भामतीव्याख्या
वेदान्तकल्पतरुः
 

आत्मगृहीतिरितरवदुत्तरात् ।

श्रुतिस्मृत्योर्हि लोकसृष्टिः परमेश्वराधिष्ठिता परमेश्वरहिरण्यगर्भकर्तृकोपलब्धा सेयमिह महाभूतसर्गमनभिधाय प्राथमिकी लोकसृष्टिरुपलभ्यमानावान्तरेश्वरकार्या प्रागुत्पत्तेरात्मैकत्वावधारणं चावान्तरेश्वरसम्बन्धितया गमयति । पारमेश्वरसर्गस्य महाभूताकाशादित्वादस्य च तद्वैपरीत्यात् । अस्ति हि तस्यैवैकस्य विकारान्तरापेक्षयाग्नत्वमस्ति चेक्षणम् । अपि चैतस्मिन्नैतरेयके पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकैव लोकसृष्टिरुक्ता । तदनुसारादप्येतदेव विज्ञायते । अपिच ताभ्यो गामानयदित्यादयश्च व्यवहाराः श्रुत्योक्ता विशेषवत्स्वात्मपरमात्मसु प्रसिद्धाः । ततोऽप्यवान्तरेश्वर एव विज्ञायते । आत्मशब्दप्रयोगश्चात्रापि दृष्टस्तस्मादपरात्माभिलापोऽयमिति प्राप्त उच्यते परमात्मनो गृहीतिरिह यथा इतरेषु सृष्टिश्रवणेषु “एतस्मादात्मन आकाशः सम्भूतः”(तै. उ. २ । १ । १) इत्यादिषु । तस्मादुत्तरात्स ऐक्षतेतीक्षणपूर्वकस्रष्टृत्वश्रवणादात्मेत्यवधारणाच्च । एतदभिसंहितम्मुख्यं तावत्सर्गात्प्राक्केवलत्वमात्मपदत्वं स्रष्टृत्वं च परमेश्वरस्यात्र भवतः । तदसत्यामनुपपत्तौ नान्यत्र व्याख्यातुमुचितम् । नच महाभूतसृष्ट्यनभिधानेन लोकसृष्ट्यभिधानमनुपपत्तिबीजम् । आकाशपूर्विकायां वस्तुतो ब्रह्मणः सृष्टौ यथा क्वचित्तेजःपूर्वकसृष्ट्यभिधानं न विरुध्यते “एतस्मादात्मन आकाशः सम्भूतः”(तै. उ. २ । १ । १) इति दर्शनात् । आकाशं वायुं सृष्ट्वेति हि तत्र पूरयितव्यमेवमिहापि महाभूतानि सृष्ट्वेति कल्पनीयम् । सर्वशाखाप्रत्ययत्वेन ज्ञानस्य श्रुतिसिद्ध्यर्थमश्रुतोपलब्धौ यत्नवता भवितव्यं न पुनः श्रुते महाभूतादित्वे सर्गस्य शैथिल्यमादरणीयम् । अपिच स्वाध्यायविध्यधीनग्रहणो वेदराशिरध्ययनविध्यापादितप्रयोजनवदर्थमभिदधानो यथा यथा प्रयोजनाधिक्यमाप्नोति तथा तथानुमन्यतेतराम् । यथा चास्य ब्रह्मगोचरत्वे परमपुरुषार्थौपयिकत्वं नैवमन्यगोचरत्वे ।

तदिदमुक्तम् –

योऽप्ययं व्यापारविशेषानुगम इति ।

नच लोकसर्गोऽपि हिरण्यगर्भव्यापारोऽपि तु तदनुप्रविष्टस्य परमात्मन इत्यत्रैवोक्तम् । तस्मादात्मैवाग्न इत्युपक्रमात्तद्व्यापारेण चेक्षणेन मध्ये परामर्शादुपरिष्टाच्च भेदजातं महाभूतैः सहानुक्रम्य ब्रह्मप्रतिष्ठत्वेन ब्रह्मण उपसंहाराद्ब्रह्माभिलापत्वमेवास्येति निश्चीयते । यत्र तु पुरुषविधादिश्रवणं तस्य भवेत्त्वन्यपरत्वं गत्यन्तराभावादिति सर्वमवदातम् । अपरः कल्पः । सदुपक्रमस्य सन्दर्भस्यात्मोपक्रमस्य च किमैकार्थ्यमाहोस्विदर्थभेदः । तत्र सच्छब्दस्याविशेषेणात्मनि चानात्मनि च प्रवृत्तेर्नात्मार्थत्वं किन्तु समस्तवस्त्वनुगतसत्तासामान्यार्थत्वं तथा चोपक्रमभेदाद्भिन्नार्थत्वम् । स आत्मा तत्त्वमसीति चोपसंहार उपक्रमानुरोधेन सम्पत्त्यर्थतया व्याख्येयः । तद्धि सत्सामान्यं परमात्मतया सम्पादनीयम् । तद्विज्ञानेन च सर्वविज्ञानं महासामान्यस्य सत्तायाः समस्तवस्तुविस्तारव्यापित्वादित्येवं प्राप्त उच्यते आत्मगृहीतिर्वाजसनेयिनामिव छान्दोग्यानामप्युत्तरात्स आत्मा तत्त्वमसीति तादात्म्योपदेशात् । अस्तु तावदात्मव्यातिरिक्तस्य प्रपञ्चस्य सदसत्त्वाभ्यामनिर्वाच्यतया न सत्त्वं, सत्त्वं त्वात्मधातोरेव तत्त्वेन निर्वाच्यत्वात्तस्मादात्मैव सन्निति । अभ्युपेत्याह । सच्छब्दस्य सत्तासामान्याभिधायित्वात्प्रतिव्यक्ति च तस्य प्रवृत्तेरात्मनि चान्यत्र च सच्छब्दप्रवृत्तेः संशये सत्युपसंहारानुरोधेन सदेवेत्यात्मन्येवावस्थाप्यते । नीतार्थोपक्रमानुरोधेन ह्युपसंहारवर्णना न पुनः सन्दिग्धार्थेनोपक्रमेणोपसंहारो वर्णनीयः । अपिच सम्पत्तौ फलं कल्पनीयम् । नच सामान्यमात्रे ज्ञाते विशेषज्ञानसम्भवः । न खल्वाकाराद्वृक्षे ज्ञाते शिंशपादयस्तद्विशेषा ज्ञाता भवन्ति । तदेवमवधारणादि सर्वमनात्मार्थत्वे स्यादनुपपन्नमिति छान्दोग्यस्यात्मार्थत्वमेवेति सिद्धम् । अत्र च पूर्वस्मिन् पूर्वपक्षे हिरण्यगर्भोपासना सिद्धान्ते तु ब्रह्मभावनेति ॥ १६ ॥

अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥

आत्मगृहीतिरितरवदुत्तरात् ॥१६॥ पूर्वत्र वाक्यभेदप्रसङ्गादर्थादिपरत्वं निरस्तं , तर्हि हिरण्यगर्भे सकलस्य वाक्यस्यान्वयेन वाक्यभेदाभावात्तत्परत्वं वाक्यस्यात्राशङ्कते ।

ननु - एक एवाग्र आसीदिति प्रागुत्पत्तेरात्मैकत्वावधारणादैक्षतेतीक्षितृत्वश्रवणाच्च परमेश्वरे गम्यमाने कथं हिरण्यगर्भशङ्का ? अत आह –

श्रुतिस्मृत्योरिति ।

आत्मा वेति वाक्यं , हिरण्यगर्भपरं महाभूतसृष्ठ्यविषयत्वे सति लोकसृष्टिविषयत्वात् , ‘‘आत्मैवेदमग्र आसीत्पुरुषविधः’’ ‘‘स वै शरीरी प्रथम’’ इति च वाक्यवदित्यनुमानात्तु लिङ्गद्वयमन्यथा नियमित्यर्थः । लोकसृष्टिरुपलभ्यमानाऽवान्तरेश्वरकार्या सती एकत्वावधारणादिकमवान्तरेश्वरसंबन्धितया गमयतीति योजना ।

अनुमानस्य श्रुतिस्मृत्योरित्यादिनाऽन्वयव्याप्तिरुक्ता , इदानीं व्यतिरेकव्याप्तिमाह –

परमेश्वरसर्गस्येति ।

पारमेश्वरलिङ्गद्वयस्यान्यथानयनप्रकारमेव दर्शयति –

अस्ति हीति ।

संदंशन्यायं वक्तुं पूर्ववाक्यमनुसंधत्ते –

अपि चैतस्मिन्निति ।

अथातो रेतसः सृष्टिः प्रजापते रेतो देवा इत्यादिना प्रजापतिकर्तृका सृष्टिरुक्तेत्यर्थः ।

उत्तरवाक्यमालोचयति –

अपि च ताभ्य इति ।

अत्रापि दृष्ट इति ।

आत्मैवेदमग्र आसीत्पुरुषविध इति वाक्ये दृष्ट इत्यर्थः । आत्मैवेति पदं यस्य तस्य भावस्तत्त्वम् ।

महाभूताविषयत्वे सति लोकसृष्टिविषयत्वादिति हेतोर्विशेषणासिद्धिमाह –

न च महाभूतसृष्टीति ।

इहापि महाभूतानि सृष्ट्वेति कल्पनीयमिति । अनेन सिद्धान्ते महाभूतसर्गोपसंहारात्पादसङ्गतिः । सूत्रितसर्गस्य महाभूतादित्वं यच्छ्रुत्यन्तरे श्रुतं तस्मिन् शैथिल्यं नादरणीयं , किं तु तस्येहोपसंहारः कार्य इत्यर्थः । औपयिकत्वमुपयोगित्वम् ।

महाभूतानुपसंहारेऽपि परमात्मा प्रत्येतुं शक्य इत्याह –

न च लोकसर्गोऽपीति ।

अत्रैवोक्तमिति ।

अस्मिन्नेव शास्त्रे संज्ञामूर्तिक्लृप्त्या (ब्र.अ.२.पा.४.सू.२०) द्यधिकरणेष्वित्यर्थः ।

उपरिष्टाच्चेति ।

एष ब्रह्मैष इन्द्र इत्यादिवाक्ये इत्यर्थः । इदं जगदग्रे सृष्टेः प्रागात्मा एक एवासीत् । एवकारास्तु सत्यप्यात्मतादात्म्ये इदानीमिव विशेषावस्थाया निषेधार्थः । मिषन्निमेषव्यापारवच्चेतनं तच्चामिषतोऽप्युपलक्षणम् । ईक्षत ऐक्षत । आडभावः छान्दसः । कथमीक्षितवान् । लोकान् नु सृजै स्रक्ष्यामीति । लोका एवोच्यन्ते अम्भ इत्यादिना ।

अम्भःप्रभृतीन् स्वयमेव श्रुतिर्व्याचष्टे – ‘‘अदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आप’’ इति । अदस्तदम्भः यत्परेण दिवं दिवः परस्ताद्वर्तते तस्य च परस्ताद्वर्तमानस्य द्यौः प्रतिष्ठा आश्रयः साऽप्यम्भःशब्दवाच्या दिवमारभ्योपरितनलोकाश्चान्दमसैरम्भोभिरभिव्याप्तत्वादम्भ उच्यन्ते इत्यर्थः । अन्तरिक्षलोकः सवितृमरीचिव्याप्तत्वान्मरीचय इत्यर्थः । स्थानभेदापेक्षया बहुवचनम् । म्रियन्तेऽस्मिन् भूतानीति पृथिवीलोको मरः , याः पृथिव्याः अधस्तात्ता आपः पातालानि । तेषामब्बाहुल्याद्विधेयापेक्षया स्त्रीलिङ्गत्वम् । आत्मा हिरण्यगर्भः पुरुषविधः पुरुषप्रकारः शिरःपाण्यादिमान्प्रजापतेः रेतःकार्यं देवाः । प्रजापतिः कार्यकारणाधिष्ठात्रीरग्न्याद्या देवता वागादिभिः सह सृष्टवान् । ताश्च तं प्रति भोगसिद्ध्यर्थं शरीरमयाचन्त । स च ताभ्यो गां गोशरीरमानीतवान् । तथाऽश्वशरीरं पुरुषशरीरं च । ततस्ता देवताः सोऽब्रवीद् यथायतनं यथाचक्षुरादिस्थानम् अस्मिन् शरीरे प्रविशतेति । स ईश्वर एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य छिद्रं कृत्वा एतया द्वारा ब्रह्मरन्ध्रसंज्ञया शरीरं प्रापद्यत प्राप्तवान् । स शरीरे प्रविष्ट ईश्वर एतमेव शरीरान्तर्गतं स्वात्मानं ब्रह्म ततमं तकार एको लुप्तो द्रष्टव्यः । तततमं व्याप्ततमं यद् ब्रह्म तद्रूपेणैतमात्मानम् अपश्यदित्यर्थः । यः शरीरे प्रविष्टः परमेश्वर एष एव ब्रह्म परमात्मा प्रजापतिर्हिरण्यगर्भोऽप्येष एव प्रज्ञा ब्रह्मचैतन्यं नीयतेऽनेनेति नेत्रं नियन्तृ यस्य तत्प्रज्ञानेत्रम् । प्रज्ञाने तस्मिन्नेवाधिष्ठाने प्रतिष्ठितम् ।लोकोऽपि भूरादिप्रज्ञानेत्रः प्रज्ञानियन्तृकः । सैव प्रज्ञा सर्वस्य लोकस्य प्रतिष्ठाऽधिष्ठानम् । तच्च प्रज्ञानं ब्रह्म ॥१६॥१७॥

पूर्ववर्णके विद्यैक्यगुणोपसंहारानिरूपणात्पादसङ्गतिसिद्ध्यर्थं वर्णकान्तरमारभते –

अपरः कल्प इति ।

कल्पः प्रकारः ।

पूर्वत्र वाक्यैक्यबलादर्थादिपरत्वमविवक्षित्वा विध्यैक्यमुक्तम् , अत्र तु भिन्नार्थोपक्रमेण वाक्यभेदाद्विद्याभेद इति पूर्वपक्षयति –

तत्र सच्छब्दस्येति ।

उपक्रमभेदाद्भिन्नार्थत्वमिति ।

आत्मोपक्रमवाजसनेयिवाक्याद् भिन्नार्थत्वमित्यर्थः ।

ननु स आत्मेत्युपसंहारादुपक्रमस्याप्यात्मपरत्वमस्तु , नेत्याह –

स आत्मेति ।

असंजातविरोधोपक्रमात्संजातविरोध उपसंहारः सत्तासामान्ये परमात्मदृष्ठ्यध्यासपरत्वेन नेतव्य इत्यर्थः ।

नन्वद्वयब्रह्मात्मत्वपरत्वाभावे वाक्यस्य कथमेकविज्ञानात्सर्वविज्ञानप्रतिज्ञा सदुपक्रमादप्यादौ निर्दिष्टा घटते ? अत आह –

तद्विज्ञानेन चेति ।

ननु छान्दोग्ये उपक्रम एवात्मपरः ; आत्मान एव सत्त्वेन सच्छब्दस्याकाशशब्दवद्व्यक्तिवाचित्वेनासन्दिग्धार्थत्वात् , तत्र किमित्युपसंहारगतात्मतादात्म्यपरामर्शो भाष्यकारैराश्रितः ? अत आह –

अस्तु तावदिति ।

आत्मैव सन्नित्येतदस्तु तावदिति योजना । अभ्युपेत्यापि सच्छब्दस्य सामान्यवचनत्वं तादात्म्योपदेशादिति हेतुमाहेत्यर्थः ।

सच्छब्दस्य सामान्यवचनत्वेऽभ्युपेते वाक्यशेषस्य निर्णायकत्वमाह –

सच्छब्दस्येति ।

सदेवेत्येतद्वाक्यमात्मन्येव व्यवस्थाप्यत इत्यर्थः ।

ननु क्वचिदुपक्रमादुपसंहारोऽपि निर्णीयते , यथा वेदोपक्रमादृगादिशब्दानां वेदपरत्वं , तद्वदिह किं न स्यादत अह –

नीतार्थेति ।

निर्णीतार्थेत्यर्थः ।

अदृष्टफलकल्पनाप्रसङ्गाच्च न सत्तायामात्मसंपत्तिरित्याह –

अपि चेति ।

किंचास्तु नामोपक्रमादुपसंहारनिर्णयः , सदुपक्रमादपि प्राक्तनादेकविज्ञानहेतुकसर्वविज्ञानात्परमात्मपरत्वं वाक्यस्येत्याह –

न चेति ।

वर्णकद्वयप्रयोजनं विभजते –

अत्र च पूर्वस्मिन्निति ।

पूर्ववर्णकगतपूर्वपक्षे ऎतरेयकवाक्यं हिरण्यगर्भोपास्तिपरम् । तत्सिद्धान्ते तु तद्वाक्यं ब्रह्मभावनापरं ब्रह्मत्वप्रतिपादनद्वारेणार्थात् तद्भावनायां पुरुषप्रवृत्तिहेतुरित्यर्थः । अस्मिंस्तु वर्णके पूर्वपक्षे छान्दोग्यवाक्यं सत्तासामान्ये ब्रह्मत्वसंपत्त्यर्थं , वाजसनेयिवाक्यं त्वात्मनो ब्रह्मत्वगोचरमिति विद्याभेदः । सिद्धान्ते द्वे अपि वाक्ये प्रत्यग्ब्रह्मैक्यगोचरे इति भेदोऽनन्तरोक्तत्वात् ज्ञायत एवेति नोक्तः । श्रुतिद्वयेऽपि विद्यैक्ये सदात्मभ्यामुपक्रमः । कृतः किमिति तत्रोचुराचार्या न्यायसंग्रहे ?॥ तद्यथा - तत्त्वंपदयोः श्रौतसामानाधिकरण्यस्य वाच्यार्थे भेदादनुपपत्तौ तत्परिहाराय लक्षणाऽऽश्रीयते । तत्र लक्ष्यमाणावपि तत्त्वमर्थौ यदि भेदेनैव लक्ष्येते , तर्हि तत्रापि लक्षणान्तरं स्यादित्यनवस्था स्यात् , सा मा भूदिति लक्ष्यमाणार्थैक्यमेव युक्तम् । ततस्त्वंपदार्थो ब्रह्मपर्यन्तस्तत्पदार्थोऽपि प्रत्यगात्मपर्यन्तो लक्षणीयः । तथा च वाजसनेयिवाक्यं त्वमर्थं तदर्थपर्यन्तं लक्षयति , छान्दोग्यवाक्यं तु तदर्थं त्वमर्थपर्यन्तं लक्षयतीत्यर्थैक्याद्विद्यैक्यमिति ॥१६॥१७॥

इत्यष्टममात्मगृहीत्यधिकरणम् ॥