प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ।
अधिकरणविषयमाह –
द्वे वाव ब्रह्मणो रूपे इति ।
द्वे एव ब्रह्मणो रूपे ब्रह्मणः परमार्थतोऽरूपस्याध्यारोपिते द्वे एव रूपे ताभ्यां हि तद्रूप्यते ।
ते दर्शयति –
मूर्तं चैवामूर्तं च ।
समुच्चीयमानावधारणम् । अत्र पृथिव्यप्तेजांसि त्रीणि भूतानि ब्रह्मणो रूपं मूर्तं मूर्च्छितावयवमितरेतरानुप्रविष्टावयवं कठिनमिति यावत् । तस्यैव विशेषणान्तराणि मर्त्यं मरणधर्मकम् । स्थितमव्यापि । अवच्छिन्नमिति यावत् । सतन्येभ्यो विशिष्यमाणमसाधारणधर्मवदिति यावत् । गन्धस्नेहोष्णताश्चान्योन्यव्यवच्छेदहेतवोऽसाधारणा धर्माः । तस्यैतस्य ब्रह्मरूपस्य तेजोऽबन्नस्य चतुर्विशेषणस्यैष रसः सारो य एष सविता तपति । अथामूर्तं वायुश्चान्तरिक्षं च तद्धि न कठिनमित्यमूर्तमेतदमृतममरणधर्मकम् । मूर्तं हि मूर्तान्तरेणाभिहन्यमानमवयवविश्लेषाद्ध्वंसते नतु तथाभावः सम्भवत्यमूर्तस्य । एतद्यदेति गच्छति व्याप्नोतीति । एतत्त्यं नित्यपरोक्षमित्यर्थः । तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् सवितृमण्डले पुरुषः । करणात्मको हिरण्यगर्भप्राणाह्वयस्त्यस्य ह्येष रसः सारो नित्यपरोक्षता च साम्यमित्यधिदैवतम् । अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणान्तराकाशाभ्यां भूतत्रयं शरीरारम्भकमेतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्योष रस इति । अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेक्षन् पुरुषस्त्यस्य ह्येष रसः । लिङ्गस्य हि करणात्मकस्य हिरण्यगर्भस्य दक्षिणमक्ष्यधिष्ठानं श्रुतेरधिगतम् । तदेवं ब्रह्मण औपाधिकयोर्मूर्तामूर्तयोराध्यात्मिकाधिदैविकयोः कार्यकारणभावेन विभागो व्याख्यातः सत्त्यच्छब्दवाच्ययोः ।
अथेदानीं तस्य करणात्मनः पुरुषस्य लिङ्गस्य रूपं वक्तव्यम् । मूर्तामूर्तवासनाविज्ञानमयं विचित्रं मायामहेन्द्रजालोपमं तद्विचित्रैर्दृष्टान्तैरादर्शयति “तद्यथा माहारजनं”(बृ. उ. २ । ३ । ६) इत्यादिना । एतदुक्तं भवति मूर्तामूर्तवासनाविज्ञानमयस्य विचित्रं रूपं लिङ्गस्येति । तदेवं निरवशेषं सवासनं सत्यरूपमुक्त्वा यत्तत्सत्यस्य सत्यमुक्तं ब्रह्म तत्स्वरूपावधारणार्थमिदमारभ्यते । यतः सत्यस्य रूपं निःशेषमुक्तमतोऽवशिष्टं सत्यस्य यत्सत्यं तस्यानन्तरं तदुक्तिहेतुकं स्वरूपं वक्तव्यमित्याह –
अथात आदेशः
कथनं सत्यसत्यस्य परमात्मनस्तमाह –
नेति नेतीति ।
एतदर्थकथनार्थमिदमधिकरणम् ।
ननु किमेतावदेवादेश्यमुतेतः परमन्यतप्यस्तीत्यत आह –
नह्येतस्माद्ब्रह्मण इति ।
नेत्यादिष्टादन्यत्परमस्ति यदादेश्यं भवेत् । तस्मादेतावदेवादेश्यं नापरमस्तीत्यर्थः । अत्रैवमर्थेनेतिना यत्संनिहितं परामृष्टं तन्निषिध्यते नञा संनिहितं च मूर्तामूर्तं सवासनं रूपद्वयम् । तदवच्छेदकत्वेन च ब्रह्म । तत्रेदं विचार्यते किं रूपद्वयं सवासनं ब्रह्म च सर्वमेव च प्रतिषिध्यते, उत ब्रह्मैवाथ सवासनं रूपद्वयं ब्रह्म तु परिशिष्यत इति । यद्यपि तेषु तेषु वेदान्तप्रदेशेषु ब्रह्मस्वरूपं प्रतिपादितं तदसद्भावज्ञानं च निन्दितम् । “अस्तीत्येवोपलब्धव्यः”(क. उ. २ । ३ । १३) इति चास्य सत्त्वमवधारितं तथापि सद्बोधरूपं तद्ब्रह्म सवासनमूर्तामूर्तरूपसाधारणतया च सामान्यं तस्य चैते विशेषा मूर्तामूर्तादयः । नच तत्तद्विशेषनिषेधे सामान्यमवस्थातुमर्हति निर्विशेषस्य सामान्यस्यायोगात् । यथाहुः “निर्विशेषं न सामान्यं भवेच्छशविषाणवत्” इति । तस्मात्तद्विशेषनिषेधेऽपि तत्सामान्यस्य ब्रह्मणोऽनवस्थानात्सर्वस्यैवायं निषेधः । अत एव नह्येतस्मादिति नेत्यन्यत्परमस्तीति निषेधात्परं नास्तीति सर्वनिषेधमेव तत्त्वमाह श्रुतिः । “अस्तीत्येवोपलब्धव्यः”(क. उ. २ । ३ । १३) इति चोपासनाविधानवन्नेयं, न त्वस्तित्वमेवास्य तत्त्वम् । तत्प्रशंसार्थं चासद्भावज्ञाननिन्दा । यच्चान्यत्र ब्रह्मस्वरूपप्रतिपादनं तदपि मूर्तामूर्तरूपप्रतिपादनवन्निषेधार्थम् । असंनिहितोऽपि च तत्र निषेधो योग्यत्वात्सम्भन्स्यते । यथाहुः “येन यस्याभिसम्बन्धो दूरस्थस्यापि तेन सः” इति । तस्मात्सर्वस्यैवाविशेषेण निषेध इति प्रथमः पक्षः । अथवा पृथिव्यादिप्रपञ्चस्य समस्तस्य प्रत्यक्षादिप्रमाणसिद्धत्वात् , ब्रह्मणस्तु वाङ्मनसागोचरतया सकलप्रमाणविरहात् , कतरस्यास्तु निषेध इति विशये प्रपञ्चप्रतिषेधे समस्तप्रत्यक्षादिव्याकोपप्रसङ्गात् , ब्रह्मप्रतिषेधे त्वव्याकोपाद्ब्रह्मैव प्रतिषेधेन सम्बध्यते योग्यत्वान्न प्रपञ्चस्तद्वैपरीत्यात् , वीप्सा तु तदत्यन्ताभावसूचनायेति मध्यमः पक्षः ।
तत्र प्रथमं पक्षं निराकरोति –
न तावदुभयप्रतिषेध उपपद्यते शून्यवादप्रसङ्गादिति ।
अयमभिसन्धिः - उपाधयो ह्यमी पृथिव्यादयोऽविद्याकल्पिता न तु शोणकर्कादय इव विशेषा अश्वत्वस्य । न चोपाधिविगमे उपहितस्याभावोऽप्रतीतिर्वा । नह्युपादीनां दर्पणमणिकृपाणादीनामपगमे मुखस्याभावोऽप्रतीतिर्वा । तस्मादुपाधिनिषेधेऽपि नोपहितस्य शशविषाणायमानताप्रत्ययो वा । न चेतीति संनिधानाविशेषात्सर्वस्य प्रतिषेध्यत्वमिति युक्तम् । नहि भावमनुपाश्रित्य प्रतिषेध उपपद्यते । किञ्चिद्धि क्वचिन्निषिध्यते । नह्यनाश्रयः प्रतिषेधः शक्यः प्रतिपत्तुम् ।
तदिदमुक्तम् –
परिशिष्यमाणे चान्यस्मिन्य इतरः प्रतिषेद्धुमारभ्यते तस्य प्रतिषेद्धुमशक्यत्वात्तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः ।
मध्यमं पक्षं प्रतिक्षिपति –
नापि ब्रह्मप्रतिषेध उपपद्यते ।
युक्तं यन्नैसर्गिकाविद्याप्राप्तः प्रपञ्चः प्रतिषिध्यते प्राप्तिपूर्वकत्वात्प्रतिषेधस्य । ब्रह्म तु नाविद्यासिद्धं, नापि प्रमाणान्तरात् । तस्माच्छब्देन प्राप्तं प्रतिषेधनीयम् । तथाच यस्तस्य शब्दः प्रापकः स तत्पर इति स ब्रह्मणि प्रमाणमिति कथमस्य निषेधोऽपि प्रमाणवान् । नच पर्युदासाधिकरणपूर्वपक्षन्यायेन विकल्पः, वस्तुनि सिद्धस्वभावे तदनुपपत्तेः । न चावाङ्मनसगोचरो बुद्धावलेखितुं शक्यः । अशक्यश्च कथं निषिध्यते । प्रपञ्चस्त्वनाद्यविद्यासिद्धोऽनूद्य ब्रह्मणि प्रतिषिध्यत इति युक्तम् । तदिमामनुपपत्तिमभिप्रेत्योक्तम् “नापि ब्रह्मप्रतिषेध उपपद्यते” इति ।
हेत्वन्तरमाह –
ब्रह्म ते ब्रवाणीति ।
उपक्रमविरोधादिति ।
उपक्रमपरामर्शोपसंहारपर्यालोचनया हि वेदान्तानां सर्वेषामेव ब्रह्मपरत्वमुपपादितं प्रथमेऽध्याये । न चासत्यामाकाङ्क्षायां दूरतरस्थेन प्रतिषेधेनैषां सम्बन्धः सम्भवति ।
यच्च वाङ्मनसातीततया ब्रह्मणस्तत्प्रतिषेधस्य न प्रमाणान्तरविरोध इति तत्राह –
वाङ्मनसातीतत्वमपीति ।
प्रतिपादयन्ति वेदान्ता महता प्रयत्नेन ब्रह्म । नच निषेधाय तत्प्रतिपादनम् , अनुपपत्तेरित्युक्तमधस्तात् । इदानीं तु निष्प्रयोजनमित्युक्तं “प्रक्षालनाद्धि पङ्कस्य” इति न्यायात् । तस्माद्वेदान्तवाचा मनसि संनिधानाद्ब्रह्मणो वाङ्मनसातीतत्वं नाञ्जसमपि तु प्रतिपादनप्रक्रियोपक्रम एषः । यथा गवादयो विषयाः साक्षाच्छृङ्गग्राहिकया प्रतिपाद्यन्ते प्रतियन्ते च नैवं ब्रह्म । यथाहुः “भेदप्रपञ्चविलयद्वारेण च निरूपणम्” इति ।
ननु प्रकृतप्रतिषेधे ब्रह्मणोऽपि कस्मान्न प्रतिषेध इत्यत आह –
तद्धि प्रकृतं प्रपञ्चितं चेति ।
प्रधानं प्रकृतं प्रपञ्चश्च प्रधानं न ब्रह्म तस्य षष्ठ्यन्ततया प्रपञ्चावच्छेदकत्वेनाप्रधानत्वादित्यर्थः । ततोऽन्यद्ब्रवीतीति नेति नेतीति प्रतिषेधादन्यद्भूयो ब्रवीतीति तन्निर्वचनम् । नह्येतस्मादित्यस्य यदा नह्येतस्मादिति नेति नेत्यादिष्टाद्ब्रह्मणोऽन्यत्परमस्तीति व्याख्यानं तदा प्रपञ्चप्रतिषेधादन्यद्ब्रह्मैव ब्रवीतीति व्याख्येयम् । यदा तु नह्येतस्मादिति सर्वनाम्ना प्रतिषेधो ब्रह्मण आदेशः परामृश्यते तदापि प्रपञ्चप्रतिषेधमात्रं न प्रतिपत्तव्यमपि तु तेन प्रतिषेधेन भावरूपं ब्रह्मोपलक्ष्यते ।
कस्मादित्यत आह –
ततो ब्रवीति च भूय इति ।
यस्मात्प्रतिषेधस्य परस्तादपि ब्रवीति । अथ ब्रह्मणो नामधेयं नाम सत्यस्य सत्यमिति तद्व्याचष्टे श्रुतिः “प्राणा वै सत्यम्”(बृ. उ. २ । १ । २०) इति । महारजनाद्युपमितं लिङ्गमुपलक्षयति । तत्खलु सत्यमितरापेक्षया तस्यापि परं सत्यं ब्रह्म । तदेवं यतः प्रतिषेधस्य परस्ताद्ब्रवीति तस्मान्न प्रपञ्चप्रतिषेधमात्रं ब्रह्मापि तु भावरूपमिति । तदेवं पूर्वस्मिन् व्याख्याने निर्वचनं ब्रवीतीति व्याख्यातम् । अस्मिस्तुं सत्यस्य सत्यमिति ब्रवीतीति व्याख्येयम् । शेषमतिरोहितार्थम् ॥ २३ ॥
अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
उभयव्यपदेशात्त्वहिकुण्डलवत् ।
अनेनाहिरूपेणाभेदः । कुण्डलादिरूपेण तु भेद इत्युक्तं तेन विषयभेदाद्भेदाभेदयोरविरोध इत्येकविषयत्वेन वा सर्वदोपलब्धेरविरोधः । विरुद्धमिति हि नः क्व संप्रत्ययो न यत्प्रमाणेनोपलभ्यते । आगमतश्च प्रमाणादेकगोचरावपि भेदाभेदौ प्रतीयमानौ न विरोधमावहतः सवितृप्रकाशयोरिव प्रत्यक्षात्प्रमाणाद्भेदाभेदाविति ॥ २७ ॥
प्रकारान्तरेण भेदाभेदयोरविरोधमाह –
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥
तदेवं परमतमुपन्यस्य स्वमतमाह –
पूर्ववद्वा ।
अयमभिसन्धिः - यस्य मतं वस्तुनोऽहित्वेनाभेदः कुण्डलत्वेन भेद इति, स एवं ब्रुवाणः प्रष्टव्यो जायते, किमहित्वकुण्डलत्वे वस्तुनो भिन्ने उताभिन्ने इति । यदि भिन्ने, अहित्वकुण्डलत्वे भिन्ने इति वक्तव्यं न तु वस्तुनस्ताभ्यां भेदाभेदौ । नह्यन्यभेदाभेदाभ्यामन्यद्भिन्नमभिन्नं वा भवितुमर्हति । अतिप्रसङ्गात् । अथ वस्तुनो न भिद्येते अहित्वकुण्डलत्वे तथा सति को भेदाभेदयोर्विषयभेदस्तयोर्वस्तुनोऽनन्यत्वेनाभेदात् । न चैकविषयत्वेऽपि सदानुभूयमानत्वाद्भेदाभेदयोरविरोधः स्वरूपविरुद्धयोरप्यविरोधे क्व नाम विरोधो व्यवतिष्ठेत । नच सदानुभूयमानं विचारासहं भाविकं भवितुमर्हति । देहात्मभावस्यापि सर्वदानुभूयमानस्य भाविकत्वप्रसङ्गात् । प्रपञ्चितं चैतदस्माभिः प्रथमसूत्र इति नेह प्रपञ्चितम् । तस्मादनाद्यविद्याविक्रीडितमेवैकस्यात्मनो जीवभावभेदो न भाविकः । तथाच तत्त्वज्ञानदविद्यानिवृत्तावपवर्गसिद्धिः । तात्त्विकत्वे त्वस्य न ज्ञानान्निवृत्तिसम्भवः । नच तत्त्वज्ञानादन्यदपवर्गसाधनमस्ति । यथाह श्रुतिः “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय”(श्वे. उ. ३ । ८) इति । शेषमतिरोहितार्थम् ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥२२॥ निषेधश्रुतिभिर्ब्रह्म निर्विशेषं निरूपितम् । तासां ब्रह्मनिषेद्धृत्वमिहाशङ्क्य निरस्यते ॥ अथवा - सन्मात्रं ब्रह्म सामान्यं तद्विशेषानपेक्षते । निषेधेषु निषेद्धेषु नास्ति ब्रह्मेति शङ्क्यते ॥
श्रुतिगतवावशब्दार्थमाह –
द्वे एवेति ।
समुच्चये सत्येवकारो विरुध्यते तन्मात्रावधारणस्य तदितरसमुच्चयस्य च विरोधादित्याशङ्क्याह –
समुच्चीयमानावधारणमिति ।
सर्वदा द्वे अपि रूपे मिलिते एवेत्यर्थ एवकार इत्यर्थः । एषा अत्र श्रुतिः - द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येषः रसः , अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्सत्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एव एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इति ।
अस्यां श्रुतौ तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चेत्येतद्व्याचष्टे –
पृथिव्यप्तेजांसीति ।
मूर्च्छनं स्थूलीभावः ।
तत्र हेतुः –
इतरेतरानुप्रविष्टावयवमिति ।
पटादेर्हि तन्त्वाद्यवयवा इतरेतरमनुप्रविष्टा दृश्यन्ते , ततश्च तन्त्वाद्यवस्थातः स्थूलाश्च । यद्यपि वायोरपीदं तुल्यम् ; तथापि प्रत्यक्षेणानुग्रहणादनादरः श्रुतेः , यदिति गच्छदित्यर्थः । ततश्चैकत्रैव च न तिष्ठतीति व्यापीत्यर्थः । त्यच्छब्दः सर्वनामतच्छब्दसमानार्थः । त्यदिति वक्तव्ये त्यमिति छान्दसम् ।
यद्यपि पञ्चभूतकार्यं हिरण्यगर्भः ; तथाप्यमूर्तभूतद्वयस्य हिरण्यगर्भस्य च रसरसिभावे सामान्यहेतुः श्रुतिगतहिशब्देन विवक्षितस्तं दर्शयति –
नित्यपरोक्षतेति ।
रसत्वमत्र कार्यत्वम् ।
एवमधिदैवतं हिरण्यगर्भमधिकृत्य मूर्तामूर्तव्यवस्थामुक्त्वाऽऽध्यात्मिकविषयां श्रुतिमथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश इत्याद्यामुदाहरति –
अथाध्यात्ममित्यादिना ।
यश्चायमन्तरात्मन्नन्तःशरीरे आकाशस्तस्मात्प्राणाच्च यदन्यत्तन्मूर्तमिति श्रुतियोजनामभिप्रेत्योक्तं –
यदन्यत् प्राणान्तराकाशाभ्यामिति ।
आध्यात्मिकत्वसिद्ध्यर्थमाह –
शरीरारम्भकमिति ।
चक्षुरिति गोलकमात्रम् ।
ननु चैतन्यव्याप्तं लिङ्गशरीरं स्थूलशरीरे सर्वत्र वर्तते , तत्र कथं दक्षिणमक्ष्याधारत्वेनोक्तमत आह –
लिङ्गस्य हीति ।
लिङ्ग्यतेऽनुमीयते इति लिङ्गम् ।
अनुमानप्रकारमाह –
करणात्मकस्येति ।
रूपाद्युपलब्धिभिः क्रियाभिः करणत्वेनानुमीयत इत्यर्थः । आध्यात्मिकचक्षुरादेराधिदैविकहिरण्यगर्भादित्यादिव्यष्टित्वाद्धिरण्यगर्भस्येत्युक्तम् । अथवा - अनुग्राहकत्वेन हिरण्यगर्भस्य चक्षुष्यप्यवस्थानमुक्तं विशेषावस्थानमदृष्टमपि शास्त्रीयमस्तीत्यर्थः ।
ब्रह्मण औपाधिकयोरिति ।
ब्रह्मण उपाधिरज्ञानं तत्र भवत इत्यौपाधिके तयोरित्यर्थः ।
कार्यकरणभावेनेति ।
कार्य शरीरं , करणमिन्द्रियम् ।
सत्यशब्दवाच्ययोरिति ।
सदिति त्यमिति च शब्दवाच्ययोरित्यर्थः ।
एवं मूर्तामूर्ते प्रतिषेध्ये दर्शयित्वा वासनामयं रूपं निषेध्यं दर्शयति –
अथेदानीमिति ।
मूर्तामूर्तविषयानुभवजनितवासनाजन्यविज्ञानविषय इत्यर्थः । तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो यथा पाण्डवाविकमित्यादिदृष्टान्तैरुपमां दर्शयतीत्यर्थः । महारजनं हरिद्रा तया रक्तं माहारजनम् ।
नन्वनुद्भूतरूपं लिङ्गशरीरं , तस्य कथं हारिद्रादिरूपतुल्यरूपसंभवः ? अत आह –
एतदुक्तं भवतीति ।
वासनाजन्यभ्रान्तिवशाद्रूपाध्यासयोग्यः कोऽप्याकारो लिङ्गशरीरैक्येनारोप्यते , तन्निष्ठाः स्वप्ने रूपभेदाः प्रकाशन्त इति प्रतिषेध्यं रूपं प्रदर्श्य प्रतिषेधावधिभूतं रूपि ब्रह्म दर्शयति श्रुतिरित्याह –
तदेवमिति ।
सत्यरूपमिति ।
व्यावहारिकसत्यं ब्रह्मणो रूपमित्यर्थः । अथात आदेश इत्यत्रान्तःशब्दार्थमाह – यत इति तदुक्तिहेतुकमित्यन्तेन ।
मध्ये अथशब्दार्थमाह –
तस्यानन्तरमिति ।
सत्यसत्यस्येति ।
व्यावहारिकस्य सत्यस्य प्रपञ्चस्य यः सत्य आत्मा तस्येत्यर्थः ।
न ह्येतस्मादिति नेत्यपरमस्तीत्युत्तरवाक्यं व्याचष्टे –
ननु किमेतावदेवेति ।
इति नेत्यादिष्टादेतस्मादन्यत्परमुत्कृष्टं न ह्यस्तीति वाक्ययोजना दर्शिता । एवंशब्दस्यार्थ एवार्थो यस्य स एवमर्थस्तेन । इतिना इतिशब्देनेत्यर्थः ।
तदवच्छेदकत्वेनेति ।
कस्य रूपद्वयमित्यपेक्षायां ब्रह्मण इत्येवंरूपेण विशेषणत्वेनेत्यर्थः । अथ सवासनं रूपद्वयमित्यत्रापि प्रतिषिध्यत इत्यनुषङ्गः ।
ब्रह्मप्रतिषेधेन पूर्वपक्षस्यानुत्थानमाशङ्क्याह –
यद्यपीत्यादिना ।
सद्बोधरूपमिति ।
बोधत्वेन रूपेण विशेषात्मकत्वमुक्तं , सदिति सामान्यात्मत्वम् ।तच्च सवासनमूर्तामूर्तसाधारणत्वेन व्यक्तीकृतम् । निर्विशेषं यत्तत्सामान्यं न भवेदिति योजना ।
उपासनाविधानवदिति ।
यथा नाम ब्रह्मेत्युपासीतेत्यादावब्रह्मणि ब्रह्मत्वेनोपासना विधीयते , एवमसत्येवास्तीत्युपलब्धिदृष्टिर्विधीयते , इतिशब्दशिरस्कत्वाविशेषादित्यर्थः ।
तत्प्रशंसार्थमिति ।
अस्तित्वदृष्टिविधिप्रशंसार्थमसन्नेव स भवति असद्द्ब्रह्मेति वेद चेदित्यसद्भावज्ञाननिन्देत्यर्थः । संभन्त्स्यते संबद्धो भविष्यति ।
कंचिद्धर्मिणमनाश्रित्य निषेधायोगात्पक्षान्तरमाह –
अथवेति ।
ननु षष्ठ्यन्तशब्दादुपसर्जनत्वेन प्रस्तुतं ब्रह्म कथं निषेधेन संबध्यते ? तत्राह –
योग्यत्वादिति ।
अप्रमितत्वमेव निषेधयोग्यत्वम् ।
ननु विशेषाणां निषेधे सामान्यस्याप्ययोगाच्छून्यवादप्रसङ्ग इत्याशङ्क्य सामान्यविशेषभावो ब्रह्मगतोऽसिद्ध इत्याह –
उपाधय इति ।
शोणो लोहितः । कर्क ईषल्लोहितः । निर्विशेषं सामान्यं न भवेदित्युक्तं , तत्र निषेधेन निषेध्यसत्ता निषिध्यते , सा किमर्थस्वभावभूता उत प्रमाणसंबन्धात्मिका ।
द्वावपि पक्षौ नेत्याह –
अभावोऽप्रतीतिर्वेति ।
शशविषाणायमानता शशविषाणतुल्यता ।
ननु न वयं विशेषात्मजगन्निषेधेनार्थाद् ब्रह्मनिषेधं ब्रूमः , किंतु रूपद्वयवत् सन्निधानाविशेषाद्द्ब्रह्मणोऽपीतिशब्देन प्रतिषेध्यत्वेनोपात्तत्वात्साक्षादुभयनिषेधमित्यत आह –
न चेतीति ।
भावमनाश्रित्याश्रयत्वेनानुपादाय प्रतिषेधो नोपपद्यते इति , प्रतिषेधसत्ताया आश्रयापेक्षां व्यतिरेकमुखेनोक्त्वाऽन्वयमुखेनाप्याह –
किंचिद्धीति ।
प्रतीतावप्यभावस्याश्रयापेक्षामाह –
न ह्यनाश्रय इति ।
वेदान्तेषु ब्रह्मप्रतिपादनस्य निषेध्यसमर्पकतायाः पूर्वपक्षे उक्तत्वाद् ब्रह्म ते ब्रवाणीत्याद्युपक्रमविरोधादित्याभाष्योक्तहेतुना शङ्कितान्यथासिद्धीना सिद्धवद्ब्रह्मप्रतिषेधवारकत्वायोगं मत्वा भाष्येऽर्थात्सूचितं हेतुं विवृणोति –
युक्तमित्यादिना ।
नैसर्गिकाविद्याप्राप्तः प्रपञ्चः प्रतिषिध्यत इति यत्तद्युक्तमित्यर्थः । किं भ्रमसिद्धं ब्रह्म प्रतिषिध्यते , उत प्रत्यक्षादिसिद्धम् , आहो शास्त्रसिद्धम् ।
नाद्य इत्याह –
ब्रह्म त्विति ।
सद्रूपत्वेन निर्वचनीयत्वादित्यर्थः ।
न द्वितीय इत्याह –
नापीति ।
तृतीयमनूद्य दूषयति –
तस्मादिति ।
ननु शास्त्रप्रमितेऽपि प्रतिषेधः प्रमाणवान् भवेद् , विधिप्रतिषेधयोस्तुल्यबलत्वेन विकल्पसंभवादित्याशङ्क्याह –
न च पर्युदासेति ।
पर्युदासाधिकरणं गुणोपसंहारे ‘हानौ तूपायनशब्दशेषत्वा ‘ (व्या.सू.अ.३.पा.३.सू २६) दित्यत्र स्वयमेवानुक्रमिष्यति , तत्रैव तत्पूर्वपक्षोऽपि द्रष्टव्यः । तत्र यथा विधिप्राप्तस्य यागेषु येयजामहकरणस्य सर्वात्मना नानूयाजेष्विति प्रतिषेधेन वारयितुमशक्यत्वाद् अनुयाजेषु येयजामहविकल्पः , एवमत्र सत्त्वासत्त्वयोर्न विकल्पः , वस्तुनि तदयोगात् । पुरुषप्रवृत्तिनिवृत्त्योः प्रागेव तस्यैकरूपत्वेन सिद्धत्वादित्यर्थः ।
यच्च वाङ्मनसागोचरत्वेन प्रमाणविरोधाभावाद् ब्रह्मणः प्रतिषेध इत्युक्तं , तन्न ; तथा सति योग्यप्राप्त्या निषेधायोगादित्याह –
न चासत्यादिति ।
अयं हि निषेधः सन्निहितप्रपञ्चविषयत्वेन निराकाङ्क्षो न दूरस्थेन ब्रह्मणा संबध्यते । यद्यपि ब्रह्मणोऽपि सन्निधानमविशिष्टं , बृहदारण्यके एतन्निषेधं प्रति ; तथापि षष्ठ्यन्तत्वेनोपसर्जनत्वान्न तस्य निषेधेन संबन्ध इति वक्ष्यति प्रधानं प्रकृतमिति ग्रन्थेन ।
सन्निहितमपि प्रपञ्चं प्रमाणाविरोधादुपेक्ष्य प्रतिषेधो दूरस्थं ब्रह्माकाङ्क्षतीतुआशङ्क्याह –
यच्चेति ।
ब्रह्मनिषेधेऽप्यस्ति प्रमाणाविरोधः , वेदान्तानां तत्र प्रमाणत्वादित्याह –
प्रतिपादयन्ति वेदान्ता इति ।
अनुपपत्तेरिति ।
शास्त्रप्रमितनिषेधे हि विकल्पः स्यात्तस्य च वस्तुन्यनुपपत्तिरित्युक्तम् इत्यर्थः ।
अधस्तादिति ।
नापि ब्रह्मप्रतिषेध उपपद्यत इति भाष्य इत्यर्थः ।
तर्हि तेनैव बाङ्मनसातीतत्वमपीति भाष्यं पुनरुक्तमित्याशङ्क्याह –
इदानीं त्विति ।
तेन भाष्येण शास्त्रप्रमितस्य निषेधानुपपत्तिरुक्ता , अनेन तु निषेद्धुमिष्टस्य प्रतिपादनवैयर्थ्यम् । अत्र लिङ्गं भाष्ये प्रक्षालनाद्धीति न्यायोदाहरणमित्यर्थः ।
प्रक्रियाशब्दस्य व्याख्या –
उपक्रम इति ।
वाङ्मनसगोचरत्वे निषिद्धे तथैव मनसि स्थिरीकृते स्वयंज्योतिरात्मा स्फुरतीत्युपक्रमत्वम् । प्रधानं प्रकृतमिति प्रकर्षेण कृतं प्रकाशितं प्रकृतं प्रकर्षः प्राधान्यमित्यर्थः । न ब्रह्मेत्यत्र प्रधानं प्रकृत्तमित्यनुषङ्गः ।
सूत्रे ततःशब्दादुपर्यन्यदित्यध्याहरति –
ततोऽन्यदिति ।
इतरथा हि ब्रवीतीत्युक्ते किं ब्रवीतीति न ज्ञायेतेति ।
ततःशब्दार्थमाह –
नेति नेतीति प्रतिषेधादिति ।
प्रतिषेधादभावादन्यद्भावरूपं ब्रह्म ब्रवीतीत्यर्थः ।
प्रतिषेधादन्यद्वस्तु ब्रुवाणं वाक्यमुदाहरति –
निर्वचनं न ह्येतस्मादितीति ।
नेति नेतीति प्रतिषेधनिबन्धनरूपं न ह्येतस्मादिति वाक्यमित्यर्थः ।
अस्य वाक्यस्यार्थद्वैविध्यमुपादायाभावादन्यप्रतिपादकतामुक्तामुपपादयति –
अस्येति ।
न ह्येतस्मादित्येतद्व्याचष्टे –
इति नेति ।
इत्यादिष्टादिति ।
नेति नेत्येवंरूपेणादिष्टाद् ब्रह्मणोऽन्यन्नास्ति , परम् अप्रतिषिद्धं ब्रह्म त्वस्तीत्यर्थः ।
धेयप्रत्ययः स्वार्थिक इत्याह –
नामेति ।
स्थूलशरीरापेक्षया प्राणप्रधानस्य लिङ्गशरीरस्य स्थायित्वात् सत्यत्वमुच्यत इत्याह –
माहारजनादीति ।
महारजनादीनिरूपाण्युपहितानि निक्षिप्तानि यस्मिस्तथोक्तम् । उपमितमिति पाठो यद्यस्ति तदा सुगमम् ।
इतरापेक्षयेति ।
स्थूलशरीरापेक्षयेत्यर्थः । तदिति तस्मादर्थे ॥२३॥२४॥२५॥२६॥
अहिकुण्डलसूत्रस्य (ब्र.अ.३.पा.२.सू.२७) प्रकाशाश्रयवद्वेति (ब्र.अ.३.पा.२.सू.२८) सूत्रस्य च भेदाभेदविषयत्वसाम्यात्पौनरुक्त्यमाशङ्क्याह –
विषयभेदादिति ।
अहिरेकः कुण्डलभोगादयः परस्परं भिन्ना इति भेदाभेदौ भिन्नविषयौ , तदिदमुक्तं कुण्डलादीत्यादिशब्देन । सवितरि तु प्रकाशस्य गुणस्य द्रव्यस्य च परस्परं भेदाऽभेदौ न च वस्त्वन्तरापेक्षयेत्येकविषयत्वम् ।
एकविषयत्वे हेतुमाह –
सर्वदेति ।
विरोधे हि विषयव्यवस्था सदाऽनुभूयमानत्वादविरोध इत्येकविषयत्वमित्यर्थः ॥२७॥२८॥
भेदाभेदौ भिन्नविषयापिति पक्षं दूषयति –
यस्य मतमिति ।
न तावदेवं भेदाभेदौ निर्वक्तुं शक्यौ ; कुण्डलादयो भिन्ना अहिश्चानुयायी एक इति अत्यन्तभेदवादिभिरपि तथेष्टत्वात् । तस्मादेकस्य वस्तुनो द्वाब्यामाकाराभ्यां भेदाभेदौ इति निरूवणीयम् । तत्राहित्वमनुवृत्ताकारः कुंडलत्वं व्यावृत्ताकारः । तदात्मना चेत्तदुभयाश्रयस्य वस्तुनो भेदाभेदाविष्येते , तदा तावकारौ वस्तुनो भिन्नो चेत्तर्ह्यहित्वकुण्डलत्वे परस्परम् भिन्ने वस्तुनि समवेते इति वक्तव्यं , न तु वस्तुनस्तदात्मना भेदाऽभेदावित्यर्थः । अहित्वेनेत्याद्यास्तृतीया इत्थम्भावार्थाः ।
प्रकाशाश्रयवद्भेदाभेदौ निषेधति –
न चेति ।
भावाभावयोर्हि स्वाभाविको विरोधस्तदनुषङ्गादन्यत्रेति स्थितिः ।
तत्र भेदतदभावयोर्यद्यविरोधः , तदा क्वापि विरोधो न स्यादित्याह –
परस्परविरुद्धयोरिति ।
ननु सवितृप्रकाशगतभेदाभेदयोः सहानुभवादविरोध इत्युक्तम् इति , तत्राह – न चेति ॥२९॥३०॥ आत्मा न चक्षुषा गृह्यते नापि वाचा शब्दोच्चारणद्वारेणाभिधीयते । नान्यैर्देवैरिन्द्रियैर्गृह्यते तपसा कृच्छ्रादिना कर्मणाऽग्निहोत्रादिना न गृह्यते , इति नेति नेतीति य आत्मा व्याख्यातः , स एषोऽगृह्योऽग्राह्यः , यस्मान्न हि गृह्यते ग्रहणायोग्यः प्रत्यगात्मत्वादित्यर्थः । स्वयंभूरिश्वरः । खानि खं श्रोत्रमाकाशारब्धत्वात्तदुपलक्षितानि सर्वेन्द्रियाणि , पराञ्चि बहिर्विषयाणि यथा भवन्ति तथा , व्यतृणद्धिंसितवान् तस्माद्धेतोः पराडेव पश्यति सर्वो लोकः , नान्तरात्मन् अन्तरात्मनि विषये न पश्यति । कश्चित्तु धीमान् विवेकी प्रत्यगात्मानमैक्षत् ईक्षितवान् , आवृत्तचक्षुरुपरतेन्द्रियः । किमर्थम् - अमृतत्वमिच्छन् । ज्ञायतेऽर्थोऽनेनेति ज्ञानमन्तःकरणं तस्य प्रसादो रागादिराहित्यं तेनविशुद्धसत्त्वः प्रत्यक्प्रवणान्तःकरणस्ततस्तु विशुद्धसत्त्वाद्धेतोः , तमात्मानं निष्कलं निरवयवं ध्यायमानः पश्यति ।स्मृतौ योगात्मन इति योगगम्यात्मन इत्यर्थः । परात्कारणात्परं दिव्यं स्वप्रकाशं यः सर्वान्तरः सर्वाधिष्ठानभूतः , एष त आत्मा स्वरूपम् ॥