भामतीव्याख्या
वेदान्तकल्पतरुः
 

अन्याधिष्ठितेषु पूर्ववदभिलापात् ।

आकाशसारूप्यं वायुधूमादिसम्पर्कोऽनुशयिनामुक्त इहेदानीं व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्त इति श्रूयते । तत्र संशयः किमनुशयिनां भोगाधिष्ठानं व्रीहियवादयः स्थावरा भवन्ति, आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेष्वेषु संसर्गमात्रमनुभवन्तीति । तत्र मनुष्यो जायते देवो जायत इत्यादौ प्रयोगे जनेः शरीरपरिग्रहे प्रसिद्धत्वादत्रापि व्रीह्यादिशरीरपरिग्रह एव जनिर्मुख्यार्थ इति व्रीह्यादिशरीरा एवानुशयिन इति युक्तम् । नच रमणीयचरणाः कपूयचरणा इतिवत्कर्मविशेषासङ्कीर्तनात्तदभावे व्रीह्यादीनां शरीरभावाभावात्क्षेत्रज्ञान्तराधिष्ठितानामेव यत्सम्पर्कमात्रमिति साम्प्रतम् । इष्टादिकारिणामिष्टादिकर्मसङ्कीर्तनादिष्टादेश्च हिंसादोषदूषितत्वेन सावद्यफलतया चन्द्रलोकभोगानन्तरं स्थावरशरीरभोग्यदुःखफलत्वस्याप्युपपत्तेः । नच ‘न हिंस्यात्सर्वा भूतानि’ इति सामान्यशास्त्रस्याग्नीषोमीयपशुहिंसाविषयविशेषशास्त्रेण बाधनं, सामान्यशास्त्रस्य हिंसामान्यद्वारेण विशेषोपसर्पणं विलम्बेनेति साक्षाद्विशेषस्पृशः शास्त्रच्छीघ्रतरप्रवृत्ताद्दुर्बलत्वादिति साम्प्रतम् । नहि बलवदित्येव दुर्बलं बाधते किन्तु सति विरोधे । न चेहास्ति विरोधः, भिन्नगोचरचारित्वात् । ‘अग्नीषोमीयं पशुमालभेत’ इति हि क्रतुप्रकरणे समाम्नातं क्रत्वर्थतामस्य गमयति न त्वपनयति निषेधापादितामस्य पुरुषं प्रत्यनर्थहेतुताम् । तेनास्तु निषेधादस्य पुरुषं प्रत्यनर्थहेतुता विधेश्च क्रत्वर्थता को विरोधः । यथाहुः “यो नाम क्रतुमध्यस्थः कलञ्जादीनि भक्षयेत् । न क्रतोस्तत्र वैगुण्यं यथा चोदितसिद्धितः” इति । तस्माज्जनेर्मुख्यार्थत्वाद्व्रीह्यादिशरीरा अनुशयिनो जायन्त इति प्राप्तेऽभिधीयते - भवेदेतदेवं यदि रमणीयचरणाः कपूयचरणा इतिवद्व्रीह्यादिष्वनुशयवतां कर्मविशेषः कीर्त्येत न चैतदस्ति । न चेष्टादेः कर्मणः स्थावरशरीरोपभोग्यदुःखफलप्रसवहेतुभावः सम्भवति, तस्य धर्मत्वेन सुखैकहेतुत्वात् । नच तद्गतायाः पशुहिंसायाऽन हिंस्यात्ऽइति निषेधात्क्रत्वर्थाया अपि दुःखफलवत्वसम्भवः । पुरुषार्थाया एव न हिंस्यादिति प्रतिषेधात् । तथाहि - न हिंस्यादिति निषेधस्य निषेध्याधीननिरूपणतया यदर्थं निषेध्यं तदर्थ एव निषेधो विज्ञायते । न चैतत् ‘नानृतं वदेत्’ ‘न तौ पशौ करोति’ इतिवत्कस्यचित्प्रकरणे समाम्नातं येनानृततवदनवदस्य निषेध्यस्य क्रत्वर्थत्वे निषेधोऽपि क्रत्वर्थः स्यात् । पशौ निषिद्धयोराज्यभागयोः क्रत्वर्थत्वेन निषेधस्यापि क्रत्वर्थत्वं भवेत् । एवं हि सत्याज्यभागरहितैरप्यङ्गान्तरैराज्यभागसाध्यः क्रतूपकारो विज्ञायते । तस्मादनारभ्याधीतेन न हिंस्यादित्यनेनाभिहितस्य विध्युपहितस्य पुरुषव्यापारस्य विधिविभक्तिविरोधात्प्रकृत्यर्थहिंसाकर्मभाव्यत्वपरित्यागेन पुरुषार्थ एव भाव्योऽवतिष्ठते । आख्यातानभिहितस्यापि पुरुषस्य कर्तृव्यापाराभिधानद्वारेणोपस्थापितत्वात् । केवलं तस्य रागतः प्राप्तत्वात्तदनुवादेन नञर्थं विधिरुपसङ्क्रामति, तेन पुरुषार्थो निषेध्य इति तदधीननिरूपणो निषेधोऽपि पुरुषार्थो भवति । तथा चायमर्थः सम्पद्यते यत्पुरुषार्थं हननं तन्न कुर्यादिति । क्रत्वर्थस्यापि च निषेधे हिंसायाः क्रतूपकारकत्वमपि कल्प्यते । नच दृष्टे पुरुषोपकारकत्वे प्रत्यर्थिनि सति तत्कल्पनास्पदम् । नच स्वातन्त्र्यपारतन्त्र्ये सति संयोगपृथक्त्वे खादिरतादिवदेकत्र सम्भवतः । तस्मात्पुरुषार्थप्रतिषेधो न क्रत्वर्थत्वमप्यास्कन्दतीति शुद्धसुखफलत्वमेवेष्टादीनां न स्थावरशरीरोपभोग्यदुःखफलत्वमपीति । आकाशादिष्विव कर्मव्यापारमन्तरेणाभिलापात् । अनुशयिनां व्रीह्यादिसंयोगमात्रं न तु देहत्वमिति । अयमेवार्थ उत्सर्गापवादकथनेनोपलक्षितः ।

अपिच मुख्येऽनुशयिनां व्रीह्यादिजन्मनीति ।

व्रीह्यादिभावमापन्नाः खल्वनुशयिनः पुरुषैरुपभुक्ता रेतःसिग्भावमनुभवन्ती श्रूयते । तदेतद्व्रीह्यादिदेहत्वेऽनुशयिनां नोपपद्यते । व्रीह्यादिदेहत्वे हि व्रीह्यादिषु लूनेष्ववहन्तिना फलीकृतेषु च व्रीह्यादिदेहविनाशादनुशयिनः प्रवसेयुरिति कथमनुशयिनां रेतःसिग्भावः संसर्गमात्रे तु संसर्गिषु व्रीह्यादिषु नष्टेष्वपि न संसर्गिणोऽनुशयिनः प्रवसेयुरिति रेतःसिग्भाव उपपद्यते । शेषमुक्तम् ॥ २४ ॥

अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥

रेतःसिग्योगोऽथ ।

सद्यो जातो हि बालो न रेतःसिग्भवत्यपि तु चिरजातः प्रौढयौवनः, तस्मादपि संसर्गमात्रमिति गम्यते ॥ २६ ॥

तत्किमिदानीं सर्वत्रैवानुशयिनां संसर्गमात्रं तथाच रमणीयचरणा इत्यादिषु तथाभाव आपद्येतेति नेत्याह –

योनेः शरीरम् ।

सुगमम् ॥ २७ ॥

इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमांसाभाष्यविभागे भामत्यां तृतीयस्याध्यायस्य प्रथमः पादः ॥

अन्याधिष्ठिते पूर्ववदभिलापात् ॥२४॥ अत्र जायन्त इति श्रुतेः कर्मपूर्वकत्वाश्रुतेश्च संशयो भवति ।

श्रुतेरुपचरितार्थत्वस्योक्तत्वात् पुनरुक्तिमाशङ्क्याह –

आकाशसारूप्यमिति ।

सर्वगताकाशसंयोगस्यासाध्यत्वात्सादृश्यं तेनोक्तमित्यर्थः । अन्यस्यान्यथाभावानुपपत्तेर्हि तत्रोपचार उक्तः , अत्र तु जायते इति शब्दस्य देहग्रहणे रूढत्वात्तदाशङ्क्यते , तच्चाविरुद्धमिति न गौणत्वावहमित्यर्थः । अस्मिन्प्रकरणे यन्मुख्यं जन्म तत्कर्मसाध्यं श्रुतं , यथा रमणीयचरणा इत्यादि ।

अत्र तु व्यापककर्मजत्वश्रुतिव्यावृत्त्या तद्व्याप्यमुख्यत्वव्यावृत्तिमाशङ्क्य हेत्वसिद्धिमाह –

न च रमणीयेत्यादिना ।

शरीरभावः शरीरत्वं तस्याभावादित्यर्थः ।

नन्विष्टादेर्विहितत्वात् पुण्यस्य कथं स्थावरशरीरप्राप्तिहेतुता? अत आह –

इष्टादेश्चेति ।

विहितत्वेऽपि तद्गतपशुहिंसोच्छिष्टसोमभक्षादेर्निषिद्धत्वाद् दुःखहेतुतेत्यर्थः । सामान्यविषयनिषेधशास्त्रस्य विशेषशास्त्रेण बाधनं स्यात् , कुतः ? तस्य ततो दुर्बलत्वादित्येतन्न च सांप्रतमिति योजना ।

सामान्यशास्त्रस्य दौर्बल्ये हेतुः –

सामान्यद्वारेणेति ।

विशेषशास्त्रप्राबल्ये हेतुः –

साक्षादिति ।

ननु क्रतुप्रकरणस्थहिंसाविधेर्हिंसागतक्रतुशेषत्वं विषयः , हिंसानिषेधस्य तद्गतानर्थफलत्वं गोचर इति विषयभेदाद्विधिनिषेधयोरविरोधश्चेत्तर्हि क्रतुमध्ये निषिद्धहिंसानुष्ठाने क्रतुवैगुण्यं स्यादित्याशङ्क्याह –

यथाहुरिति ।

कलञ्जभक्षणादिनिषेधानां पुरुषार्थत्वात्तदतिक्रमे पुरुषस्यैव प्रत्यवायो न क्रतोर्वैगुण्यम् । यथाविहितस्य तस्य सिद्धेः ।न हि क्रतुशेषः प्रतिषेधो यतस्तदतिलङ्घनात्क्रतुवैगुण्यं स्यादिति भट्टोक्तेरर्थः ।

एवं हि विहिताया अपि हिंसाया दुःखफलत्वं , यदि विधिनिषेधयोरेकविषयत्वं , तदेव नास्तीत्याह –

पुरुषार्थाया एवेति ।

क्रत्वर्थो हि प्रतिषेधः क्रत्वार्था हिंसा प्रतिषेधेत् ।

तत्र यद्ययं न हिंस्यादिति निषेधः क्रत्वार्थां हिंसा प्रतिषेधेत् , तर्ह्येव क्रत्वर्थः स्यात्तच्च नास्तीति वदिष्यन् निषेध्यनिषेधयोरेकार्थतामाह –

तथा हीति ।

यो हि यदर्थं प्रवृत्तो यस्माद्विषयाद् निवार्यते तन्निषेधोऽपि तदर्थ इत्यर्थः ।

तर्हि क्रत्वर्थहिंसाप्रतियोगिकोऽयं प्रतिषेधोऽत एव क्रत्वर्थश्चेत्याशङ्क्याह –

न चैतदिति ।

येन प्रकरणाम्नातत्वेनानृतवदनस्य क्रत्वर्थत्वेन तन्निषेधोऽपि क्रत्वर्थः स्याद् , येन च तेनैव प्रकरणाम्नातत्वेन पशौ निषिद्धयोराज्यभागयोः क्रत्वर्थत्वात्तन्निषेधस्यापि क्रत्वर्थत्वं भवेत् , तेन प्रकारेण न हिंस्यादित्येतत् कस्यचित्प्रकरणे न समाम्नातमित्यर्थः ।

नन्वाज्यभागौ भवेतां क्रत्वर्थौ , निषेधस्त्वभावार्थः कथं क्रत्वर्थः स्यादत आह –

एवं हि सतीति ।

पशुयागेऽतिदेशप्राप्ताज्यभागनिषेधे सति तद्वर्जनयुक्ताङ्गान्तरैर्भावार्थरूपैराज्यभागसाध्य उपकारो जन्यते न केवलनिषेधमात्रात् । अतश्च विकल्प आज्यभागतदभावयोः । फलभूमार्थिनस्त्वनुष्ठानम् । प्राभाकरास्तु पर्युदासमेतमाहुः । अत्र च पशुप्रकरण एवैतद्वाक्यमस्तीति कृत्वा प्रतिषेधत्वमस्योक्तम् । गुणोपसंहारे तु हानौ तूपायनेत्यधिकरणे(ब्र.अ.३.पा.३.सू.२६) दर्शपूर्णमासप्रकरणपठितस्य न तौ पशावित्यस्य पाशुकप्रकरणाभ्युपगतैतद्वाक्यसिद्धार्थानुवादित्वेनार्थवादत्वं वक्ष्यतीति न विरोध इति ।

अनृतवदननिषेधस्य क्रत्वर्थत्वेऽधिकरणमनुक्रम्यते –

दर्शपूर्णमासयोराम्नायते नानृतं वदेदिति ।

तत्रायं निषेधः क्रत्वर्थः पुरुषार्थो वेति संशयः , तदर्थं प्रतिषेध्या प्रवृत्तिः किमर्थेति च चिन्त्यते । यो हि यदर्थं प्रव्रृत्तः सन्निवार्यते स तदर्थमेव च निवार्यते । प्रवृत्तिकैमर्थ्यनिर्णयाय च आख्यातेन कर्ताऽभिधीयते न वेति च विचार्यते । अभिहिते हि कर्तरि तस्य प्रत्ययेन प्राधान्येनाभिहितत्वात् प्रवृत्तेः प्रयोजनाकाङ्क्षावेलायां श्रुतिसन्निधापितकर्त्रपेक्षितोपायत्वं प्रकरणबाधयाऽवगम्येत , अनिभिहिते तु बाधकश्रुत्यभावादर्थाच्च कर्तुः प्रवृत्ति प्रति गुणत्वेनैवावगतेः प्रकरणेन प्रवृत्तेः क्रत्वर्थताऽवधार्यते । तत्र पचति देवदत्त इत्याद्याख्यातैः कर्त्रवगमाद् लः कर्मणि चेति सूत्रगतचकारेण कर्तर्यपि लकारविधानाद् लकारादेशानां च तिवादीनां स्थानिवद्भावेन कर्तृवाचकत्वादाख्याताभिधेयः कर्तेति प्रापय्य राद्धान्तितं शेषलक्षणे । क्रत्वर्थोऽयं प्रतिषेधः , आख्यातेन कर्तुरनभिधानात् । या त्वाख्यातात्कर्तृप्रतीतिः सा आख्याताभिहितभावनया कर्तुरुपस्थापनादन्यथासिद्धा । सूत्रं त्वभिधेयत्वद्योत्यत्वयोरुदासीनम् । अपि च लः कर्मणीत्यभिधाय द्व्येकयोरिति सूत्रेण द्वित्वैकत्वयोरर्थयोर्द्विवचनैकवचनविधानात् कर्तृसंख्यैवाख्यातवाच्या न कर्ता । संख्येयकर्तृविवक्षायां हि द्व्येकेष्विति स्याद् ; द्वयोरेकस्य च कर्तॄणां बहुत्वात् । आख्यातेन कर्तुरानभिधानेऽनभिहिताधिकारविहिततृतीयापत्तेः पचति देवदत्तेनेति प्रयोगप्रसङ्गः । गम्यमानकर्तुः संख्याया अनेनाभिधाने करणादिसंख्यानामप्याख्यातेनाभिधानप्रसङ्गः । पच्यत इत्यत्रापि कर्तुर्गम्यमानत्वात्तत्संख्याभिधानापात इति चेद् , न , अनभिहितस्यापि कर्तुरितरकारकापेक्षया प्रधानत्वाद्भावनायाश्च तद्व्यापारत्वादाख्यातेन प्राधान्येन द्योतनादनभिहिताधिकारस्य च प्राधान्येन द्योतितत्वाभिप्रायत्वात् , करणादीनां पचतीत्याद्याख्यात्तैः प्राधान्येन ध्वनितत्वाभावात् , पच्यत इत्यादौ च कर्मप्राधान्येन कर्तृप्राधान्यस्याद्योतनात् । तस्मादाख्यातेन कर्तुरनभिधानात्सिद्धमनृतवदनप्रतिषेधस्य क्रत्वर्थत्वमिति ॥

ननु मा भूत् प्रकरणानाम्नानान्न हिंस्यादिति निषेधस्य क्रत्वर्थता , पुरुषार्थत्वं तु कथमवगम्यते? न हीह पुरुषस्तदर्थोवगम्यत इति तत्र पुरुषार्थप्रतीतिमुपपादयति –

तस्मादनारभ्याधीतेनेति ।

न हिंस्यादित्यनेनेति नञ् व्यतिरिक्तोपादानं विवक्षितम् । अत्र वाक्ये हिंस्यादिति भागेनाभिहितस्य पुरुषव्यापारस्य पुरुषार्थ एव भाव्य इत्यन्वयः ।

ननु हिंसैव भाव्या किं न स्यादत आह –

विध्युपहितस्येति ।

श्रेयःसाधनत्वविध्यवच्छिन्नत्वादित्यर्थः ।

न केवलमर्थविरोधो धात्वर्थभाव्यत्वे , अपि तु शब्दविरोधश्चेत्याह –

विधिविभक्तीति ।

हिंसैव कर्मक्रिया तद्भाव्यत्वपरित्यागेनेत्यर्थः ।

पुरुषप्रतीतिमुपपादयति –

आख्यातानभिहितस्यापीति ।

कर्त्रधिकरणे तु अनभिहितपुरुषस्याप्राधान्येन निषेधस्य प्रकरणवशात् क्रत्वर्थमुक्तम् , इह तु प्रकरणाभावादार्थिककर्तृशेषत्वमविरुद्धं निषेधस्य । एतच्च प्राचीनग्रन्थे अनारभ्याधीतेनेति पदेन द्योतितम् ।

ननु हिंस्यादिति विध्यंशेन यदि हिंसाश्रेयःसाधनमवगता , कथं तर्हि निषेधावकाशः? इत्याशङ्क्यानुवादत्वमाह –

केवलमिति ।

स्यादेतत् - हिंस्यादिति क्रतुपुरुषार्थसाधारणी हिंसाऽनूद्य निषिध्यतां , तथा चोभयार्थत्वं निषेधस्य वाक्येनावगम्यतामिति , नेत्याह –

क्रत्वर्थस्यापि चेति ।

हिंसाविषयस्य निषेधस्य रागप्राप्तहिंसाविषयत्वेन चरितार्थत्वेऽधिकारान्तरानुप्रविष्टक्रतुशेषहिंसानुवादतन्निषेधविषयत्वकल्पनायां गौरवं स्यादित्यर्थः ।

उभयनिषेधे च वाक्यभेदः स्यादित्याह –

न च स्वातन्त्र्येति ।

क्रत्वर्थनिषेधत्वे हि क्रत्वर्थत्वात् पारतन्त्र्यं स्यात् , पुरुषार्थनिषेधत्वे पुरुषार्थत्वात्स्वातन्त्र्यम् । तच्च वाक्यद्वयेन संबन्धद्वयबोधने भवेद् , न त्विहेत्यर्थः ।

विधिनिषेधयोर्विषयभेदमुक्तमुपसंहरति –

तस्मादिति ।

यदा च निषेधस्य रागप्राप्तार्थता , तदा इष्टादिकर्मणः पुण्यमात्ररूपत्वाद्व्रीह्यादिभावस्य कर्मजन्यत्वासंकीर्तनरूपो हेतुः सिद्ध इत्याह –

आकाशादिष्विवेति ।

अत्र भाष्यकारैर्न हिंस्यादित्युत्सर्गः , अग्नीषोमीयमालभेतेत्यपवाद इत्युक्तम् , तदयुक्तम् ; विशेषविधिविहितस्यार्थस्य सामान्यविधिनापि विषयीकारे ह्युत्सर्गापवादन्यायः । यथाऽऽहवनीये जुहोति पदे जुहोतीति होममात्रस्याहवनीयान्वयविधिना पदहोमस्यापि विषयीकारे पदहोमान्वयविशेषविधिना बाधात्तदितरपरत्वं सामान्यशास्त्रस्य ।

अत्र तु वर्णितेनन्यायेन निषेधस्योत्पत्तिसमय एव पुरुषार्थहिंसाविषयत्वान्न क्रत्वर्थहिंसानुप्रवेश इत्याशङ्क्याह –

अयमेवार्थ इति ।

एकस्य निषेधविधैः स्वविषयस्य क्रत्वर्थत्वेन पुरुषार्थत्वेन च विनियोगे विरोधात् सामान्यविषयत्वे च पुरुषार्थहिंसासु सावकाशस्य न क्रत्वर्थहिंसानिषेधविषयत्वं तदा ह्यधिकारान्तरानुप्रवेशित्वेन सापेक्षत्वं स्यादिति यो विषयनिष्कर्षः कृतोऽयमेवाविशेषप्रवृत्तत्वेनावभासमानशास्त्रस्य विशेषत्याजनलक्षणगुणसाम्यादुत्सर्गापवाद इत्युक्त इत्यर्थः । अवहन्तिना फलीकृतेषु=कण्डितेषु । तेऽनुशयिन इह लोके व्रीहियवा इत्येवंरूपेण जायन्ते । यो यो ह्युनुशयिभिः संश्लिष्टमन्नमत्ति स एव च यो रेतः सिञ्चति स्त्रियामृतुकाले तद्भूय एव तद्भाव एव तत्समानाकारतामित्यर्थः । भवति प्रतिपद्यते अनुशयी । तथा च मनुष्यान्मनुष्यो जायते पश्वादेश्च पश्वादिरिति ॥२४॥२५॥२६॥२७॥

इति षष्ठं अन्याधिष्ठिताधिकरणम् ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकभगवदमलानन्दविरचिते वेदान्तकल्पतरौ तृतीयस्याध्यायस्य प्रथमः पादः ॥