इति सनिमित्तः संयोगस्तदपेक्षत्वादिति । निराकरोति
न । अदर्शनस्य तमस इति ।
न तावत्पुरुषस्य तप्तिरित्युक्तम् । केवलमियं बुद्धिसत्त्वस्य तापकरजोजनिता, तस्य च बुद्धिसत्वस्य तामसविपर्यासादात्मनः पुरुषाद्भेदमपश्यतः पुरुषस्तप्यत इत्यभिमानः, न तु पुरुषो विपर्यासतुषेणापि युज्यते । तस्य तु बुद्धिसत्त्वस्य सात्त्विक्या विवेकख्यात्या तामसीयमविवेकख्यातिर्निवर्तनीया । न च सति तमसि मूले शक्यात्यन्तमुच्छेत्तुम् । तथा विच्छिन्नापि छिन्नबदरीव पुनस्तमसोद्भूतेन सत्त्वमभिभूय विवेकख्यातिमपोद्य शतशिखराविद्याविर्भाव्येतेति बतेयमपवर्गकथा तपस्विनो दत्तजलाञ्जलिः प्रसज्येत । अस्मत्पक्षे त्वदोष इत्याह
औपनिषदस्य त्विति ।
यथा हि मुखमवदातमपि मलिनादर्शतलोपाधिकल्पितप्रतिबिम्बभेदं मलिनतामुपैति, न च तद्वस्तुतो मलिनं, नच बिम्बात्प्रतिबिम्बं वस्तुतो भिद्यते, अथ तस्मिन् प्रतिबिम्बे मलिनादर्शोपधानान्मलिनता पदं लभते । तथा चात्मनो मलिनं मुखं पश्यन् देवदत्तस्तप्यते । यदा तूपाध्यपनयाद्बिम्बमेव कल्पनावशात्प्रतिबिम्बं तच्चावदातमिति तत्त्वमवगच्छति तदास्य तापः प्रशाम्यति नच मलिनं मे मुखमिति । एवमविद्योपधानकल्पितावच्छेदो जीवः परमात्मप्रतिबिम्बकल्पः कल्पितैरेव शब्दादिभिः सम्पर्कात्तप्यते नतु तत्त्वतः परमात्मनोऽस्ति तापः । यदा तु “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यश्रवणमननध्यानाभ्यासपरिपाकप्रकर्षपर्यन्तजोऽस्य साक्षात्कार उपजायते तदा जीवः शुद्धबुद्धतत्त्वस्वभावमात्मनोऽनुभवन्निर्मृष्टनिखिलसवासनक्लेशजालः केवलः स्वस्थो भवति, न चास्य पुनः संसारभयमस्ति तद्धेतोरवास्तवत्वेन समूलकाषं कषितत्वात् । साङ्ख्यस्य तु सतस्तमसोऽशक्यसमुच्छेदत्वादिति । तदिदमुक्तम्
विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणादिति ॥ १० ॥
प्रधानकारणवाद इति ।
यथैव प्रधानकारणवादो ब्रह्मकारणवादविरोध्येवं परमाणुकारणवादोऽप्यतः सोऽपि निराकर्तव्यः । “एतेन शिष्टापरिग्रहा अपि व्याख्याताः”(ब्र. सू. २ । १ । १२) इत्यस्य प्रपञ्च आरभ्यते तत्र वैशेषिका ब्रह्मकारणत्वं दूषयाम्बभूवुः । चेतनं चेदाकाशादीनामुपादानं तदारब्धमाकाशादि चेतनं स्यात् । कारणगुणक्रमेण हि कार्ये गुणारम्भो दृष्टः, यथा शुक्लैस्तन्तुभिरारब्धः पटः शुक्लः, न जात्वसौ कृष्णो भवति । एवं चेतनेनारब्धमाकाशादि चेतनं भवेन्न त्वचेतनम् । तस्मादचेतनोपादानमेव जगत् । तच्चाचेतनं परमाणवः । सूक्ष्मात्खलु स्थूलस्योत्पत्तिर्दृश्यते, यथा तन्तुभिः पटस्यैवमंशुभ्यस्तन्तूनामेवमपकर्षपर्यन्तं कारणद्रव्यमतिसूक्ष्ममनवयवमवतिष्ठते, तच्च परमाणु । तस्य तु सावयवत्वेऽभ्युपगम्यमानेऽनन्तावयवत्वेन सुमेरुराजसर्षपयोः समानपरिमाणत्वप्रसङ्ग इत्युक्तम् । तत्र च प्रथमं तावददृष्टवत्क्षेत्रज्ञसंयोगात्परमाणौ कर्म, ततोऽसौ परमाण्वन्तरेण संयुज्यद्व्यणुकमारभते । बहवस्तु परमाणवः संयुक्ता न सहसा स्थूलमारभन्ते, परमाणुत्वे सति बहुत्वात् , घटोपगृहीतपरमाणुवत् । यदि हि घटोपगृहीताः परमाणवो घटमारभेरन्न घटे प्रविभज्यमाने कपालशर्कराद्युपलभ्येत, तेषामनारब्धत्वात् , घटस्यैव तु तैरारब्धत्वात् । तथा सति मुद्गरप्रहारात्घटविनाशे न किञ्चिदुपलभ्येत, तेषामनारब्धत्वात् । तदवयवानां परमाणूनामतीन्द्रियत्वात् । तस्मान्न बहूनां परमाणूनां द्रव्यं प्रति समवायिकारणत्वम् , अपि तु द्वावेव परमाणू द्य्वणुकमारभेते । तस्य चाणुत्वं परिमाणं परमाणुपरिमाणात्पारिमाण्डल्यादन्यदीश्वरबुद्धिमपेक्ष्योत्पन्ना द्वित्वसङ्ख्यारभते । नच द्व्यणुकाभ्यां द्रव्यस्यारम्भः, वैयर्थ्यप्रसङ्गात् । तदपि हि द्व्यणुकमेव भवेन्न तु महत् । कारणबहुत्वमहत्त्वप्रचयविशेषेभ्यो हि महत्त्वस्योत्पत्तिः । नच द्व्यणुकयोर्महत्त्वमस्ति, यतस्ताभ्यामारब्धं महद्भवेत् । नापि तयोर्बहुत्वं, द्वित्वादेव । नच प्रचयभेदस्तूलपिण्डानामिव, तदवयवानामनवयवत्वेन प्रशिथिलावयवसंयोगभेदविरहात् । तस्मात्तेनापि तत्कारणद्व्यणुकवदणुनैव भवितव्यं, तथा च पुरुषोपभोगातिशयाभावाददृष्टनिमित्तत्वाच्च विश्वनिर्माणस्य भोगार्तत्वात्तत्कारणेन च द्व्यणुकेन तन्निष्पत्तेः कृतं द्व्यणुकाश्रयेण द्व्यणुकान्तरेणेत्यारम्भवैयर्थ्यात् । आरम्भार्थवत्त्वाय बहुभिरेव द्व्यणुकैस्त्र्यणुकं चतुरणुकं वा द्रव्यं महद्दीर्घमारब्धव्यम् । अस्ति हि तत्र तत्र भोगभेदः । अस्ति च बहुत्वसङ्ख्येश्वरबुद्धिमपेक्ष्योत्पन्ना महत्त्वपरिमाणयोनिः । त्र्यणुकादिभिरारब्धं तु कार्यद्रव्यं कारणबहुत्वाद्वा कारणमहत्त्वाद्वा कारणप्रचयभेदाद्वा महद्भवतीति प्रक्रिया । तदेतयैव प्रक्रियया कारणसमवायिनो गुणाः कार्यद्रव्ये समानजातीयमेव गुणान्तरमारभन्त इति दूषणमदूषणीक्रियते, व्यभिचारादित्याह
उद्दण्डैर्बाहुदण्डैः पृथुतरपरिघप्रांशुभिर्भिन्नगात्राः केचित्केचिच्च वज्रप्रतिमनखमुखैर्दीर्णदेहोपदेहाः । आकर्ण्यैके च यस्य प्रलयघनघनध्वानगम्भीरनादं विध्वस्ता दैत्यमुख्यास्तमहमतिबलं श्रीनृसिंहं प्रपद्ये ॥ स्वबोधदलिताबोधतदुद्भूतजगद् भ्रमम् । सदानन्दघनाद्वैतं परं ब्रह्मास्मि निर्मलम् ॥ रचनानुपपत्तेश्च नानुमानम् ॥१॥ स्वतन्त्रा इत्यस्य व्याख्यानं –
वेदनिरपेक्षा इति ।
विलक्षणत्वादयो हि प्रधानादिपरत्वेन वेदान्तव्याख्यामनुग्राहिकाः , इमास्तु युक्तयः स्वातन्त्र्येण प्रधानादिसाधिका इति। अनेनाक्षेपावसरे एव पादार्थो विवेचितः । मोक्षमाणानां मोक्षमिच्छताम् । मुचेः सन्नन्तस्य लुप्ताभ्यासस्य रूपम् ।
वेदान्तैरेव ज्ञानजननात्किं परपक्षाक्षेपेण ? तत्राह –
यथा चेति ।
ननु प्रमाणावगतान्युपादानानि जगति समुच्चीयन्तां , तन्तव इव पटेऽत आह –
न चैतदेवेति ।
चेतनमुपादानमस्येति तथोक्तम् । वेदो हि ब्रह्मप्रणीत इति सांख्याद्यागमस्य तत्तुल्यता । तथा च कपिलाद्यागमो वेदेन न बाध्यते , सिंह इव समबलसिंहान्तरेण । एवं कपिलाद्यागमं दृष्ट्वा कृतमनुमानमपि न बाध्यते , यथा सिंहं दृष्ट्वा कृते दार्वादिमये प्रतिकृतिसिंहे दृश्यमानाया ईदृशः सिंह इति सिंहाकारप्रतीतेरबाध इत्यर्थः ।
चेतनप्रकृतिकं जगदिति प्रतिपादकस्य वेदस्य प्रतिरोधकमनुमानमाह –
यानि हीति ।
संयोगादौ व्यभिचारवारणार्थं स्थौल्यादित्युक्तम् । संयोगादयो हि न स्थूलपिण्डादारभ्य कणपर्यन्तमनुयन्ति। कुम्भोपादानत्वं सत्त्वादिगुणाश्रितं मृद्गतत्वात्सत्तावदिति च वक्ररीत्याऽनुमानम् ।
ननु सुखं घट इत्याद्यनुपलम्भात् कथं तदात्मत्वेनानुगतिरत आह –
उपलभ्यत इति ।
घटविषया हि बुद्धिस्तमनुकूलं प्रतिकूलं वा गोचरयतीति अस्त्येवानुगतिरित्यर्थः । अन्वितत्वादेव सुखदुःखमोहात्मकं सामान्यम् ।
सुखाद्यारब्धत्वेऽपि जगतः कथं सत्त्वाद्यात्मकप्रधानारभ्यत्वमत आह –
तत्रेति ।
येयं जगत्कारणस्य कार्यवशोन्नीता सुखाद्यात्मता सा सत्त्वमित्यर्थः । विधेयापेक्षया नपुंसकप्रयोगः ।
उपलभ्यत इति यदुक्तं तद्व्यक्तीकरोति –
तथा हीति ।
निरन्तरतरुष्वध्यस्तवनेऽनेकान्तवारणाय प्रत्येकमित्युक्तम् ।
ननु चेतनोपकारत्वेन तं प्रति गुणीभूतगुणत्रयस्य कथं प्रधानत्वमत आह –
तच्च त्रिगुणमिति ।
चेतनं प्रति गुणभूतस्यापि गुणत्रयस्य सिद्धान्तसिद्धमायया वैलक्षण्यमाह –
न तु केनचिदिति ।
करणमिन्द्रियं केनचिच्चेतनेन न कार्यते न प्रेर्यते , किंतु कारणानां प्रवृत्तावनागतावस्थोपभोगापवर्गरूपः पुरुषार्थ एव हेतुः , स च न्यायो गुणानामपि तुल्य इत्यर्थः ।
नन्वनुमानादचेतनोपादानत्वे जगतः सिद्धे जगदुपादानस्य चेतनाधिष्ठितत्वापत्त्या किं दूषणमुक्तं भवति ? साध्यसिद्धिमङ्गीकृत्य दृष्टान्तदृष्टधर्मान्तरसंचारो ह्युत्कर्षसमा जातिः स्यात् , यथा –यदि कृतकत्वेन घटवदनित्यः शब्दः , तर्हि तद्वन्मूर्तः स्यादिति , तत्राह–
यदि तावदिति ।
अयमत्र दूषणाभिप्रायः – किं गुणत्रयं चेतनानधिष्ठितमुपादानं साध्यते , उत तस्योपादानत्वमात्रम् । आद्ये विरुद्धत्वं द्वितीये सिद्धसाधनं ; त्रिगुणमायाया ईश्वराधिष्ठितायाः प्रकृतित्वेष्टेरिति।
मूर्तत्वापादनाद् वैषम्यमाह –
व्याप्तेरिति ।
कृतकत्वं हि न व्याप्तमित्यर्थः । उपाददते उत्पादयन्ति कृतकत्वमिव विरुद्धमित्यन्वयः । इवशब्दो यथाशब्दसमानार्थ उपमामात्रपरो न तूपमीयमानपरः ; एवंशब्दस्य पृथक् प्रयोगात् । यदि सत्त्वाद्यन्वितत्वाज्जगत्तत्प्रकृतिकं मृदन्वितकुम्भवत् , तर्हि तच्चेतनाधिष्ठितं तत्प्रकृतिकं स्यात्तत एव तद्देवेत्युक्तम् ।
तत्रोपाधिमाशङ्कते –
यद्युच्येतेति ।
यथैकस्मिन्साध्ये साधनद्वयसन्निपाते सति एकतरसाधनप्रयुक्ता व्याप्तिरितरत्रारोप्यत इति सोपाधिकता , तद्यथा निषिद्धत्वप्रयुक्ता व्याप्तिरधर्मत्वस्य हिंसात्वे समारोप्यते , एवमेकस्मिन्साधने समन्वयादौ प्रकृतिगताचेतनत्वचेतनाधिष्ठितत्वरूपसाध्यद्वयवत्यन्तरङ्गा चेतनत्वप्रयुक्ता हेतुसाध्ययोर्व्याप्तिर्बहिरङ्गचेतनाधिष्ठितत्वे समारोप्यत इति भवति साध्यमपि सोपाधिकमित्यर्थः । कश्चिद्धर्मोऽन्तरङ्गत्वादिः ।
नान्तरङ्गत्वबहिरङ्गत्वकृते व्यापकत्वे , किंत्वव्यभिचारकृतेऽन्तरङ्गस्यापि महानसादिस्वरूपस्य व्यभिचाराद्धूमवत्त्वं प्रत्यव्यापकत्वाद्बहिरङ्गस्यापि वह्निसंयोगस्याव्यभिचारेण व्यापकत्वादिति मत्वा परिहरति –
स्वभावेति ।
स्वभावप्रतिबद्धमनौपाधिकत्वेन संबद्धम् ।
ननु स्वभावसंबन्धोऽप्यन्तरङ्गत्वाद् ज्ञेयस्तत्राह –
स चेति ।
साधनाव्यापक उपाधिर्यथा प्रपञ्चः सत्यः प्रतिभासमानत्वाद् ब्रह्मवदित्यत्र चेतनत्वमुपाधिः । अयं हि साध्यव्यापकः सत्यब्रह्मव्यापनात् । न च साधनव्यापकः ; पक्षे साधनवत्यप्यप्रवृत्तेः । साध्यव्यापक इत्युक्ते शैलेऽनलस्यानुमायामिन्धनवत्त्वस्याप्युपाधिता स्यात् तद्वारणाय साधनव्यापक इत्युक्तम् । एतावत्युक्ते कारीषवह्निमत्त्वादेरप्युपाधित्वं भवेत्तन्मा भूदिति साध्यव्यापक इत्यभिहितम् । नन्वेवं पक्षेतरत्वस्याप्युपाधिता स्यात्तद्व्यावृत्त्यर्थं साध्यसमव्याप्तिरिति विशेषणीयमिति तन्न । यतः - साध्याभावेन साकं स्वाभावव्याप्तेरनिश्चयात् । कुतः पक्षेतरत्वस्य साध्यव्यापकता मतता ॥ यदि हि यत्र पक्षान्यत्वं नास्ति , तत्र साध्यमिति व्यतिरेकव्याप्तिरवधार्येत , यदा यत्र साध्यं तत्र पक्षान्यत्वमित्यन्वयः । अन्यथा पक्षेतरत्वं त्यक्त्वापि साध्यसत्त्वे कुतस्तस्य तद्व्यापकता ? न चायमवधारयितुं शक्यते ; यत्र पक्षान्यत्वं नास्ति पक्षे तत्र साध्याभावस्य संदिग्धत्वात् । एवं च साध्यव्यापकत्वेनैव पक्षेतरत्वस्य व्यावृत्तेः समपदं मुधेति। द्विधा चोपाधिस्तत्र शङ्कितोऽनुकूलतर्काभावादिनावगम्यते , निश्चितस्तु यथायोगं प्रमाणैरवधार्यते । सदनुमाने तु समारोपित उपाधिः साधनव्याप्त्यादिभिरुद्धीयते । शङ्कितस्त्वनुकूलतर्कैः , शङ्क्यमानश्च साध्यव्यापकः साधनाव्यापकश्च वाच्यः , तत्र साध्यव्यापकत्वं स्याद् , व्यापकं प्रति व्यापकस्य व्याप्यं प्रति व्यापकताया अवश्यंभावात्साधनाव्यापकत्वे च साध्याव्यापकत्वं भवेद् व्याप्यं प्रत्यव्यापकस्य तद्व्यापकं प्रत्यव्यापकत्वनियमादित्यादिभिश्च तदुद्धार इति। नन्वेवमुपाधिसिद्धौ निरुपाधिकसंबन्धरूपव्याप्तिसिद्धिस्तत्सिद्धौ च साधनाव्यापकत्वादिरूपलक्षणसिद्धिः सिद्धे च लक्षणे उपाधिसिद्धिरिति चक्रकं स्यात् । नेति नवीनाः - साध्यवन्निष्ठात्यन्ताभावाप्रतियोगित्वरूपत्वात्साध्यव्यापकत्वस्य साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वात्मकत्वाच्च साधनाव्यापकत्वस्येति। नवीनतरास्तु न साध्यत्वं सपक्षे यत्रोपाध्यवधारणम् । अथ साध्यत्वेन संभाव्यमानत्वं , तदेव कुतः ? यदि व्यापकत्वादिति मन्वीरन् , तदेव तर्हि चक्रकमापतितमिति घट्टकुठ्व्यां प्रभातमिति। अस्माकं त्वनिर्वचनीयत्वादिनामत्रानास्थेति ।
अस्तु तर्ह्यनौपाधिकसंबन्धनिश्चयोऽन्तरङ्गत्वेनैव , नेत्याह –
तन्निश्चयश्चान्वयेति ।
साध्यव्यापकत्वादित्युक्तधर्मान्तरस्यानुपलब्धौ सत्यां सतोश्चान्वयव्यतिरेकयोर्व्याप्तिनिश्चय आयतते सिध्यति प्राप्नोतीत्यर्थः । अचेतनस्य चेतनाप्रेरितस्य कार्यजनकत्वाभावाच्च चेतनप्रयुक्तान्वयव्यतिरेकयोरतिस्फुटत्वम् ।
अन्वयव्यतिरेकवन्मात्रानुमाने एतत् पर्वतेतरत्वादेरप्यनुमानं स्यादत आह –
एवमपीति ।
आन्तराः प्रमातृबुध्द्यैक्याध्यस्तचैतन्यधर्माः , एतद्वैपरीत्यं बाह्यत्वम् ।
एतस्य च व्याख्यानं –
विच्छिन्नेति ।
चन्दनाद्यन्वयेऽपि सुखादिव्यभिचाराच्च नैक्यमित्याह –
यदि पुनरिति ।
सुखयतीति सुखः । क्रमेलक उष्ट्रः ।
प्रधाने हेतोरपर्यवसानाद् अर्थान्तरतामाशङ्क्याह –
संसर्गपूर्वकत्वे हीति ।
नानात्वेन सहैकस्मिन् अर्थे समवेतः संसर्गः स तथोक्तः । परिमितत्वं किं योजनादिमितत्वम् , उत स्वसत्तामतिक्रम्य वर्तमानेन वस्तुना सह वर्तमानत्वमथ वा स्वासंसृष्टवस्तुमत्त्वम् ।
नाद्य इत्याह –
यदि तावदिति ।
द्वितीयमाशङ्कते –
अथेत्यादिना ।
कारणं हि कार्यान्तरमपि व्याप्नोति न कार्यमतो यावत्कारणं शब्दतन्मात्रं तावन्न व्याप्नोति नभः , गन्धाद्यव्याप्तिस्तस्य प्रसिद्धैवेति।
परिहरति –
हन्तेति ।
न तृतीय इत्याह –
परस्परसंसर्गस्त्विति ।
सत्त्वादीनां चितिशक्त्या आत्मना परस्परं च संसर्गो नास्तीत्यर्थः ॥१॥
रचनायाः प्रवृत्तेः सकाशाद्भेदमाह –
रचनाभेदा इति ।
कार्यगतविन्यासविशेषा इत्यर्थः । अपि त्वित्यस्य या प्रवृत्तिः सापि चेतनाधिष्ठानमेव गमयतीति वक्ष्यमाणेनान्वयः ।
प्रवृत्तेर्हेतुमाह –
साम्येति ।
वैषम्यं भवतीति शेषः ।
वैषम्ये सत्यङ्गाङ्गित्वं भवतीत्याह –
तथा चेति ।
अङ्गाङ्गित्वात्कार्योत्पादनरूपा प्रवृत्तिर्भवतीत्याह –
एवं हीति ।
एवं चाङ्गित्वानुपपत्तेश्चेत्यस्य सूत्रस्य(ब्र.अ.२.पा.२.सू.८) प्रवृत्तेश्चेत्यनेन पौनरुत्तयमर्थान्निरस्तम् । चेतनानधिष्ठितप्रधानसाधकत्वेन परोक्तस्य प्रवृत्तेरिति हेतोरेव चेतनाधिष्ठिताचैतनसिद्धौ हेतुत्वेनाभिधानात्साध्यविरुद्धोक्तिर्वक्रोक्तिः ।
औपनिषदेन न दृष्टान्तानुसारेण ब्रह्मकारणत्वं समर्थ्यतेऽतः केवलस्य चेतनस्य प्रवृत्तिर्न दृष्टा इत्यचोद्यमित्याशङ्क्याह –
त्वया किलेति ।
उपनिषदर्थसंभावनायाम् अनुमानं सामान्यतो दृष्टं वाच्यमित्यर्थः । अविद्याप्रत्युपस्थापितेत्यादिभाष्येण स्वपक्षं समाधास्यामीत्यभिसंधिमानित्यर्थः । न केवलस्य चेतनस्य प्रवृत्तिर्दृष्टेत्येतत्सत्यमित्यर्थः । अत्र च शेषत्वेन तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिर्दृष्टेति भाष्यमनुसन्धेयम् । इत्थं केवलस्य चेतनस्य प्रवृत्त्यभावमभ्युपगम्याचेतनस्य प्रवृत्तिश्चेतनाधीनेति समर्थिते सांख्य आहेत्यर्थः ।
न चेतनस्य प्रवृत्त्याश्रयत्वमित्यत्र लौकायतिकभ्रमोऽपि लिङ्गमित्याह –
यतश्चेति ।
रचनायाः प्रवृत्तेर्वा हेतोश्चिदात्मकारणकत्वसिद्धिर्जगतो नेत्यर्थः । यदुक्तं न चेतनः प्रवृत्त्याश्रयतयेष्यत इति , तत्र किं स्वरूपस्यासिद्धिरभिमता ।
उत प्रवृत्तिसंबन्धस्य ? नाद्य इत्याह –
न तावदिति ।
न द्वितीय इत्याह –
तत्रेति ।
आकाशस्य प्रवृत्त्यन्वयमात्रम् , चैतन्यस्य तु व्यतिरेकोऽप्यस्तीति वैषम्यमित्यर्थः ।
लौकायतिकोऽपि चेतनतन्त्रामचेतनप्रवृत्तिं मन्यते , सांख्यस्तु ततोऽप्यविवेकीत्याह –
भूतेति ।
भूतानां चेतनेति येषां मतं ते तथोक्ताः ।
एवं तावद्रथादिवन्मूलकारणस्याप्यचेतनस्य चेतनाधीनप्रवृत्तिकत्वं साधितम् , तत्र दृष्टान्तासिद्धिमाशङ्कते –
स्यादेतदिति ।
रथादिप्रवर्तको देह एव , स तु चेतन इत्यविवेकिनां प्रसिद्धिरनूदिता , साक्षाद्यच्चेतनः सोऽसङ्गत्वादप्रवर्तक इत्यर्थः ।
तवेति ।
तदापीत्यर्थः ।
रूपादीनां सन्निधिमात्रेणेन्द्रियप्रवर्तकत्वे चेतनाधिष्ठितादचेतनात्कार्यरचनेति नियमभङ्गमाशङ्क्य परसिद्धमुदाहृतमिति परिहरति –
सांख्यानां हीति ।
अर्थाकारेणेति ।
अर्थविषयज्ञानाकारेणेत्यर्थः । उक्तं हि शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिरिति ॥२॥
यदि पयोम्बुनोः सपक्षत्वमपि , कथं तर्हि साध्यपक्षनिक्षिप्तत्वादिति भाष्यमत आह –
साध्यपक्षेत्युपलक्षणमिति ॥३॥
प्रधानस्य सहकार्यभावासिद्धेः सूत्रभाष्यायोगमाशङ्क्याह –
यद्यपीति ।
सर्गस्य निर्माणे कर्मवासना न प्रभवतीति चेत्क्व तर्हि तासामुपयोगस्तत्राह –
प्रधानमेवेति ।
निमित्तं धर्मादि । प्रकृतीनां मूलप्रकृतेर्महदादिप्रकृतिविकृतीनां च अप्रयोजकं स्वकार्ये सर्गे , किंतु वरणस्य प्रतिबन्धकस्य भेदो भङ्गस्ततो निमित्ताद्भवति , क्षेत्रिकवद् - यथा हि क्षेत्रकारीकेदारादपां पूर्णात्केदारान्तरं समं निम्नं वा पिप्लावयिषुरपो न पाणिनाऽपकर्षति , किंतु वरणं तासा भिनत्ति , भिन्ने तस्मिन्स्वयमेवापः केदारान्तरं प्लावयन्ति , तद्वदिति पातञ्जलसूत्रार्थः ।
तर्ह्यपनीते प्रतिबन्धे सृजतु प्रधानमत आह –
ततश्चेति ।
सदातनादपनायकात्सदापनीतः प्रतिबन्ध इति सदैव सर्गः स्यादित्यर्थः ।
ईश्वरस्य तु सर्वज्ञत्वात्प्राणिकर्मपरिपाकावसराभिज्ञस्य लीलादिना कदाचित् स्रष्टृत्वं न सर्वदेत्याह –
ईश्वरस्य त्विति ।
यद्दृच्छयेति ।
यथास्मदादेस्तृणच्छेदादौ नियतनिमित्तानपेक्षा प्रवृत्तिरेवमित्यर्थः ॥४॥
वह्न्यादीति ।
पित्तधातुरादिशब्दार्थः ॥५॥
कीदृशोऽनाधेयातिशयस्य भोग इत्यादिभाष्यं व्याचष्टे –
न केवलमिति ।
सिद्धान्तेऽप्यतात्त्विकभोगाभ्युपगमाद् अवास्तवस्य न निषेध इत्यर्थः ।
उभयार्थताभ्युपगमेऽपि भोक्ताव्यानां प्रधानमात्राणाम् आनन्त्यादनिर्मोक्षप्रसङ्ग एवेति भाष्यं , तदनुपपन्नमिव ; अपवर्गार्थमपि प्रधानप्रवृत्तौ सत्यां क्रमेण भोगमोक्षोपपत्तेः , योगैश्वर्याच्चानन्तविकाराणां युगपदुपभोगसंभवादित्याशङ्क्याह –
न तावदपवर्ग इति ।
किं निःशेषविकारान् भोजयितुं प्रधानं प्रवर्तते उत कियतोऽपि ।
नान्त्य इत्याह –
भोगस्य चेति ।
आद्ये निषेधभाष्यमुपपादयति –
निःशेषेति ।
यद्यपि सकृच्छब्दाद्युपलम्भाद् भोगः समाप्तः ; तथापि न पुनरप्रवृत्तिः ।
तत्त्वज्ञानमन्तरेण मोक्षासिद्धेः प्राक्च मोक्षाद्भोगस्यावश्यकत्वादिति शङ्कते –
कृतभोगमपीति ।
सत्त्वं बुद्धिः । क्रियासमभिहारोऽभ्यासः । अपवर्गः किं शब्दाद्यनुपलब्धिर्बुद्धिक्षेत्रज्ञभेदख्यातिर्वा ।
यदि आद्यस्तत्राह –
हन्तेति ।
न द्वितीय इत्याह –
नचास्या इति ।
उभयार्थमिति ।
भोगमोक्षार्थमित्यर्थः । शक्तिशक्तिमतोरभेदात्पुरुषो दृक्शक्तिः । दृक्शक्त्यनुच्छेदवदिति इदानीं भाष्यपाठो दृश्यते ।
निबन्धे तु सर्गशक्त्यनुच्छेदवदिति पाठं दृष्ट्वा व्याचष्टे –
सर्गेति ।
दृक्शक्तिः किं सर्वप्रधानकार्यविषया , एकदेशविषया वा ।
आद्ये दोषमाह –
यथा हीति ।
यथैकेन पुंसा स्वविकारदर्शनेन कृतार्थापि सर्गशक्तिः पुरुषान्तरं प्रति दर्शयितुमनुच्छेदादनुच्छेदेन प्रवर्तते , एवं दृक्शक्तिरपि सकृद्दृश्यदर्शनेन चरितार्थापि तं पुरुषं प्रति सर्वप्रधानविकाराणामर्थवत्त्वाय सर्वान्द्रष्टुमनुच्छेदेन प्रवर्तत इत्यर्थः ।
द्वितीयं प्रत्याह –
सकृद्दृश्येति ।
एकपदे एकपदन्यासावच्छिन्नक्षणे ॥६॥
अर्थाभावसूत्रोक्तं दूषणमनुजानाति –
मा भूदिति ।
शक्त्यर्थवत्त्वं दृक्शक्तिसर्गशक्त्यवत्त्वम् । शङ्केत्यत्र ग्रन्थच्छेदः ॥७॥
प्रधानावस्थानाशेऽपि अवस्थावतां गुणानामनाशात्स्वरूपप्रणाशभयादिति भाष्यायोगमाशङ्क्य विकल्पमुखेन व्याचष्टे –
यदि प्रधानावस्थेति ।
भाष्ये – अनपेक्षस्वरूपाणामिति । इतरेतरमनपेक्षमाणानां गुणप्रधानत्वहीनानामित्यर्थः ।
ननु प्राचीनवैषम्यपरिणामसंस्कार एव पुनरवैषम्यहेतुरस्तु किं बाह्यक्षोभयित्रा ? तत्राह –
यत्साम्यावस्थयेति ।
प्रलयसमये यत्साम्याकारेण सुचिरं परिणतं तत्संस्कारप्राचुर्यात्पुनरपि साम्याकारेण परिणमते , तद् द्वयोः संस्कारयोः समत्वेऽपि प्राचीनवैषम्यसंस्कारस्याभिनवसाम्यसंस्कारेण व्यवधानात्साम्यपरिणाम एव युक्त इत्यर्थः । विलक्षणश्चासौ कार्यं जनयितुं प्रत्ययते आगच्छतीति तथोक्तः ॥८॥९॥
एकादशेन्द्रियाणां कथं सप्तत्वमित्याशङ्क्य बुद्धीन्द्रियाणि त्वागिन्द्रियेऽन्तर्भावयति –
त्वङ्मात्रमेवेति ।
अनेकरूपादिग्रहणसमर्थं यत् त्वङ्मात्रं तदेव बुद्धीन्द्रियं तच्चैकमित्यर्थः ।
ननु तप्य एव मा भूद् यथाऽस्तीत्यत्र , तथा च कथमद्वैतव्याघातकस्तप्यतापकभावस्तत्राह –
नहि तपिरिति ।
कर्तृस्थो भावः फलं यस्य स तथोक्तः ।
परमसमवेतेति ।
कर्मत्वव्यापकोक्तिरियम् । तद्व्यावृत्त्या तद्व्यावृत्त्यैव न लक्षणोक्तिः । तथा सति वृक्षात्पतिते पर्णे पर्णसमवेतपतनक्रियाफलविभागाभाजो वृक्षस्यापादानस्यापि कर्मत्वप्रसङ्गात् । ननु -‘आत्मानं जानाति’ ‘पच्यते फलं स्वयमेवे’त्यत्रैकस्यापि कर्मकर्तृभावात् कथमस्य कर्मत्वव्यापकत्वम् ? उच्यते – सोपाध्यात्मनि उपाधिभेदादेव भेदान्निरूपाधौ यां वृत्तिं कर्मत्वं तस्या एवोपाधित्वस्य वर्णितत्वात् , पच्यते फलं स्वयमेवेत्यत्र कर्मत्वोपचारात् । पाणिनिर्हि कर्मवदित्याह - तस्माद् यत्कर्म तत्परसमवेतक्रियाफलभागीत्यर्थो नतु यदुक्तविधं तत्कर्मेति।
ननु क्रियाफलशालित्वमात्रव्याप्तं कर्मवत्वम् , वृथा परविशेषणम् ; तथा च तप्तुरेव तप्यत्वमस्तु , तत्राह –
अनन्यत्व इति ।
तप्यस्य तापकादनन्यत्वे सति अकर्मत्वप्रसङ्गादित्यन्वयः ।
निदर्शनं –
चैत्रस्येवेति ।
स्वसमवेता गमनक्रिया तस्याः फलं नगरप्राप्तिस्तच्छालिनोऽपि चैत्रस्य परत्वाभावादकर्मत्ववत्तप्यस्याप्यभेदाभ्युपगतावकर्मत्वप्रसङ्गादित्यर्थः ।
ननु यथा जलधिः स्वभावभूतैरपि वीच्यादिभिर्मुच्यते , तथा तप्यतापकाभ्यामात्मा , तत्राह –
जलधेश्चेति ।
अर्थस्यापि स्वर्गादेस्तापकत्वं भाष्योक्तमुपपादयति –
अर्थोऽपीति ।
दुनोति परितापयति । दृक्शक्तिः पुरुषः । दर्शयति स्वविकारान् पुंस इति दर्शनशक्तिः प्रधानं , तस्य च बुद्धिरूपेण परिणतस्य चिच्छायापत्तिः संयोगः । अविविक्तयोः प्रधानपुरुषयोर्दर्शनम् अविवेकदर्शनम् ।
भाष्ये स्यादपीत्यपिना न साक्षात्पुंसो मोक्ष इत्यसूचि , तदाह –
अत्र चेति ।
बन्धमोक्षस्वरूपालोचनेन तयोः साक्षाद्बुद्धिधर्मत्वमाह –
तथा हीति ।
अविभागो बुद्धिसत्त्वस्य पुरुषादविवेकस्तेन बुद्धेर्जडाया अप्यापन्नं गुणस्वरूपावधारणम् । अनुकूलप्रतिकूलशब्दादिज्ञानस्य विविक्तपुरुषज्ञानस्य च बुद्धिपरिणामत्वाद् बुद्धेरेव बन्धमोक्षावित्यर्थः । मोक्षनिरूपणाय च बन्धनिरूपणम् । अत एवापवृज्यत इत्येवाह ।
इदानीं स्वामिनि पुरुषे बन्धाद्युपचारं सदृष्टान्तमाह –
तथापीति ।
अविभागस्याविवेकस्यापत्तिः प्राप्तिस्तयेत्यर्थः ।
औपनिषददर्शनासामञ्जस्यं निषेधति –
नेति ।
किं वस्तुतत्तप्यतापकविभागानुपपत्तिरुच्यते , व्यवहारतो वा ।
आद्ये इष्टप्रसङ्ग इत्याह –
एकत्वादेवेति ।
उपात्तं भाष्यं व्याख्याति –
यत इति ।
द्वितीये नानुपपत्तिर्व्यवहारतो भेदस्वीकारादित्याह –
तस्मादिति ।
परोक्तदोषानुवाद एव भाष्ये भाति –न दूषणमित्याशङ्क्याध्याहारेणेष्टप्रसङ्गकथनपरतां स्फोटयति–
इत्यस्मदिति ।
यदि भ्रान्तत्वं तप्यतापकभावस्य , तर्ह्येष एव दोष इत्याशङ्क्य साम्यप्रतिपादनार्थं तत्र त्वयापीति भाष्यम् , तद् व्याचष्टे –
सांख्योऽपि हीति ।
ब्रुवाणोऽपीत्यन्वयः । सत्त्वं बुद्धिगतः सत्त्वगुणः । दर्शितो विषयो यस्य पुंसः सः तथा तस्य भावस्तत्त्वं तत इति।
अविभागापत्तिस्तर्हि क्षीरवत्सत्येति तन्निमित्ता तप्तिः पुंसः सत्या स्यादत आह –
तदविभागापत्तिश्चेति ।
अविवेको ह्यविभाग इति । नित्यत्वाभ्युपगमाच्च तापकस्येति भाष्यमुपात्तम् । अनिर्मोक्षप्रसङ्ग इति तस्यातीतानन्तरपदानुषङ्गेण व्याख्या । न दृश्यतेऽनेन पुरुषत्वमिति अदर्शनं तमः ।
तस्य तप्तिहेतुत्वमुपपादयति –
न तावदित्यादिना ।
तमसः तप्तस्य निवृत्त्ययोगात् परस्य तन्निमित्ततप्तेरनाश उक्तः ।
सिद्धान्ते त्वविद्याया अवस्तुतस्तप्तिहेतोर्विद्यया निवृत्तेर्मोक्षोपपत्तिमाह –
यथा हीति ।
सांख्यस्य त्विति तुशब्दो नशब्दसमानार्थः ॥१०॥