कार्याख्यानादपूर्वम् ।
विषयमाह –
छन्दोगा वाजसनेयिनश्चेति ।
अननं प्राणनमनः प्राणः तं प्राणमनग्नं कुर्वन्तः ।
अनग्नताचिन्तनमिति ।
मन्यन्त इति मननं ज्ञानं तद्व्यानपर्यन्तमिति चिन्तनमुक्तम् ।
संशयमाह –
तत्किमिति ।
खुररवमात्रेणापातत उभयविधानपक्षं गृहीत्वा मध्यमं पक्षमालम्बते पूर्वपक्षी –
अथवाचमनमेवेति ।
यद्येवमनग्नतासङ्कीर्तनस्य किं प्रयोजनमित्यत आह –
तस्यैव तु स्तुत्यर्थमिति ।
अयमभिसन्धिःयद्यपि स्मार्तं प्रायत्यार्थमाचमनमस्ति तथापि प्राणोपासनप्रकरणेऽविधानात्तदङ्गत्वेनाप्राप्तमिति विधानमर्थवद्भवति, अनृतवदनप्रतिषेध इव स्मार्ते ज्योतिष्टोमप्रकरणे समाम्नातो नानृतं वदेदिति प्रतिषेधो ज्योतिष्टोमाङ्गतयार्थवानिति ।
राद्धान्तमाह –
एवं प्राप्त इति ।
चोदयति –
नन्वियं श्रुतिरिति ।
परिहरति –
नेति ।
तुल्यार्थयोर्मूलमूलिभावो नातुल्यार्थयोरित्यर्थः ।
अभिप्रायस्थं पूर्वपक्षबीजं निराकरोति –
न चेयं श्रुतिरिति ।
क्रत्वर्थपुरुषार्थयोरनृतवदनप्रतिषेधयोर्युक्तमपौनरुक्तम् । इह तु स्मार्तवाचमनं सकलकर्माङ्गतया विहितं प्राणोपासनाङ्गमपीति व्यापकेन स्मार्तेनाचमनविधिना पुनरुक्तत्वादनर्थकम् । नच स्मार्तस्यानेन पौनरुक्त्यं तस्य च व्यापकत्वादेतस्य च प्रतिनियतविषयत्वादिति ।
मध्यमं पक्षमपाकृत्य प्रथमपक्षमपाकरोति –
अत एव च नोभयविधानम् ।
युक्त्यन्तरमाह –
उभयविधाने चेति ।
उपसंहरति –
तस्मात्प्राप्तमेवेति ।
न चायमनग्नतावाद इति ।
स्तोतव्याभावे स्तुतिर्नोपपद्यत इत्यर्थः । अपिच मानान्तरप्राप्तेनाप्राप्तं विधेयं स्तूयेत । न चानग्नतासङ्कल्पोऽन्यतः प्राप्तो यतः स्तावको भवेत् ।
न चाचमनमन्यतोऽप्राप्तं येन विधेयं सत्स्तूयेतेत्याह –
स्वयं चानग्नतासङ्कल्पस्येति ।
अपि चैकस्य कर्मण एकार्थतैवेत्युचितं तस्य बलवत्प्रमाणवशादनन्यगतित्वे सत्यनेकार्थता कल्प्यते ।
सङ्कल्पे तु कर्मान्तरे विधीयमाने नायं दोष इत्याह –
न चैवं सत्येकस्याचमनस्येति ।
अपिच दृष्टिचोदनासाहचर्याद्दृष्टिचोदनैव न्याय्या न चाचमनचोदनेत्याह –
अपिच यदिदं किञ्चेति ।
यथा हि श्वादिमर्यादस्यान्नस्यात्तुमशक्यत्वादन्नदृष्टिश्चोद्यते एवमिहाप्यपां परिधानासम्भवाद्दृष्टिरेव चोद्यत इत्यन्नदृष्टिविधिसाहचर्याद्गम्यते । अशब्दत्वं च यद्यपि दृष्ट्यभ्यवहारयोस्तुल्यं तथापि दृष्टिः शाब्ददृश्यनान्तरीयकतया साक्षाच्छब्देन क्रियमाणोपलभ्यते । अभ्यवहारस्त्वध्याहरणीयः कथञ्चिद्योग्यतामात्रेणेति विशेषः । किञ्च छान्दोग्यानां वाजसनेयिनां चाचमने प्रायेणाचामन्तीति वर्तमानापदेशः एवं यत्रापि विधिविभक्तिस्तत्रापि जर्तिलयवाग्ववा वा जुहुयादितिवद्विधित्वमविवक्षितम् ।
मन्यन्त इति त्वत्प्राप्तार्थत्वात्समिधो यजतीत्यादिवद्विधिरेवेत्याह –
अपिचाचामन्तीति ।
शेषमतिरोहितार्थम् ॥ १८ ॥
कार्याख्यानादपूर्वम् ॥१८॥ सन्दिग्धसदुपक्रमस्य वाक्यशेषान्निर्णयवदशिष्यन्त आचामन्तीत्यादेर्वर्तमानापदेशत्वेन विधित्वसन्देहे सत्यशिष्यन्नाचामेदित्यादिवाक्यशेषादाचमनविधिपरत्वं निर्णयमिति पूर्वपक्षणात्सङ्गतिः ।
अनशब्दस्य प्राणवृत्तौ योगमाह –
अननमिति ।
अननं चेष्टां करोतीत्यन इत्यर्थः ।
‘अनग्नं कुर्वन्तो मन्यन्ते’ इति श्रुतौ मन्यतेर्ज्ञानार्थत्वाद् भाष्ये चिन्तनत्वेन व्याख्याय निर्देशो न युक्तः ; चिन्तनशब्दस्य ध्यानवाचित्वादित्याशङ्क्याह –
तद्ध्यानपर्यन्तमिति ।
अनग्नतावदस्य स्तुत्यर्थत्वेनोपपत्तौ सत्यां वाक्यभेदकल्पनानुपपत्तेरुभयविधित्वमशक्यशङ्कमित्यभिप्रेत्याह –
खुररवमात्रेणेति ।
यथा ह्यनिर्णीयैव खुरशब्दमात्रेणाश्वो धावतीत्युच्यते एवमिदमपीत्यर्थः ।
सिद्धान्तबीजमाशङ्क्य पैहरति –
यद्यपीति ।
अनृतवदनप्रतिषेधे इति स्मार्ते इति च द्वे सप्तम्यावनादरार्थे । सत्यपि स्मार्तेऽनृतवदनप्रतिषेधे तमनादृत्य यथा नानृतं वदेदिति प्रतिषेधो ज्योतिष्टोमाङ्गत्वेनार्थवांस्तथाऽऽचमनविधिरपि प्राणोपास्त्यङ्गत्वेनार्थवानित्यर्थः ।
स्मार्तोऽनृतवदनप्रतिषेधः पुरुषार्थत्वाज्ज्योतिष्टोमे न प्राप्नोतीति ज्योतिष्टोमे पृथक्प्रतिषेधोऽर्थवान् , आचमनविधिस्तु स्मार्तो ‘द्विजो नित्यमुपस्पृशे’दित्यादिः कलकर्मगोचरः प्राणोपासनेऽपि प्राप्नोतीति तदङ्गाचमनविषयत्वे श्रुतेरनुवादकत्वं स्यादित्याह –
क्रत्वर्थपुरुषार्थयोरित्यादिना ।
ननु नित्यश्रुत्यर्थानुवादित्वमनित्यायाः स्मृतेः किं न स्यादत आह –
न च स्मार्तस्येति ।
स्मृत्यनुमितश्रुतेर्व्यापकविषयत्वात्तत्सिद्धार्थानुवादिनी श्रुतिः स्मृत्यपेक्षयाऽप्यनुवादिनी स्यादित्यर्थः । अत एवाचमनस्यान्यतः प्राप्तत्वादाचमनवासोदृष्ट्योरुभयोरपि न विधानमित्यर्थः ।
प्रथमपक्षं निराकृत्य पुनरपि मध्यमे पक्षेऽधिकं दूषणं वक्तुं न चायमित्यादिभाष्यं व्याचष्टे –
स्तोतव्याभाव इत्यादिना ।
आचमनपर्यालोचनयाऽनग्नता वादो न स्तुत्यर्थ इत्युक्तम् , अनग्नतासङ्कल्पपर्यालोचनयाप्येवमेवेत्याह –
अपि च मानान्तरेति ।
स्तावकः स्तुतिहेतुरित्यर्थः ।
आचमनस्यान्यतः प्राप्तिमुक्तां निगमयति –
न चाचमनमिति ।
प्राणविद्याङ्गत्वेन यदा आचमनं विधीयते , न त्वनूद्यते , तदा नैमित्तिके नित्याधिकारस्य प्रसङ्गसिद्धेरावृत्त्यनाक्षेपाच्छुद्ध्यर्थत्वं प्राणविद्योपकारार्थत्वं चेत्युभयार्थत्वमाचमनस्य स्यात् ।
सिद्धान्ते त्वाचमनानुवादेन वासोदृष्टेर्विधानान्नायं प्रसङ्गः ; दृष्टेः शुद्ध्यर्थाचमनसंबन्धस्यानुवादसामर्थ्यसिद्धेरकल्प्यत्वादित्येवमर्थपरत्वेन भाष्यं व्याचष्टे –
अपि चैकस्य कर्मण इति ।
परिधानार्थता चेति भाष्ये परिधानशब्दः परिदधतीति श्रुतिगतपरिधानं वदन्नुपकारपरः ।
अशब्दत्वान्न सर्वान्नाभ्यवहारश्चोद्यत इति भाष्योक्तमयुक्तम् , सर्वान्नदृष्टेरपि सिद्धान्तसंमताया अश्रुतत्वादित्याशङ्क्याह –
अशब्दत्वं चेति ।
शब्दं दृश्यं शब्दप्रकाशितं ज्ञेयं प्राणस्य सर्वान्नत्वं तन्नान्तरीयकत्वेन दृष्टिर्ज्ञप्तिशब्देन क्रियमाणोपलभ्यते , अभ्यवहारस्तु न क्रियतेऽपीति न बुद्धिस्थ इति वैषम्यमित्यर्थः ।
कथंचिद्योग्यतामात्रेणेति ।
प्राणस्य समस्तमन्नं श्रुतं प्राणविच्च तदात्मनि , तेनापि सर्वमन्नमभ्यवहर्तव्यमिति योग्यतामात्रेणेत्यर्थः ।
प्रायेणेति ।
माध्यन्दिनानां विधिदर्शनात्प्रायशब्दः ॥१८॥