त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ।
मा भूत्प्राणो वृत्तिरिन्द्रियाणाम् । इन्द्रियाण्येवास्य ज्येष्ठस्य श्रेष्ठस्य च प्राणस्य वृत्तयो भविष्यन्ति । तद्भावाभावानुविधायिभावाभावत्वमिन्द्रियाणां श्रुत्यनुभवसिद्धं, तथाच प्राणशब्दस्यैकस्यान्याय्यमनेकार्थत्वं न भविष्यति । वृत्तीनां वृत्तिमतस्तत्त्वान्तरत्वाभावात् । तत्त्वान्तरत्वे त्विन्द्रियाणां, प्राणशब्दस्यानेकार्थत्वं प्रसज्येत । इन्द्रियेषु लाक्षणिकत्वं वा । नच मुख्यसम्भवे लक्षणा युक्ता जघन्यत्वात् । नच भेदेन व्यपदेशो भेदसाधनम् “एतस्माज्जायते प्राणः”(मु. उ. २ । १ । ३) इत्यादिर्मनसोऽपीन्द्रियेभ्योऽस्ति भेदेन व्यपदेश इत्यनिन्द्रियत्वप्रसङ्गः । स्मृतिवशात्तु तस्येन्द्रियत्वे इन्द्रियाणामपि प्राणाद्भेदेन व्यपदिष्टानामप्यस्ति प्राणस्वभावत्वे “हन्त अस्यैव रूपमसाम”(बृ. उ. १ । ५ । २१) इति श्रुतिः । तस्मादुपपत्तेः श्रुतेश्च प्राणस्यैव वृत्तय एकादशेन्द्रियाणि न तत्त्वान्तराणीति इति प्राप्तम् । एवं प्राप्त उच्यते - मुख्यात्प्राणात्तत्त्वान्तराणीन्द्रियाणि, तत्र तत्र भेदेन व्यपदेशात् । मृत्युप्राप्ताप्राप्तत्वलक्षणविरुद्धधर्मसंसर्गश्रुतेः । अर्थक्रियाभेदाच्च । देहधारणं हि प्राणस्य क्रियाऽर्थालोचनमनने चेन्द्रियाणाम् । नच तद्भावाभावानुविधानं तद्वृत्तितामावहति । देहेन व्यभिचारात् । प्राणादयो हि देहान्वयव्यतिरेकानुविधायिनो नच देहात्मनः । यापि च प्राणरूपतामिन्द्रियाणामभिदधाति श्रुतिः, तत्रापि पौर्वापर्यालोचनायां भेद एव प्रतीयत इत्युक्तं भाष्यकृता । तस्माद्बहुश्रुतिविरोधात्पूर्वापरविरोधाच्च प्राणरूपताभिधानमिन्द्रियाणां प्राणायत्ततया भाक्तं गमयितव्यम् । मनसस्त्विन्द्रियत्वे स्मृतेरवगते क्वचिदिन्द्रियेभ्यो भेदेनोपादानं गोबलीर्वदन्यायेन । अथवा इन्द्रियाणां वर्तमानमात्रविषयत्वान्मनसस्तु त्रैकाल्यगोचरत्वाद्भेदेनाभिधानम् । नच प्राणे भेदव्यपदेशबाहुल्यं तथा नेतुं युक्तम् । प्राणरूपताश्रुतेश्च गतिर्दर्शिता । तथा ज्येष्ठे प्राणशब्दस्य मुख्यत्वादिन्द्रियेषु ततस्तत्त्वान्तरेषु लाक्षणिकः प्राणशब्द इति युक्तम् । नच मुख्यत्वानुरोधेनावगतभेदयोरैक्यं युक्तं, मा भूद्गङ्गादीनां तीरादिभिरैक्यमिति । अन्ये तु भेदशब्दाध्याहारभिया भेदश्रुतेश्चेति पौनरुक्त्यभिया च तच्छब्दस्य चानन्तरोक्तपरामर्शकत्वादन्यथा वर्णयाञ्चक्रुः । किमेकादशैव वागादय इन्द्रियाण्याहो प्राणोऽपीति विशये इन्द्रस्यात्मनो लिङ्गमिन्द्रियं, तथाच वागादिवत्प्राणस्यापीन्द्रलिङ्गतास्ति नच रूपादिविषयालोचनकरणतेन्द्रियता, आलोकस्यापीन्द्रियत्वप्रसङ्गात् । तस्माद्भौतिकमिन्द्रलिङ्गमिन्द्रियमिति वागादिवत्प्राणोऽपीन्द्रियमिति प्राप्तम् । एवं प्राप्तेऽभिधीयते इन्द्रियाणि वागादीनि श्रेष्ठात्प्राणादन्यत्र । कुतः तेनेन्द्रियशब्देन तेषामेव वागादीनां व्यपदेशात् । नहि मुख्ये प्राणा इन्द्रियशब्दो दृष्टचरः । इन्द्रलिङ्गता तु व्युत्पत्तिमात्रनिमित्तं यथा गच्छतीति गौरिति । प्रवृत्तिनिमित्तं तु देहाधिष्ठानत्वे सति रूपाद्यालोचनकरणत्वम् । इदं चास्य देहाधिष्ठानत्वं यद्देहानुग्रहोपघाताभ्यां तदनुग्रहोपघातौ । तथाच नालोकस्येन्द्रियत्वप्रसङ्गः । तस्माद्रूढेर्वागादय एवेन्द्रियाणि न प्राण इति सिद्धम् । भाष्यकारीयं त्वधिकरणं भेदश्रुतेरित्यादिषु सूत्रेषु नेयम् ॥ १७ ॥
भेदश्रुतेः । ॥ १८ ॥
वैलक्षण्याच्च । ॥ १९ ॥
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्॥१७॥ सत्सु इन्द्रियेषु तदधिष्ठातृचिन्ता , तान्येव तु न मुख्यप्राणवृत्तिव्यतिरेकेण सन्तीति शङ्कते –
मा भूदिति ।
तद्भावेति ।
तस्य प्राणभावाभावावनुविधायिनावनुसरणशीलौ भावाभावौ येषां तानीन्द्रियाणि तथातत्त्वादित्यर्थः ।
प्राणशब्दस्येति ।
तस्मादेत एतेनाख्यायन्ते प्राणा इतीत्यस्येत्यर्थः । एतस्माज्जायते इत्यादिव्यपदेशो न भेदसाधनमिति योजना ।
तत्र हेतुः –
मनसोऽपीति ।
तस्मिन्नेव वाक्ये मनः सर्वेन्द्रियाणीति भेदव्यपदेशान्मनसोऽप्यनिन्द्रियत्वप्रसङ्ग इत्यर्थः ।
स्मृतिवशादिति ।
मनःषष्ठानीन्द्रियाणीति स्मृतिः । हन्तः इदानीमस्यैव मुख्यप्राणस्य रूपमसाम भवेमेति प्राणसंवादे इन्द्रियाणामुक्तिः । मृत्युर्वागादीनां स्वविषयासङ्गः सोऽसुरशब्देन भाष्ये उक्तः ।
मृत्युप्राप्तेति ।
श्रूयते हि यो वाचि भोगस्तं देवेभ्य आगायत् यत्कल्याणं वदति तदात्मन इत्यादिना वागादीनां विषयासङ्गवत्त्वं संश्राव्य तानि मृत्युः श्रमो भूत्वोपयेमेऽथेममेव नाप्नोद्योयं मध्यमः प्राण इति ।
अर्थक्रियाभेदाच्चेति ।
अर्थालोचनं बाह्येन्द्रियाणामर्थक्रिया , मनसो मननम् ॥ भाष्यकारैर्हि तत्त्वान्तराणीति भेदवाचकं तत्त्वान्तरशब्दं सूत्रेऽध्याहृत्य प्राणात्तत्त्वान्तराणि वागादीनीति प्रतिज्ञां रचयित्वा , तद्व्यपदेशाद् भेदव्यपदेशादिति हेतुं व्याख्याय , तत्साधनार्थं योजितः । अन्यत्र श्रेष्ठात् श्रेष्ठं मुक्त्वा ये प्राणास्त इन्द्रियाणि इन्द्रियशब्देनोक्ताः श्रुतौ , अतः प्राणासंभवीन्द्रियशब्दवाच्यत्वादिन्द्रियाणि प्राणात्तत्त्वान्तराणीत्यर्थ इति।
तत्राऽपरितोषं दर्शयन् व्याख्यान्तरमाह –
अन्ये त्विति ।
न केवलमध्याहारापेक्षत्वात् प्रतिज्ञोक्तिरयुक्ता ; हेतूक्तिरपि पौनरुक्त्यादयुक्तेत्याह –
भेदश्रुतेश्चेति ।
यदि तद्व्यपदेशादितीन्द्रियाणां प्राणाद् भेदव्यपदेशादित्यर्थः , तर्ह्युत्तरसूत्रे स एव हेतुर्विवक्षित इति पुनरुक्तिरित्यर्थः । ननु प्राणा इतीन्द्रियाणीति च संज्ञाभेदस्तद्व्यपदेशादियुक्तः , प्रकरणभेदस्तु भेदश्रुतेरित्युक्त इत्यपौनरुक्त्यम् , प्रकरणभेदश्च भाष्ये प्रकटित इति , उच्यते ; यदीन्द्रियशब्दः प्राणशब्देनापुनरुक्तः सन्प्राणादन्यत्किंचिद्वक्तीति विवक्षितं ; तर्हि प्राणवृत्तीनामिन्द्रियाणां प्राणादन्यत्वात् सिद्धसाधनम् । अथ स्वतन्त्रं वक्तीति , न तर्हि संज्ञाभेदः संज्ञस्वातन्त्र्यव्याप्तः प्राणाप्राणवृत्तिशब्दयोरेव व्यभिचारात् । अत एव संज्ञाभेदं जानन्नेव तदप्रयोजकतां मन्वानो निबन्धात्तद्व्यपदेशं विवृण्वन् मृत्युप्राप्ताप्तत्वेत्यादिना प्रकरणभेदमेव वर्णयांबभूव । तत उभयत्रायमेव वक्तव्यस्तथा च पुनरुक्तिरित्यभिप्रायः । किंचास्यां व्याख्यायां तद्व्यपदेशादित्यत्रत्यस्तच्छब्दस्तत्त्वान्तराणीति प्रतिज्ञागतमध्याहृतपदार्थं परामृशेन्न साक्षादुक्तम् ।
स्वव्याख्यायां त्वेकादशप्राणानामिन्द्रियत्वाप्रतिज्ञानादिन्द्रियपदार्थमनन्तरोक्तं परामृशतीति लाभमाह –
तच्छब्दस्य चेति ।
नन्विन्द्रियशब्दश्चक्षुरादिषु रूढः कथं प्राणे वर्त्स्यतीत्यत आह –
इन्द्रस्येति ।
जीवभावमापन्नस्येत्यर्थः । स्मरति स्म हि भवगान् पाणिनिः ‘‘इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा’’ इति। इन्द्रशब्दात् षष्ठीसमर्थाल्लिङ्गमित्येतस्मिन्नर्थे घच् प्रत्ययो भवति । घस्यायनादिसूत्रेण इयादेशः । चकारश्चित इत्यन्तोदात्तार्थः । अस्मादेव तृतीयासमर्थादिन्द्रेण दृष्टमित्याद्यर्थे प्रत्ययो योज्यः । अत एव रूढौ सत्यां व्युत्पत्तिशङ्कैव नास्तीति केशवोक्तमसाधु ; स्मृतिदर्शनात् शङ्कोपपत्तेरिति। भौतिकमित्युक्ते देहस्यापीन्द्रियत्वं स्यादितीन्द्रलिङ्गत्वोक्तिः । न हि सुषुप्तौ देहमात्रम् इन्द्रमनुमापयति। यदि प्राणो न स्याद् इन्द्रलिङ्गत्वमज्ञानादेरप्यस्तीति भौतिकग्रहणम् ।
इन्द्रियत्व जातिव्यञ्जकमाह –
देहाधिष्ठानत्वे इति ।
तद्गोलकेषु देहशब्दः ।
तस्माद्रूढेरिति ।
रूढस्यैवेन्द्रियशब्दस्य स्वरसिद्ध्यर्थं पाणिनिर्व्युत्पत्तिमन्वशासदत एव चानियमप्रदर्शनम् । व्युत्पन्नेषु पाचकादिषु नियतोऽवयवार्थ , रूढानां पुनः शब्दानां यथाकथंचित्परिकल्पितेनाप्यवयवार्थेन व्युत्पत्तिः क्रियत इति । भाष्यकारीयं त्विति । द्वे इमे अधिकरणे इत्यर्थः ।
सूत्रेष्विति ।
बहुवचनं सूत्रद्वयगतपदाभिप्रायम् । एवं चाद्यसूत्रे एव यद्भाष्यकारैरिन्द्रियाणां प्राणवृत्तित्वनिरसनमकारि , तन्मात्रमयुक्तमित्युक्तं भवति। ननु टीकायां दुरक्तिचिन्ता न युक्ता , वार्तिके हि सा भवति , तर्हि वार्तिकत्वमस्तु न हि वार्तिकस्य शृङ्गमस्ति । अत एवानन्दमयाधिकरणे मान्त्रवर्णिकसूत्रे आरम्भणाधिकरणे च भावे चोपलब्धेरितिसूत्रभाष्यमनपेक्ष्य व्याख्यां चकार॥१७॥१८॥१९॥