भामतीव्याख्या
वेदान्तकल्पतरुः
 

सम्बन्धादेवमन्यत्रापि ।

यद्येकस्यामपि शाखायां तत्त्वेन प्रत्यभिज्ञानादुपासनस्य तत्र विहितानां धर्माणां सङ्करः । तथा सति सत्यस्यैकसस्याभेदान्मण्डलद्वयवर्तिन उपनिषदोरपि सङ्करप्रसङ्गात् । तस्येति च प्रकृतपरामर्शित्वाद्भेदः । सत्यस्य च प्रधानस्य प्रकृतत्वादधिदैवमित्यस्य विशेषणतयोपसर्जनत्वेनाप्रस्तुतत्वात्प्रस्तुतस्य च सत्यस्याभेदात्पूर्ववद्गुणसङ्करः ॥ २० ॥

इति प्राप्त उच्यते –

न वा विशेषात् ।

सत्यं यत्र स्वरूपमात्रसम्बन्धो धर्माणां श्रूयते तत्रैवं स्वरूपस्य सर्वत्र प्रत्यभिज्ञायमानत्वात्तन्मात्रसम्बन्धित्वाच्च धर्माणाम् । यत्र तु सविशेषणं प्रधानमवगम्यते तत्र सविशेषणस्यैव तस्य धर्माभिसम्बन्धो न निर्विशेषणस्य नाप्यन्यविशेषणसहितस्य । नहि दण्डिनं पुरुषमानयेत्युक्ते दण्डरहितः कमण्डलुमानानीयते । तस्मादधिदैवं सत्यस्योपनिषदुक्ता न तस्यैवाध्यात्मं भवितुमर्हति । यथा चाचार्यस्य गच्छतोऽनुगमनं विहितं न तिष्ठतो भवति, तस्मान्नोपनिषदोः सङ्करः किन्तु व्यवस्थितिः ।

तदिदमुक्तं –

स्वरूपानपायादिति ॥ २१ ॥

दर्शयति च ।

अतिदेशादप्येवमेव तत्त्वे हि नातिदेशः स्यादिति ॥ २२ ॥

संबन्धादेवमन्यत्रापि ॥२०॥ ‘आप एवेदमग्र आसुः ता आपः सत्यमसृजन्त’ ।

सत्यमिति ।

हिरण्यगर्भ उच्यते । तच्च सत्यं ब्रह्म महद् इत्युपक्रम्य तत्रैवं सति यत्तत्सत्यं हिरण्यगर्भाख्यं सोऽसावादित्यापेक्षया पुल्लिङ्गप्रयोगः । क आदित्यः ? किं मण्डलमेव ? न । किं तर्हि ? ‘य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुष’ इति तस्यैव सत्यस्य ब्रह्मणोऽधिदैवतमध्यात्मं चादित्यचाक्षुषपुरुषरूपेणावस्थानमुक्त्वा ‘तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्निति’ इतरेतरव्यतिषक्तत्वमुक्त्वाऽऽदित्यपुरुषस्य य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरः , भुव इति बाहू , सुवरिति प्रतिष्ठा , पादावित्यर्धः , इति व्याहृतिशरीरत्वमुक्त्वा तस्योपनिषदहरित्यादित्यपुरुषस्याहर्नामत्वमुक्तम् । अनन्तरं योऽयं दक्षिणेऽक्षन् पुरुषस्तस्यापि भूरिति शिर इत्यादिना व्याहृतिशरीरत्वमुक्त्वा तस्योपनिषदहमित्यहंनामत्वमुक्तम् ।

उपनिषदिति ।

देवतामुपनिगमयतीति देवताप्रकाशकं रहस्यं नाम भण्यते । अहःशब्दः प्रकाशवचनः । अहंशब्दः प्रत्यगात्मत्ववाची । एते उपनिषदौ सत्यस्य ब्रह्मणः स्थानभेदेन व्यवस्थयाऽनुचिन्तनीये , उत द्वे अप्युभयत्रेति स्थानभेदात्सत्यब्रह्मैक्याच्च संशये संगतिगर्भं पूर्वपक्षमाह-यद्येकस्यामपीति ।

ननु तस्योपनिषदहमिति चादित्यमण्डलाक्षिस्थानविशिष्टस्य सत्यब्रह्मणः परामर्शात्कथमुपनिषदोः संकर इति सिद्धान्ताशयमाशङ्क्याह –

तस्येति चेति ।

तस्येति शब्दस्य प्रकृतपरामर्शित्वात्स्थानावच्छिन्नस्य च प्रकृतत्वादुपनिषदोर्मिथोऽसंकर इति हि सिद्धान्ताशय इत्यर्थः ।

एवमनूदितसिद्धान्ताशयं दूषयति –

सत्यस्य चेति ।

सत्यं प्रकृतावलम्बि सर्वनाम , प्रकृतमिति च प्राधान्येन पूर्वमवगतमुच्यते , अतः सत्यं ब्रह्मैव प्रधानं परामृश्यते , न गुणभूतः स्थानविशेषः । नापि तद्वैशिष्ठ्यम् ; तस्यापि स्वरूपधर्मत्वेनोपसर्जनत्वात् , तथा च सत्यस्यैक्यादुपनिषदोः संकरः इत्यर्थः ।

पूर्ववदिति ।

शाण्डिल्यविद्यावदित्यर्थः ॥२०॥

सत्यं न गुणभूतं स्थानमात्रं तच्छब्देन परामृश्यते , नापि तद्वैशिष्ठ्यं धर्मः , किं तु स्थानविशिष्टं ब्रह्मैव ; य एष एतस्मिन्मण्डले पुरुष इति तथैव प्रकृतत्वात् , तथा च विशिष्टस्य विशिष्टान्तरेऽननुगमान्नोभयत्रोभयत्रोभयनामचिन्तनमिति सिद्धान्तयति –

सत्यं यत्रेत्यादिना ।

तत्त्वे हीति ।

विशिष्टयोरेकत्वेऽन्तरादित्येऽन्तरक्षिणीत्युपदिष्टहिरण्मयपुरुषयोरेकत्वाद् रूपाद्यतिदेशो न स्यादतिदेशस्य भिन्नाधिष्ठानत्वादित्यर्थः । ।२१॥२२॥

इत्येकादशं संबन्धाधिकरणम् ॥