भामतीव्याख्या
वेदान्तकल्पतरुः
 

पुरुषविद्यायामिव चेतरेषामनाम्नानात् ।

पुरुषयज्ञत्वमुभयत्राप्यविशिष्टम् । नच विदुषो यज्ञस्येति न सामानाधिकरण्यसम्भवः । यज्ञस्यात्मेत्यात्मशब्दस्य स्वरूपवचनत्वात् । यज्ञस्य स्वरूपं यजमानस्तस्य च चेतनत्वाद्विदुष इति सामानाधिकरण्यसम्भवः । तस्मात्पुरुषयज्ञत्वाविशेषान्मरणावभृथत्वादिसामान्याच्चैकविद्याध्यवसाने उभयत्र उभयधर्मोपसंहार इति प्राप्तम् । एवं प्राप्त उच्यते यादृशं ताण्डिनां पैङ्गिनां च पुरुषयज्ञसम्पादनं तदायुषश्च त्रेधा व्यवस्थितस्य सवनत्रयसम्पादनम् । अशिशिषादीनां च दीक्षादिभावसम्पादनं नैवं तैत्तिरीयाणाम् । तेषां न तावत्पुरुषे यज्ञसम्पत्तिः । नह्यात्मा यजमान इत्यत्रायमात्मशब्दः स्वरूपवचनः । नहि यज्ञस्वरूपं यजमानो भवति । कर्तृकर्मणोरभेदाभावात् । चेतनाचेतनयोश्चैक्यानुपपत्तेः यज्ञकर्मणोश्चाचेतनत्वात् । यजमानस्य चेतनत्वात् । आत्मनस्तु चेतनस्य यजमानत्वं च विद्वत्त्वं चोपपद्यते । तथा चायमर्थः - एवं विदुषः पुरुषस्य यः सम्बन्धी यज्ञः तस्य सम्बन्धितया यजमान आत्मा तथा चात्मनो यजमानत्वं च विद्वत्सम्बन्धिता च यज्ञस्य मुख्ये स्यातामितरथात्मशब्दस्य स्वरूपवाचित्वे विदुषो यज्ञस्येति च यजमानो यज्ञस्वरूपमिति च गौणे स्याताम् । नच सत्यां गतौ तद्युक्तम् । तस्मात्पुरुषयज्ञता तैत्तिरीये नास्तीति तया तावन्न साम्यम् । नच पत्नीयजमानवेदविद्यादिसम्पादनं तैत्तिरीयाणामिव ताण्डिनां पैङ्गिनां वा विद्यते सवनसम्पत्तिरप्येषां विलक्षणैव । तस्माद्भूयो वैलक्षण्ये सति न किञ्चिन्मात्रसालक्षण्याद्विद्यैकत्वमुचितमतिप्रसङ्गात् । अपिच तस्यैवं विदुष इत्यनुवादश्रुतौ सत्यामनेकार्थविधाने वाक्यभेददोषप्रसक्तिरित्यर्थः । अपि चेयं पैङ्गिनां ताण्डिनां च पुरुषयज्ञविद्याफलान्तरयुक्ता स्वतन्त्रा प्रतीयते । तैत्तिरीयाणां तु एवंविदुष इति श्रवणात्पूर्वोक्तपरामर्शात्तत्फलत्वश्रुतेश्च पारतन्त्र्यम् ।

नच स्वतन्त्रतपरन्त्रयोरैक्यमुचितमित्याह –

अपिच ससंन्यासामात्मविद्यामिति ।

उपसंहरति –

तस्मादिति ॥ २४ ॥

पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥२४॥ छान्दोग्यशाखाविशेषे तावदेका विद्याऽधिगता, पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातःसवनम् , चतुश्चत्वारिंशद्वर्षाणि माध्यन्दिनम् , अष्टाचत्वारिंशत् तृतीयं सवनम् । यदशिशिषति पिपासति यद्रमते साऽस्य दीक्षा अथ यद्धसति जक्षति तत् स्तुतशस्त्रे , शब्दवत्त्वसामान्यादिति दीक्षादिकल्पना । तं चेदेतस्मिन्वयसि किं चिद् व्याध्याद्युपतपेत्स ब्रूयात् प्राणा वा वसव इदं मे प्रातःसवनं माध्यन्दिनं सवनमनुसन्तनुतेत्यादिराशीः । सोन्तवेलायामेतत्त्रयं प्रतिपद्येताऽक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रप्रयोगः । तैत्तिरीयके तु पठ्यते ‘‘तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युः’’ इति विषयविवेको भाष्यटीकयोर्व्याख्यानार्थं दर्शितः । अत्र तैत्तिरीयगतयोर्विदुषो यज्ञस्येति षष्ठ्योः सामानाधिकरण्यवैयधिकरण्याऽनवधारणात्संदेहः ।

असाधारणगुणप्रत्यभिज्ञानाभावात्संभृत्यादौ विद्याभेद उक्तः , इह त्वसाधारणगुणप्रत्यभिज्ञानाद्विद्यैक्यमिति पूर्वपक्षयति –

पुरुषयज्ञत्वमिति ।

पुरुषस्य यज्ञत्वं पुरुषयज्ञत्वं पुरुषे यज्ञत्वसंपत्तिस्तस्या अविशेषादित्यर्थः । तैत्तिरीयके पुरुषयज्ञत्वसंपत्तिरसिद्धा , विदुषो यज्ञस्येति विद्वत्संबन्धियज्ञप्रतीतेः ।

न चैते षष्ठ्यौ समानाधिकरणे ; आत्मा यजमान इति विदुष आत्मनो यजमानत्वनिर्देशाद् , एकस्य च यज्ञत्वयजमानत्वविरोधादत आह –

न च विदुष इति ।

यज्ञस्यात्मेत्यत्रात्मशब्दस्य स्वरूपवचनत्वे सति यत्फलितं तदाह –

यज्ञस्य स्वरूपमिति ।

पुरुषस्यैव यदा यज्ञत्वं संपाद्यते , तदा तत्स्वरूपमेव यजमान इति न विरोध इत्यर्थः ।

अत एव - विद्वद्यज्ञयोश्चेतनाचेतनत्वाद्विदुषो यज्ञस्येति षष्ठ्योः सामानाधिकरण्यानुपपत्तिरिति चोद्यं - निरस्तम् ; पुरुषैक्येन संपादितस्य यज्ञस्य चेतनत्वेन विद्वत्त्वसंभवादित्याह –

तस्य चेति ।

आत्मा यजमान इत्यनेन यज्ञस्वरूपं यजमान इत्युच्यत इत्यभिहितं , तत्किं मुख्यमुत गौणं , न प्रथम इत्याह –

न हि यज्ञस्वरूपमिति ।

न केवलं यज्ञस्वरूपस्य मुख्ययजमानत्वासंभवः , विदुषो यज्ञस्येति षष्ठ्योश्च न मुख्यसामानाधिकरण्यसंभव इत्याह –

चेतनाऽचेतनयोश्चेति ।

विद्वान् हि चेतनस्तस्याऽचेतनयज्ञैक्यायोग इत्यर्थः ।

वैयधिकरण्यपक्षे तु षष्ठ्योरुपपत्तिमाह –

आत्मनस्त्वित्यादिना ।

यजमान आत्मेत्यात्मोद्देशेन यजमानत्वं विहितम् ।

द्वितीयपक्षमाशङ्कते –

इतरथेति ।

दूषयति –

न च सत्यामिति ।

पुरुषाङ्गेषु पत्न्यादिकल्पनात्पुरुषे यज्ञत्वकल्पनसंभव इति केशवो वक्ति । तस्यैतं ग्रन्थं व्याचक्षीत अवयवेषु स्वगत्या संपत्तिराश्रिता , पुरुषे तु षष्ठ्योर्वैयधिकरण्येन मुख्यार्थः संभवति ।

अपि च तस्यैवं विदुष इति भाष्यमुपादाय व्याचष्टे –

अनुवादश्रुतौ सत्यामिति ।

विद्वत्संबन्धियज्ञानुवादेन तस्य विद्वदङ्गैरङ्गकल्पनादेकवाक्यता न प्रतीयते । तव तु विद्वान् यज्ञस्तस्य चात्मादयो यजमानादय इति विध्यावृत्त्या वाक्यभेद इत्यर्थः । तस्मान्न्यासमेषां तपसामतिरिक्तमाहुरिति ॐमित्यात्मानं युञ्जीतेति च ससंन्यासात्मविद्या प्रक्रान्ता ॥२४॥

इति त्रयोदशं पुरुषविद्याधिकरणम् ॥