भामतीव्याख्या
वेदान्तकल्पतरुः
 

एतेन मातरिश्वा व्याख्यातः ।

यद्यभ्यासे भूयस्त्वमर्थस्य भवति नाल्पत्वं दूरत एवोपचरितत्वं, हन्त भोः पवनस्य नित्यत्वप्रसङ्गः । “वायुश्चान्तरिक्षमेतदमृतम्” इति द्वयोरमृतत्वमुक्त्वा पुनः पवनस्य विशेषेणाह

सैषानस्तमिता देवता यद्वायुरिति ।

तस्मादभ्यासान्नापेक्षिकं वायोरमृतत्वमपि त्वौत्पत्तिकमेवेति प्राप्तम् । तदिदमुक्तं भाष्यकृता

अस्तमयप्रतिषेधादमृतत्वादिश्रवणाच्चेति ।

चेन समुच्चयार्थेनाभ्यासो दर्शितः । एवं प्राप्त उच्यतेएकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात् , प्रतिज्ञावाक्यार्थस्य प्राधान्यात् , तदुपपादनार्थत्वाच्च वाक्यान्तराणां, तेषामपि चाद्वैतप्रतिपादकानां मातरिश्वोत्पत्तिक्रमप्रतिपादकानां बहुलमुपलब्धेः, मुख्यभूयस्त्वाभ्याममूषां श्रुतीनां बलीयस्त्वात् , एतदनुरोधेनामृतत्वास्तमयप्रतिषेधावापेक्षिकत्वेन नेतव्याविति । भूयसीः श्रुतीरपेक्ष्य द्वे अपि श्रुती शब्दमात्रमुक्ते ॥ ८ ॥

एतेन मातरिश्वा व्याख्यातः॥८॥ संगतिमाह –

यदीति ।

पूर्वाधिकरणे हि ब्रह्मण्यद्वितीयत्वप्रतिज्ञा न गौणी एकाऽद्वितीयैवशब्दैरस्या अभ्यासादित्युक्तं  तद्वद्वायुनित्यत्वमपि नापेक्षिकमभ्यस्यमानत्वादित्यर्थः ।

अन्तरिक्षसहितवाय्वनुत्पत्तिवादिवाक्यमात्रोदाहृतावन्तरिक्षोत्पत्तेः पूर्वत्रोदाहृतेर्वायुनित्यत्वोक्तिरप्यौपचारिकीति शङ्का स्यात्तां परिहरति –

पवनस्य विशेषेणेति ।

मुक्त्वाऽन्तरिक्षमित्यर्थः ।

चेनेति ।

चकारेणेत्यर्थः ।

तदुपपादनार्थत्वाच्चेति ।

बृहदारण्यके खल्वनेन ह्येतत्सर्वं वेदेत्यात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातं वायुश्चान्तरिक्षमित्यादिवाक्यं चात्मकार्यवाय्वादिप्रदर्शनेन तदुपपादकमित्यर्थः ।

प्रधानेनाप्रधानबाधमुक्त्वा गुणभूतावान्तरवाक्यैरपि बहुभिर्वायुनित्यत्ववाक्ययोर्बाधमाह –

तेषामपीति ।

तेषामवान्तरवाक्यानां मध्ये इत्यर्थः ।

अद्वैतप्रतिपादकानामिति ।

इदं सर्वं यदयमात्मेत्यादिवाक्यानामित्यर्थः । मातरिश्वोत्पत्तिक्रमग्रहणमाकाशजन्मसमर्थनात् कार्यस्यापि कार्यं वायुः कुतोऽस्य नित्यत्वमित्यर्थम्॥८॥

इति द्वितीयं मातरिश्वव्याख्यानाधिकरणम्॥