नातिचिरेण विशेषात् ।
“दुर्निष्प्रपतरम्”(छा. उ. ५ । १० । ६) इति दुःखेन निःसरणं ब्रूते न तु विलम्बेनेति मन्यते पूर्वपक्षी । विना स्थूलशरीरं न सूक्ष्मशरीरे दुःखभागीति दुर्निष्प्रपतरं विलम्बं लक्षयतीति राद्धान्तः ॥ २३ ॥
नातिचरेण विशेषात् ॥२३॥ आकाशादिसादृश्यचिराचिरत्वविचारणात्संगतिः ।
स्यादेतत् - अतो वै खलु दुर्निष्प्रपततरमिति दुरुपसर्गतरप् प्रत्ययाभ्यां व्रीह्यादिप्राप्तिनिर्गमनस्यैव विलम्बितत्वप्रतीत्यन्यथानुपपत्त्याऽऽकाशादेर्वेगान्निष्क्रमणं प्रतीयते , ततः कथं तत्रापि चिरावस्थानेन पूर्वपक्षोऽत आह –
दुर्निष्प्रपतरमिति ।
दुःशब्दो ह्येकदेशलक्षणया दुःखं वक्ति , न तुव्यवधानात् विलम्बमित्यर्थः । उत्तराधिकरणेऽनुशयिनां दुःखनिषेधान्मन्यते इत्युक्तम् ।
एतदेव विवृण्वन् सिद्धान्तयति –
विनेति ।
न चैवमस्यानारम्भः ; अनुशयिनामाकाशादिप्रवर्षणान्तसादृश्यं चिरभावि अनुशयिसादृश्यरूपत्वाद् ब्रीह्यादिसादृश्यवदित्यनुमानस्य प्रागुक्तश्रुतार्थापत्त्या बाधार्थमधिकरणान्तरारम्भोपपत्तेरिति ॥२३॥