भामतीव्याख्या
वेदान्तकल्पतरुः
 

ज्योतिराद्यधिष्ठानं तु तदामननात् ।

यद्धि यत्कार्यं कुर्वद्दृष्टं तत्स्वमहिम्नैव करोतित्येष तावदुत्सर्गः । पराधिष्ठानं तु तस्य बलवत्प्रमाणान्तरवशात् स्यादेतत् । वास्यादीनां तक्षाद्यधिष्ठितानामचेतनानां कार्यकारित्वदर्शनादचेतनत्वेनन्द्रियाणामप्यधिष्ठातृदेवताकल्पनेति चेत् । न । जीवस्यैवाधिष्ठातुश्चेतनस्य विद्यमानत्वात् । नच “अग्निर्वाग्भूत्वा मुखं प्राविशत्”(ऐ. उ. १ । २ । ४) इत्यादिश्रुतिभ्यो देवतानामप्यधिष्ठातृत्वमभ्युपगन्तुं युक्तम् । अनेकाधिष्ठानाभ्युपगमे हि तेषामेकाभिप्रायनियमनिमित्ताभावान्न किञ्चित्कार्यमुत्पद्येत विरोधात् । अपिच य इन्द्रियाणामधिष्ठाता स एव भोक्तेति देवतानां भोक्तृत्वेन स्वामित्वं शरीर इति न जीवः स्वामी स्याद्भोक्ता च । तस्मादग्न्याद्युपचारो वागादिषु प्रकाशकत्वादिना केनचिन्निमित्तेन गमयितव्यो नतु स्वरूपेणाग्न्यादिदेवतानां मुखाद्यनुप्रवेश इति प्राप्तम् । एवं प्राप्ते उच्यते नानाविधासु तावच्छ्रुतिषु स्मृतिषु च तत्र तत्र वागादिष्वग्न्यादिदेवताधिष्ठानमवगम्यते । नच तदसत्यामनुपपत्तौ क्लेशेन व्याख्यातुमुचितम् । नच स्वरूपोपयोगभेदज्ञानविरहिणो जीवस्येन्द्रियाधिष्ठातृत्वसम्भवः, सम्भवति तु देवतानामिन्द्रियाद्यार्षेण ज्ञानेन साक्षात्कृतवतीनां तत्स्वरूपभेदतदुपयोगभेदविज्ञानम् । तस्मात्तास्ता एव देवतास्तत्तत्करणाधिष्ठात्र्य इति युक्तं न तु जीवः । भवतु वा जीवोऽप्यधिष्ठाता तथाप्यदोषः । अनेकेषामधिष्ठातॄणामेकः परमेश्वरोऽस्ति नियन्तान्तर्यामी तद्वशाद्विप्रतिपित्सवोऽपि न विप्रतिपत्तुमर्हन्ति । तथा चैकवाक्यतया न तत्कार्योत्पत्तिप्रत्यूहः । न चैतावता देवतानामत्र शरीरे भोक्तृत्वम् । नहि यन्ता रथमधितिष्ठिन्नपि तत्साध्यविजयादेर्भोक्तापि तु स्वाम्येव । एवं देवता अधिष्ठात्र्योऽपि न भोक्त्र्यस्तासां तावन्मात्रस्य श्रुतत्वात् । भोक्ता तु जीव एव । नच नरादिशरीरोचितं दुःखबहुलमुपभोगं सुखमय्यो देवता अर्हन्ति । तस्मात्प्राणानामधिष्ठात्र्यो देवता इति सिद्धम् , शेषमतिरोहितार्थम् ॥ १४ ॥

प्राणवता शब्दात् । ॥ १५ ॥

तस्य च नित्यत्वात् । ॥ १६ ॥

ज्योतिराद्यधिष्ठानं तु तदामननात्॥१४॥ चक्षुषा हि रूपाणि पश्यत्यग्निर्वाग्भूत्वेत्यादावविरोधविचारादध्यायसङ्गतिः । यथा स्वकार्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्तन्ते इत्ययुक्तम् ; शक्तस्याप्यन्याधिष्ठितत्वाविरोधादित्याशङ्क्याह –

यद्धीति ।

न तु करणानां  पराधीनत्वेऽपि बलवत्प्रमाणमित्यर्थः ।

ननु करणानि , चेतनाधिष्ठितानि , अचेतनत्वे सति प्रवर्तमानत्वाद् , वास्यादिवदित्याशङ्क्य जीवाधिष्ठितत्वेन सिद्धसाधनत्वमाह –

वास्यादिनामित्यादिना ।

ननु माऽनुमानाद्बाध्युत्सर्गः , आगमात्तु बाधिष्यते , तत्राह –

न चाग्निरित्यादिना ।

वाग्भूत्वेति ।

वागधिष्ठाता भूत्वेत्यर्थः ।

जीवस्य देवतानां चाधिष्ठातृत्वसाम्यमभ्युपगम्य विरोध उक्तः , अधुना तु तदेव नास्तीत्याह –

अपि चेति ।

सत्यपि जीवे देवतानां करणाधिष्ठातृत्वाभ्युपगमे हि जीवस्य करणाधिष्ठातृत्वं न स्यात् , अप्रयोजकत्वात् , ततश्च ता एव भोक्त्र्यः कर्त्र्यश्च स्युरित्यर्थः ।

आगमस्तावदुत्सर्गस्यापवादकः , न च स औपचारिकः साभ्यसत्वादित्याह –

नानाविधास्त्विति ।

ननु श्रुतिस्मृतिषु करणाधिष्ठातृदेवतानिरूपणमाध्यात्मिककरणानामाधिदैविकाग्न्यादिभिरभेदोपासनार्थम् , उपासनं च समारोपादपि संभवति , तत्राह –

न च तदसत्यमिति ।

अनुपपत्तिर्ह्यत्राभिप्रायभेदात्कार्यासिद्धिस्तां तु परिहरिष्यति – अनेकेषामधिष्ठातॄणाम् एकः परमेश्वरोऽस्ति नियन्तेति ग्रन्थेन । अनुमानमप्युत्सर्गं बाधत इति वदामः ।

ननु तत् जीवेन सिद्धसाधनमित्युक्तमत आह –

न च स्वरूपोपयोगेति ।

अधिष्ठातृत्वं त्वधिष्ठानानन्तरपूर्वक्षणेऽधिष्ठेयस्वरूपतत्साध्यप्रयोजनज्ञानपूर्वकं तत्प्रेरकत्वं , न च तदस्ति जीवे इति कथं सिद्धसाधनमित्यर्थः । न चेश्वरेण सिद्धसाधनत्वम् ; तदभ्युपगमे त्वयैवोत्सर्गबाधस्येष्टत्वात् , स्वरूपप्रयोजनाद्यभिज्ञजीवाधिष्ठितमिति साध्यत्वाच्च ।

यच्चोक्तं करणाधिष्ठातृत्वाद् भोगः स्यादिति , तत्राह –

न चैतावतेति ।

यो यदधिष्ठाता स तत्साध्यफलभोक्तेति न व्याप्तिः ; यन्तरि सारथौ अनेकान्तादित्यर्थः ।

यदि मन्येत यन्तरि भोक्तृत्वे मानाभावाद्युक्तस्तदभाव इति , तर्हि देवतास्वपि स सम इत्याह –

तावन्मात्रस्येति ।

अधिष्ठातृत्वमात्रस्येत्यर्थः ।

स्यादेतत् - देवता एतदिन्द्रियसाध्यफलभोगिन्यः तदधिष्ठातृत्वाज्जीववदिति विशेषतोऽनुमीयते , तत्कुतोऽनैकान्तिकताऽत आह –

न च नरादीति ।

न ह वै देवान्पापं गच्छति इत्यागमविरुद्धमनुमानमित्यर्थः॥१४॥१५॥१६॥

सप्तमं ज्योतिराद्यधिकरणम्॥