भामतीव्याख्या
वेदान्तकल्पतरुः
 

इयदामननात् ।

“गुहां प्रविष्टावात्मानौ”(ब्र. सू. १ । २ । ११) इत्यत्र सिद्धोऽप्यर्थः प्रपञ्च्यते । एकत्र भोक्त्रभोक्त्रोर्वेद्यता, अन्यत्र भोक्त्रोरेवेति वेद्यभेदाद्विद्याभेद इति । नच सृष्टिरुपदधातीतिवत्पिबदपिबल्लक्षणापरं पिबन्ताविति नेतुमुचितम् । सति मुख्यार्थसम्भवे तदाश्रयणायोगात् । नच वाक्यशेषानुरोधात्तदाश्रयणम् । सन्देहे हि वाक्यशेषान्निर्णयो नच मुख्यलाक्षणिकग्रहणविषयो विषयः सम्भवति, तुल्यबलत्वाभावात् । प्रकरणस्य च ततो बलीयसा वाक्येन बाधनात् । तस्माद्वेद्यभेदाद्विद्याभेद इति प्राप्त उच्यते - द्वासुपर्णेत्यत्र ऋतं पिबन्तावित्यत्र च द्वित्वसङ्ख्योत्पत्तौ प्रतीयते तेन समानतौत्सर्गिकी । पिबन्ताविति द्वयोः पिबन्ता या सा बाधनीया, सा चोपक्रमोपसंहारानुरोधेन न द्वयोरपि तु छत्रिन्यायेन लाक्षाणिकी व्याख्येया । येन ह्युपक्रम्यते येन चोपसंस्थियते तदनुरोधेन मध्यं ज्ञेयम् । यथा जामित्वदोषसङ्कीर्तनोपक्रमे तत्प्रतिसमाधानोपसंहारे च सन्दर्भे मध्यपातिनो विष्णुरूपांशु यष्टव्योऽजामित्वायेत्यादयः पृथग्विधित्वमलभमाना विधित्वमविवक्षित्वार्थवादतया नीतास्तत्कस्य हेतोरेकवाक्यता हि साधीयसी वाक्यभेदादिति । तथेहापि तदनुरोधेन पिबदपिबत्समूहपरं लक्षणीयं पिबन्तावित्यनेन । तथाच वेद्याभेदाद्विद्याभेद इति । अपिच त्रिष्वप्येतेषु वेदान्तेषु प्रकरणत्रयेऽपि पौर्वापर्यपर्यालोचनया परमात्मविद्यैवावगम्यते ।

यद्येवं कथं तर्हि जीवोपादानमस्त्वित्यत आह –

तादात्म्यविवक्षयेति ।

नास्यां जीवः प्रतिपाद्यते किन्तु परमात्मनोऽभेदं जीवस्य दर्शयितुमसावनूद्यते । परमात्मविद्यायाश्चाभेदविषयत्वान्न भेदाभेदविचारावतारः । तस्मादैकविद्यमत्र सिद्धम् ॥ ३४ ॥

इयदामननात् ॥३४॥

पुनरुक्तिमाशङ्क्याह –

गुहामिति ।

पूर्वत्र प्रतिपाद्यब्रह्मप्रत्यभिज्ञानाद्विद्यैक्येऽक्षरधियामुपसंहारः उक्तः , इह तु प्रतिपाद्यभेदाद्विद्याभेद इत्याह –

एकत्रेति ।

सिद्धोऽर्थः प्रपञ्च्यत इत्युक्तम् , तमेव प्रपञ्चप्रकारमाह –

न च सृष्टीति ।

यथा ‘‘सृष्टीरुपपदधाती’’ति सृष्ट्यसृष्टिमन्त्रकेष्टकासमूहलक्षणया सर्वसमूहिपरो भवति , एवं पिबच्छब्दोऽपि पिबदपिबत्पर इत्यर्थः । सृष्ट्यधिकरणं गुहाप्रविष्टाधिकरणे (ब्र.अ.१ पा.२ सू.११)ऽनुक्रान्तम् । ननु ‘यः सेतुरीजानानामक्षरं ब्रह्म यत्पर’मिति वाक्यशेषे परमात्मप्रतिपादनात्तस्यैव जीवद्वितीयत्वादभोक्तृत्वाच्च पिबन्तावित्यत्र भोक्त्रभोक्तारौ प्रतिपाद्येते ।

तथा च छत्रिन्यायेन पिबन्तावित्येतल्लाक्षणिकमिति , नेत्याह –

न च वाक्यशेषानुरोधादिति ।

ननु ‘‘अन्यत्र धर्मादि’’ति प्रकरणात् पिबन्तावित्यत्र जीवद्वितीयः परमात्म प्रतीयते इति , नेत्याह –

प्रकरणस्येति ।

उत्पत्तौ प्रथमप्रतीतौ । वस्तुप्रतीत्यनन्तरं प्रतीतौ हि न संख्याया वस्त्वैक्यगमकत्वं स्यादिति । न वयं वाक्यशेषाद्वा केवलात्प्रकरणाद्वा पिबन्तावित्यस्य लाक्षणिकत्वं ब्रूमः , किं तु उभाभ्याम् । तथा च सन्दर्भस्यैकवाक्यत्वावगमात् जीवपरमात्मपरत्वम् ।

तथा च तन्मध्यपतितं पिबन्तावित्येतदपि लाक्षणिकमित्याह –

सा चोपक्रमोपसंहारेति ।

उपांशुयाजाधिकरणं समन्वयसूत्रे (ब्र.अ.१.पा.१. सू.४)ऽनुक्रान्तम् । पिबदपिबतोर्यत्समूहि तत्परं केवलं लक्षणीयमित्यर्थः । पिबच्छब्दोऽपि पिबदपिबतोः समूहं लक्षयति तद्द्वारा च समूहिनाविति । त्रिष्वपीति । मुण्डककठवल्लीश्वेताश्वतरेषु ॥३४॥

इत्येकविंशमियदधिकरणम् ॥