भामतीव्याख्या
वेदान्तकल्पतरुः
 

हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दःस्तुत्युपगानवत्तदुक्तम् ।

यत्र हानोपायने श्रूयेते तत्राविवादः संनिपाते यत्राप्युपायनमात्रश्रवणं तत्रापि नान्तरीयकतया हानमाक्षिप्तमित्यस्ति संनिपातः । यत्र तु हानमात्रं सुकृतदुष्कृतयोः श्रुतं न श्रूयते उपायनं, तत्र किमुपायनमुपादानं संनिपतेन्न वेति संशयः ।

अत्र पूर्वपक्षं गृह्णाति –

असंनिपात इति ।

स्यादेतत् । यथा श्रूयमाणमेकत्र शाखायामुपासनाङ्गं तस्मिन्नेवोपासने शाखान्तरेऽश्रूयमाणमुपसंह्रियते ।

एवं शाखान्तरश्रुतमुपायनमुपसंहरिष्यत इत्यत आह –

विद्यान्तरगोचरत्वाच्चेति ।

एकत्वे ह्युपासनकर्मणामन्यत्र श्रुतानामप्यन्यत्र समवायो घटते । न त्विहोपासनानामेकत्वं, सगुणनिर्गुणत्वेन भेदादित्यर्थः ।

ननु यथोपायनं श्रुतं हानमुपस्थापयत्येवं हानमपि उपायनमित्यत आह –

अपि चात्मकर्तृकमिति ।

ग्रहणं हि न स्वामिनोऽपगममन्तरेण भवतीति ग्रहणादपगमसिद्धिरवश्यम्भाविनी । अपगमस्त्वसत्यप्यन्येन ग्रहणे दृष्टो यथा प्रायश्चित्तेनापगतिरेनस इति । कर्तृभेदकथनं त्वेतदुपोद्बलनार्थं न पुनरवश्यम्भावस्य प्रयोजकमुपायनेनानैकान्त्यादिति ।

सिद्धान्तमुपक्रमते –

अस्यां प्राप्ताविति ।

अयमस्यार्थः कर्मान्तरे विहितं हि न कर्मान्तर उपसंह्रियते प्रमाणाभावात् । यत्पुनर्न विधीयते किन्तु स्तुत्यर्थं सिद्धतया सङ्कीर्त्यते तदसति बाधके देवताधिकरणन्यायेन शब्दतः प्रतीयमानं परित्यक्तुमशक्यम् । तथाच विधूतयोः सुकृतदुष्कृतयोर्निर्गुणायां विद्यायामश्वरोमादिवत्किं भवत्वित्याकाङ्क्षायां न तावत्प्रायश्चित्तेनेव तद्विलयसम्भवस्तथा सत्यश्वरोमराहुदृष्टान्तानुपपत्तेः । न जात्वश्वरोमराहुमुखयोर्विलयनमस्ति । अपि त्वश्वचन्द्राभ्यां विभागः । नच नष्टे विधूननप्रमोचनार्थसम्भवः । तस्मादर्थवादस्यापेक्षायां शब्दसंनिधिकृतोऽपि विशेष उपायनं बुद्धौ संनिधापयितुं शक्नोत्यपेक्षां पूरयितुमिति । निर्गुणापि विद्या हानोपायनाभ्यां स्तोतव्या । स्तुतिप्रकर्षस्तु प्रयोजनं न प्रमाणम् । अप्रकर्षेऽपि स्तुत्युपपत्तेः । न चार्थवादान्तरापेक्षार्थवादान्तराणां न दृष्टा ।

नच तैर्न पूरणमित्याह –

प्रसिद्धा चेति ।

विद्यास्तुत्यर्थत्वाच्चास्योपायनवादस्येति ।

यद्यप्यन्यदीये अपि सुकृतदुष्कृते अन्यस्य फलं प्रयच्छतः, यथा पुत्रस्य श्राद्धकर्म पितुस्तृप्तिं यथा च पितुर्वैश्वानरीयेष्टिः पुत्रस्य । नार्याश्च सुरापानं भर्तुर्नरकम् । तथाप्यन्यदीये अपि सुकृतदुष्कृते साक्षादन्यस्मिन्न सम्भवत इत्याशयेन शङ्का । फलतः प्राप्त्या स्तुतिरिति परिहारः । गुणोपसंहारविवक्षायामित्यपि न स्वरूपतः सुकृतदुष्कृतसञ्चाराभिप्रायम् ।

ननु विद्यागुणोपसंहाराधिकारे कोऽयमकाण्डे स्तुत्यर्थविचार इति शङ्कामुपसंहरन्नपाकरोति –

तस्माद्गुणोपसंहारविचारप्रसङ्गेनेति ।

विद्यागुणोपसंहारप्रसङ्गतः स्तुतिगुणोपसंहारो विचारितः । प्रयोजनं चोपासके सौहार्दमाचरितव्यं न त्वसौहार्दमिति छन्द एवाच्छन्द आच्छादनादाच्छन्दो भवति ।

यथैव चाविशेषेणोपगानमिति ।

ऋत्विज उपगायन्तीत्यविशेषेणोपगानमृत्विजाम् । भाल्लविनस्तु विशेषेण नाध्वर्युरुपगायतीति । तदेतस्माद्भाल्लविनां वाक्यमृत्विज उपगायन्तीत्येतच्छेषं विज्ञायते । एतदुक्तं भवति - अध्वर्युवर्जिता ऋत्विज उपगायन्तीति । कस्मात्पुनरेवं व्याख्यायते ।

ननु स्वतन्त्राण्येव सन्तु वाक्यानीत्यत आह –

श्रुत्यन्तरकृतमिति ।

अष्टदोषदुष्टविकल्पप्रसङ्गभयेन वाक्यान्तरस्य वाक्यान्तरशेषत्वमत्रभवतो जैमिनेरपि संमतमित्याह –

तदुक्तं द्वादशलक्षण्याम् ।

'अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्” इत्येतदेव सूत्रमर्थद्वारेण पठति –

अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्

स चान्याय्य इति शेषः । एवं किल श्रूयते “एष वै सप्तदशः प्रजापतिर्यज्ञे यज्ञेऽन्वायत्त” इति । ततो नानुयाजेषु येयजामहं करोतीति । तदत्रानारभ्य कञ्चिद्यज्ञं यज्ञेषु येयजामहकरणमुपदिष्टम् । तदुपदिश्य चाम्नातं नानुयाजेष्विति । तत्र संशयः किं विधिप्रतिषेधयोर्विकल्प उत पर्युदासोऽनुयाजवर्जितेषु येयजामहः कर्तव्य इति । मा भूदर्थप्राप्तस्य शास्त्रीयेण निषेधे विकल्पः । दृष्टं हि तादात्विकीमस्य सुन्दरतां गमयति नायतौ दोषवत्तां निषेधति । तस्य तत्रौदासीन्यात् । निषेधशास्त्रं तु तादात्विकं सौन्दर्यमबाधमानमेव प्रवृत्त्युन्मुखं नरं निवारयदायत्यामस्य दुःखफलत्वमवगमयति । यथाह “अकर्तव्यो दुःखफलः” इति । ततो रागतः प्रवृत्तमप्यायत्यां दुःखतो बिभ्यतं पुरुषं शक्नोति निवारयितुमिति बलीयान् शास्त्रीयः प्रतिषेधो रागतः प्रवृत्तेरिति न तया विकल्पमर्हति । शास्त्रीयौ तु विधिनिषेधौ तुल्यबलतया षोडशिग्रहणवद्विकल्प्येते । तत्र हि विधिदर्शनात्प्रधानस्योपकारभूयस्त्वं कल्प्यते । निषेधदर्शनाच्च वैगुण्येऽपि फलसिद्धिरवगम्यते । तथाह “अर्थप्राप्तवदिति चेन्न तुल्यत्वादुभयं शब्दलक्षणं” इति । नच वाच्यं यावद्यजतिषु येयजामहकरणं यावद्यजतिसामान्यद्वारेणानुयाजं यजतिविशेषमुपसर्पति तावदनुयाजगतेन निषेधेन तन्निषिद्धमिति शीघ्रप्रवृत्तेः सामान्यशास्त्राद्विशेषनिषेधो बलवानिति । यतो भवत्वेवंविधिषु ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति । तत्र तक्रविधिर्न दधिविधिमपेक्षते प्रवर्तितुमिह तु प्राप्तिपूर्वकत्वात्प्रतिषेधस्य येयजामहस्य चान्यतोऽप्राप्तेस्तन्निषेधेन निषेधप्राप्त्यै तद्विधिरपेक्षणीयः । नच सापेक्षतया निषेधाद्विधिरेव बलीयानित्यतुल्यशिष्टतया न विकल्पः किन्तु निषेधस्यैव बाधनमिति साम्प्रतं, तथा सति निषेधशास्त्रं प्रमत्तगीतं स्यात् । नच तद्युक्तं तुल्यं हि साम्प्रदायिकम् । नच न तौ पशौ करोतीतिवदर्थवादता । असमवेतार्थत्वात् । पशौ हि नाज्यभागौ स्त इत्युपपद्यते । न चात्र तथा येयजामहाभावः, यजतिषु येयजामहविधानात् । अनुयाजानां च तद्भावात् । नच पर्युदासस्तदाननुयाजेष्विति, कात्यायनमतेन नियमप्रसक्तेः । तस्माद्विहितप्रतिषिद्धतया विकल्प इति प्राप्तम् । एवं प्राप्त उच्यते उक्तं षोडशिग्रहणयोर्विकल्प इति । नहि तत्रान्या गतिरस्ति । तेनाष्टदोषदुष्टोऽपि विकल्प आस्थीयते पक्षेऽपि प्रामाण्यान्मा भूत्प्रमत्तगीततेति । इह तु पर्युदासेनाप्युपपत्तौ सम्भवन्त्यामन्याय्यं विकल्पाश्रयणमयुक्तम् । एवं हि तदा नञः सम्बन्धोऽननुयाजेषु यजतिष्वनुयाजवर्तितेषु येयजामहः कर्तव्य इति । किमतो यद्येवम् । एतदतो भवति - नानुयाजेष्वित्येतद्वाक्यमपरिपूर्णं साकाङ्क्षं पूर्ववाक्यैकदेशेन सम्भन्त्स्यते यदेतद्येयजामहङ्करोतीत्येतन्नानुयाजेषु यावदुक्तं स्यादनुयाजवर्जितेष्विति तावदुक्तं भवति नानुयाजेष्विति । तथाच यजितिविशेषणार्थत्वादननुयाजविधिरेवायमिति प्रतिषेधाभावान्न विकल्पः । न चाभियुक्ततरपाणिनिविरोधे कात्यायनस्यासद्वादित्वं नित्यसमासवादिनः सम्भवति । स हि विभाषाधिकारे समासं शास्ति । तस्मादनुयाजवर्जितेषु येयजामहविधानमिति सिद्धम् ।

वर्णकान्तरमाह –

अथवैतास्विति ।

यथा हि सुकृतदुष्कृतयोरमूर्तयोः कल्पनं नाञ्जसं मूर्त्यनुविधायित्वात्कम्पस्य । तथान्यदीययोरन्यत्र सञ्चारोऽप्यनुपपन्नोऽमूर्तत्वादेव । तस्माद्यत्र विधूननमात्रं श्रुतं तत्र कम्पनेन वरं स्वकार्यारम्भाच्चालनमात्रमेव लक्ष्यतां न तु ततोऽपगत्यान्यत्र सञ्चारः कल्पनागौरवप्रसङ्गात् । तस्मात्स्वकार्यारम्भाच्चालनं विधूननमिति प्राप्तेऽभिधीयते - यत्र तावदुपायनश्रुतिस्तत्रावश्यं त्यागो विधूननं वक्तव्यम् । क्वचिदपि चेद्विधूननं त्यागे वर्तते तथा सत्यन्यत्रापि तत्रैव वर्तितुमर्हति । एवं हि न वर्तेत यदि विधूननमिह मुख्यं लभ्येत । न चैतदस्ति । तत्रापि स्वकार्याच्चालनस्य लक्ष्यमाणत्वात् । नच प्रामाणिकं कल्पनागौरवं लोहगन्धितामाचरति । अपिचानेकार्थत्वाद्धातूनां त्यागेऽपि विधूयेति मुख्यमेव भविष्यति । प्राचुर्येण त्यागेऽपि लोके प्रयोगदर्शनात् । विनिगमनहेतोरभावात् । गणकारस्य चोपलक्षणत्वेनाप्यर्थनिर्देशस्य तत्र दर्शनात् । तस्माद्धानार्थ एवात्रेति युक्तम् ॥ २६ ॥

हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥२६॥ यथा विद्यासन्निधौ श्रुतस्यापि मन्त्रादेर्विद्यायामसामर्थ्यादनुपसंहारः , एवं हानसन्निधौ श्रुतस्याप्युपायनस्य तदन्तरेणापि हानसंभवेन हानोपपादनसामर्थ्याभावादनुपसंहार इति प्रापय्य प्रतिविधीयते । उपायनमित्यस्य व्याख्यानमुपादानमिति । सगुणनिर्गुणत्वेनेति । कौषीतकिशाखागतपर्यङ्कविद्या हि सगुणेति ।

यद्यपि सगुणविद्यायां हानसन्निधावुपायनं श्रुतम् ; तथापि निर्गुणविद्यास्थं हानं तदाक्षिपति , तदन्तरेण तदनुपपत्तेरिति शङ्कते –

ननु यथेति ।

कर्तृभेदो नानावश्यकत्वे प्रयोजकः ; परकर्तृकहाननियतेन स्वकर्तृकोपायनेनानेकान्तादित्यर्थः ।

यदुक्तं विद्याभेदादनुपसंहार इति , तत्राह –

कर्मान्तर इति ।

अश्वरोमादिवद्विधूतयोरिति योजना ।

यदप्युक्तं हाने उपायनं नावश्यकमिति , तत्राह –

न तावत्प्रायश्चित्तेनेति ।

न केवलमश्वरोमदृष्टान्तात् सुकृतादिविलयाभावः , किं तु विधूय प्रमुच्येति श्रुतिभ्यामपीत्याह –

न च नष्ट इति ।

शब्दसन्निधिकृतोऽपि विशेष इति । हानोपायनशब्दयोः कौषीतकिशाखायां सन्निधिरस्ति तत्कृतो विशेष इत्यर्थः ।

यद्यश्वरोमदृष्टान्ताद्विधूतयोः सुकृतदुष्कृतयोः परत्रावस्थानसापेक्षत्वादन्यत्र हानसन्निधौ श्रुतमुपायनं केवलहानश्रवणेऽप्यपेक्षितत्वादायातीति व्याख्यायते , कथं तर्हि भाष्यकारः स्तुतिप्रकर्षलाभायेति स्तुतिप्रकर्षमुपायनोपसंहारकल्पकं प्रमाणमाचष्टे ? अत आह –

स्तुतिप्रकर्षस्त्विति ।

स्तुतिर्हि विद्यायाः कार्या , सा च केवलश्रुतहानेनाप्युपपद्यते । एवं हि प्रकर्षोऽपेक्ष्येत यद्यप्रकर्षे स्तुतिर्न स्यात्तच्च नास्ति , तस्मात्प्रमाणासिद्धस्योपायनोपसंहारस्य प्रयोजनं भाष्ये उक्तमित्यर्थः ।

भाष्ये केनापि प्रकारेण पुरुषान्तरे सुकृतदुष्कृतयोरसङ्क्रान्तिरङ्गीकृतेति भाति , तच्चायुक्तम् ; फलद्वारेण सङ्क्रान्तिसंभवादित्याशङ्क्याह –

यद्यपीति ।

वैश्वानरीयेष्ठ्यधिकरणं द्वितीयसूत्रेऽनुक्रान्तम् । भाष्ये अतीवशब्दः सुकृतादिस्वरूपपरः । स्तुत्यर्थत्वाच्चेति भाष्यस्य चान्यत्र विद्यासामर्थ्यात्सुकृतदुष्कृतफलसंचाररूपमोक्षाभिधानेन विद्यास्तुत्यत्वादित्यर्थः ।

गुणोपसंहारविवक्षायामुपायनार्थशैवानुवृत्तिं ब्रूयादिति भाष्येऽप्युपायनार्थशब्देन सुकृतदुष्कृतस्वरूपोपायनं विवक्षितं फलत उपायनस्योक्तत्वादित्यभिप्रेत्याह –

न स्वरूपत इति ।

संचार इत्यभिप्रायमितीतिशब्दोऽध्याहर्तव्यः ।

स्तुतिगुणेति ।

स्तुत्युपयोगी गुणः सुकृतदुष्कृतयोः परत्र संचारः , तदुपसंहारो विचारितो यद्यपि स नोपास्य इत्यर्थः ।

कुशशब्दो हि न स्त्रीलिङ्गः ; अस्त्री कुशमित्यमरसिंहेनानुशिष्टत्वाद् , अतस्तदविरोधेन सूत्रेण पदं छिनत्ति –

आच्छन्द इति ।

आडुपसर्गस्यार्थमाह –

आच्छादनादिति ।

अनुष्ठातारं पापादाच्छादयतीति आच्छन्द इत्यर्थः । श्रूयते हि छादयन्ति हि वा एनं छन्दांसि पापत्कर्मण इति । अत्र समिधः कुशा इत्युच्यन्ते । औदुम्बरा इति विशेषणात्समिद्वाची कुशाशब्दोऽन्य एव स्त्रीलिङ्ग इति लिङ्गानभिज्ञानाद्वाचस्पतिः पदं चिच्छेदेति – केचित् । तदतिमन्दम् ; अनेकशब्दत्वस्यान्याय्यत्वात् । कुशसंबन्धात् समित्सु कुशशब्दस्य तु लाक्षणिकत्वोपपत्तेः , यज्ञसंबन्धादिव गार्हपत्ये इन्द्रशब्दस्य । यदि तु कस्यांचिछ्रुतावौदुम्बर्य इति प्रयोगः स्यात्तर्हि स छान्दसो भवेद्भाष्ये च तस्यानुकारमात्रम् । तस्मात् - पदवाक्यप्रमाणाब्धेः परं पारमुपेयुषः । वाचस्पतेरियत्यर्थेऽप्यबोध इति साहसम् ॥१॥

विकल्पपरिहारार्थं वाक्यस्य पर्युदासार्थत्वमाह –

तदेतदिति ।

अष्टदोषा विकल्पस्य , तदभावो नाडीषु इत्यत्र दर्शिताः ।

पर्युदासाधिकरणविषयमाह –

एवमिति ।

‘‘आश्रावयेति चतुरक्षरम् अस्तु श्रौषडिति चतुरक्षरं यजेति द्व्याक्षरं येयजामहे इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै’’ इति सप्तदशाक्षरो मन्त्रगणः प्रजापतित्वेन स्तूयते ; प्रजापतेरपि सप्तदशकलिङ्गशरीरसमष्टिरूपत्वात् । यज्ञे यज्ञेऽन्वायत्तोऽनुगत इत्यनारभ्यवादेन वाक्येन सर्वयज्ञेषु मन्त्रगणो विनियुक्तः । तत्र यदि नानुयाजेष्वित्ययं प्रतिषेधः तर्हि विधिप्रतिषेधसन्निपाताद्विकल्पः स्यात् ।

अथ पर्युदासः ततो विधेरेव वाक्यशेषः सन्ननुयाजातिरिक्तयागेषु येयजामहविधिपरः स्यात् , तदर्थं संशयमाह –

तत्रेति ।

ननु प्रतिषेधेऽपि कथं विकल्पप्राप्तिः ? प्रतिषेधेस्य प्रतिषेध्यं प्रति प्रबलत्वाद् भुजङ्गायाङ्गुलिर्न देयेतिवदिति शङ्कां निराकुर्वन्पूर्वपक्षमाह –

मा भूदित्यादिना ।

अर्थप्राप्तस्य भ्रमगृहीतविषयसौन्दर्यसामर्थ्यात् प्राप्तस्य शास्त्रीयेण निषेधेन विकल्पो मा भूत् ।

अत्र कारणमाह –

दृष्टं हीति ।

तात्कालिकश्रेयःसाधनत्वं प्रत्यक्षबोधितं , प्रतिषेधेन तु कालान्तरीयदुरितहेतुत्वं ज्ञाप्यत इति विषयभेदेन तुल्यार्थोपनिपाताभावान्न विकल्प इत्यर्थः ।

तर्हि कथं बाध्यबाधकभावस्तत्राह –

आयत्यां भविष्यत्काले दुःखतो बिभ्यतमिति ।

यदिदानीं प्रवृत्तस्य सुखं दृश्यते तत्तुल्यमेव चेद्दुःखं कालान्तरे भवेत् , तर्हि व्यर्थोऽयं प्रतिषेधः ; प्रवृत्तेर्दुःखकरत्ववन्निवृत्तेरपि सुखविगमे हेतुत्वात् । ततश्च दृष्टात्सुखादधिकं दुःखमस्तीति प्रतिषेधेन गमिते सत्यास्तिकानां प्रवृत्तेरुपरमात् प्रतिषेधस्य फलतो बाधकत्वमित्यर्थः ।

ननु कथं षोडशिग्रहणाग्रहणयोर्विकल्पः ? अकरणेऽपि क्रतूपकारसिद्धौ करणवैयर्थ्यादत आह –

तत्र हीति ।

उपकारभूमार्थिनोऽनुष्ठानमुपकारमात्रार्थिनोऽननुष्ठानमिति विकल्प इत्यर्थः ।

शास्त्रीयविधिनिषेधयोस्तुल्यबलत्वमित्यत्र जैमिनीयं सुत्रमुदाहरति –

तथाऽऽहेति ।

तुल्यहेतुत्वादिति प्रतिषेध्यप्राप्तेः प्रतिषेधस्य च तुल्यप्रमाणकत्वादित्यर्थः । तदेव दर्शयति – उभयं प्रवृत्तितत्प्रतिषेधरूपं शब्दलक्षणं शब्दप्रमाणकमित्यर्थः ।

शास्त्रीयत्वेऽपि विधिनिषेधयोः सामान्यविशेषविषयत्वेनातुल्यबलवत्वमाशङ्क्याह –

न च वाच्यमिति ।

यजतिषु यागेषु येयजामहकरणं यागसामान्यं यावद्विषयीकरोति तावन्निषेधोऽनुयाजे यागविशेष एव येयजामहानुष्ठानं निषेधति ।

निषिद्धे च विधेः सामान्यद्वारा विशेषसंक्रान्तिर्निरुध्यते इति न च वाच्यम् ; कुतः ? अत आह –

यत इति ।

विध्योर्हि सामान्यविशेषविषययोर्विधिर्बलवान् ; परस्परं निरपेक्षत्वाद् , निषेधस्तु विधिप्राप्तं निषेधद् विशेषविषयोऽपि न विधेरधिकबलः ; प्राप्तिसापेक्षत्वेन विध्युपजीवित्वादित्यर्थः ।

तर्हि विधिरेव निषेधेनोपजीव्यत्वात्प्रबलः स्यात् , तथा च कथं विकल्पावकाशस्तत्राह –

न च सापेक्षतयेति ।

अनन्यगतिकत्वान्निषेधस्य विधिना तुल्यबलत्वं कल्प्यमित्यर्थः ।

ननु नानन्यगतित्वमर्थवादत्वेन गतिसंभवादित्याशङ्क्याह –

न च न ताविति ।

तावाज्यभागौ पशौ न करोति इति दर्शपूर्णमासयोः श्रूयते । तथा क्वचित्पशुप्रकरणेऽपि । पशुप्रकरणस्थं तु वाक्यमतिदेशवाक्यं प्रति शेषत्वेन पर्युदासः यत्प्रकृतिवत्पशौ कर्तव्यं तदाज्यभागवर्जमिति । दर्शपूर्णमासप्रकरणगतं तु वाक्यं ज्योतिष्टोमगतद्वादशोपसत्तावाक्यवत् पशुगताज्यभागाभावानुवादद्वारेणार्थवादः । पशावप्याज्यभागौ न क्रियेते । तौ पुनर्दर्शपूर्णमासयोः क्रियेते । तस्मात्प्रशस्तौ दर्शपूर्णमासाविति । नैवमिहार्थवादः ।

हेतुमाह –

असमवेतेति ।

उदाहरणे तु समवेतार्थत्वेन वैषम्यमाह –

पशौ हीति ।

उपपद्यतेऽर्थवादतेत्यनुषङ्गः ।

असमवेतार्थत्वादित्येतद्विवृणोति –

न चात्रेति ।

अस्तु तर्हि पर्युदासत्वं गतिर्नेत्याह –

न च पर्युदास इति ।

नानुयाजेष्वित्ययं यदि पर्युदासः स्यात्तदा सुबन्तेन नञो योगात्समासः स्यात्कात्यायनेन समासनियमस्य स्मृतत्वादित्यर्थः ।

न हि तत्रान्येति ।

विधिनिषेधयोरुभयोरपि विशेषनिष्ठत्वान्न पर्युदाससंभव इत्यर्थः ।

ननु पर्युदासेऽपि किमिति न विकल्पः स्यात् ? अनुयाजवर्जितेष्वित्युक्ते येयजामहस्यानुयाजविच्छेदप्रतीतेः सामान्यविधिना च संबन्धप्रतीतेरिति शङ्कते –

किमत इति ।

परिहरति –

एतदिति ।

अनुयाजव्यतिरिक्तेष्वित्युक्ते के त इति न ज्ञायन्ते ततोऽपर्यवसितं वाक्यं येऽनुयाजादन्ये ते यागा इति पर्यवसातुं पूर्ववाक्यमपेक्षते , न पृथक् पर्यवस्यतीति न विकल्प इत्यर्थः ।

नन्वनुयाजवर्जितेष्वित्युक्ते वर्जनाभिधानान्निषेधत्वमिति , नेत्याह –

तथा चेति ।

पूर्ववाक्ये येयजामहं प्रति शेषत्वेन बोधितानां यागानामननुयाजत्वं विशेषणमज्ञातमनेन ज्ञाप्यत इति विधिशेषत्वान्न प्रतिषेधतेत्यर्थः ॥

अमृर्तयोः सुकृतदुष्कृतयोश्चालनाऽनुपपत्तेः पूर्वपक्षासम्भवमाशङ्क्य सिद्धान्तेऽपि साम्यमाह –

यथा हीति ।

ननूपायनं च विधूननं च यत्र कौषीतक्यादौ श्रूयते , तत्रोपायनसिद्ध्यर्थं हानमन्यत्र सञ्चार इति वक्तव्यं , तद्वदन्यत्राप्यस्तु , तत्राह –

यत्र विधूननमात्रमिति ।

ननु विधूननशब्दस्य लाक्षणिकत्वाविशेषे किमिति फलारम्भाच्चालनमेव लक्ष्यते ? न पुनरन्यत्र संचार इति , तत्राह –

कल्पनागौरवेति ।

अमूर्तयोः सुकृतदुष्कृतयोः स्वाश्रयादपसरणमन्यत्र चावस्थानमिति विरुद्धार्थद्वयलक्षणात् स्वाश्रयस्थयोरेव तयोः फलात् प्रधावनं लघुत्वाल्लक्षणीयमित्यर्थः ।

उपायनसन्निधौ श्रुतौ विधूननशब्दस्तावत्त्यागं लक्षयति , ततोऽन्यत्रापि केवलविधूननशब्दश्रुतौ प्रवृत्तत्वात् सैव लक्षणा बुद्धिस्था भवतीति न स्वफलाच्चालनलक्षणा , तस्या निवृत्तत्वादित्याह –

यत्र तावदिति ।

ननु क्वचिद्येन शब्देन योऽर्थो लक्षितः स एव तस्यान्यत्राप्यर्थ इति न नियतं , न ह्यग्निरधीत इत्यत्र माणवको लक्षित इत्यग्निर्ज्वलतीत्यत्रापि तदर्थता , अत आह –

एवं हीति ।

यदि केवलविधूननशब्दश्रवणे चालनमर्थो लभ्येत , तर्हि प्रयोगान्तरे प्राप्तो लाक्षणिकार्थो न परिगृह्येत , न त्वेतदस्तीति प्राप्तत्याग एव लक्ष्यत इत्यर्थः ।

नन्वस्मिन्पक्षे कल्पनागौरवमुक्तमत आह –

न च प्रामाणिकमिति ।

प्रवृत्तस्य लक्ष्यार्थस्य प्रयोगान्तरेऽपि बुद्धौ सन्निधानं प्रमाणं , तत आयातं प्रामाणिकम् ।

ननु चालने मुख्यो विधूननशब्दस्त्यागे तु गौण इति , नेत्याह –

प्राचुर्येणेति ।

अवधूत इत्यादौ त्यागे धुनोतेः प्रयोगदर्शनादित्यर्थः । अश्वो यथा जीर्णानि रोमाणि विधुनुते त्यजत्येवं पापं विधूय यथा चन्द्रो राहोर्मुखात्प्रमुच्य भास्वरो भवति ; एवं धूत्वा शरीरं स्वच्छो भूत्वा ब्रह्मलोकमभिसम्भवामि प्राप्नोमीत्यन्वयः । कृतः सिद्धः न पुनरपूर्वपुण्योपचयेन साध्य आत्मा यस्य स कृतात्मा कृतकृत्य इत्यर्थः । ब्रह्मैव लोको ब्रह्मलोकः ॥२‍६॥

इति पञ्चदशं हान्यधिकरणम् ॥