भामतीव्याख्या
वेदान्तकल्पतरुः
 

समान एवं चाभेदात् ।

इहाभ्यासाधिकरणन्यायेन पूर्वः पक्षः । द्वयोर्विद्याविध्योरेकशाखागतयोरगृह्ममाणविशेषतया कस्य कोऽनुवाद इति विनिश्चयाभावादज्ञातज्ञापनाप्रवृत्तप्रवर्तनारूपस्य च विधित्वस्य स्वरससिद्धेरुभयत्रोपासनाभेदः । नच गुणान्तरविधानायैकत्रानुवाद उभयत्रापि गुणान्तरविधानोपलब्धेर्विनिगमनाहेत्वभावात्समानगुणानभिधानप्रसङ्गाच्च । तस्मात्समिधो यजतीत्यादिवदभ्यासादुपासनाभेद इति प्राप्त उच्यते - ऐककर्म्यमेकत्वेन प्रत्यभिज्ञानात् । न चागृह्यमाणविशेषता । यत्र भूयांसो गुणा यस्य कर्मणो विधीयन्ते तत्र तस्य प्रधानस्य विधिरितरत्र तु तदनुवादेन कतिपयगुणविधिः । यथा यत्र छत्रचामरपताकाहास्तिकाश्वीयशक्तीकयाष्टीकधानुष्ककार्पाणिकप्रासिकपदातिप्रचयस्तत्रास्ति राजेति गम्यते न तु कतिपयगजवाजिपदातिभाजि तदमात्ये, तथेहापि । न चैकत्र विहितानां गुणानामितरत्रोक्तिरनर्थिका प्रत्यभिज्ञानदार्ढ्यार्थत्वात् । अस्तु वास्मिन्नित्यानुवादो नह्यनुवादानामवश्यं सर्वत्र प्रयोजनवत्त्वम् । अनुवादमात्रस्यापि तत्र तत्रोपलब्धेः । तस्मात्तदेव बृहदारण्यकेऽप्युपासनं तद्गुणेनोपसंहारादिति सिद्धम् ॥ १९ ॥

समान एवं चोभेदात् ॥१९॥

पूर्वत्र प्राप्ताचमनानुवादेनानग्नताचिन्तनं विधेयमित्युक्तम् , इह तु वाक्ययोः कस्य विधित्वं कस्य वानुवादत्वमित्यनिश्चयाद् द्वयोरपि विद्याविधित्वमिति पूर्वपक्षमाह –

इहेति ।

अभ्यासाधिकरणन्यायमेव प्रकृते योजयति –

द्वयोरिति ।

निर्गुणे हि कर्मणि विहिते तदनु गुणो विधीयते , यथाऽग्निहोत्रं जुहोतीति विहितनिर्गुणकर्मानुवादेन दध्ना जुहोतीति दधिगुणः ।

शाण्डिल्यविद्याविध्योस्तूभयोरपि सगुणत्वान्नान्यतरस्यानुवादतेत्याह –

न च गुणान्तरेति ।

सगुणत्वेऽपि द्वयोर्वाक्ययोरन्यतरस्यानुवादत्वं भवति , यथा’’ऽऽग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवती’’ति कालद्वयान्विताग्नेयविध्यन्तर्भावात् ‘‘यदाग्नेयोष्टाकपालोऽमावास्यायां भवति’’ इत्येककालाग्नेयवाक्यस्यानुवादता , न तथेह वाक्यद्वयार्थयोरितरेतरत्रान्तर्भाव इति गमयितुं गुणान्तरेत्यन्तरशब्दः । अग्निरहस्ये हि ‘‘स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपमाकाशात्मानम् कामरूपिणं मनोजवसं सत्यसकल्पं सत्यधृतिं सर्वगन्धं सर्वरसं सर्वा दिशोऽनुसंभूतं सर्वमिदमभ्यात्तमवाक्यनादरं” “यथा व्रीहिर्वा यवो वा’’ इत्यादयो बहुतरा गुणा आम्नाताः , आरण्यके तु ‘मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी’ इत्यादयः स्तोकाः । तत्र विशित्वादयो नाग्निरहस्ये , कामरूपित्वादयश्च नारण्यकेऽत इतरेतरानन्तर्भावान्नानुवादतेत्यर्थः ।

अपि चैकमार्गेण विधित्वेऽधिका एव गुणाः श्रूयेरन् , न तु समाना मनोमयत्वादयः , अतोऽप्युभयत्र विद्याविधिरित्याह –

समानगुणानभिधानेति ।

पूर्वपक्षं निरस्यति –

नेति ।

सिद्धान्तं प्रतिजानीते –

ऎककर्म्यमिति ।

ऎकविद्यमित्यर्थः ।

एकविद्यात्वे हेतुमाह –

एकत्वेनेति ।

उभयत्र मनोमयत्वादिगुणविशिष्टपुरुषप्रत्यभिज्ञानादित्यर्थः ।

ननु समानासमानगुणवत्तयोभयोरपि वाक्ययोरतुल्यत्वात् क्व विद्याविधिः ? क्व वा गुणविधिरिति ? न ज्ञायते , अत आह –

न चागृह्यमाणेति ।

हस्तिनां समूहो हास्तिकम् । अश्वानां समूहोऽश्वीयम् । शक्तियष्टिधनुःकृपाणप्रासाः प्रहरणानि येषां ते तथोक्ताः । ऋग्वेदे यजुर्वेदे च श्रूयमाणज्योतिष्टॊमस्य तावदेकत्र विधिरन्यत्र गुणविध्यर्थमनुवाद इति स्थिते क्व विधानमित्यनिर्णयप्राप्तौ यजुर्वेदे दीक्षणीयाद्यङ्गभूयस्त्वेन तत्रैव विधीयत इति सिद्धान्तितं भेदलक्षणे । एवमत्रापि धर्मभूयस्त्वादग्निरहस्ये विद्याविधिनिर्णय इत्यर्थः । यत्तु केशवेनोक्तं - सिद्धे कर्मण उत्पत्त्यैक्ये प्रयोगविधिः क्वेति वीक्षायामङ्गभूयस्त्वेन प्रयोगविधिस्तत्र निर्णीतः , अत्र पुनर्विद्योत्पत्त्यैक्यमेव न सिद्धमिति मुधा भूयस्त्वन्यायोपन्यासः - इति । तन्न ; यतोऽत्रापि प्रत्यभिज्ञया विद्यैक्ये सिद्धे क्वोत्पत्तिरिति निर्णीयते । न च - अङ्गभूयस्त्वं प्रयोगविधिनिर्णायकं नोत्पत्तिविधिनिर्णायकमिति – वाच्यम् ; उत्पत्तेः प्रयोगाऽविनाभूतत्वेन प्रयोगगमकादङ्गभूयस्त्वादुत्पत्तेरप्यनुमातुं युक्तत्वादिति ।

अनुवादमात्रस्यापीति ।

आग्नेयैककालत्वादिविषयस्येत्यर्थः । भाः प्रकाशात्मकाः सत्यः परमार्थः तस्मिन्मनोमयपदप्रकृतिभूतमनःशब्देन प्रस्तुते हृदयेऽन्तर्यथा व्रीह्यादिस्तथा तावत्प्रमाणः पुरुष आस्ते । स एव सर्वस्य वशीत्यादिलक्षणः ॥१९॥

इति दशमं समानाधिकरणम् ॥