भामतीव्याख्या
वेदान्तकल्पतरुः
 

मा भूतामस्य शरीरोदयव्ययाभ्यां स्थूलावुत्पत्तिविनाशौ, आकाशादेरिव तु महासर्गादौ तदन्ते चोत्पत्तिविनाशौ जीवस्य भविष्यत इति शङ्कान्तरमपनेतुमिदमारभ्यते ।

नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः ।

विचारमूलसंशयस्य बीजमाह

श्रुतिविप्रतिपत्तेरिति ।

तामेव दर्शयति

कासुचिच्छ्रुतिष्विति ।

पूर्वपक्षं गृह्णाति

तत्र प्राप्तमिति ।

परमात्मनस्तावद्विरुद्धधर्मसंसर्गादपहतानपहतपाप्मत्वादिलक्षणाज्जीवानामन्यत्वम् । ते चेन्न विकारास्ततस्तत्त्वान्तरत्वे बहुतराद्वैतश्रुतिविरोधः । ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधश्च । तस्माच्छुतिभिरनुज्ञायते विकारत्वम् । प्रमाणान्तरं चात्रोक्तम्

विभक्तत्वादाकाशादिवदिति ।

“यथाग्नेः क्षुद्रा विस्फुलिङ्गाः”(बृ. उ. २ । १ । २०) इति च श्रुतिः साक्षादेव ब्रह्मविकारत्वं जीवानां दर्शयति । “यथा सुदीप्तात्पावकात्”(मु. उ. २ । १ । १) इति च ब्रह्मणो जीवानामुत्पत्तिं च तत्राप्ययं च साक्षाद्दर्शयति । नन्वक्षराद्भावानामुत्पत्तिप्रलयाववगम्येते । न जीवानामित्यत आह

जीवात्मनामिति ।

स्यादेतत् । सृष्टिश्रुतिष्वाकाशाद्युत्पत्तिरिव कस्माज्जीवोत्पत्तिर्नाम्नायते । तस्मादाम्नानयोग्यस्यानाम्नानात्तस्योत्पत्त्यभावं प्रतीम इत्यत आह

नच क्वचिदश्रवणमिति ।

एवं हि कस्याञ्चिच्छाखायामाम्नातस्य कतिपयाङ्गसहितस्य कर्मणः शाखान्तरीयाङ्गोपसंहारो न भवेत् । तस्माद्बहुतरश्रुतिविरोधादनुप्रवेशश्रुतिर्विकारभावात्पत्त्या व्याख्येया । तस्मादाकाशवज्जीवात्मान उत्पद्यन्त इति प्राप्त उच्यते भवेदेवं यदि जीवा ब्रह्मणो भिद्येरन् । न त्वेतदस्ति । “तत्सृष्ट्वा तदेवानुप्राविशत्”(तै. उ. २ । ६ । १) “अनेन जीवेन”(छा. उ. ६ । ३ । २) इत्याद्यविभागश्रुतेरौपाधिकत्वाच्च भेदस्य घटकरकाद्याकाशवद्विरुद्धधर्मसंसर्गस्योपपत्तेः । उपाधीनां च मनोमय इत्यादीनां श्रुतेर्भूयसीनां च नित्यत्वाजत्वादिगोचराणां श्रुतीनां दर्शनात् “उपाधिप्रविलयेनोपहितस्य” इति च प्रश्नोत्तराभ्यामनेकधोपपादनादविभागस्य च “एको देवः सर्वभूतेषु गूढः”(श्वे. ६ । ११) इति श्रुत्यैवोक्तत्वान्नित्या जीवात्मानो न विकारा न चाद्वैतप्रतिज्ञाविरोध इति सिद्धम् । मैत्रेयीब्राह्मणं चाधस्ताद्व्याख्यातमिति नेह व्याख्यातम् ॥ १७ ॥

नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः॥१७॥ स्वर्गादिभोगाय देहनाशेऽप्यात्मा न नश्यतीत्युक्तम् , तर्हि कल्पमात्रावस्थानेऽपि स्वर्गादिभोगसंभवज्जीवः कल्पाद्यन्तयोरुत्पत्तिविनाशवानिति संगतिमाह –

मा भूतामिति ।

नन्वसंभवस्त्वि (ब्र.अ.२.पा.३.सू.९) त्यत्र ब्रह्मजन्मनिषेधात् कथं तदभिन्नजीवजन्मशङ्काऽत आह –

परमात्मनस्तावदिति ।

परमात्मनो जीवानामन्यत्वमित्यन्वयः ।

एवं हीति ।

क्वचिच्छ्रुतस्यान्यत्रानुपसंहारे सतीत्यर्थः ।

विकारभावापत्त्येति ।

जीवलक्षणविकारभावमापद्य तद्रूपेण शरीरे प्रवेश इत्यर्थः ।

मनोमय इत्यादीनामिति ।

मनोमयादिशब्देषु श्रुतानां मन आदीनामित्यर्थः । उपाधिप्रविलयेन हेतुना उपहितस्यैव विशिष्टस्यैव प्रविलयो न शुद्धस्येति प्रश्नोत्तराभ्याम् अत्रैव मा भगवानमूमुहदित्यविनाशी वा अरे अयमात्मा इत्याभ्यामुपपादनादित्यर्थः ।

अनेकधेति ।

अविनाशी अनुच्छित्तिधर्मेति निरन्वयसान्वयनाशवारणादित्यर्थः । श्रुत्योपपादनादित्यधस्तनेनान्वयः । अविभागस्य चेति च्छेदः ।

अधस्तादिति ।

वाक्यान्वया (ब्र.अ.१.पा.४.सू.१९) दित्यधिकरणे इत्यर्थः॥१७॥

इत्येकादशं आत्माधिकरणम्॥