कर्ता शास्त्रार्थवत्त्वात् ।
ननु “तद्गुणसारत्वात्”(ब्र. सू. २ । ३ । २९) इत्यनेनैव जीवस्य कर्तृत्वं भोक्तृत्वं च लब्धमेवेति तद्व्युत्पादनमनर्थकमित्यत आह
तद्गुणसारत्वाधिकारेणेति ।
तस्यैवैष प्रपञ्चो ये पश्यन्त्यात्मा भोक्तैव न कर्तेति तन्निराकरणार्थः । “शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्”(अ. ३ पा. ७ सू. १८) इत्याह स्म भगवान् जैमिनिः । प्रयोक्तर्यनुष्ठातरि । कर्तरीति यावत् । शास्त्रफलं स्वर्गादि । कुतः । प्रयोक्तृफलसाधनतालक्षणत्वात्शास्त्रस्य विधेः । कर्त्रपेक्षितोपायता हि विधिः । बुद्धिश्चेत्कर्त्री भोक्ता चात्मा ततो यस्यापेक्षितोपायो भोक्तुन तस्य कर्तृत्वं यस्य कर्तृत्वं नच तस्यापेक्षितोपाय इति किं केन सङ्गतमिति शास्त्रस्यानर्थकत्वमविद्यमानाभिधेयत्वं तथा चाप्रयोजनकत्वं स्यात् । यथा च तद्गुणसारतयास्यावस्तुसदपि भोक्तृत्वं सांव्यवहारिकमेवं कर्तृत्वमपि सांव्यवहारिकं न तु भाविकम् । अविद्यावद्विषयत्वं च शास्त्रस्योपपादितमध्यासभाष्य इति सर्वमवदातम् ॥ ३३ ॥
विहारोपदेशात् ।
विहारः सञ्चारः क्रिया, तत्र स्वातन्त्र्यं नाकर्तुः सम्भवति । तस्मादपि कर्ता जीवः ॥ ३४ ॥
उपादानात् ।
तदेतेषां प्राणानामिन्द्रियाणां विज्ञानेन बुद्ध्या विज्ञानं ग्रहणशक्तिमादायोपादायेत्युपादाने स्वातन्त्र्यं नाकर्तुः सम्भवति ॥ ३५ ॥
व्यपदेशाच्च क्रियायां चेन्निर्देशविपर्ययः ।
अभ्युच्चयमात्रमेतन्न सम्यगुपपत्तिः । विज्ञानं कर्तृ यज्ञं तनुते । सर्वत्र हि बुद्धिः करणरूपा करणत्वेनैव व्यपदिश्यते न कर्तृत्वेन, इह तु कर्तृत्वेन, तस्या व्यपदेशे विपर्ययः स्यात् । तस्मादात्मैव विज्ञानमिति व्यपदिष्टः । तेन कर्तेति ॥ ३६ ॥
सूत्रान्तरमवतारयितुं चोदयति
अत्राह यदीति ।
प्रज्ञावान् स्वतन्त्र इष्टमोवात्मनः सम्पादयेन्नानिष्टम् । अनिष्टसम्पत्तिरप्यस्योपलभ्यते । तस्मान्न स्वतन्त्रस्तथा च न कर्ता । तल्लक्षणत्वात्तस्येत्यर्थः ।
अस्योत्तरम्
उपलब्धिवदनियमः ।
करणादीनि कारकान्तराणि कर्ता प्रयुङ्क्ते न त्वयं कारकान्तरैः प्रयुज्यत इत्येतावन्मात्रमस्य स्वातन्त्र्यं न तु कार्यक्रियायां न कारकान्तराण्यपेक्षत इति । ईदृशं हि स्वातन्त्र्यं नेश्वरस्याप्यत्रभवतोऽस्तीत्युत्सन्नसङ्कथः कर्ता स्यात् । तथा चायमदृष्टपरिपाकवशादिष्टमभिप्रेप्सुस्तत्साधनविभ्रमेणानिष्टोपायं व्यापारयन्ननिष्टं प्राप्नुयादित्यनियमः कर्तृत्वं चेति न विरोधः ।
विषयप्रकल्पनमात्रप्रयोजनत्वादिति ।
नित्यचैतन्यस्वभावस्य खल्वात्मन इन्द्रियादीनि करणानि स्वविषयमुपनयन्ति, तेन विषयावच्छिन्नमेव चैतन्यं वृत्तिरिति विज्ञानमिति चाख्यायते, तत्र चास्यास्ति स्वातन्त्र्यमित्यर्थः ॥ ३७ ॥
शक्तिविपर्ययात् ।
पूर्वं कारणकविभक्तिविपर्यय उक्तः । सम्प्रति कारकशक्तिविपर्यय इत्यपुनरुक्तम् । अविपर्ययाय तु करणान्तरकल्पनायां नाम्नि विसंवाद इति ॥ ३८ ॥
समाध्यभावाच्च ।
समाधिरिति संयममुपलक्षयति । धारणाध्यानसमाधयो हि संयमपदवेदनीयाः । यथाहुः “त्रयमेकत्र संयमः”(यो.सू. ३-४) इति । अत्र श्रोतव्यो मन्तव्य इति धारणोपदेशः । निदिध्यासितव्य इति ध्यानोपदेशः । द्रष्टव्य इति समाधेरुपदेशः । यथाहुः “तदेव ध्यानमर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः” इति । सोऽयमिह कर्तात्मा समाधावुपदिश्यमान आत्मनः कर्तृत्वमवैतीति सूत्रार्थः ॥ ३९ ॥
कर्ता शास्त्रार्थवत्त्वात्॥३३॥ अत्राऽसङ्गो ह्ययं पुरुष इत्यादिश्रुतीनां विध्यादिश्रुतीनां चात्मकर्तृत्वाऽकर्तृत्ववादिनीनां बन्धमोक्षावस्थाविषयत्वेन विरोधः परिह्रियते । क्रियाश्रयत्वे नित्यत्वप्रसङ्गादकर्ताऽऽत्मेति पूर्वपक्षमाह –
ये सांख्याः पश्यन्तीति ।
सिद्धान्तमाह –
शास्त्रेति ।
अधिकरणं त्वध्यासभाष्येऽनुक्रान्तं कर्तृभोक्त्रोर्भेदे शास्त्रानर्थक्यात् ।
भोक्तृरात्मन एव कर्तृत्वमित्यभिधाय क्रियाश्रयस्यानित्यत्वं परिहरति –
यथा चेति ।
चित्स्वभावत्वं चेद् भोक्तृत्वं , मुक्तावपि स्यात् , क्रियावेशात्मकं चेत् , कर्तृत्वमपि तद्वदविरुद्धमित्यर्थः॥३३॥३४॥३५॥
अभ्युच्चयमात्रमिति ।
विज्ञानशब्देन कोशरूपबुद्धेरभिधानादात्मकर्तृत्वासाधकत्वादित्यर्थः॥३६॥ भाष्ये स्वरूपभूतोपलब्धावनपेक्षत्वात् स्वातन्त्र्यम् , आत्मनः विषयविकल्पने त्वन्यापेक्षेत्युक्तमिति प्रतिभाति , तथा च प्रकृतासंगतिः ।
कर्तृत्वे हि कार्येऽन्यापेक्षायामपि स्यातन्त्र्यमुपपादनीयमतो व्याचष्टे –
नित्यचैतन्येति ।
उपलब्धौ विषयावच्छिन्नचैतन्येऽन्योपलब्ध्यनपेक्षत्वमात्मनः चैतन्यात्मकत्वादुपलब्धिहेतूनाम् इन्द्रियादीनामपि विषयप्रकल्पनेऽवच्छिन्नोपलब्ध्युत्पत्तावुपकरणमात्रत्वं न स्वातन्त्र्यव्याघात इति भाष्यं योज्यम्॥३७॥
ननु कर्त्र्या बुद्धेर्न करणशक्तिः कल्प्यते , सा तु कर्त्र्येव किंत्वन्यदस्ति तस्याः साधारणं कारणमतः कथं शक्तिविपर्ययस्तत्राह –
अविपर्ययाय त्विति ।
तर्हि सैवास्माकमात्मा स्यादिति नाम्नि विप्रतिपत्तिर्न त्वर्थे इत्यर्थः ॥३८॥ पातञ्जले धारणादीनि लक्षितानि । द्देशबन्धश्चित्तस्य धारणा (पतञ्जलियोग पा.२.सू.१) । नाभिचक्रहृदयपुण्डरीकादिदेशेष्वन्यस्मिन्वा विषये चित्तस्य वृत्तिमात्रेण बन्धो धारणेत्यर्थः । तत्र प्रत्ययैकतानता ध्यानम् । (पातञ्जलयोगसू.पा.२.सू.३) तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्य एकरूपस्रोतःकरणं ध्यानमिति। तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव भवतीति समाधिः(योगसू.पा.२ सू.३) । ध्यानमेव ध्येयाकारनिर्भासं ध्येयस्वभावावेशात् प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति तदा समाधिरित्युच्यते । त्रयमेकत्र संयमः(पातञ्जलयोगसू.पा.२.सू.४) एकविषयाणि त्रीणि साधनानि संयम उच्यते इति।
तत्र कथं भाष्यकारेण श्रवणादीनां समाधित्वमुच्यतेऽत आह –
संयममुपलक्षयतीति ।
वाक्यमुक्तिभ्यां ब्रह्मणि चित्तनिवेशात्मकत्वाच्छ्रवणमननयोर्धारणात्वं दर्शनस्य साक्षात्कारस्य वृत्तिरूपस्य ब्रह्मण्यावेशात्स्वरूपशून्यमिव भवतीति समाधित्वम्॥३९॥