भामतीव्याख्या
वेदान्तकल्पतरुः
 

सम्भृतिद्युव्याप्त्यपि चातः ।

“ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान । ब्रह्म भूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ।”(तै .ब्रा.२-४-६) ब्रह्म ज्येष्ठं येषां तानि ब्रह्मज्येष्ठा जज्ञे आस । यद्यपि तासु तासु शाण्डिल्यादिविद्यास्वायतनभेदपरिग्रहेणाध्यात्मिकायतनत्वं सम्भृत्यादीनां गुणानामाधिदैविकत्वमित्यायतनभेदः प्रतिभाति, तथापि ज्यायान् दिव इत्यादिना सन्दर्भेणाधिदैविकविभूतिप्रत्यभिज्ञानात्षोडशकलाद्यासु च विद्यास्वायतनाश्रवणादन्ततो ब्रह्माश्रयतया साम्येन प्रत्यभिज्ञासम्भवात्सम्बृत्यादीनां गुणानां शाण्डिल्यादिविद्यासु षोडशकलादिविद्यासु चोपसंहार इति पूर्वः पक्षः । राद्धान्तस्तु मिथः समानगुणश्रवणं प्रत्यभिज्ञाय यद्विद्या अपूर्वानपि तत्राश्रुतान्गुणानुपसंहारयति न त्विह सम्भृत्यादिगुणकब्रह्मविद्यायां शाण्डिल्यादिविद्यागतगुणश्रवणमस्ति । या तु काचिदाधिदैविकी विभूतिः शाण्डिल्यादिविद्यायां श्रूयते तस्यास्तत्प्रकरणाधीनत्वात्तावन्मात्रं ग्रहीष्यते नैतावन्मात्रेण सम्भृत्यादीननुक्रष्टुमर्हति । तत्रैतत्प्रत्यभिज्ञानाभावादित्युक्तम् । ब्रह्माश्रयत्वेन तु प्रत्यभिज्ञानसमर्थनमतिप्रसक्तम् । भूयसीनामैक्यप्रसङ्गात् ।

तदिदमुक्तं –

सम्भृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्चेति ।

तस्मात्सम्भृतिश्च द्युव्याप्तिश्च तदिदं सम्भृतिद्युव्याप्त्यपि चातः प्रत्यभिज्ञानाभावान्न शाण्डिल्यादिविद्यासूपसंह्रियत इति सिद्धम् ॥ २३ ॥

संभृतिद्युव्याप्त्यपि चातः ॥२३॥ यद्यपि वैश्वानरषोडशकलादिविद्यानामितरेतरमाधिदैविकविभूतिप्रत्यभिज्ञानं ब्रह्मसंबन्धप्रत्यभिज्ञानं चाविशिष्टम् ; तथापि तासु नेतरेतरगुणोपसंहारः शङ्क्यते , तासां प्रत्यक्षविधिविहितत्वेन भेदनिश्चयात्संभृत्यादीनां त्वश्रुतविधिकत्वात्परिशिष्टोपदेशात्मकखिलग्रन्थशिष्टत्वाच्चोपनिषदुदितविद्याशेषत्वमाशङ्क्यते । ज्येष्ठा ज्येष्ठानि । छन्दसि बहुवचनस्य डादेशः । ब्रह्मज्येष्ठानि वीर्याणि पराक्रमविशेषाः । अन्यैर्हि पुरुषैः सहायानपेक्ष्य विक्रमाः संभ्रियन्ते । तेन तत्पराक्रमाणां न त एव नियतपूर्वभावित्वरूपकारणत्वेन ज्येष्ठाः , किं तु तत्सहकारिणोऽपि । ब्रह्मवीर्याणां तु ब्रह्मैव ज्येष्ठमनन्यापेक्षं ब्रह्म जगज्जन्मादि करोतीत्यर्थः । किंचान्येषां पराक्रममाणानां बलवद्भिर्मध्ये भङ्गोऽपि भवति , तेन ते स्ववीर्यानि न संबिभ्रति , ब्रह्मवीर्याणि तु ब्रह्मणा संभृतानि अविघ्नेन संभृतानीत्यर्थः । तच्च ज्येष्ठं ब्रह्म अग्ने इन्द्रादिजन्मनः प्रागेव दिवं स्वर्गमाततान व्याप्तवद् नित्यमेव विश्वव्यापकमित्यर्थः ।

देशतोऽपरिच्छेदमुक्त्वा कालतोऽप्याह –

ब्रह्म भूतानामिति ।

जज्ञ इत्यस्योत्पत्तिवचनत्वं व्यावर्तयति –

आसेति ।

पूर्वाधिकरणे स्थानविशेषादनुपसंहार उक्तः । तस्यातिदेशोऽयम् ।

अस्याधिकाशङ्कामाह –

यद्यपीत्यादिना ।

आयतनभेदपरिग्रहेणेति ।

हृदयाद्यायतनं मा भूदायतनविशेषावरोधाच्छाण्डिल्यादिविद्यासु संभृत्यादीनामुपसंहारस्त्रैलोक्यात्मकविषयासु विद्यासु आयतनाभावात् तासूपसंहारो भविष्यतीत्यभ्यधिकाशङ्कान्तरमाह –

षोडशकलाद्यासु चेति ।

एकस्यां विद्यायां ये गुणा असाधारणास्ते यद्यन्यत्रापि श्रूयन्ते , तत्र विद्यैक्यं गुणोपसंहारश्च , यथाऽग्निरहस्ये बृहदारण्यके च मनोमयत्वाद्यसाधारणगुणप्रत्यभिज्ञानाद्विद्यैक्यं न तु साधारणगुणमात्रश्रवणं विद्यैक्यगमकमतिप्रसङ्गात् ।

तत्र किं संभृत्यादिविद्यायाः शाण्डिल्यादिविद्यानां चासाधारणगुणसाम्यादेकत्वमुत साधारणगुणसाम्यादथ वोभयत्र ब्रह्ममात्रप्रत्यभिज्ञानात् , नाद्य इत्याह –

मिथः समानेति ।

समानगुणेत्यसाधारणगुणसाम्यं विवक्षितम् । शाण्डिल्यादिविद्यागतगुणश्रवणं नास्तीत्यप्यसाधारणगुणाभिप्रायम् ।

द्वितीयं प्रत्याह –

या तु काचिदिति ।

द्युव्याप्त्यादिगुणास्तु यद्यपि संभृत्यादिविद्यायां शाण्डिल्यादिविद्यायां च समाः ; तथापि तेषां वैश्वानरषोडशकलादिविद्यास्वपि साधारण्येन तासामपीतरेतरमैक्यापादकत्वेनातिप्रसङ्गित्वान्न विद्यैक्यबोधनद्वारेण संभृत्यादिगुणकर्षकत्वं , किं तु शाण्डिल्यादिविद्याप्रकरणपठितत्वात्तावन्मात्रमेव शाण्डिल्यादिविद्यासु स्वीकर्तव्यमित्यर्थः ।

तत्रैतत्प्रत्यभिज्ञानाभावादिति ।

संभृत्यादिप्रत्यभिज्ञानाभावादित्यर्थः । इत्युक्तम् । संभृतिद्युव्याप्तीति सूत्रेणेति शेषः ।

तृतीयं प्रत्याह –

ब्रह्माश्रयत्वेन त्विति ।

तदिदमुक्तमिति ।

आधिदैविकविभूतेः साधारण्यात्संभृत्याद्यनाकर्षकत्वम् ब्रह्मप्रत्यभिज्ञायाश्चातिप्रसक्तत्वं चेत्यर्थः । तत्रापि आधिदैविकविभूतेर्बहुविद्यासाधारणत्वेनाऽसाधारणसंभृत्यादेः सकाशाद्व्यावृत्तत्वात्तदनाकर्षकत्वं संभ्रुत्यादयस्त्विति भाष्येणोक्तम् । न च ब्रह्मसंबन्धमात्रेणेत्यादिना च ब्रह्मप्रत्यभिज्ञाया अप्रयोजकत्वमुक्तमिति विवेकः ।

संभृतिद्युव्याप्तीत्येतत्सूत्रपदं प्रगृह्यत्वभावाय द्वन्द्वैकवद्भावेन व्याचष्टे –

तस्मादिति ।

अत इति सूत्रपदेन पूर्वाधिकरणोक्तस्थानभेदो न परामृश्यते ; तस्य षोडशकलादिविद्यास्वभावेनाव्यापकत्वात् , किं तु यथा तत्रादित्यविशिष्टब्रह्मणोऽक्षिविशिष्टब्रह्मणश्चाप्रत्यभिज्ञानमुक्तमेवमिहाप्यसाधारणगुणप्रत्यभिज्ञाऽभावोऽस्त्यसावत इति निर्दिश्यत इत्याह –

प्रत्यभिज्ञानाभावादिति ।

प्रत्यक्षविध्यभावेऽपि प्रत्यभिज्ञानवर्जनात् । कल्पयित्वा विधिं विद्या खिलोक्तापीह भेदित ॥१॥२३॥

इति द्वादशं संभृत्यधिकरणम् ॥