भामतीव्याख्या
वेदान्तकल्पतरुः
 

समुदाय उभयहेतुकेऽपि तदप्राप्तिः ।

अवान्तरसङ्गतिमाह

वैशेषिकराद्धान्त इति ।

वैशेषिकाः खल्वर्धवैनाशिकाः । ते हि परमाण्वाकाशादिक्कालात्ममनसां च सामान्यविशेषसमवायानां च गुणानां च केषाञ्चिन्नित्यत्वमभ्युपेत्य शेषाणां निरन्वयविनाशमुपयन्ति, तेन तेऽर्धवैनाशिकाः । तेन तदुपन्यासो वैनाशिकत्वसाम्येन सर्ववैनाशिकान् स्मारयतीति तदनन्तरं वैनाशिकमतनिराकरणमिति । अर्धवैनाशिकानां स्थिरभाववादिनां समुदायारम्भ उपपद्येतापि, क्षणिकभाववादिनां त्वसौ दूरापेत इत्युपपादयिष्यामः । तेन नतरामित्युक्तम् । तदिदं दूषणाय वैनाशिकमतमुपन्यसितुं तत्प्रकारभेदानाह

स च बहुप्रकार इति ।

वादिवैचित्र्यात्खलु, केचित्सर्वास्तित्वमेव राद्धान्तं प्रतिपद्यन्ते केचिज्झानमात्रास्तित्वम् । केचित्सर्वशून्यताम् । अथ त्वत्रभवतां सर्वज्ञानां तत्त्वप्रतिपत्तिभेदो न सम्भवति, तत्त्वस्यैकरूप्यादित्येतदपरितोषेणाह

विनेयभेदाद्वा ।

हीनमध्यमोत्कृष्टधियो हि शिष्या भवन्ति । तत्र ये हीनमतयस्ते सर्वास्तित्ववादेन तदाशयानुरोधाच्छून्यतायामवतार्यन्ते । ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन शून्यतायामवतार्यन्ते । ये तु प्रकृष्टमतयस्तेभ्यः साक्षादेव शून्यतातत्त्वं प्रतिपाद्यते । यथोक्तं बोधिचित्तविवरणे -“देशना लोकनाथानां सत्त्वाशयवशानुगाः । भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः ॥ १ ॥ गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणा । भिन्नापि देशनाभिन्ना शून्यताद्वयलक्षणा” ॥ २ ॥ इति । यद्यपि वैभाषिकसौत्रान्तिकयोरवान्तरमतभेदोऽस्ति, तथापि सर्वास्तितायामस्ति सम्प्रतिपत्तिरित्येकीकृत्योपन्यासः । तथा च त्रित्वमुपपन्नमिति । पृथिवी स्वरस्वभावा, आपः स्नेहस्वभावाः, अग्निरुष्णस्वभावः, वायुरीरणस्वभावः । ईरणं प्रेरणम् । भूतभौतिकानुक्त्वा चित्तचैत्तिकानाह

तथा रूपेति ।

रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्या सविषयाणीन्द्रियाणि रूपस्कन्धः । यद्यपि रूप्यमाणाः पृथिव्यादयो बाह्यास्तथापि कायस्थत्वाद्वा इन्द्रियसम्बन्धाद्वा भवन्त्याध्यात्मिकाः । विज्ञानस्कन्धोऽहमित्याकारो रूपादिविषय इन्द्रियादिजन्यो वा दण्डायमानः । वेदनास्कन्धो या प्रियाप्रियानुभयविषयस्पर्शे सुखदुःखतद्रहितविशेषावस्था चित्तस्य जायते स वेदनास्कन्धः । संज्ञास्कन्धः सविकल्पप्रत्ययः संज्ञासंसर्गयोग्यप्रतिभासः, यथा डित्थः कुण्डली गौरो ब्राह्मणो गच्छतीत्येवंजातीयकः । संस्कारस्कन्धो रागादयः क्लेशाः, उपक्लेशाश्च मदमानादयः, धर्माधर्मौ चेति । तदेतेषां समुदायः पञ्चस्कन्धी ।

तस्मिन्नुभयहेतुकेऽपीति ।

बाह्ये पृथिव्या द्व्यणुहेतुके भूतभौतिकसमुदाये, रूपविज्ञानादिस्कन्धहेतुके च समुदाय आध्यात्मिकेऽभिप्रेयमाणे तदप्राप्तिस्तस्य समुदायस्यायुक्तता । कुतः ।

समुदायिनामचेतनत्वात् ।

चेतनो हि कुलालादिः सर्वं मृद्दण्डाद्युपसंहृत्य समुदायात्मकं घटमारचयन् दृष्टः । नह्यसति मृद्दण्डादिव्यापारिणि विदुषि कुलाले स्वयमचेतना मृद्दण्डादयो व्यापृत्य जातु घटमारचयन्ति । न चासति कुविन्दे तन्तुवेमादयः पटं वयन्ते । तस्मात्कार्योत्पादस्तदनुगुणकारणसमवधानाधीनस्तदभावे न भवति । कार्योत्पादानुगुणं च कारणसमवधानं चेतनप्रेक्षाधीनमसत्यां चेतनप्रेक्षायां न भवितुमुत्सहत इति कार्योत्पत्तिश्चेतनप्रेक्षाधीनत्वव्याप्ता व्यापकविरुद्धोपलब्ध्या चेतनानधिष्ठितेभ्यः कारणेभ्यो व्यावर्तमाना चेतनाधिष्ठितत्व एवावतिष्ठत इति प्रतिबन्धसिद्धिः । यद्युच्येत अद्धा चेतनाधीनैव कार्योत्पत्तिः, अस्ति तु चित्तं चेतनं, तद्धीन्द्रियादिविषयस्पर्शे सत्यभिज्वलत्तत्कारणचक्रं यथायथा कार्याय पर्याप्तं तथातथा प्रकाशयदचेतनानि कारणान्यधिष्ठाय कार्यमभिनिर्वर्तयतीति, तत्राह

चित्ताभिज्वलनस्य च समुदायसिद्ध्यधीनत्वात् ।

न खलु बाह्याभ्यन्तरसमुदायसिद्धिमन्तरेण चित्ताभिज्वलनं, ततस्तु तामिच्छन् दुरुत्तरमितरेतराश्रयमाविशेदिति । न च प्राग्भवीया चित्ताभिदीप्तिरुत्तरसमुदायं घटयति । घटनसमये तस्याश्चिरातीतत्वेन सामर्थ्यविरहात् । अस्मद्राद्धान्तवदन्यस्यचेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य सङ्घातकर्तुरनभ्युपगमात् । कारणविन्यासभेदं हि विद्वान् कर्ता भवति । न चान्वयव्यतिरेकावन्तरेण तद्विन्यासभेदं वेदितुमर्हति । नच सक्षणिकोऽन्वयव्यतिरेककालानवस्थायी ज्ञातुमन्वयव्यतिरेकावुत्सहते । अत उक्तम्

स्थिरस्येति ।

यद्युच्येत असमवहितान्येव कारणानि कार्यं करिष्यन्ति परस्परानपेक्षाणि, कृतमत्र समवधाययित्रा चेतनेनेत्यत आह

निरपेक्षप्रवृत्त्यभ्युपगमे चेति ।

यद्युच्यते अस्त्यालयविज्ञानमहङ्कारास्पदं पूर्वापरानुसन्धातृ, तदेव कारणानां प्रतिसन्धातृ भविष्यतीति, तत्राह

आशयस्यापीति ।

यत्खल्वेकं यदि स्थिरमास्थीयेत ततो नामान्तरेणात्मैव । अथ क्षणिकं, तत उक्तदोषापत्तिः । नच तत्सन्तानस्तस्यान्यत्वे नामान्तरेणात्माभ्युपगतोऽनन्यत्वे च विज्ञानमेव, तच्च क्षणिकमेवेत्युक्तदोषापत्तिः । आशेरतेऽस्मिन् कर्मानुभववासना इत्याशय आलयविज्ञानं तस्य । अपि च प्रवृत्तिः समुदायिनां व्यापारः । नच क्षणिकानां व्यापारो युज्यते । व्यापारो हि व्यापारवदाश्रयस्तत्कारणकश्च लोके प्रसिद्धः । तेन व्यापारवता व्यापारात्पूर्वं व्यापारसमये च भवितव्यम् । अन्यथा कारणत्वाश्रयत्वयोरयोगात् । न च समसमययोरस्ति कार्यकारणभावः । नापि भिन्नकालयोराधाराधेयभावः । तथा च क्षणिकत्वहानिरित्याह

क्षणिकत्वाभ्युपगमाच्चेति ॥ १८ ॥

इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ।

यद्यपीति ।

अयमर्थः सङ्क्षेपतो हि प्रतीत्यसमुत्पादलक्षणमुक्तं बुद्धेन ‘इदं प्रत्ययफलम्’ इति । “उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैषा धर्माणां धर्मता” । “धर्मस्थितिता धर्मनियामकता प्रतीत्यसमुत्पादानुलोमता” इति । अथ पुनरयं प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यां भवति हेतूपनिबन्धतश्च प्रत्ययोपनिबन्धतश्च । स पुनर्द्विविधो बाह्य आध्यात्मिकश्च । तत्र बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः यदिदं बीजादङ्कुरोऽङ्कुरात्पत्रं पत्रात्काण्डं काण्डान्नालो नालाद्गर्भो गर्भाच्छूकः शूकात्पुष्पं पुष्पात्फलमिति । असति बीजेऽङ्कुरो न भवति, यावदसति पुष्पे फलं न भवति । सति तु बीजेऽङ्कुरो भवति, यावत्पुष्पे सति फलमिति । तत्र बीजस्य नैवं भवति ज्ञानमहमङ्कुरं निर्वर्तयामीति । अङ्कुरस्यापि नैवं भवति ज्ञानमहं बीजेन निर्वर्तित इति । एवं यावत्पुष्पस्य नैवं भवत्यहं फलं निर्वर्तयामीति । एवं फलस्यापि नैवं भवत्यहं पुष्पेणाभिनिर्वर्तितमिति । तस्मादसत्यपि चैतन्ये बीजादीनामसत्यपि चान्यस्मिन्नधिष्ठातरि कार्यकारणभावनियमो दृश्यते । उक्तो हेतूपनिबन्धः । प्रत्ययोपनिबन्धः प्रतीत्यसमुत्पादस्योच्यते । प्रत्ययो हेतूनां समवायः । हेतुं हेतुं प्रत्ययन्ते हेत्वन्तराणीति, तेषामयमानानां भावः प्रत्ययः । समवाय इति यावत् । यथा षण्णां धातूनां समवायाद्बीजहेतुरङ्कुरो जायते । तत्र च पृथिवीधातुर्बीजस्य सङ्ग्रहकृत्यं करोति यतोऽङ्कुरः कठिनो भवति, अब्धातुर्बीजं स्नेहयति, तेजोधातुर्बीजं परिपाचयति, वायुधातुर्बीजमभिनिर्हरति यतोऽङ्कुरो बीजान्निर्गच्छति, आकाशधातुर्बीजस्यानावरणकृत्यं करोति, ऋतुरपि बीजस्य परिणामं करोति, तदेतेषामविकलानां धातूनां समवाये बीजे रोहित्यङ्कुरो जायते नान्यथा । तत्र पृथिवीधातोर्नैवं भवत्यहं बीजस्य सङ्ग्रहकृत्यं करोमीति, यावदृतोर्नैवं भवत्यहं बीजस्य परिणामं करोमीति । अङ्कुरस्यापि नैवं भवत्यहमेभिः प्रत्ययैर्निर्वर्तित इति । तथाध्यात्मिकः प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यां भवति हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च । तत्रास्य हेतूपनिबन्धो यदिदमविद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्ययं जरामरणादीति । अविद्या चेन्नाभविष्यन्नैव संस्कारा अजनिष्यन्त । एवं यावज्जातिः । जातिश्चेन्नाभविष्यन्नैव जरामरणादय उत्पत्स्यन्त । तत्राविद्याया नैवं भवत्यहं संस्कारानभिनिर्वर्तयामीति । संस्काराणामपि नैवं भवति वयमविद्यया निर्वर्तिता इति । एवं यावज्जात्या अपि नैवं भवत्यहं जरामरणाद्यभिनिर्वर्तयामीति । जरामरणादीनामपि नैवं भवति वयं जात्यादिभिर्निर्वर्तिता इति । अथ च सत्स्वविद्यादिषु स्वयमचेतनेषु चेतनान्तरानधिष्ठितेष्वपि संस्कारादीनामुत्पत्तिः, बीजादिष्विव सत्स्वचेतनेषु चेतनान्तरानधिष्ठितेष्वप्यङ्कुरादीनाम् । इदं प्रतीत्य प्राप्येदमुत्पद्यत इत्येतावन्मात्रस्य दृष्टत्वाच्चेतनाधिष्ठानस्यानुपलब्धेः । सोऽयमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः । अथ प्रत्ययोपनिबन्धः पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायाद्भवति कायः । तत्र कायस्य पृथिवीधातुः काठिन्यं निर्वर्तयति । अब्धातुः स्नेहयति कायम् । तेजोधातुः कायस्याशितपीते परिपाचयति । वायुधातुः कायस्य श्वासादि करोति । आकाशधातुः कायस्यान्तः सुषिरभावं करोति । यस्तु नामरूपाङ्कुरमभिनिर्वर्तयति पञ्चविज्ञानकार्यसंयुक्तं सास्रवं च मनोविज्ञानं, सोऽयमुच्यते विज्ञानधातुः । यदा ह्याध्यात्मिकाः पृथिव्यादिधातवो भवन्त्यविकलास्तदा सर्वेषां समवायाद्भवति कायस्योत्पत्तिः । तत्र पृथिव्यादिधातूनां नैवं भवति वयं कायस्य काठिन्यादि निर्वर्तयाम इति । कायस्यापि नैवं भवति ज्ञानमहमेभिः प्रत्ययैरभिनिर्वर्तित इति । अथ च पृथिव्यादिधातुभ्योऽचेतनेभ्यश्चेतनान्तरानधिष्ठितेभ्योऽङ्कुरस्येव कायस्योत्पत्तिः । सोऽयं प्रतीत्यसमुत्पादो दृष्टत्वान्नान्यथयितव्यः । तत्रैतेष्वेव षट्सु धातुषु यैकसंज्ञा, पिण्डसंज्ञा, नित्यसंज्ञा, सुःखसंज्ञा, सत्त्वसंज्ञा, पुद्गलसंज्ञा, मनुष्यसंज्ञा, मातृदुहितृसंज्ञा, अहङ्कारममकारसंज्ञा, सेयमविद्या संसारानर्थसम्भारस्य मूलकारणं, तस्यामविद्यायां सत्यां संस्कारा रागद्वेषमोहा विषयेषु प्रवर्तन्ते । वस्तुविषया विज्ञप्तिर्विज्ञानं, विज्ञानाच्चत्वारो रूपिण उपादानस्कन्धास्तन्नाम, तान्युपादाय रूपमभिनिर्वर्तते । तदैकध्यमभिसङ्क्षिप्य नामरूपं निरुच्यते शरीरस्यैव कललबुद्बुदाद्यवस्था नामरूपसंमिश्रितानीन्द्रियाणि षडायतनं, नामरूपेन्द्रियाणां त्रयाणां सन्निपातः स्पर्शः, स्पर्शाद्वेदना सुखादिका, वेदनायां सत्यां कर्तव्यमेतत्सुखं पुनर्मयेत्यध्यवसानं तृष्णा भवति । ततौपादानं वाक्कायचेष्टा भवति । ततो भवो भवत्यस्माज्जन्मेति भवो धर्माधर्मौ, तद्धेतुकः स्कन्धप्रादुर्भावो जातिःजन्म । जन्महेतुका उत्तरे जरामरणादयः । जातानां स्कन्धानां परिपाको जरा । स्कन्धानां नाशो मरणम् । म्रियमाणस्य मूढस्य साभिषङ्गस्य पुत्रकलत्रादावान्तर्दाहः शोकः । तदुत्थं प्रलपनं हा मातः, हा तात, हा च मे पुत्रकलत्रादीति परिदेवना । पञ्चविज्ञानकार्यसंयुक्तमसाध्वनुभवनन्दुःखम् । मानसं च दुःखन्दौर्मनस्यम् । एवंजातीयकाश्चोपायास्त उपक्लेशा गृह्यन्ते । तेऽमी परस्परहेतुकाः, जन्मादिहेतुका अविद्यादयोऽविद्यादिहेतुकाश्च जन्मादयो घटीयन्त्रवदनिशमावर्तमानाः सन्तीति तदेतैरविद्यादिभिराक्षिप्तः सङ्घात इति । तदेतद्दूषयति

तन्न कुतः, उत्पत्तिमात्रनिमित्तत्वादिति ।

अयमभिसन्धिः यत्खलु हेतूपनिबद्धं कार्यं तदन्यानपेक्षं हेतुमात्राधीनोत्पादत्वादुत्पद्यतां नाम । पञ्चस्कन्धसमुदायस्तु प्रत्ययोपनिबद्धो न हेतुमात्राधीनोत्पत्तिः । अपि तु नानाहेतुसमवधानजन्मा । न च चेतनमन्तरेणान्यः संनिधापयितास्ति कारणानामित्युक्तम् । बीजादङ्कुरोत्पत्तेरपि प्रत्ययोपनिबद्धाया विवादाध्यासितत्वेन पक्षनिक्षिप्तत्वात् , पक्षेण च व्यभिचारोद्भावनायामतिप्रसङ्गेन सर्वानुमानोच्छेदप्रसङ्गात् । स्यादेतत् । अनपेक्षा एवान्त्यक्षणप्राप्ताः क्षित्यादयोऽङ्कुरमारभन्ते । तेषां तूपसर्पणप्रत्ययवशात्परस्परसमवधानम् । न चैकस्मादेव कारणात्कार्यसिद्धेः किमन्यैः कारणैरिति वाच्यम् । कारणचक्रानन्तरं कार्योत्पादात्सिद्धमित्येव नास्ति । न चैकोऽपि तत्कारणसमर्थ इत्यन्य उदासत इति युक्तम् । नहि ते प्रेक्षावन्तो येनैवमालोचयेयुरस्मासु समर्थ एकोऽपि कार्ये इति कृतं नः संनिधिनेति । किन्तूपसर्पणप्रत्ययाधीनपरस्परसंनिधानोत्पादा नानुत्पत्तुं नाप्यसंनिधातुमीशते । तांश्च सर्वाननपेक्षान् प्रतीत्य कार्यमपि न नोत्पत्तुमर्हति । नच स्वमहिम्ना सर्वे कार्यमुत्पादयन्तोऽपि नानाकार्याणामीशते तत्रैव तेषां सामर्थ्यात् । न च कारणभेदात्कार्यभेदः, सामग्र्या एकत्वात् । तद्भेदस्य च कार्यनानात्वहेतुत्वात्तथा दर्शनात् । तन्न । यद्यन्त्यक्षणप्राप्ता अनपेक्षाः स्वकार्योपजनने, हन्तानेन क्रमेण ततः पूर्वे ततः पूर्वे सर्व एवानपेक्षास्तत्तत्स्वकार्योपजनन इति कुसूलस्थत्वाविशेषेऽपि येन बीजक्षणेन कुसूलस्थेन स्वकार्यक्षणपरम्परयाङ्कुरोत्पत्तिसमर्थो बीजक्षणो जनयितव्यः सोऽनपेक्ष एव बीजक्षणः स्वकार्योपजनने एवं सर्व एव तदनन्तरानन्तरवर्तिनो बीजक्षणा अनपेक्षा इति कुसूलनिहितबीज एव स्यात्कृती कृषीवलः कृतमस्य दुःखबहुलेन कृषिकर्मणा । येन हि बीजक्षणेन स्वक्षणपरम्परयाङ्कुरो जनयितव्यस्तस्यानपेक्षासौ क्षणपरम्परा कुसूल एवाङ्कुरं करिष्यतीति । तस्मात्परस्परापेक्षा एवान्त्या वा मध्या वा पूर्वे वा क्षणाः कार्योपजनन इति वक्तव्यम् । यथाहुः “न किञ्चिदेकमेकस्मात्सामग्र्याः सर्वसम्भवः” इति । तच्चेदं समवधानं कारणानां विन्यासभेदतत्प्रयोजनाभिज्ञप्रेक्षावत्पूर्वकं दृष्टमिति नाचेतनाद्भवितुमर्हति । तदिदमुक्तम्

भवेदुपपन्नः सङ्घातो यदि सङ्घातस्य किञ्चिन्निमित्तमवगम्येतेति ।

इतरेतरप्रत्ययत्वेऽपीति ।

इतरेतरहेतुत्वेऽपीत्यर्थः ।

उक्तमभिसन्धिमविद्वान् परिचोदयति

नन्वविद्यादिभिरर्थादाक्षीप्यत इति ।

परिहरति

अत्रोच्यते, यदि तावदिति ।

किमाक्षेप उत्पादनम् , आहो ज्ञापनम् । तत्र न तावत्कारणमन्यथानुपपद्यमानं कार्यमुत्पादयति, किन्तु स्वसामर्थ्येन । तस्माज्ज्ञापनं वक्तव्यम् । तथा च ज्ञापितस्यान्यदुत्पादकं वक्तव्यम् । तच्च स्थिरपक्षेऽपि सत्यपि च भोक्तर्यधिष्ठातारं चेतनमन्तरेण न सम्भवति किमङ्ग, पुनः क्षणिकेषु भावेषु । भोक्तुर्भोगेनापि कदाचिदाक्षिप्येत सङ्घातः, स तु भोक्तापि नास्तीति दूरोत्सारितत्वं दर्शयति

भोक्तृरहितेष्विति ।

अपि च बहव उपकार्योपकारकभावेन स्थिताः कार्यं जनयन्ति । नच क्षणिकपक्ष उपकार्योपकारकभावोऽस्ति, भावस्योपकारानास्पदत्वात् । क्षणस्याभेद्यत्वादनुपकृतोपकृतत्वासम्भवात् । कालभेदेन वा तदुपपत्तौ क्षणिकत्वव्याघातात् । तदिदमाह

आश्रयाश्रयिशून्येषु चेति ।

अथायमभिप्राय इति ।

यदा हि प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादो भवेत्तदा चेतनोऽधिष्ठातापेक्षेतापि, न तु प्रत्ययोपनिबन्धनोऽपि तु हेतूपनिबन्धनः । तथाच कृतमधिष्ठात्रा । हेतुः स्वभावत एव कार्यसङ्घातं करिष्यति केवल इति भावः । अस्तु तावद्यथा केवलाद्धेतोः कार्यं नोपजायत इति, अन्योन्याश्रयप्रसङ्गोऽस्मिन् पक्ष इत्याशयवानाह

कथं तमेवेति ।

सम्प्रति प्रत्ययोपनिबन्धनं प्रतीत्यसमुत्पादमास्थाय चोदयति

अथ मन्यसे सङ्घाता एवेति ।

अस्थिरा अपि हि भावाः सदा संहता एवोदयन्ते व्ययन्ते च । न पुनरितस्ततोऽवस्थिताः केनचित्पुञ्जीक्रियन्ते । तथा च कृतमत्र संहन्त्रा चेतनेनेति भावः ।

अनादौ इति

परस्पराश्रयं निवर्तयति ।

तदेतद्विकल्प्य दूषयति

तथापि सङ्घातादिति ।

स खलु सङ्घातसन्ततिवर्ति धर्माधर्माह्वयः संस्कारसन्तानो यथायथं सुखदुःखे जनयन्नागन्तुकं कञ्चनानासाद्य स्वत एव जनयेत् , आसाद्य वा । अनासाद्यजनने सदैव सुखदुःखे जनयेत् , समर्थस्यानपेक्षस्याक्षेपायोगात् । आसाद्य जनने तदासादनकारणं प्रेक्षावानभ्युपेयः । तथाच न प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादः । तस्मादनेनागन्तुकानपेक्षस्य सन्धातसन्तानस्यैव सदृशजनने विसदृशजनने वा स्वभाव आस्थेयः । तथा च भाष्योक्तं दूषणमिति ।

अपि च यद्भोगार्थः सङ्घातः स्यादिति ।

अप्राप्तभोगो हि भोगार्थी भोगमाप्तुकामस्तत्साधने प्रवर्तत इति प्रत्यात्मसिद्धम् । सेयं प्रवृत्तिर्भोगादन्यस्मिन् स्थिरे भोक्तरि भोगतत्साधनसमयव्यापिनि कल्प्यते नास्थिरे । नच भोगादनन्यस्मिन् । नहि भोगो भोगाय कल्पते नाप्यन्यो भोगायान्यस्य । एवं मोक्षेऽपि द्रष्टव्यम् । तत्र बुभुक्षुमुमुक्षू चेत्स्थिरावास्थीयेयातां तदाभ्युपेतहानम् , अस्थैर्ये वा प्रवृत्तिप्रसङ्ग इत्यर्थः ।

न तु सङ्घातः सिध्येद्भोक्त्रभावादिति ।

भोक्त्रभावेन प्रवृत्त्यनुपपत्तेः कर्त्रभावः । ततः कर्माभावात्सङ्घातासिद्धिरित्यर्थः ॥ १९ ॥

उत्तरोत्पादे च पूर्वनिरोधात् ।

पूर्वसूत्रेण सङ्गतिमस्याह

उक्तमेतदिति ।

हेतूपनिबन्धनं प्रतीत्यसमुत्पादमभ्युपेत्य प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादो दूषितः । सम्प्रति हेतूपनिबन्धनमपि तं दूषयतीत्यर्थः ।

दूषणमाह

इदमिदानीमिति ।

निरुध्यमानस्येति ।

न तावद्वैशेषिकवन्निरोधकारणसांनिध्यं निरुध्यमानता स्वीक्रियते वैनाशिकैरकारणं विनाशमभ्युपगच्छद्भिस्तस्यानिष्ठत्वाद् । तस्माद्विनाशग्रस्तत्वमचिरनिरुद्धत्वं निरुध्यमानत्वं वक्तव्यम् । निरुद्धत्वं च चिरनिरुद्धत्वं विवक्षितं, तथा चोभयोरप्यभावग्रस्तत्वाद्धेतुत्वानुपपत्तिः । शङ्कते

अथ भावभूत इति ।

कारणस्य हि कार्योत्पादात्प्राक्कालसत्ताऽर्थवती न कार्यकाला, तदा कार्यस्य सिद्धत्वेन तत्सिद्ध्यर्थायाः सत्ताया अनुपयोगादिति भावः । तदेतल्लोकदृष्ट्या दूषयति

भावभूतस्येति ।

भूत्वा व्यापृत्य भावाः प्रायेण हि कार्यं कुर्वन्तो लोके दृश्यन्ते । तथा च स्थिरत्वम् , इतरथा तु लोकविरोध इति । पुनः शङ्कते

अथ भाव एवेति ।

यथाहुःऽभूतिर्येषां क्रिया सैव कारकं सैव चोच्यतेऽइति । भवत्येवं व्यापारवत्ता तथापि क्षणिकस्य न कारणत्वमित्याह

तथापि नैवोपपद्यते

क्षणिकस्य कारणभावः । मृत्सुवर्णकारणा हि घटादयश्च रूचकादयश्च मृत्सुवर्णात्मानोऽनुभूयन्ते । यदि च न कार्यसमये कारणं सत्कथं तेषां तदात्मनानुभवः । नच कारणसादृश्यं कार्यस्य न तु तादात्म्यमिति वाच्यम् । असति कस्यचिद्रूपस्यानुगमे सादृश्यस्याप्यनुपपत्तेः । अनुगमे वा तदेव कारणं, तथा च तस्य कार्यतादात्म्यमिति सिद्धमक्षणिकत्वमित्यर्थः । सर्वथा वैलक्षण्ये तु हेतुफलभावस्तन्तुघटादावपि प्राप्त इत्यतिप्रसङ्ग इत्याह

विनैव वेति ।

नच तद्भावभावो नियामकः, तस्यैकस्मिन् क्षणेऽशक्यग्रहत्वात् , सामान्यस्य चाकारणत्वात् । कारणत्वे वा क्षणिकत्वहानेरस्मत्पक्षपातप्रसङ्गाच्चेति भावः । अपि चोत्पादनिरोधयोर्विकल्पत्रयेऽपि वस्तुनः शाश्वतत्वप्रसङ्ग इत्याह

अपि चोत्पादनिरोधौ नामेति ।

पर्यायत्वापादनेऽपि नित्यत्वापादनं मन्तव्यम् ।

वस्तूत्पादनिरोधाभ्यामसंसृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः ।

संसर्गेऽप्यसता संसर्गानुपपत्तेः । सत्त्वाभ्युपगमे शाश्वतत्वमित्यपि द्रष्टव्यम् । शेषं निगदव्याख्यातम् ॥ २० ॥

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ।

नीलाभासस्य हि चित्तस्य नीलादालम्बनप्रत्ययान्नीलाकारता । समनन्तरप्रत्ययात्पूर्वविज्ञानाद्बोधरूपता । चक्षुषोऽधिपतिप्रत्ययाद्रूपग्रहणप्रतिनियमः । आलोकात्सहकारिप्रत्ययाद्धेतोः स्पष्टार्थता । एवं सुखादीनामपि चैत्तानां चित्ताभिन्नहेतुजानां चत्वार्येतान्येव कारणानि । सेयं प्रतिज्ञा चतुर्विधान् हेतून् प्रतीत्य चित्तचैत्ता उत्पद्यन्त इत्यभावकारणत्व उपरुध्येत ।

अथोत्तरक्षणोत्पत्तिं यावत्तावदवतिष्ठत इति ।

उत्पत्तिरुत्पद्यमानाद्भावादभिन्ना, तथा च क्षणिकत्वहानिरिति प्रतिज्ञाहानिः ॥ २१ ॥

प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् ।

भावप्रतीपा सङ्ख्या बुद्धिः प्रतिसङ्ख्या, तया निरोधः प्रतिसङ्ख्यानिरोधः । सन्तमिममसन्तं करोमीत्येवमाकारता च बुद्धेर्भावप्रतीपत्वम् । एतेनाप्रतिसङ्ख्यानिरोधोऽपि व्याख्यातः । सन्तानगोचरो वा निरोधः, सन्तानिक्षणगोचरो वा । न तावत्सन्तानस्य निरोधः सम्भवति । हेतुफलभावेन हि व्यवस्थिताः सन्तानिन एवोदयव्ययधर्माणः सन्तानाः । तत्र योऽसावन्त्यः सन्तानी, यन्निरोधात्सन्तानोच्छेदेन भवितव्यम् , स किं फलं किञ्चिदारभते न वा । आरभते चेत् , नान्त्यः । तथा च न सन्तानोच्छेदः । अनारम्भे तु भवेदन्त्यः सः, किन्तु स्यादसन् , अर्थक्रियाकारितायाः सत्तालक्षणस्य विरहात् । तदसत्वे तज्जनकमप्यसज्जनकत्वेनासदित्यनेन क्रमेणासन्तः सर्व एव सन्तानिन इति तत्सन्तानो नितरामसन्निति कस्य प्रतिसङ्ख्यया निरोधः । नच सभागानां सन्तानिनां हेतुफलभावः सन्तानः, तस्य विसभागोत्पादो निरोधः, विसभागोत्पादक एव च क्षणः सन्तानस्यान्त्यः । तथासति रूपविज्ञानप्रवाहे रसादिविज्ञानोत्पत्तौ सन्तानोच्छेदप्रसङ्गः । कथञ्चित्सारूप्ये वा विसभागेऽप्यन्ततः सत्तया तदस्तीति न सन्तानोच्छेदः । तदनेनाभिसन्धिनाह

सर्वेष्वपि सन्तानेषु सन्तानिनामविच्छिन्नेनहेतुफलभावेन सन्तानविच्छेदस्यासम्भवादिति ।

नापि भावगोचरौ सम्भवतः प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधौ । अत्र तावदुत्पन्नमात्राप्रवृत्तस्य भावस्य न प्रतिसङ्ख्यानिरोधः सम्भवति, तस्य पुरुषप्रयत्नापेक्षाभावादित्यस्त्येव दूषणं, तथापि दोषान्तरमुभयस्मिन्नपि निरोधो ब्रूते

न हि भावानामिति ।

यतो निरन्वयो विनाशो न सम्भवत्यतो निरूपाख्योऽपि न सम्भवति, तेनैवान्वयिना रूपेण भावस्य नष्टस्याप्युपाख्येयत्वात् । निरन्वयविनाशाभावे हेतुमाह

सर्वास्वप्यवस्थास्विति ।

यद्यदन्वयिरूपं तत्तत्परमार्थसद्भावः । अवस्थास्तु विशेषाख्या उपजनापायधर्माणः, तासां सर्वासामनिर्वचनीयतया स्वतो न परमार्थसत्त्वम् । अन्वय्येव तु रूपं तासां तत्त्वम् । तस्य च सर्वत्र प्रत्यभिज्ञायमानत्वान्न विनाश इत्यवस्थावतोऽविनाशान्नावस्थानां निरन्वयो विनाश इति । तासां तत्त्वस्यान्वयिनः सर्वत्राविच्छेदात् । स्यादेतत् । मृत्पिण्डमृद्घटमृत्कपालादिषु सर्वत्र मृत्तत्त्वप्रत्यभिज्ञानाद्भवत्वेवम् । तप्तोपलतलपतितनष्टस्य तूदबिन्दोः किमस्ति रूपमन्वयि प्रत्यभिज्ञायमानं, येनास्य न निरन्वयो नाशः स्यादित्यत आह

अस्पष्टप्रत्यभिज्ञानास्वपीति ।

अत्रापि तत्तोयं तेजसा मार्तण्डमण्डलमम्बुदत्वाय नीयत इत्यनुमेयं, मृदादीनामन्वयिनामविच्छेददर्शनात् । शक्यं तत्र वक्तुम् “उदबिन्दौ च सिन्धौ च तोयभावो न भिद्यते । विनष्टेऽपि ततो बिन्दावस्ति तस्यान्वयोऽम्बुधौ ॥' तस्मान्न कश्चिदपि निरन्वयो नाश इति सिद्धम् ॥ २२ ॥

उभयथा च दोषात् ।

परिकरः सामग्री सम्यग्ज्ञानस्य यमनियमादिः श्रवणमननादिश्च । मार्गाः क्षणिकनैरात्म्यादिभावनाः । अतिरोहितमन्यत् ॥ २३ ॥

आकाशे चाविशेषात् ।

एतद्व्याचष्टे

यच्च तेषामिति ।

वेदप्रामाण्ये विप्रतिपन्नानपि प्रतिशब्दगुणानुमेयत्वमाकाशस्य वक्तव्यम् । तथाहि जातिमत्त्वेन सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्यास्पर्शत्वे सति बाह्यैकेन्द्रियग्राह्यत्वेन गन्धादिवद्गुणत्वमनुमितम् । नायमात्मगुणो बाह्येन्द्रियगोचरत्वात् । अत एव न मनोगुणः, तद्गुणानामप्रत्यक्षत्वात् । न पृथिव्यादिगुणः, तद्गुणगन्धादिसाहचर्यानुपलब्धेः । तस्माद्गुणो भूत्वा गन्धादिवदसाधारणेन्द्रियग्राह्यो यद्द्रव्यमनुमापयति तदाकाशं पञ्चमं भूतं वस्त्विति ।

अपि चावरणाभावमाकाशमिच्छत इति ।

निषेध्यनिषेधाधिकरणनिरूपणाधीननिरूपणो निषेधो नासत्यधिकरणनिरूपणे शक्यो निरूपयितुम् । तच्चावरणाभावाधिकरणमाकाशं वस्त्विति । अतिरोहितार्थमन्यत् ॥ २४ ॥

अनुस्मृतेश्च ।

विभजते

अपि च वैनाशिकः सर्वस्य वस्तुन इति ।

यस्तु सत्यप्येतस्मिन्नुपलब्धृस्मर्त्रोरन्यत्वेऽपि समानायां सन्ततौ कार्यकारणभावात्स्मृतिरुपपत्स्यत इति मन्यमानो न परितुष्यति तं प्रति प्रत्यभिज्ञासमाज्ञातप्रत्यक्षविरोधमाह

अपि च दर्शनस्मरणयोः कर्तरीति ।

ततोऽहमद्राक्षीदिति प्रतीयात् , अहं स्मराम्यन्यस्त्वद्राक्षीदित्यर्थः । प्रत्यभिज्ञाप्रत्यक्षविरोधप्रपञ्चस्तूत्तरः ।

आ जन्मनः आ चोत्तमादुच्छ्वासात् ।

आमरणादित्यर्थः । नच सादृश्यनिबन्धनं प्रत्यभिज्ञानं, पूर्वापरक्षणदर्शिन एकस्याभावे तदनुपपत्तेः । शङ्कते

तेनेदं सदृशमिति ।

अयमर्थः विकल्पप्रत्ययोऽयं, विकल्पश्च स्वाकारं बाह्यतयाध्यवस्यति, न तु तत्त्वतः पूर्वापरौ क्षणौ तयोः सादृश्यं वा गृह्णाति । तत्कथमेकस्यानेकदर्शिनः स्थिरस्य प्रसङ्ग इति । निराकरोति

न । तेनेदमिति भिन्नपदार्थोपादानादिति ।

नानापदार्थसम्भिन्नवाक्यार्थाभासस्तावदयं विकल्पः प्रथते तत्रैते नानापदार्था न प्रथन्त इति ब्रुवाणः स्वसंवेदनं बाधेत । न चैकस्य ज्ञानस्य नानाकारत्वं सम्भवति, एकत्वविरोधात् । नच तावन्त्येव ज्ञानानीति युक्तं, तथासति प्रत्याकारं ज्ञानानां समाप्तेस्तेषां च परस्परवार्ताज्ञानाभावान्नानेत्येव न स्यात् । तस्मात्पूर्वापरक्षणतत्सादृश्यगोचरत्वं ज्ञानस्य वक्तव्यम् । न चैतत्पूर्वापरक्षणावस्थायिनमेकं ज्ञातारं विनेति क्षणभङ्गभङ्गप्रसङ्गः । यद्युच्येत अस्त्येतस्मिन् विकल्पे तेनेदं सदृशमिति पदद्वयप्रयोगो न त्विह तत्तेदन्तास्पदौ पदार्थौ तयोश्च सादृश्यमिति विवक्षितम् , अपि त्वेवमाकारता ज्ञानस्य कल्पितेति, तत्राह

यदा हि लोकप्रसिद्धः पदार्थ इति ।

एकाधिकरणविप्रतिषिद्धधर्मद्वयाभ्युपगमो विवादः । तत्रैकः स्वपक्षं साधयत्यन्यश्च तत्साधनं दूषयति । न चैतत्सर्वमसति विकल्पानां बाह्यालम्बनत्वेऽसति च लोकप्रसिद्धपदार्थकत्वे भवितुमर्हति । ज्ञानाकारत्वे हि विकल्पप्रतिभासिनां नित्यत्वानित्यत्वादीनामेकार्थविषयत्वाभावात्ज्ञानानां च धर्मिणां भेदान्न विरोधः । नह्यात्मनित्यत्वं बुद्ध्यनित्यत्वं च ब्रुवाणौ विप्रतिपद्येते । न चालौकिकार्थेनानित्यशब्देनात्मनि विभुत्वं विवक्षित्वानित्यशब्दं प्रयुञ्जानो लौकिकार्थं नित्यशब्दमात्मनि प्रयुञ्जानेन विप्रतिपद्यते । तस्मादनेन स्वपक्षं प्रतितिष्ठापयिषता परपक्षसाधनं च निराचिकीर्षता विकल्पानां लोकसिद्धपदार्थकता बाह्यालम्बनता च वक्तव्या । यद्युच्येत द्विविधो हि विकल्पानां विषयो ग्राह्यश्चाध्यवसेयश्च । तत्र स्वाकारो ग्राह्योऽध्यवसेयस्तु बाह्यः । तथाच पक्षप्रतिपक्षपरिग्रहलक्षणा विप्रतिपत्तिः प्रसिद्धपदार्थकत्वं चोपपद्यत इत्यत आह

एवमेवैषोऽर्थ इति निश्चितं यत्तदेव वक्तव्यं, ततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् ।

अयमभिसन्धिः केयमध्यवसेयता बाह्यस्य । यदि ग्राह्यता न द्वैविध्यम् । अथान्या सोच्यतां, ननूक्ता तैरेव स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तिरिति । अथ विकल्पाकारस्य कोऽयमध्यवसायः । किं करणमाहो योजनमुतारोप इति । न तावत्करणम् । नह्यन्यदन्यत्कर्तुं शक्यम् । नहि जातु सहस्रमपि शिल्पिनो घटं पटयितुमीशते । न चान्तरं बाह्येन योजयितुम् । अपि च तथासति युक्त इति प्रत्ययः स्यात् । न चास्ति । आरोपोऽपि किं गृह्यमाणे बाह्ये उतागृह्यमाणे । यदि गृह्यमाणे तदा किं विकल्पेनाहो तत्समयजेनाविकल्पकेन । न तावद्विकल्पोऽभिलापसंसर्गयोग्यगोचरोऽशक्याभिलापसमयं स्वलक्षणं देशकालाननुगतं गोचरयितुमर्हति । यथाहुः “अशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् । तेषामतः स्वसंवित्तिर्नाभिजल्पानुषङ्गिणी ॥' इति । न च तत्समयभाविना निर्विकल्पकेन गृह्यमाणे बाह्ये विकल्पेनागृहीते तत्र विकल्पः स्वाकारमारोपयितुमर्हति । न हि रजतज्ञानाप्रतिभासिनि पुरोवर्तिनि वस्तुनि रजतज्ञानेन शक्यं रजतमारोपयितुम् । अगृह्यमाणे तु बाह्ये स्वाकार इत्येव स्यान्न बाह्य इति । तथा च नारोपणम् । अपि चायं विकल्पः स्वसंवेदनं सन्तं विकल्पं किं वस्तुसन्तं स्वाकारं गृहीत्वा पश्चाद्बाह्यमारोपयति, अथ यदा स्वाकारं गृह्णाति तदैवारोपयति । न तावत्क्षणिकतया क्रमविरहिणो ज्ञानस्य क्रमवर्तिनी ग्रहणारोपणे कल्पेते । तस्माद्यदैव स्वाकारमनर्थं गृह्णाति तदैवार्थमारोपयतीति वक्तव्यम् । न चैतद्युज्यते । स्वाकारो हि स्वसंवेदनप्रत्यक्षतयातिविशदः । बाह्यं चारोप्यमाणमविशदं सत्ततोऽन्यदेव स्यान्न तु स्वाकारः समारोपितः । न च भेदाग्रहमात्रेण समारोपाभिधानं, वैशद्यावैशद्यरूपतया भेदग्रहस्योक्तत्वात् । अपि चागृह्यमाणे चेद्बाह्येऽबाह्यात्स्वलक्षणाद्भेदाग्रहणेन तदभिमुखी प्रवृत्तिः, हन्त तर्हि त्रैलोक्यत एवानेन न भेदो गृहीत इति यत्र क्वचन प्रवर्तेताविशेषात् । एतेन ज्ञानाकारस्यैवालोकस्यापि बाह्यत्वसमारोपः प्रत्युक्तः । तस्मात्सुष्ठूक्तंऽततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः ख्यापयेत्ऽइति । अपि च सादृश्यनिबन्धनः संव्यवहारस्तेनेदं सदृशमित्येवमाकारबुद्धिनिबन्धनो भवेन्न तु तदेवेदमित्याकारबुद्धिनिबन्धन इत्याह

नचायं सादृश्यात्संव्यवहार इति ।

ननु ज्वालादिषु सादृश्यादसत्यामपि सादृश्यबुद्धौ तद्भावावगमनिबन्धनः संव्यहारो दृश्यते यथा तथेहापि भविष्यतीति पूर्वापरितोषेणाह

भवेदपि कदचिद्बाह्यवस्तुनीति ।

तथाहिविविधजनसङ्कीर्णगोपुरेण पुरं निविशमानं नरान्तरेभ्य आत्मनिर्धारणायासाधारणं चिह्नं विदधतमुपहसन्ति पाशुपतं पृथग्जना इति ॥ २५ ॥

नासतोऽदृष्टत्वात् ।

इतश्चानुपपन्नो वैनाशिकसमय इति ।

अस्थिरात्कार्योत्पत्तिमिच्छन्तो वैनाशिका अर्थादभावादेव भावोत्पत्तिमाहुः । उक्तमेतदधस्तात् । निरपेक्षात्कार्योत्पत्तौ पुरुषकर्मवैयर्थ्यम् । सापेक्षतायां च क्षणस्याभेद्यत्वेनोपकृतत्वानुपपत्तेः, अनुपकारिणि चापेक्षाभावादक्षणिकत्वप्रसङ्गः । सापेक्षत्वानपेक्षत्वयोश्चान्यतरनिषेधस्यान्यतरविधाननान्तरीयकत्वेन प्रकारान्तराभावान्नास्थिराद्भावाद्भावोत्पत्तिरिति क्षणिकपक्षेऽर्थादभावाद्भावोत्पत्तिरिति परिशिष्यत इत्यर्थः । न केवलमर्थादापद्यते, दर्शयन्ति च

नानुपमृद्य प्रादुर्भावादिति ।

एतद्विभजते

विनष्टाद्धिकिलेति ।

किलकारोऽनिच्छायाम् ।

कूटस्थाच्चेत्कारणात्कार्यमुत्पद्येतापि सर्वं सर्वत उत्पद्येत ।

अयमभिसन्धिः कूटस्थो हि कार्यजननस्वभावो वा स्यादतत्स्वभावो वा । स चेत्कार्यजननस्वभावस्ततो यावदनेन कार्यं कर्तव्यं तावत्सहसैव कुर्यात् । समर्थस्य क्षेपायोगात् । अतत्स्वभावे तु न कदाचिदपि कुर्यात् । यद्युच्येत समर्थोऽपि क्रमवत्सहकारिसचिवः क्रमेण कार्याणि करोतीति । तदयुक्तम् । विकल्पासहत्वात् । किमस्य सहकारिणः कञ्चिदुपकारमादधति न वा । अनाधानेऽनुपकारितया सहकारिणो नापेक्षेरन् । आधानेऽपि भिन्नमभिन्नं वोपकारमादध्युः । अभेदे तदेवाभिहितमिति कौटस्थ्यं व्याहन्येत । भेदे तूपकारस्य तस्मिन् सति कार्यस्य भावादसति चाभावात्सत्यपि कूटस्थे कार्यानुत्पादादन्वयव्यतिरेकाभ्यामुपकार एव कार्यकारी न भाव इति नार्थक्रियाकारी भावः । तदुक्तम् “वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत्सोऽनित्यः स्वतुल्यश्चेदसत्फलः ॥' इति । तथा चाकिञ्चित्करादपि चेत्कूटस्थात्कार्यं जायेत, सर्वं सर्वस्माज्जायेतेति सूक्तम् । उपसंहरति

तस्मादभावग्रस्तेभ्य इति ।

तत्रेदमुच्यते । नासतोऽदृष्टत्वादिति ।

नाभावात्कार्योत्पत्तिः । कस्मात् । अदृष्टत्वात् । नहि शशविषाणादङ्कुरादीनां कार्याणामुत्पत्तिर्दृश्यते । यदि त्वभावाद्भावोत्पत्तिः स्यात्ततोऽभावत्वाविशेषात्शशविषाणादिभ्योऽप्यङ्कुरोत्पत्तिः । नह्यभावो विशिष्यते । विशेषणयोगे वा सोऽपि भावः स्यान्न निरूपाख्य इत्यर्थः । विशेषणयोगमभावस्याभ्युपेत्याह

नाप्यभावः कस्यचिदुत्पत्तिहेतुरिति ।

अपि च यद्येनानन्वितं न तत्तस्य विकारः, यथा घटशरावोदञ्चानादयो हेम्नानन्विता न हेमविकाराः । अनन्विताश्चैते विकारा अभावेन । तस्मान्नाभावविकाराः । भावविकारस्तु ते, भावस्य तेनान्वितत्वादित्याह

अभावाच्च भावोत्पत्ताविति ।

अभावकारणवादिनो वचनमनुभाष्य दूषयति

यत्तूक्तमिति ।

स्थिरोऽपि भावः क्रमवत्सहकारिसमवधानात्क्रमेण कार्याणि करोति । न चानुपकारकाः सहकारिणः । स चास्य सहकारिभिराधीयमाना उपकारो न भिन्नो नाप्यभिन्नः । किन्त्वनिर्वाच्य एव । अनिर्वाच्याच्च कार्यमप्यनिर्वाच्यमेव जायते । न चैतावता स्थिरस्याकारणत्वं, तदुपादानत्वात्कार्यस्य, रज्जूपादानत्वमिव भुजङ्गस्येत्युक्तम् । तथा च श्रुतिः “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४ ) इति । अपिच येऽपि सर्वतो विलक्षणानि स्वलक्षणानि वस्तुसन्त्यास्थिषत, तेषामपि किमिति बीजजातीयेभ्योऽङ्कुरजातीयान्येव जायन्ते कार्याणि, नतु क्रमेलकजातीयानि । नहि बीजाद्बीजान्तरस्य वा क्रमेलकस्य वात्यन्तवैलक्षण्ये कश्चिद्विशेषः । नच बीजाङ्कुरत्वे सामान्ये परमार्थसती, येनैतयोर्भाविकः कार्यकारणभावो भवेत् । तस्मात्काल्पनिकादेव स्वलक्षणोपादानाद्बीजजातीयात्तथाविधस्यैवाङ्कुरजातीयस्योत्पत्तिनियम आस्थेयः । अन्यथा कार्यहेतुकानुमानोच्छेदप्रसङ्गः । दिङ्मात्रस्य सूचितम् । प्रपञ्चस्तु ब्रह्मतत्त्वसमीक्षान्यायकणिकयोः कृत इति नेह प्रतन्यते विस्तरभयात् ॥ २६ ॥

उदासीनानामपि चैवं सिद्धिः ।

भाष्यमस्य सुगमम् ॥ २७ ॥

समुदायेति ; स्थिरेति ; केचिदिति ; सर्वज्ञानामिति ; तत्त्वस्येति ; गम्भीरेति ; तस्मादिति ; कार्योत्पादानुगुणं चेति ; चिरातीतत्वेनेति ; न च समसमययोरिति ; तथा चेति ॥१८॥ ; इदमिति ; उत्पादाद्वेति ; धर्मस्थितितेति ; धर्मनियामकतेति ; प्रतीत्येति ; अथ पुनरयमिति ; असति बीजे इत्यादिना ; यावदसतीति ; तत्र बीजस्येत्यादिना ; यावत्पुष्पस्येति ; असत्यपि चान्यस्मिन्निति ; अयमानानामिति ; यदिदमिति ; यस्त्विति ; वस्तुविषयेति ; विज्ञानादिति ; तदैकध्यमिति ; शरीरस्यैवेति ; नामरूपसंमिश्रितानीति ; अयमभिसंधिरिति ; बीजादिति ; स्यादेतदित्यादिना ; अन्त्यक्षणप्राप्ता इति ; तेषां त्विति ; कारणचक्रेति ; न चैकोऽपीति ; न च स्वमहिम्नेति ; न च कारणभेदादिति ; तन्नेति ; कुसूलस्थत्वाविशेषेऽपीति ; स्वकार्योपजनने इति ; येन हीति ; तत्रेति ; अपि चेति ; भावस्येति ; कालभेदेन वेति ; अस्तु तावदिति ; स खल्विति ; अप्राप्तभोगो हीति ; भोगमाप्तुकाम इति ; भोक्त्रभावेनेति ॥१९॥ ; न तावदिति ; तस्मादिति ; कारणस्य हीति ; सर्वथेति ; न चेति ; सामान्यस्य चेति ; नीलाभासस्येत्यादिना ; एवमिति ; उत्पत्तिरिति ; भावेति ; न च सभागानामिति ; तथा सतीति ; कथंचिदिति ; नापि भावगोचराविति ; यत इति ; यद्यदन्वयिरूपमिति ; शक्यं त्विति ; तथा हीति ; जातिमत्त्वेनेति ; अस्पर्शेति ; अहं स्मरामीति ; न तु तत्त्वत इति ; स्वसंवेदनमिति ; न चैकस्येति ; न च तावन्तीति ; तस्मादिति ; यद्युच्येतेति ; एकाधिकरणेति ; ज्ञानाकारत्वे हीति ; न चालौकिकार्थेनेति ; यद्युच्येतेति ; द्विविधो हीति ; अयमभिसंधिरिति ; अनर्थ इति ; न तावद्विकल्प इति ; न चेति ; अगृह्यमाणे त्विति ; अपि चेति ; स्वाकारो हीति ; न चेति ; अपि चेति ; एतेनेति ; अस्थिरादिति ; उक्तमेतदित्यादिना ; सापेक्षतायां चेति ; क्षणस्येति ; अनुपकारिणि चेति ; सापेक्षत्वानपेक्षत्वयोश्चेति ; अयमभिसंधिरिति ; असत्फल इति ; न चैतावतेति ; अपि च येऽपीति ; न च बीजाङ्कुरत्वे इति ; तस्मादिति ; अन्यथेति ;

समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥१८॥ अभिमतफलदानैस्त्वत्कृतैर्विश्वलोके वितृषि गजमुख त्वद्गण्डभेदेन दानम् । गलदलिकुलजुष्टं त्वद्वपुष्येव जीर्यद् ध्वनयति जनतायां नार्तिरस्तीति नूनम् ॥

समुदायेति ।

गुणानां च केषांचित् परमाणुपरिमाणादीनाम् । अभेदे हि कार्यकारणयोः कार्यनाशोऽपि कारणरूपेण तिष्ठतीति न निरन्वयनाशः , भेदे तु निरन्वय इति।

ननु निमित्ताभावाविशेषात् सङ्घातारम्भवादयोरनुपपत्त्यविशेषे कथं तरप् प्रयोगः ? तत्राह –

स्थिरेति ।

स्थिरपक्षे हि कारणस्य भूत्वा व्यापृत्य जनकत्वं युक्तं नेतरत्रेत्यर्थः । वादिवैचित्र्यात्खलु । बहुप्रकार इति गृहीतभाष्यप्रतीकानुषङ्गः ।

बहुप्रकारत्वमेव दर्शयति –

केचिदिति ।

अत्रभवतां सौत्रान्तिकादीनां विप्रतिपत्तिर्हि पुरुषापराधाद्भवति यथा स्थाणौ वस्तुवशाद्वा यथा क्रियायामत्र तु न प्रथम इत्युक्तं –

सर्वज्ञानामिति ।

न द्वितीय इत्यभिहितं –

तत्त्वस्येति ।

बोधी बुद्धस्तस्य चित्तमभिप्रायस्तद्विवरणग्रन्थे । लोकनाथानां बुद्धानाम् । देशना आगमाः प्राण्यभिप्रायवशानुसारिण्यः शून्यताप्रतिपत्त्युपायैः क्षणिकसर्वास्तित्वादिभिर्लोके श्रोतृसमुदाये पुनः पुनर्बहुधा भिद्यन्ते ।

भेदमेवाह –

गम्भीरेति ।

अगाधो गम्भीरः तद्विपरित उत्तानः स्थूलदृष्टियोग्यस्तद्रूपेण क्वचिद्ग्रन्थप्रवेश उभयलक्षणा ज्ञानमात्रास्तित्वबाह्यार्थास्तित्वलक्षणा तत्प्रतिपादिनी भिन्नाऽपि देशना शून्यतैवाद्वयाऽतल्लक्षणाऽतत्तात्पर्यवत्यभिन्नेत्यर्थः । प्रत्ययवैचित्र्यादर्थोऽनुमेय इति सौत्रान्तिकाः । प्रत्यक्ष इति वैभाषिकाः । अतो मतभेदः । रूप्यते एभिर्विषया इति शेषः । कायस्थत्वात्कायाकारेण संहतत्वादसंहतानामिन्द्रियसंबन्धित्वाद्वेत्यर्थः । अहमित्याकारमालयविज्ञानमिन्द्रियादिजन्यं रूपादिविषयं च ज्ञानमेतद् द्वयं दण्डायमानं प्रवाहापन्नं विज्ञानस्कन्ध इत्यर्थः । वेदनास्कन्ध इति भाष्योपादानं , या प्रियेत्यादि तद्व्याख्यानम् । सविकल्पप्रत्यय इत्यनेन विज्ञानस्कन्धो निर्विकल्प इति भेदः स्कन्धयोर्ध्वनितः । वयन्ते तन्तून् संतन्वन्ति ।

अनुपलब्धिलिङ्गकमनुमानमाह –

तस्मादिति ।

यः कार्योत्पादः स तदनुगुणकारणमेलनाधीन इत्येकां व्याप्तिमुक्त्वा द्वितीयामाह –

कार्योत्पादानुगुणं चेति ।

या कार्योत्पत्तिः सा चेतनाधिष्ठितकारणेभ्यो भवतीति व्याप्ता , सा स्वव्यापकचेतनाधिष्ठितत्वविरुद्धा अनधिष्ठितेभ्यः पराभिमतकारणेभ्यो व्यावर्तमाना चेतनाधिष्ठितकारणवत्त्वे सिद्धान्त्यभिमतेऽवतिष्ठते । अतो या कार्योत्पत्तिः सा चेतनाधिष्ठितकारणेभ्य इति व्याप्तिसिद्धिरित्यर्थः । अत्र प्रयोगः - विमतं , चेतनाधिष्ठितमचेतनत्वात्तन्तुवदिति।

चिरातीतत्वेनेति ।

स्थायिवासनायास्त्वयाऽनिष्टत्वादित्यर्थः । व्यापारवदाश्रयो व्यापार इत्युक्ते तदाश्रितजातेस्तद्व्यापारत्वं स्यादिति तत्कारणक इत्युक्तम् । एतावत्युक्ते कुम्भोऽपि कुम्भकारव्यापारः स्यात्तन्निवृत्तये व्यापारवदाश्रय इति। एवमुक्तेऽपि मृदाश्रितो मृज्जश्च घटो मृद्व्यापारः स्यात्तन्निवृत्तये तत्कार्यं प्रति हेतुरित्यपि द्रष्टव्यम् ।

अस्त्वेवं व्यापारलक्षणं , प्रस्तुते किं जातमत आह –

न च समसमययोरिति ।

व्यापारव्यापारिणोरेककालत्वं भिन्नकालत्वं वा । नाद्यः ; कारणत्वस्य नियतप्राक्सत्त्वरूपत्वात् । न द्वितीयः ; आधाराधेयभावसंबन्धस्यान्यतरस्मिन्नसत्यप्ययोगादित्यर्थः ।

अथ पदार्थः पूर्वं भूत्वा स्वजन्यव्यापारसमयेऽपि तदाश्रयत्वेनानुवर्तेत , तत्राह –

तथा चेति ॥१८॥

प्रत्ययोपनिबन्धस्य संग्राहकं बुद्धसूत्रमुदाहरति –

इदमिति ।

हेतुमन्यं प्रति अयते गच्छतीति इतरसहकारिभिर्मिलितो हेतुः प्रत्ययः । इदं कार्यं प्रत्ययस्य कारणसमुदायमात्रस्य फलं , न चेतनस्य कस्यचिदित्यर्थः ।

हेतूपनिबन्धस्य संग्राहकं बुद्धसूत्रमुदाहरति –

उत्पादाद्वेति ।

तथागतानां बुद्धानां मते धर्माणां कार्याणां कारणानां च या धर्मता  कार्यकारणभावरूपा एषा उत्पादादनुत्पादाद्वा स्थिता । धत्ते इति धर्मः कारणम् । ध्रियते इति धर्मः कार्यम् । यस्मिन् सति यदुत्पद्यते असति च नोत्पद्यते तत्तस्य कारणं कार्यं च , न चेतनः क्वचित्कार्यसिद्धयेऽपेक्षितव्य इत्यर्थः ।

स्थितधर्मता इत्येतत्स्वयमेव सूत्रकृद्विभजते –

धर्मस्थितितेति ।

कार्यतामाह – कार्यस्य हि धर्मस्य कारणादनतिप्रसङ्गेन कालविशेषे स्थितिर्भवतीति स्वार्थिकस्तल्प्रत्ययः ।

धर्मनियामकतेति ।

कारणतामाह – धर्मस्य कारणस्य कार्यं प्रति नियामकतेत्यर्थः ।

नन्वेवंविधमेव कार्यकारणत्वं न चेतनादृते सिध्यति , तत्राह –

प्रतीत्येति ।

कारणे सति तत्प्रतीत्य प्राप्य समुत्पादानुलोमतानुसारिता या सैव धर्मता , सा चोत्पादानुत्पादात्मा धर्माणां स्थिता , न चेतनः कश्चिदुपलभ्यत इत्यर्थः ।

सूत्रद्वयं व्याचष्टे –

अथ पुनरयमिति ।

हेतोरेकस्य कार्येणोपनिबन्धस्तथोक्तः । प्रत्ययानां मिलितानां नानाकारणानां कार्येणोपनिबन्धस्तथाऽभिहितः ।

हेतूपनिबन्धे उदाहरणमुक्त्वा तत्रैवोत्पादाद्वेति सूत्रं योजयति –

असति बीजे इत्यादिना ।

यावत्पुष्पफलोदाहरणं तावदसति पुष्पे फलं न भवति इत्यादिव्यतिरेको द्रष्टव्य इत्याह –

यावदसतीति ।

चैतन्यं बीजादीनां वाऽभ्युपगम्यते , किं वा तदतिरिक्तस्य कस्यचिद्भोक्तुः प्रशासितुर्वा ।

नाद्य इत्याह –

तत्र बीजस्येत्यादिना ।

यावत्पुष्पस्येति ।

पुष्पपर्यन्तस्येत्यर्थः । फलेऽपि यावच्छब्दो योज्यः ।

न द्वितीय इत्याह –

असत्यपि चान्यस्मिन्निति ।

अङ्कुराद्युत्पत्तौ चेतनव्यापारानुपलम्भादित्यर्थः । न च सोऽनुमेयस्तदन्यहेतौ सति कार्यानुत्पादादर्शनादिति। प्रत्ययोपनिबन्ध इत्यत्र प्रत्ययशब्द इणो धातोर्भावार्थीयाच्प्रत्ययान्तस्य रूपम् ।

तथा च समुदितत्ववाचीत्याह –

अयमानानामिति ।

तत्रास्य हेतूपनिबन्धः । उच्यत इति वाक्यशेषः ।

उदाहरणमाह –

यदिदमिति ।

अविद्यारूपाः प्रत्यया भ्रान्तय इत्यर्थः । तथा संस्काराश्चोत्तरत्र व्याख्यास्यमाना एतदारभ्य यावज्जातिप्रत्ययं जातिरूपं कारणं यावच्च जरामरणादितत्सर्वमाध्यत्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धे उदाहरणमित्यर्थः ।

विज्ञानधातुं व्याचष्टे –

यस्त्विति ।

देवदत्तादिनाम्नः शौक्ल्यादिरूपस्य चाश्रयः शरीरं नामरूपं तस्य च सूक्ष्मावस्था कललबुद्बुदादिकाक्रान्तनामरूपम् स एवाङ्कुरस्तं शब्दादिविषयैः पञ्चभिर्विज्ञानैः कार्यैः संयुक्तं योऽभिनिर्वर्तयति। आस्रवत्यनुगच्छति कर्तारमित्यास्रवः कर्म , तत्सहितं समनन्तरप्रत्ययरूपमनोविज्ञानं योऽभिनिर्वर्तयति स विज्ञानधातुरित्युच्यते , तच्चालयविज्ञानमित्यर्थः । देहाकारपरिणतेषु धातुषु शिरःपाण्यादिमत्त्वेन पिण्डसंज्ञा अत एवैकसंज्ञा एकैकस्मिन्धातौ नित्यसंज्ञा सत्त्वसंज्ञा प्राणिसंज्ञा वृद्धिह्राससंज्ञेत्यर्थः ।

वस्तुविषयेति ।

नालयत्वादिविशेषोऽपेक्ष्योऽपि तु सामान्येन वस्तुविषयेत्यर्थः ।

नामरूपं व्याचष्टे –

विज्ञानादिति ।

विज्ञानाद्धेतोरभिनिर्वर्तत इति संबन्धः । चत्वारः पृथिव्यादयो उपादानकारणस्कन्धाः प्रभेदास्तन्नामेत्युच्यते । विधेयापेक्षयैकवचनं नामाश्रयत्वाच्च नामत्वम् । तानि चोपादानानि उपादाय कारणत्वेन विकृत्य रूपं सितादि रूपवच्छरीरमभिनिर्वर्तते निष्पद्यते इत्यर्थः ।

ननु नामरूपयोर्द्वित्वात्कथमेकवचनमत आह –

तदैकध्यमिति ।

एकधेत्यर्थः । ‘‘एकाद्धो ध्यमुञन्यतरस्या’’ मित्येकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशे रूपम् एकध्यमिति। कार्यकारणे एकीकृत्यैक्यनिर्देश इत्यर्थः ।

जातेरुपरि वक्ष्यमाणत्वादिह गर्भाभ्यन्तरे देहाभिधानमित्याह –

शरीरस्यैवेति ।

षडायतनं व्याचष्टे –

नामरूपसंमिश्रितानीति ।

षट् पृथिव्यादिधातव आयतनानि यस्य कारणवृन्दस्य तत्तथा । उपक्लेषाः मदमानादयस्ते उपाया दुःखादीनां ते च भाष्यगतैवंजातीयकशब्दनिर्देश्या इत्यर्थः । उत्पादानुत्पादाभ्यां हेतुहेतुमद्भावे समर्थिते तावन्मात्रानुवादोऽयं दृश्यते ? उत्पत्तिमात्रनिमित्तत्वादिति।

ततश्चासंगतिमाशङ्क्याह –

अयमभिसंधिरिति ।

अङ्गीकृत्य हेतूपनिबन्धनस्य चेतनानपेक्षा प्रत्ययोपनिबन्धनस्य सा वार्यत इत्यर्थः । चेतनमन्यमनपेक्ष्य स्कन्धानामणूनां चेतरेतरप्रत्ययत्वादितरेतरमिलितत्वात्कार्यसिद्धिरिति चेद् , न ; अचेतनानां कार्योत्पत्तिमात्रे निमित्तत्वात्संघाते त्वस्ति चेतनापेक्षेति सूत्रार्थः । हेतूपनिबन्धस्तु स्वरूपत एव परेषां न संभवतीत्युत्तरसूत्र एवोत्तरोत्पादे च पूर्वनिरोधा (ब्र.अ.२.पा.२.सू.२०) दित्यत्र वक्ष्यत इति।

ननु मिलितेभ्यः पृथिवीधात्वादिभ्यश्चेतनमन्तरेणैवाङ्कुरोत्पत्तिरुक्ता , तद्वद्देहोत्पादोऽपि किं न स्यादत आह –

बीजादिति ।

तत्रापीश्वरोऽस्ति संहन्तेत्यर्थः । न च सर्वत्र हेतुत्वे केवलव्यतिरेकापेक्षा । तथा सत्याद्यज्ञानस्य ज्ञानान्तरजन्यत्वं संलग्नज्ञानदृष्टं तेन भवद्भिर्नानुमीयेत ।

शुक्रादिपरिणाममात्रजन्यत्वसंभवादिति संहत्तानां हेतुत्वे संहन्त्रा भाव्यमित्युक्तं , तत्र संघातस्याप्रयोजकत्वं , ततश्च न संहन्तुरनुमानमिति शङ्कते –

स्यादेतदित्यादिना ।

यद्यनपेक्षास्तर्हि कुसूलाभिहतबीजादिभ्यः किमित्यङ्कुरो न जायते , तत्राह –

अन्त्यक्षणप्राप्ता इति ।

अङ्कुरोत्पत्तेराद्यक्षणो बीजादीनामन्त्यक्षणस्तं प्राप्ता एव कारणं न पूर्वम् ; तथैव दर्शनादित्यर्थः ।

ऐकैकश्येन कार्यजननसमर्थानां कि सघातेन ? तत्राह –

तेषां त्विति ।

उपसर्पणम् इतरेतरसमीपगमनं तस्य प्रत्ययः कारणं तद्वशात्परस्परसन्निधानप्रयोजकं जायत इत्यर्थः । एकस्मादेव कार्यसिद्धेः किमन्यैरिति वदन् प्रष्टव्यः किमेकस्मात्कार्यस्य निष्पन्नत्वादन्येषां व्यर्थतेति , उत जनयितव्ये कार्ये एकस्मात्कारणात्सिद्ध्यति न तत्कारणस्य कारणान्तरेष्वपेक्षेति।

नाद्य इत्याह –

कारणचक्रेति ।

न द्वितीय इत्याह –

न चैकोऽपीति ।

किं त्वित्यादिपूर्वोक्तनिगमनं परस्परं सन्निधानमुत्पादश्च येषां ते तथा ।

यदि प्रत्येकं कार्यजननसामर्थ्यं हेतूनां , तर्हि प्रतिकारणमेकैककार्योदयप्रसङ्ग इत्याशङ्क्याह –

न च स्वमहिम्नेति ।

तत्रैव एकस्मिन्नेवेत्यर्थः । बीजेन हि अङ्कुरो जनयितव्यः , मृदादिभिरपि स एव ; तत्र लाघतात्सर्वैरेक एव जन्यत इत्यर्थः ।

नन्वङ्कुर एव सर्वैः किमिति जनयितव्यः कारणभेदाद्विजातीयात्कार्यजन्म किं न स्यान्महीहेमभ्यामिव घटकटकौ , तत्राह –

न च कारणभेदादिति ।

अस्मिन्मते येषां मिलित्वैव हेतुता तेषां निरपेक्षणामपि सामग्रिता । तद्भेदे च विजातीयकार्योत्पाद इति।

इत्थं संघाताप्रयोजकत्वमुक्तं दूषयति –

तन्नेति ।

यद्यनपेक्षादन्त्यक्षणात्कार्यजन्म , तर्ह्युपान्त्यादयोऽपि स्वकार्यजननेऽनपेक्षाः स्युः ततः किं जातमत आह –

कुसूलस्थत्वाविशेषेऽपीति ।

कुसूलेह्युङ्कुरजननोपयोगिबीजसंताननिर्वर्तको बीजक्षणोऽन्ये च बीजक्षणाः सन्ति। तत्र कुसूलगतविमतबीजक्षणोङ्कुरोपजननोपयोगिबीजसंताननिर्वर्तको बीजक्षणमनपेक्षो न जनयेत् ; कुसूलस्थत्वात् , तत्कालोद्धृतभक्षितबीजक्षणवदित्याशङ्क्य कुसूलस्थत्वाविशेषेऽपीत्युक्तम् । अङ्कुरोपयोगिबीजसन्तानानन्तःपातित्वमुपाधिरित्यर्थः ।

स्वकार्योपजनने इति ।

अनन्तरजन्यबीजजनन इत्यर्थः । तस्मादाद्यक्षणादनन्तरानन्तरवर्तिन उपर्युपरिवर्तिनोऽनपेक्षः स्वस्वकार्यजनन इत्यनुषङ्गः ।

नन्वनन्तरक्षणपरंपरा बहिर्भवतु , कुतः कुसूले एवाङ्कुरसिद्धिस्तत्राह –

येन हीति ।

अनपेक्षस्य देशभेदेऽप्यपेक्षाविरहसाम्यादित्यर्थः । नाऽसंहतस्य सामग्रीत्वं संहन्ता च न तवेत्युक्तमभिसंधिमविद्वानित्यर्थः । अविद्यादिभिः कारणसंघातस्य य आक्षेपः स उत्पाद उत ज्ञापनम् ।

नाद्य इत्याह –

तत्रेति ।

यत्कार्यं तदन्यथानुपपद्यमानं सत्कारणं नोत्पादयति ; अन्यथाऽनुपपद्यमानदशायां तस्यासत्त्वात् , किं तु यदि जनकं , तर्हि स्वसामर्थ्येन , सामर्थ्यं चाविद्यमानस्य नास्तीत्यर्थः ।

न केवलं संघातानुपपत्तिः , किं तु संहतानां य इतरेतरमुपकारः सोऽपि नेत्याह –

अपि चेति ।

भावस्यान्यकृतोपकारस्य च किमेकक्षणवर्तित्वमुत जाते भावे उत्तरक्षणे उपकारः ।

नाद्य इत्याह –

भावस्येति ।

यो ह्येकस्मिन् क्षणे उपकाराभावाद्धेतुतामनश्रुवानः क्षणान्तरे तत्कृतमुपकारमासाद्य हेतुतां भजते , तस्य स उपकारोऽन्यकृत इति ज्ञायते । अपरथा स तस्य स्वभावः किं न स्यात् ? तव तु मते पदार्थक्षणस्याभेद्यत्वाद्वस्तुन उपकृतत्वानुपकृतत्वे न संभवतोऽतश्च भावस्योपकारानास्पदत्वम् । तथा च नोपकार्योपकारकभाव इत्यर्थः ।

द्वितीयं प्रत्याह –

कालभेदेन वेति ।

क्षणिकत्वव्याघातात् कालभेदेनापि नोपकार्योपकारकभाव इत्यधस्तनेनान्वयः । भाष्ये – आश्रयिभूतेष्वित्येतदणुविशेषणम् । चकारश्च भोक्तृषु सत्सु चेत्युपरि संबन्धनीयः । आश्रयाश्रयिशून्येष्वित्यत्र च भावप्रधान्यम् आश्रयाश्रयित्वशून्येष्वित्यर्थः । आश्रयाश्रयिभूतेष्विति तु पाठे भोक्तृविशेषणम् । आश्रयश्चादृष्टमिति ।

उक्तमभिसन्धिमविद्वानिति यदुक्तं तद्विशदयति –

अस्तु तावदिति ।

  अदृष्टात्संघातोत्पत्तिव्यवस्थासिद्धेर्भाष्योक्तदूषणानुपपत्तिमाशङ्क्याह –

स खल्विति ।

भोक्तृर्भोगादन्यत्वे हेतुमाह –

अप्राप्तभोगो हीति ।

भोक्तुः स्थिरतायां हेतुर्भोगार्थ इति। अर्थिदशायां भोगदशायां चानुवृत्तेस्थैर्यमित्यर्थः ।

अस्य विवरणं –

भोगमाप्तुकाम इति ।

इतरथा हि भोगश्चासावर्थीति भ्रमः स्यादिति। अन्यस्य भोगायान्यो न कल्पत इत्यर्थः ।

ननु संघातासिद्धौ कर्त्रभावो वाच्यो न भोक्त्रभावः कर्तुर्हि हेतुता , तत्राह –

भोक्त्रभावेनेति ॥१९॥

ननु निरुद्धस्यास्त्वभावग्रस्तता निरुध्यमानस्य कथमत आह –

न तावदिति ।

यथा हि आरम्भकतन्त्वादिसंयोगस्य नाशक्षणे पटादेर्विद्यमानस्यैव विनश्यदवस्था वैशेषिकैः स्वीकृता , न तथा वैनाशिकैरित्यर्थः ।

ननूभयोर्विनाशग्रस्तत्वे को भेदस्तत्राह –

तस्मादिति ।

यद्विनाशग्रस्तत्वं तदचिरनिरुद्धत्वरूपं , सद् निरुध्यमानत्वं वक्तव्यं , तदेव चिरनिरुद्धत्वरूपं सद् विवक्षितमित्यर्थः ।

कार्यकाले कारणस्यासत्त्वेऽपि पूर्वक्षणसत्त्वेन हेतुत्वं भाष्योक्तमयुक्तम् ; मृदादीनां कार्येऽन्वीयमानानामुपादानत्वोपलम्भादिति ; तत्राह –

कारणस्य हीति ।

प्रायेणेति क्रियाज्ञानव्यावृत्त्यर्थम् । एषां पदार्थानां या भूतिरुत्पत्तिः सैव क्रिया कारकमिति चोच्यते तदेव कारणमिति। सामान्यं हि भेदविकल्पाधिष्ठानत्वेन कारणमित्यर्थः ।

ननु सादृश्यसिद्धौ तद्बलादनुगतरूपसिद्धिस्तदेव नास्ति , असत्यपि सादृश्ये सादृश्यभ्रमादत आह –

सर्वथेति ।

ननु वैसादृश्येऽपि तन्तुभावे पटभावादुपादानोपादेयभाव इत्याशङ्क्याह –

न चेति ।

एकस्मिन्पदार्थक्षणे तद्भावभावस्याशक्यग्रहत्वाद्रासभादावपि प्रसङ्गादित्यर्थः । अथ जात्युपाधौ कारणत्वं , तर्हि जातिरेव कारणं , व्यक्तयस्तदवस्थाः स्युर्नान्याः ।

अन्यकारणत्वस्यान्यत्रायोगात् त्वया चैतन्नेष्टमित्याह –

सामान्यस्य चेति ।

भाष्ये उत्पादादिशब्दस्य वस्तुशब्दस्य च पर्यायत्वापादनेऽपि वस्तुनो नित्यत्वापादनं द्रष्टव्यम् । तथा सत्युत्पादनिरोधयोरभावादित्यर्थः ॥२०॥

प्रतिज्ञोपरोधं व्याख्यातुं चतुर्विधां नित्यादिप्रतिज्ञां बौद्धीयां भाष्योक्तां दर्शयति –

नीलाभासस्येत्यादिना ।

तत्र तावच्चतुर्णां कारणानमेकस्मिन्नीलप्रत्यये समुच्चयेन कारणत्वसिद्ध्यर्थं द्वारभेदः प्रदर्श्यते । आलम्बनं च तत् प्रत्ययः कारणं चेति तथोक्तम् । उदितस्य ज्ञानस्य रसादिसाधारण्ये प्राप्ते रूपनियामकं चक्षुरधिपतिः लोके नियामकस्याधिपतित्वादिति।

एवं चित्तानां ज्ञानानां चतुर्भ्य उत्पत्तिमुक्त्वा चैत्तानामपि दर्शयति –

एवमिति ।

सुखं ज्ञानं , मनोजन्यत्वे सत्यपरोक्षत्वात् , संमतवदित्यर्थः । अपरोक्षत्वमद्रष्टादिव्यावृत्त्यर्थम् । एकविधसामग्रीजत्वेन चित्तसबन्धो बौद्धसूत्रे चैत्तशब्दार्थः । चत्वार्येतानि कारणानि । अत एव चित्ताभिन्नहेतुजत्वम् ।

उत्तरक्षणोत्पत्तिकाले पूर्वक्षणस्थितावपि न स्थायित्वं सिद्ध्यति ; एकक्षणेऽप्युभयसंभवाद् , उत्तरक्षणस्तु द्वितीयक्षणो भवत्वित्याशङ्क्याह –

उत्पत्तिरिति ।

भूतितत्कर्त्रोरभेदोपगमादुत्तरभावक्षणतदुत्पत्ती अभिन्ने । तथा च पूर्वक्षणस्योत्तरक्षणं यावदवस्थितौ स्थायित्वमित्यर्थः ॥२१॥

प्रतिशब्दः प्रातिलोम्यार्थः संख्याशब्दो बुद्धिवचन इति व्याचष्टे –

भावेति ।

प्रतीपा विरोधिनी । नन्वन्त्यसन्तानिनो न फलानारम्भकत्वं , यतोऽसत्त्वापत्तिः ।

न च फलारम्भे सन्तानानुच्छेदः ; न हि हेतुफलभावमात्रं सन्तानः , किं तु सजातीयानां हेतुफलभावस्तत्र विशुद्धविजातीयक्षणोत्पत्तावपि सजातीयहेतुफलभावरूपसन्तानो निवर्तत इत्याशङ्क्याह –

न च सभागानामिति ।

हेतुमाह –

तथा सतीति ।

सादृश्यं हि सन्तानिनां ज्ञानानां तुल्यजातीयविषयत्वेन । विषयाणां च तुल्यजातीयत्वं किमपरजात्या , उत परजात्या ।

नाद्यश्चैत्तसन्तानेऽनुवर्तमाने एव रूपज्ञानसन्तानविरमे रसज्ञानोदये सन्तानोच्छेदप्रसङ्गादित्युक्त्वा द्वितीयं दूषयति –

कथंचिदिति ।

सत्तया जात्या तत्सारूप्यमस्तीति सोपप्लवसन्तानोपरमे सति विशुद्धसन्तानोदयेऽपि न सन्तानोच्छेदः स्यादित्यर्थः । सन्तानगोचरौ निरोधौ भावगोचरौ वेति विकल्प्याद्यं निरस्य द्वितीयं निरस्यति।

नापि भावगोचराविति ।

भाष्यगतनिरन्वयनिरुपाख्यत्वपदयोर्हेतुहेतुमद्भावमाह –

यत इति ।

अपरिशिष्यमाणरूपत्वं निरन्वयत्वम् , असत्त्वं निरुपाख्यत्वम् ।

ननु यस्य घटादेर्विनाशः स नान्वयी , यस्य तु सामान्यस्यान्वयस्तन्न नश्यति , तत्कथं सान्वयत्वं नाशस्यात आह –

यद्यदन्वयिरूपमिति ।

तप्तशिलातलपतितस्योदबिन्दोर्दृश्यमानान्वयिरूपाभावमङ्गीकृत्यानुमानादन्वयः समर्थितः , इदानीं प्रत्यक्षेणानुवृत्तिमाह –

शक्यं त्विति ।

उदबिन्दावुपलतलपतिते सिन्धौ समुद्रे च तोयभावस्तोयत्वसामान्यं न भिद्यते । तस्मादुदबिन्दौ विनष्टेऽपि तस्य बिन्दोः सामान्यरूपेणाम्बुधावस्त्यन्वय इत्यान्तरश्लोकस्यार्थः ॥२२॥२३॥ मोक्षाप्तिहेतुत्वाद्भावनाया मार्गत्वम् ।

शब्दस्याकाशाश्रयत्वं परिशेषतः साधयति –

तथा हीति ।

तस्य हि न तावद्द्रव्यादिभ्योऽन्यत्र प्रसङ्गः ।

प्रसक्ते च तेषु षट् स्वन्तर्भावे सामान्यादित्रये तावदनन्तर्भावमाह –

जातिमत्त्वेनेति ।

त्रयाणां निःसामान्यरूपत्वादित्यर्थः । द्रव्यकर्मणोरनन्तर्भावमाह – गुणत्वेन ।

शब्दस्याकाशाश्रयत्वसिद्धये –

अस्पर्शेति ।

शब्दो गुणः जातिमत्त्वे सति बाह्यैकेन्द्रियग्राह्यत्वाद्गन्धवदित्यर्थः । वायुः स्पार्शनप्रत्यक्ष इति मते तस्मिन् व्यभिचाराभावायास्पर्शत्वोक्तिः । दिगादिव्यावृत्त्यर्थमिन्द्रियग्राह्येति। द्वीन्द्रियग्राह्यद्रव्यवारणाय एकेति । एकेन्द्रियग्राह्यगन्धत्वादिजातेरपाकरणाय जातिमत्त्वे सतीति। तथाविधात्मव्युदासाय बाह्येत्युक्तमिति ॥२४॥ सत्यप्येतस्मिन् अनुस्मरणे इत्यर्थः । उपलब्धृस्मर्त्रोरन्यत्वेऽपि स्मृतिरुपपत्स्यत इत्यन्वयः । अस्मिन्मते क्रियातिरिक्तकर्त्रभावादुपलब्धिस्मृती एव उपलब्धस्मर्तारौ तयोर्भेदेऽप्येकसन्ततिगतत्वेन कार्यकारणभावान्नातिप्रसङ्ग इत्युक्तं भवति। प्रत्यभिज्ञात्वेन समाज्ञातं सम्यग्ज्ञातम् ।

अहमद्राक्षीदिति यथाश्रुते अपप्रयोगता स्यात् , तां परिहरति –

अहं स्मरामीति ।

पूर्वोत्तरक्षणद्वयग्रहणाभावे तेनेदमित्याकारप्रत्ययोदयायोगाद्भाष्यस्थशङ्कानुपपत्तिमाशङ्क्याह –

न तु तत्त्वत इति ।

क्षणभङ्गवादी प्रष्टव्यः तेनेदं सदृशमिति प्रत्यये तत्तेदन्तावच्छिन्नावर्थौ तयोः सादृश्यं च किं न भासन्ते , भासमानानि वा किं ज्ञानस्याकाराः , उत तस्माद्भिन्नानि , यदा ज्ञानाकारत्वं तदा तज्ज्ञानं किमेकमुत नानेति।

नाद्य इत्याह –

स्वसंवेदनमिति ।

ज्ञानाकारत्वपक्षे एकस्य नानात्वं व्याहतमित्याह –

न चैकस्येति ।

ज्ञानभेदं निराचष्टे –

न च तावन्तीति ।

एकज्ञानेन नानापदार्थोल्लेखे हि नाना इत्युल्लेखो भवति , न ज्ञानभेदे इत्यर्थः ।

परिशेषाज्ज्ञानाद्भिन्नोऽर्थोऽभ्युपेयस्तस्य च नानाकारस्य तत्तेदन्तास्पदस्य परामर्शः स्थायिन्यात्मनि सति संभवतीत्याह –

तस्मादिति ।

ननु न वयमर्थस्य ज्ञानेऽवभासमपजानीमहे , येन प्रतीतिं विरुन्धीमहि , किं तु सोऽर्थः प्रतीतावारोपितो न बहिरस्ति , न च प्रतीतितावन्मात्रः ? ततश्च न ज्ञानस्यैकस्य नानार्थाकारत्वप्रयुक्तो व्याघातो न च बाह्यार्थाभ्युपगमप्रसङ्ग इति। विकल्पप्रत्ययोऽयमित्यादिशङ्काग्रन्थोक्तमर्थमाविष्करोति –

यद्युच्येतेति ।

कल्पितोऽपि ज्ञानेऽर्थाकारः तस्माद्भिन्नोऽभिन्नो वेति वक्तव्यम् । अनिर्वाच्यत्वानङ्गीकाराद् , भिन्नत्वे ज्ञानान्तरवदकल्पितः स्यात् , तथा च तेनेतीदमिति सदृशमिति च प्रतिभासमानानामर्थानामेकज्ञानाभेदाभ्युपगमे परस्परमप्यभेदप्रसङ्गः । तथा चेतरेतरभेदेन लोकप्रसिद्धाः पदार्था निह्णूयेरन् , ज्ञानाच्च ज्ञेयस्य भेदः प्रसिद्धः सोऽप्यपलप्तः स्यात् । ओमिति वन्दनं प्रति स्वपक्षसाधनम् ।

परपक्षाक्षेपानुपपत्तिरुक्ता भाष्ये , तां विशदयति –

एकाधिकरणेति ।

इदं नित्यमिदमनित्यमिति भिन्नयोर्ज्ञानयोराकारौ । तथा च धर्मिभेदेन व्यवस्थापनाद्विवादो न स्यादित्यर्थः ।

असति बाह्यालम्बनत्व इत्येतद्विवृणोति –

ज्ञानाकारत्वे हीति ।

विषयत्वाभावाद् आश्रितत्वाभावात् ।

असति च लोकप्रसिद्धपदार्थकत्वे इत्यस्य विवरणं –

न चालौकिकार्थेनेति ।

अनित्यशब्दो यद्यलौकिकार्थस्तर्हि तेन विभुत्वमपि वक्तुं शक्यं , तथा च नित्यत्वेन तस्य न विरोध इत्यर्थः । प्रतितिष्ठापयिषता स्थापयितुमिच्छता । एवं तावत्तत्तेदन्तास्पदादिरर्थो ज्ञानस्यान्तर आकार इति विज्ञानवादिमतं बाह्यार्थवाददूषणमध्येऽपि प्रसङ्गादाशङ्क्य प्रतिचिक्षेप ।

इदानीमस्ति बाह्योर्थः , स तु क्षणिको निर्विकल्पके चकास्ति , सविकल्पप्रत्ययास्तु विकल्पास्तद्गतसादृश्याद्याकारेण निर्भासन्ते , अतो विप्रतिपत्त्यादिव्यवहारसिद्धिरिति बाह्यार्थवादमाश्रित्यैव शङ्कते –

यद्युच्येतेति ।

ननु स्वग्राहकस्य ज्ञानस्य स्वयं तावद्ग्राह्यं कथमस्य बाह्याकारविषयत्वमत आह –

द्विविधो हीति ।

स्वाकारस्य निर्विकल्पस्यावसायाद् अधि उपरि अवसेयोऽध्यवसेयः ।

अध्यवसेयस्य बाह्यार्थस्य निश्चितत्वादनिश्चितार्थत्वापादकं भाष्यमयुक्तम् , इत्याशङ्क्याह –

अयमभिसंधिरिति ।

स्वमेव ज्ञानं प्रतिभासो यस्य तत्तथा ।

अनर्थ इति ।

अबाह्य इत्यर्थः । तस्मिन् बाह्यात्मत्वाध्यवसायात् प्रवृत्तिर्हानादिर्लोकस्येत्यर्थः । आन्तरस्यानभिधेयस्य ज्ञानाकारस्य तद्विपरीतबाह्याकाररूपेणाध्यवसायो नाम किं तद्रूपेण निष्पादनमुत तेन संबन्धनं किं वा तेनाकारेणारोपणमिति विकल्पार्थः । आन्तरं बाह्येन सह योजयितुं च नेशत इति योजना । गृह्यमाणे बाह्ये ज्ञानाकारस्यान्तरस्यारोप इति पक्षेऽधिष्ठानस्य बाह्यस्य केन ग्रहणं किं यस्याकार आरोप्यः तेनैव सविकल्पकप्रत्ययेनोत तत्समसमयभुवा निर्विकल्पकेन ।

प्रथमे किं बाह्यमभिमतं यत्रारोपः स्वलक्षणं वा सामान्यं वा , नाद्य इत्याह –

न तावद्विकल्प इति ।

विकल्पः सविकल्पकप्रत्ययस्तावदभिलापसंसर्गयोग्यजातिविशिष्टवस्तुगोचरः । अभिलापस्य च शब्दस्य सामान्येनैव सह समयः शक्यो ग्रहीतुं न स्वलक्षणेन । तस्य देशकालाननुगतत्वेनानन्त्यात्तत्र संगतिग्रहायोगात् अतः शब्दोल्लिखितसविकल्पकप्रत्ययस्य न स्वलक्षणविषयत्वमित्यर्थः । सुखादीनां क्षणिकभावानामात्मा स्वरूपमशक्यसमयः । यतोऽनन्यभागन्याननुगतो हि सः । अतस्तेषां स्वसंवित्तिरसाधारणाकारविषया वित्तिरभिजल्पानुषङ्गिणी न भवति , किंतु निर्विकल्पिकैवेति श्लोकार्थः । एतेन सामान्यात्मकबाह्यस्य सविकल्पकबोधेन ग्रहणपास्तम् । व्यक्तिमगृहीत्वा तद्ग्रहणायोगाद्व्यक्तेश्चोक्तमार्गेणाशक्यग्रहत्वादिति।

द्वितीयं निषेधति –

न चेति ।

विकल्पेनागृहीते बाह्ये विकल्पसमसमयेन निर्विकल्पकेन गृहीते । विकल्पः स्वाकारमारोपयितुं नार्हतीत्यर्थः ।

आद्ययोर्द्वितीय निषेधति –

अगृह्यमाणे त्विति ।

अधिष्ठानाग्रहणे आरोप्यमात्रं प्रतीयते नारोप इत्यर्थः ।

एवं तावदधिष्ठानप्रतिभासासंभवाद्बाह्ये ज्ञानस्वरूपस्यारोपः प्रतिषिद्धः , इदानीमारोप्यस्फुरणायोगाच्च नारोप इत्याह –

अपि चेति ।

स्वसंवेदनं सन्तं विकल्पं यदा बाह्यं  बाह्यत्वेनारोपयति , तदा किं वस्तुसन्तं स्वाकारं गृहीत्वा पश्चादारोपयतीति योजना । युगपत्स्वाकारस्य ग्रहणं बाह्यत्वेन चारोपणमिति पक्षे किं स्वाकारबाह्ययोरैक्यस्फुरणमारोप उत्ताख्यातिमत इव विवेकाग्रहमात्रम् ।

नाद्य इत्याह –

स्वाकारो हीति ।

स्वप्रकाशकत्वपरप्रकाशत्वाभ्यां भेदावभासान्नैक्यस्फुरणसंभव इत्यर्थः । अन्यदेव स्यात् सिध्येत् प्रथेतेत्यर्थः ।

ननु स्वाकारः समारोपित इति। यः स्वाकारः स समारोपितात्मको न तु स्यादित्यनुषङ्गः , न स्फुरेदित्येवार्थः । द्वितीये किं बाह्ये गृह्यमाणे विवेकाग्रहो मृषाव्यवहारं प्रसूते अगृग्यमाणे वा । नाद्य इत्याह –

न चेति ।

न द्वितीय इत्याह –

अपि चेति ।

अपिचकारः समुच्चयार्थे । एतदुपपत्तिसाहित्यं प्राच्या वक्ति एवं तावद्वस्तुसन्तमित्यारभ्य ।

परमार्थज्ञानाकारस्य बाह्यवस्त्वात्मना समारोपः प्रतिक्षिप्तः , इदानीं वासनापरिप्रापितस्य कल्पितज्ञानाकारस्य बाह्ये समारोपं पराकरोति –

एतेनेति ।

तस्यापि स्वप्रकाशज्ञानवत्त्वेन बाह्याद्भेदग्रहस्य समत्वादित्यर्थः । पाशुपतस्य हि तपस्विन आत्मज्ञानाय चिह्नं कुर्वतः प्रमाणाकुशलजनैरप्युपहासादात्मस्वप्रकाशत्वमवगतम् ॥२५॥

बौद्धैरभावस्यार्थक्रियाकारित्वानभ्युपगमात्कथम् अभावाद्भावोत्पत्तिस्तत्सिद्धान्तत्वेनानूद्य निरस्यते ? तत्राह –

अस्थिरादिति ।

आपाद्यानुवादोऽयमिति वदिष्यन् क्षणिकस्य कारणत्वासंभवमाह –

उक्तमेतदित्यादिना ।

क्षणिकं कारणमिति वदन् प्रष्टव्यः तत्किमनपेक्षं सापेक्षं वेति। नाद्यः ; इतरेतरप्रत्ययत्वा (व्या.अ.२.पा.२.सू.१९) दिति सूत्रविवरणावसरे यद्यन्त्यक्षणप्राप्ता अनपेक्षा इत्यादिना निरस्तत्वादित्यर्थः । द्वितीयोऽपि तत्सूत्रव्याख्यानसमय एव न क्षणिकपक्ष उपकार्योपकारकभावोऽस्तीत्यादिना ग्रन्थेन प्रत्युक्तः ।

तत्सूत्रोक्तं निरासप्रकारमनुवदति –

सापेक्षतायां चेति ।

सापेक्षतायां चाक्षणिकत्वप्रसङ्ग इत्यन्वयः । क्षणिकोऽपि सापेक्ष इति वदन् प्रष्टव्यः स किमन्यकृतोपकारस्याश्रयो न वेति।

आद्यस्य निरसनं –

क्षणस्येति ।

पूर्वमनुपकृतस्य पश्चादुपकारसंबन्धे ह्युपकृतत्वं ज्ञातुं शक्यम् । इतरथोपकारस्य स्वाभाविकत्वसंभवेनान्यकृतत्वासिद्धिरित्यर्थः ।

द्वितीयं प्रत्याह –

अनुपकारिणि चेति ।

ततश्चोपकृतत्वानुपकृतत्वज्ञानाय क्षणद्वयस्थायित्वं वस्तुनो मन्तव्यमित्युक्तं भवति।

यदि क्षणिकस्य नोपकृतत्वं संभवति , अनुपकृतस्य च न सापेक्षत्वं , निरपेक्षस्य च कारणत्वमतिप्रसङ्गि , तर्हि क्षणिको न सापेक्षो ; नापि निरपेक्षः , किंतु प्रकारान्तरयोगीत्याशङ्क्याह –

सापेक्षत्वानपेक्षत्वयोश्चेति ।

कूटस्थस्यापि नियतशक्तिकत्वाद्भाष्ये सर्वतः सर्वोत्पत्तिप्रसङ्गानुपपत्तिमाशङ्क्य सर्वतः सर्वावस्थात्तज्जन्यसर्वोत्पत्तिरिति कार्ययौगपद्यापत्तिपरतया व्याचष्टे –

अयमभिसंधिरिति ।

अन्यकृतोपकारस्य भावादभेदे सत्युपकारशब्देन भावरूपमेवाभिहितं स्यात् , तस्य चान्यकृतत्वे कौटस्थ्यं व्याहन्येतेत्यर्थः । चर्मोपमश्चेत् स्थिरः कारणत्वाभिमतः पदार्थ उपकाराश्रयश्चेदित्यर्थः । उपकारादभेदे भावस्य स भावोऽनित्यः , भेदे स उपकारोऽनित्यः , स एव च कारणं न भाव इत्यर्थः ।

उपकारानाश्रयत्वे दूषणम् –

असत्फल इति ।

यदुक्तमन्वयव्यतिरेकाभ्यामुपकार एव कार्यकारी न भाव इति , तत्राह –

न चैतावतेति ।

परमार्थाश्रितत्वात्कार्यकल्पनाया भाव उपादानं तद्धर्मस्त्वनिर्वाच्य उपकारः कार्योपयोगीत्यर्थः । श्रुतौ मृद्दृष्टान्तस्य सत्यत्वाभिधानाद् दार्ष्टान्तिकस्य मूलकारणस्य सत्यत्वमुक्तम् ।

भेदाभेदाभ्यामनिर्वाच्येनोपकारेणोपकृतं कारणं कार्यमनिर्वाच्यं करोतीत्युक्तम् , तदयुक्तम् ; भेदनिषेधे अभेदापत्तेरभेदनिषेधे च भेदप्रसङ्गादित्याशङ्क्य बौद्धं प्रति प्रतिबन्दीमाह –

अपि च येऽपीति ।

किं व्यक्त्योरेव कार्यकारणभावः सामान्ययोर्वा तदुपहितव्यक्त्योयोर्वा ।

न प्रथमोऽतिप्रसङ्गादित्यभिसंधाय द्वितीये सामान्ये वस्तुनी अवस्तुनी वा ,  नाद्योऽपराद्धान्तादित्याह –

न च बीजाङ्कुरत्वे इति ।

अवस्तुनोरेव सामान्ययोः कार्यकारणभावोऽप्यर्थक्रियाकारिणः सत्त्वाभ्युपगमादपराद्धान्तावह – एव ।

अवस्तुसामान्योपहितानां व्यक्तीनां कार्यकारणत्वाभ्युपगमे तद्वदुपकारकार्ययोरप्यवस्तुत्वसंभवसिद्धिरित्याह –

तस्मादिति ।

काल्पनिकात् काल्पनिकसामान्योपहितादित्यर्थः ।

यदि सामान्योपाधानमन्तरेण व्यक्तीनामेव कार्यकारणभावस्तत्र दोषान्तरमाह –

अन्यथेति ।

अनुमानं हि सामान्योपाधौ प्रवर्तते , व्यक्तीनामानन्त्येन व्याप्तिग्रहायोगादित्यर्थः ॥२६॥२७॥

इति चतुर्थं ससुदायाधिकरणम् ॥