भामतीव्याख्या
वेदान्तकल्पतरुः
 

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ।

अवान्तरसङ्गतिमाह –

येन ब्रह्मणा सुषुप्तादिष्विति ।

यद्यपि “तदनन्यत्वमारम्भणशब्दादिभ्यः”(ब्र. सू. २ । १ । १४) इत्यत्र निष्प्रपञ्चमेव ब्रह्मोपपादितं तथापि प्रपञ्चलिङ्गानां बह्वीनां श्रुतीनां दर्शनाद्भवति पुनर्विचिकित्सा अतस्तन्निवारणायारम्भः । तस्य च तत्त्वज्ञानमपवर्गोपयोगीति प्रयोजनवान् विचारः । तत्रोभयलिङ्गश्रवणादुभयरूपत्वं ब्रह्मणः प्राप्तम् । तत्रापि सविशेषत्वनिर्विशेषत्वयोर्विरोधात्स्वाभाविकत्वानुपपत्तेरेकं स्वतोऽपरं तु परतः । नच यत्परतस्तदपारमार्थिकम् । नहि चक्षुरादीनां स्वतःप्रमाणभूतानां दोषतोऽप्रामाण्यमपारमार्थिकम् । विपर्ययज्ञानलक्षणकार्यानुत्पादप्रसङ्गात् । तस्मादुभयलिङ्गकशास्त्रप्रामाण्यादुभयरूपता ब्रह्मणः पारमार्थिकीति प्राप्त उच्यते न स्थानत उपाधितोऽपि परस्य ब्रह्मण उभयचिह्नत्वसम्भवः । एकं हि पारमार्थिकमन्यदध्यारोपितम् । पारमार्थिकत्वे ह्युपाधिजनितस्य रूपस्य ब्रह्मणः परिणामो भवेत् । स च प्राक्प्रतिषिद्धः । तत्पारिशेष्यात्स्फटिकमणेरिव स्वभावस्वच्छधवलस्य लाक्षारसावसेकोपाधिररूणिमा सर्वगन्धत्वादिरौपाधिको ब्रह्मण्यध्यस्त इति पश्यामो निर्विशेषताप्रतिपादनार्थत्वाच्छ्रुतीनाम् । सविशेषतायामपि “यश्चायमस्यां पृथिव्यां तेजोमयः”(बृ. उ. २ । ५ । १) इत्यादीनां श्रुतीनां ब्रह्मैकत्वप्रतिपादनपरत्वादेकत्वनानात्वयोश्चैकस्मिन्नसम्भवादेकत्वाङ्गत्वेनैव नानात्वप्रतिपादनपर्यवसानात् , नानात्वस्य प्रमाणान्तरसिद्धतयानुवाद्यत्वादेकत्वस्य चानधिगतेर्विधेयत्वोपपत्तेर्भेददर्शननिन्दया च साक्षाद्भूयसीभिः श्रुतिभिरभेदप्रतिपादनादाकारवद्ब्रह्मविषयाणां च कासाञ्चिच्छ्रुतीनामुपासनापरत्वमसति बाधकेऽन्यपराद्वचनात्प्रतीयमानमपि गृह्यते । यथा देवतानां विग्रहवत्त्वम् । सन्ति चात्र साक्षाद्वैतापवादेनाद्वैतप्रतिपादनपराः शतशः श्रुतयः । कासाञ्चिच्च द्वैताभिधायिनीनां तत्प्रविलयपरत्वम् । तस्मान्निर्विशेषमेकरूपं चैतन्यैकरसं सद्ब्रह्म परमार्थतः, विशेषाश्च सर्वगन्धत्ववामनीत्वादय उपाधिवशादध्यस्ता इति सिद्धम् । शेषमतिरोहितार्थम् ॥ ११ ॥

न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥

अपि चैवमेके ॥ १३ ॥

अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥

प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥

आह च तन्मात्रम् ॥ १६ ॥

दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥

अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥

अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९ ॥

वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥

दर्शनाच्च ॥ २१ ॥

अत्र केचिद्द्वे अधिकरणे कल्पयन्तीति ।

किं सल्लक्षणं च प्रकाशलक्षणं च ब्रह्म किं सल्लक्षणमेव ब्रह्मोत प्रकाशलक्षणमेवेति तत्र पूर्वपक्षं गृह्णाति –

प्रकाशवच्चावैयर्थ्यात् ।

चकारात्सच्च । अवैयर्थ्यात् ।

ब्रह्मणि सच्छ्रुतेः सिद्धान्तयति –

आह च तन्मात्रम् ।

प्रकाशमात्रम् । नहि सत्त्वं नाम प्रकाशरूपादन्यत् , यथा सर्वगन्धत्वादयोऽपि तु प्रकाशरूपमेव सदिति नोभयरूपत्वं ब्रह्मण इत्यर्थः । तदेतदनेनोपन्यस्य दूषितम् । सत्ताप्रकाशयोरेकत्वे नोभयलक्षणत्वम् । भेदे न स्थानतोऽपीति निराकृतमिति नाधिकरणान्तरं प्रयोजयति । परमार्थतस्त्वभेद एव प्रकर्षप्रकाशवदिति । सर्वेषां च साधारणे प्रविलयार्थत्वे सति” अरूपवदेव हि तत्प्रधानत्वात्” इति विनिगमनकारणवचनमनवकाशं स्यात् । एवं हि तस्यावकाशः स्याद्याद काश्चिदुपासनापरतया रूपमाचक्षीरन् काश्चिन्नीरूपब्रह्मप्रतिपादनपरा भवेयुः । सर्वासां तु प्रविलयार्थत्वेन नीरूपब्रह्मप्रतिपादनार्थत्वे उक्तो विनिगमनहेतुर्न स्यादित्यर्थः । एकनियोगप्रतीतेः प्रयाजदर्शपूर्णमासवाक्यवदित्यधिकाराभिप्रायम् , अनुबन्धभेदात्तु भिन्नोऽनयोरपि नियोग इति ।

कोऽयं प्रपञ्चप्रविलय इति ।

वास्तवस्य वा प्रपञ्चस्य प्रविलयः सर्पिष इवाग्निसंयोगात् । समारोपितस्य वा रज्ज्वां सर्पभावस्येव रज्जुतत्त्वपरिज्ञानात् । न तावद्वास्तवः सर्वसाधारणः पृथिव्यादिप्रपञ्चः पुरुषमात्रेण शक्यः समुच्छेत्तुम् । अपिच प्रह्लादशुकादिभिः पुरुषधौरेयैः समूलमुन्मूलितः प्रपञ्च इति शून्यं जगद्भवेत् । नच वास्तवं तत्त्वज्ञानेन शक्यं समुच्छेत्तुम् । आरोपितरूपविरोधित्वात्तत्त्वज्ञानस्येत्युक्तम् । समारोपितरूपस्तु प्रपञ्चो ब्रह्मतत्त्वज्ञापनपरैरेव वाक्यैर्ब्रह्मतत्त्वमवबोधयद्भिः शक्यः समुच्छेत्तुमिति कृतमत्र विधिना । नहि विधिशतेनापि विना तत्त्वावबोधनं प्रवर्तस्वात्मज्ञान इति वा कुरु प्रपञ्चप्रविलयं वेति प्रवर्तितः शक्नोति प्रपञ्चप्रविलयं कर्तुम् । न चास्यात्मज्ञानविधिं विना वेदान्तार्थब्रह्मतत्त्वावबोधो न भवति । मौलिकस्य स्वाध्यायाध्ययनविधेरेव विवक्षितार्थतया सकलस्य वेदराशेः फलवदर्थावबोधनपरतामापादयतो विद्यमानत्वात् । अन्यथा कर्मविधिवाक्यान्यपि विध्यन्तरमपेक्षेरन्निति । नच चिन्तासाक्षात्कारयोर्विधिरिति तत्त्वसमीक्षायामस्माभिरुपपादितम् । विस्तरेण चायमर्थस्तत्रैव प्रपञ्चितः । तस्मात् “जर्तिलयवाग्वा जुहुयात्” इतिवद्विधिसरूपा एते “आत्मा वा अरे द्रष्टव्य”(बृ. उ. २ । ४ । ५) इत्यादयो न तु विधय इति ।

तदिदमुक्तम् –

द्रष्टव्यादिशब्दा अपि तत्त्वाभिमुखीकरणप्रधाना न तत्त्वावबोधविधिप्रधाना इति ।

अपिच ब्रह्मतत्त्वं निष्प्रपञ्चमुक्तं न तत्र नियोज्यः कश्चित्सम्भवति । जीवो हि नियोज्यो भवेत् , स चेत्प्रपञ्चपक्षे वर्तते को नियोज्यस्तस्योच्छिन्नत्वात् । अथ ब्रह्मपक्षे तथाप्यनियोज्यः, ब्रह्मणोऽनियोज्यत्वात् । अथ ब्रह्मणोऽनन्योऽप्यविद्ययान्य इवेति नियोज्यः । तदयुक्तम् । ब्रह्मभावं पारमार्थिकमवगमयतागमेनाविद्याया निरस्तत्वात् । तस्मान्नियोज्याभावादपि न नियोगः ।

तदिदमुक्तम् –

जीवो नाम प्रपञ्चपक्षस्यैवेति ।

अपिच ज्ञानविधिपरत्वे तन्मात्रात्तु ज्ञानस्यानुत्पत्तेस्तत्त्वप्रतिपादनपरत्वमभ्युपगमनीयम् । तत्र वरं तत्त्वप्रतिपादनपरत्वमेवास्तु तस्यावश्याभ्युपगन्तव्यत्वेनोभयवादिसिद्धत्वात् ।

एवं च कृतं तत्त्वज्ञानविधिनेत्याह –

ज्ञेयाभिमुखस्यापीति ।

नच ज्ञानाधाने प्रमाणानपेक्षस्यास्ति कश्चिदुपयोगो विधेः । एवं हि तदुपयोगो भवेद्यद्यन्यथाकारं ज्ञानमन्यथादधीत ।

नच तच्छक्यं वापि युक्तमित्याह –

नच प्रमाणान्तरेणेति ।

किञ्चान्यन्नियोगनिष्ठतयैव च पर्यवस्यत्याम्नाये यदभ्युपगतम्भवद्भिः शास्त्रपर्यालोचनयानियोज्यब्रह्मात्मत्वं जीवस्येति तदेतच्छास्त्राविरोधादप्रमाणकम् ।

अथैतच्छास्त्रमनियोज्यब्रह्मात्मत्वं च जीवस्य प्रतिपादयति जीवं च नियुक्तं ततो द्व्यर्थं च विरुद्धार्थं च स्यादित्याह –

अथेति ।

दर्शपौर्णमासादिवाक्येषु जीवस्यानियोज्यस्यापि वस्तुतोऽध्यस्तनियोज्यभावस्य नियोज्यता युक्ता । नहि तद्वाक्यं तस्य नियोज्यतामाहापि तु लौकिकप्रमाणसिद्धां नियोज्यतामाश्रित्य दर्शपूर्णमासौ विधत्ते । इदं तु नियोज्यतामपनयति च नियुङ्क्ते चेति दुर्घटमिति भावः ।

नियोगपरतायां चेति ।

पौर्वापर्यालोचनया वेदान्तानां तत्त्वनिष्ठता श्रुता न श्रुता नियोगनिष्ठतेत्यर्थः ।

अपिच नियोगनिष्ठत्वे वाक्यस्य दर्शपौर्णामासकर्मण इवापूर्वावान्तरव्यापारादात्मज्ञानकर्मणोऽप्यपूर्वावान्तरव्यापारादेव स्वर्गादिफलवन्मोक्षस्यानन्दरूपफलस्य सिद्धिः । तथा चानित्यत्वं सातिशयत्वं स्वर्गवद्भवेदित्याह –

कर्मफलवदिति ।

अपिच ब्रह्मवाक्येष्विति ।

सप्रपञ्चनिष्प्रपञ्चोपदेशेषु हि साध्यानुबन्धभेदादेकनियोगत्वमसिद्धम् । दर्शपौर्णमासप्रयाजवाक्येषु तु यद्यप्यनुबन्धभेदस्तथाप्यधिकारांशस्य साध्यस्य भेदाभावादभेद इति ॥ २१ ॥

न स्थानतोऽपि हि परस्योभयलिङ्गं सर्वत्र हि ॥११॥

अत्र कश्चिद् - भिन्नाभिन्ने ब्रह्मण्यभिन्नरूपमात्रं चिन्तनीयमित्यनेनाधिकरणेन विचार्यते , न तु भेदो निषिध्यते इति – वदति । तस्य भ्रान्तिज्ञानं ब्रह्मणि स्यात् , नहि रूपरसाध्यात्मके घटे रूपवानेवेति ज्ञानमभ्रान्तं भवति । भिन्नरूपमदृष्ट्वाऽभिन्नरूपं द्रष्टव्यमिति चेत् , तर्हि तस्य भिन्नाकारस्य ज्ञेयत्वेन ब्रह्मण्यनन्तर्भावाद् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपरोधः । भेदस्य चानुपास्यतायां भिन्नाभिन्ने ब्रह्मणि समन्वयनिरूपणं निष्फलम् । ज्ञानार्थो हि समन्वयः । तस्माद् - उपाधितोऽपि भेदस्य मायामात्रत्ववर्णनात् । निर्विशेषमिह ब्रह्मयाथात्म्यं प्रतिपद्यते ॥

प्रपञ्चलिङ्गानामिति ।

प्रपञ्चो लिङ्गं सविशेषब्रह्मणस्तद्याभिः प्रकाश्यते ताः प्रपञ्चलिङ्गाः ।

तस्य चेति ।

निष्प्रपञ्चब्रह्मण इत्यर्थः ।

सिद्धान्तात्पूर्वपक्षस्य विशेषमाह –

न चेति ।

ननु परोपाधिकं किंचित्सत्यं यथा चक्षुरादीनामप्रमाकरणत्वं किंचिन्मिथ्या यथा स्फटिकलौहित्यं तत्र सविशेषनिर्विशेषत्वयोर्यदन्यतरपक्षोपाधिकं तत्सत्यमेवेति कुतो निर्णयः ? तत्राह –

उभयलिङ्गकशास्त्रप्रामाण्यादिति ।

सविशेषतायामपीति ।

पृथिव्याद्युपाधिकसविशेषतायां सत्यामपि यश्चायमस्यां पृथिव्यां सश्चायमध्यात्ममिति तामनूद्यायमेव स इत्यद्वैतप्रतिपादकत्वादित्यर्थः ।

ननु पृथिव्याद्युपाधिकभेद एकत्वं च प्रतीयतामत आह –

एकत्वनानात्वयोश्चेति ।

भवतु तर्हि नानात्वमेव प्रतिपाद्यं , नेत्याह –

एकत्वाङ्गत्वेनैवेति ।

तदेव साधयति –

नानात्वस्येति ।

व्यावहारिकप्रमाणसिद्धभेदानुवादेन पारमार्थिकाभेदप्रतिपादनपरा श्रुतिरित्यर्थः ।

जीवब्रह्मणोरेकत्वमपि सत्त्वाद्यात्मना सिद्धमिति , तत्राह –

एकत्वस्य चेति ।

उपाधिनिषेधेनैकत्वस्यासिद्धेर्विधेयत्वोपपत्तेः - प्रतिपाद्यत्वोपपत्तेरित्यर्थः ।

ननु भवतु निर्गुणब्रह्मसन्निधिसमाम्नातभेदश्रुतीनां निषेध्यभेदानुवादकत्वमेकत्वस्य प्रतिपाद्यत्वाद् , उपासनाप्रकरणपठितभेदश्रुतीनां तु भेदपरत्वमस्तु , एकत्वस्य तत्राप्रतिपादनादत आह –

आकारवद्ब्रह्मेति ।

उपास्तिपरत्वान्न भेदप्रमापकत्वमित्यर्थः ।

ननु द्वा सुपर्णेत्याद्याः श्रुतयः सन्ति भेदप्रतिपादनपरास्तत्राह –

कासांचिच्चेति ।

अस्यां तावद् ऋचि बुध्द्युपाध्यकर्तृत्वनिषेधेन निर्विशेषः प्रत्यगात्मा प्रतिपाद्यते इति पैङ्ग्युपनिषद्व्याख्यातम् । एवमन्यत्रापि द्रष्टव्यम् ॥११॥१२॥१३॥१४॥१५॥१६॥१७॥१८॥१९॥२०॥

एकदेशिमते द्वितीयाधिकरणे वचनव्यक्तीराह –

किं सल्लक्षणमेवेति ।

एवकारो बोधाद्भेदव्यवच्छेदार्थः । बोधलक्षणमेवेत्यत्र तु बोधस्य सत्ताया भेदव्यावृत्त्यर्थः । ततश्च बोधात्मिका सत्ता सत्तात्मको वा बोधो ब्रह्मेति सिद्धान्तपक्षः प्रदर्शितः । सच्छ्रुतेः सदेवेदमित्याद्याया अवैयर्थ्यार्धं सत्तावच्च ब्रह्म मन्तव्यमित्यर्थः । तदेतदधिकरणवचनम् । अनेन अत्र केचिदित्यादिभाष्येणेत्यर्थः ।

अत्र पूर्वपक्षानुत्थानमाह –

सत्ताप्रकाशयोरिति ।

प्रकाशवच्च ब्रह्मेत्युक्ते किं सत्ताप्रकाशयोरभेद उत भेदः ।

आद्ये सिद्धान्त एवेति न पूर्वपक्षत्वमित्याह –

नोभयलक्षणत्वमिति ।

ब्रह्मण इति शेषः ।

द्वितीये गतार्थत्वमित्याह –

भेद इति ।

शङ्कितो भेदः स्वनिराकारणाय नाधिकरणान्तरं प्रयोजयतीत्यर्थः । पूर्वाभ्युपगमविरोधप्रसङ्गादिति भाष्यार्थोऽपि हेतुः पूर्वपक्षानुत्थान एव ; पूर्वाधिकरणसिद्धान्ते स्थिते तद्विरोधेन पूर्वपक्षानुत्थानादित्यर्थः । यश्च सत्ताप्रकाशयोरेकत्वं कृत्वा सद्बोधात्मकं ब्रह्मेति सिद्धान्तः सोऽप्ययुक्तः ; तथा सद्बोधशब्दयोः पर्यायत्वप्रसङ्गात् ।

कथं तर्हि सिद्धान्ते अखण्डत्वसिद्धिः ? अत आह –

परमार्थतस्त्विति ।

अनिर्वाच्यभेदाभ्युपगमात्र पर्यायता । परमार्थतस्तु ब्रह्मणो लक्ष्यस्याभेद एव , यथा प्रकृष्टप्रकाशश्चन्द्र इत्यत्र प्रकर्षप्रकाशाभ्यां लक्ष्यमाणचन्द्रस्यैकत्वं तद्वदित्यर्थः । प्रपञ्चितं चैतदस्माभिर्जन्मादिसूत्रे (ब्र.अ.१.पा.सू.२) ।

भाष्यमुपादाय व्याचष्टे –

सर्वेषां चेति ।

प्रयाजनियोगानामपि समिधो यजतीत्याद्याख्याताभिहितानां दर्शपूर्णमासनियोगाद्भेदाद्भाष्यायोगमाशङ्क्याह –

अधिकाराभिप्रायमिति ।

अधिकारः परमापूर्वं तदेकमिति तदपेक्षयैकनियोगत्वम् । अनुबन्धोनियोगावच्छेदको धात्वर्थः । स हि प्रयाजादावाग्नेयादौ च द्रव्यदेवतादिभेदाद् भिन्न इति । कुरु प्रपञ्चप्रविलयमिति प्रवर्तितो न शक्नोति प्रबिलयं कर्तुम् , प्रवर्तस्वात्मज्ञाने इति प्रवर्तितश्च न शक्नोत्यात्मज्ञानं कर्तुमित्यपि द्रष्ठव्यम् ।

अयं ज्ञातव्योऽर्थ इति विधिद्वारेणैव वाक्यस्य विवक्षितार्थत्वमित्याशङ्क्याह –

न चास्येति ।

अधिकारिणः इत्यर्थः ।

मा भूच्छाब्दज्ञाने विधिः , शब्दादेव तस्योत्पत्तिः ध्याने साक्षात्कारे वाऽस्तु तत्राह –

न चेति ।

जर्तिलेति ।

दशमे स्थितम् - ‘‘न चेदन्यं प्रकल्पयेत्प्रक्लृप्तौ चार्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च’’ (जै.अ.१०.पा.८.सू.७) अग्निहोत्रं प्रकृत्याधीयते – जर्तिलयवाग्वा जुहुयाद् गवीधुकयवाग्वा वा जुहुयाद् न ग्राम्यान्पशून् हिनस्ति नारण्याननाहुतिर्वै जर्तिलाश्च गवीधुकाश्च पयसाऽग्निहोत्रं जुहुयादिति । तत्र किं जर्तिलगवीधुकवाक्ये विधि , अनाहुतिरिति च प्रतिषेधः , पयसेति च विध्यन्तरम् । उत पयसेत्येव विधिरितरस्तदर्थोऽर्थवाद इति । तत्र अनाहुतिरिति निन्दाया निषेधशेषत्वेन विधिशेषत्वायोगान्निषेधं परिकल्प्य विधिनिषेधसमावेशाद्विकल्प इति प्राप्ते सिद्धान्तः । अनाहुतिरित्येतन्निषेधं प्रकल्पयेद् यद्यन्यं विधिं स्वशेषित्वेन न कल्पयेत् । कल्पयति त्विदं पयसेति विधिं स्वशेषित्वेन । प्रक्लृप्तौ चार्थवादः स्यात् । विध्येकवाक्यता हि प्रत्यक्षवाक्यभेदापादिकां प्रतिषेधकल्पना वारयति । किं च कल्पितेऽपि प्रतिषेधे विकल्पः स्यात् । जर्तिलगवीधुकयवागूभ्यां होतव्यं न होतव्यमिति । तत्र प्रतिषेधकल्पनस्यानर्थक्यम् ; होमार्थत्वेन जर्तिलगवीधुकपयसां विधिभिरेव विकल्पसिद्धेः ।

ननु निन्दायाः प्रतिषेधशेषत्वात् कथं विधिशेषत्वमत उक्तं –

परसामर्थ्याच्चेति ।

परेण पयोहोमविधिना एकवाक्यत्वसामर्थ्याच्चेत्यर्थः । इह हि ग्राम्यारण्यपशुहिंसाविरहाज्जर्तिलगवीधुकहोमः प्रशस्ततया कीर्त्यते । तदनु ततो पयोहोमस्य प्रशस्ततरत्वार्थमनाहुतिवाक्येन जर्तिलगवीधुकहोमौ निन्द्येते तस्मादर्थवाद इति ॥ निष्प्रपञ्चमुक्तम् एकदेशिनाऽपि न स्थानतोऽपी (ब्र.अ.३.पा.२.सू.११) त्याद्यधिकरणे इत्यर्थः ।

नियोज्य आकाशादिप्रपञ्चान्तर्भूतो ब्रह्मैव वा ब्रह्मण औपाधिकावच्छेदो वेति विकल्पान् क्रमेण निरस्यति –

स चेत्यादिना ।

त्वया विज्ञाते ब्रह्मणि तज्ज्ञानेन प्रपञ्चप्रविलयः साध्य इति वक्तव्यम् । तदा च ज्ञानजन्मानन्तरमेव नियोज्यस्योच्छिन्नत्वन्नियोगासिद्धिरित्यर्थः ।

तत्त्वप्रतिपादनस्य ज्ञानोत्पत्तावव्श्यापेक्षणीयत्वमुक्त्वा विधौ तदभावमाह –

न च ज्ञानाधान इति ।

साध्यानुबन्धभेदादिति ।द्वेधा हि प्राभाकराणां शास्त्रभेदः , साध्यभेदादनुबन्धभेदाच्च । तत्र साध्यं सप्तविधम् - उत्पत्तिप्राप्तिसंस्कृतिविकृतिकरणोपकारकरणावान्तरव्यापाराधिकाररूपम् । संयवनस्य पिण्ड उत्पाद्यः । दोहनस्य पयः प्राप्यम् । प्रोक्षणस्य व्रीहयः सत्कार्याः । अवघातस्य त एव विकार्याः । प्रयाजादीनां दर्शपूर्णमासादिकरणानि प्रत्युपकारः साध्यः । आग्नेयादीनां प्रत्येकं करणावान्तरव्यापाररूपाण्यपूर्वाणि साध्यानि । सर्वेषा चैषामधिकारापूर्वं परमसाध्यमिति । तैः साध्यैर्नियोगाः पिष्टं संयौतीत्यादिशास्त्राणि भिद्यन्ते । तथा द्रव्यदेवतादिरूपभेदाद्धात्वर्थभेदस्ततश्च नियोगावच्छेदकधात्वर्थात्मकविषयभेद इति । अस्यां पृथिव्यामधिदैवं यस्तेजोमयश्चिन्मात्रस्वरूपोऽमृतमयोऽमृतस्वरूपः पुरुषो यश्चायमध्यात्मं शरीरे भवः शारीरस्तावुभावपि सर्वेषां भूतानां मधु उपकारकौ तयोश्च सर्वाणि भूतानि मध्वित्यनुषज्यते । चशब्दादियं पृथिवी सर्वेषां भूतानां मद्वित्युपक्रमाच्च सोऽधिदैवाध्यात्मवच्छिन्नः पुरुषोऽयमेव योऽयमात्म सर्वकारणभूत इत्यर्थः । शास्त्राचार्यसंस्कृतमनसैवेदं ब्रह्माप्तव्यं ज्ञातव्यम् । ज्ञाते त्विह ब्रह्मणि किंचन किंचिदपि न नास्ति । यस्त्वविद्यया नानेव आभासं नानारूपं पश्यति स मृत्योर्मरणान्मृत्युं मरणं गच्छति । पुनःपुनर्म्रियते इत्यर्थः । यो भोक्ता जीवस्तं भोग्य शब्दादिप्रेरितारमीश्वरं च मत्वा विचार्य त्रिविधमेतद्ब्रह्म प्रोक्तम् । ब्रह्ममिति च्छान्दसम् । ब्रह्म मे तु मामितिवद् मे मम तद्द्ब्रह्म प्रोक्तमिति वा ।

तदेतदिति ।

तद् ब्रह्म सर्वकारणमेतदेवात्मरूपं तद्द्ब्रह्म विशेष्यते । पूर्वं कारणं तस्य न विद्यते इत्यपूर्वम् । स्वयं कार्यं न भवतीत्यर्थः । परं कार्यमस्य न विद्यते इत्यनपरम् । स्वयं च न कार्णमित्यर्थः । एवंविधमेतज्जातीयमन्यदस्य नास्तीति अनन्तरं तथा एवंविधं बाह्यं विजातीयमस्य च नास्तीत्यबाह्यम् ।

एवं तावदपूर्वादिलक्षणं ब्रह्मानूद्यात्मत्वं विहितम् , संप्रत्यात्मानुवादेन ब्रह्मत्वं विदधाति –

अयमिति ।

य आत्माऽयं ब्रह्मेत्यर्थः । स आत्मा किंलक्षणोऽत आह – सर्वानुभूः साक्षिरूपेण सर्वमनुभवतीति सर्वानुभूः । अधीह्यध्यापय भो भगवन् । आदिरस्य विद्यत इत्यादिमत्तद् न भवतीत्यनादिमत् सत् कारणम् असत्कार्यं च तद्रूपेण ब्रह्म नोच्यते । पुरः पुराणि । द्विपदो द्विपदोपलक्षितानि शरीराणि चक्रे । पुरः पुरस्ताच्चक्षुराद्यभिव्यक्तेः पूर्वमेव स च ईश्वरः पक्षी लिङ्गशरीरस्य तैत्तरीयादौ पक्षपुच्छादिसंपादनात् पक्षीति लिङ्गशरीरमुच्यते , तदभिमानी भूत्वा पुरः सृष्टानि शरीराणि पुरुष आविशत् प्रविष्ट इति ॥२१॥

इति पञ्चममुभयलिंगाधिकरणम् ॥