पृथिव्यधिकाररूपशब्दान्तरेभ्यः ।
अन्नशब्दोऽयं व्युत्पत्त्या च प्रसिद्ध्या च व्रीहियवादौ तद्विकारे चौदने प्रवर्तते । श्रुतिश्च प्रकरणाद्बलीयसी, सा च वाक्यशेषेणोपोद्बलिता “यत्र क्वचन वर्षति” इत्येतेन तस्मादभ्यवहार्यं व्रीहियवाद्येवात्राद्भ्यो जायत इति विवक्षितम् । कार्ष्ण्यमपि हि सम्भवति कस्यचिददनीयस्य । नहि पृथिव्यपि कृष्णा, लोहितादिरूपाया अपि दर्शनात् । ततश्च श्रुत्यन्तरेण “अद्भ्यः पृथिवी पृथिव्या ओषधयः”(तै. उ. २ । १ । १) इत्यादिना विरोध इति पूर्वः पक्षः । श्रुत्योर्विरोधे वस्तुनि विकल्पानुपपत्तेरन्यतरानुगुणतयान्यतरा नेतव्या । तत्र किम् “अद्भ्यः पृथिवी” इति पृथिवीशब्दोऽन्नपरतया नीयतामुत “अन्नमसृजन्त”(छा. उ. ६ । २ । ४) इत्यन्नशब्दः पृथिवीपरतयेति विशये, महाभूताधिकारानुरोधात्प्रायिककृष्णरूपानुरोधाच्च “तद्यदपां शर आसीत्”(बृ. उ. १ । २ । २) इति च पुनः श्रुत्यनुरोधाच्च वाक्यशेषस्य चान्यथाप्युपपत्तेरन्नशब्दोऽन्नकारणे पृथिव्यामिति राद्धान्तः ॥ १२ ॥
पृथिव्यधिकाररूपशब्दान्तरेभ्यः॥१२॥ सृष्टावपां तेजसोऽनन्तरत्वात्पृथिव्याश्चाबानन्तर्यादधिकरणद्वयस्य बुद्धिसन्निधानरूपा संगतिः । व्युत्पत्त्या व्युत्पाद्यत इति योगवृत्त्या । प्रसिद्ध्या रूढ्या । न वयं महाभूतप्रकरणमात्रादन्नश्रुतिं बाधामहे , किंतु लिङ्गप्रकरणसहितसाभ्यासपृथिवीश्रुत्या इत्याह –
श्रुत्योरित्यादिना ।
लिङ्गमाह –
प्रायिकेति ।
तत् तत्र सृष्टिकाले यद् यः अपां शरः मण्डः धनीभावः आसीत् सा पृथिव्यभवद् इति पुनःश्रुतेरर्थः ।
ननु वर्षणाद्भूयिष्ठत्वप्राप्तिलिङ्गमन्नश्रुतेरप्यनुग्राहकमस्ति , अत आह –
वाक्यशेषस्य चेति ।
तस्य लिङ्गप्रकरणाभ्यां बाधात् । अन्यथा पार्थिवव्रीह्यादिपरत्वेऽनुपपत्तेरित्यर्थः॥१२॥