भामतीव्याख्या
वेदान्तकल्पतरुः
 

कामादीतरत्र तत्र चायतनादिभ्यः ।

छान्दोग्यवाजसनेयविद्ययोर्यद्यपि सगुणनिर्गुणत्वेन भेदः । तथाहि छान्दोग्ये “अथ य इहात्मानमनुविद्य व्रजन्ति एतांश्च सत्यान्कामान्”(छा. उ. ८ । १ । ६) इत्यात्मवत्कामानामपि वेद्यत्वं श्रूयते । वाजसनेये तु निर्गुणमेव परं ब्रह्मोपदिश्यते “विमोक्षाय ब्रूहि”(बृ. उ. ४ । ३ । १४) इति तथापि तयोः परस्परगुणोपसंहारः । निर्गुणायां तावद्विद्यायां ब्रह्मस्तुत्यर्थमेव सगुणविद्यासम्बन्धिगुणोपसंहारः सम्भवी । सगुणायां च यद्यप्याध्यानाय न वशित्वादिगुणोपसंहारसम्भवः । नहि निर्गुणायां विद्यायामाध्यातव्यत्वेनैते चोदिता येनात्राध्येयत्वेन सम्बध्येरन्नपि तु सत्यकामादिगुणनान्तरीयकत्वेनैतेषां प्राप्तिरित्युपसंहार उच्यते । एवं व्यवस्थित एष सङ्क्षेपोऽधिकरणार्थस्य साम्यबाहुल्येऽप्येकत्राकाशाधारत्वस्यापरत्र चाकाशतादात्म्यस्य श्रवणाद्भेदे विद्ययोर्न परस्परगुणोपसंहार इति पूर्वपक्षः । राद्धान्तस्तु सर्वसाम्यमेवोभयत्राप्यात्मोपदेशादाकाशशब्देनैकत्रात्मोक्तोऽन्यत्र च दहराकाशाधारः स एवोक्त इति सर्वसाम्याद्ब्रह्मण्युभयत्रापि सर्वगुणोपसंहारः । सगुणनिर्गुणत्वेन तु विद्याभेदेऽपि गुणोपसंहारव्यवस्था दर्शिता । तस्मात्सर्वमवदातम् ॥ ३९ ॥

कामादीतरत्र तत्र चायतनादिभ्यः ॥३९॥ पूर्वत्र तद्यत्सत्यमिति प्रकृताकर्षणेन रूपाभेदाद्गुणोपसंहार उक्तः , इह तु क्वचिदाकाशस्योपास्यत्वं क्वचित्तदाश्रितस्य ज्ञेयत्वमिति रूपभेदाद्गुणानुपसंहारः ।

अधिकरणानारम्भमाशङ्कते –

छान्दोग्येति ।

आशङ्कां विवृणोति –

तथा हीति ।

परिहरति –

तथापीति ।

स्तुतिर्हि दृष्टेन द्वारेण कर्तुं शक्येति सगुणविद्यासु ध्येयत्वेनोक्तानामपि गुणानां निर्गुणविद्यायामुपपन्नः स्तुत्यर्थत्वेनान्वयश्चेत्तर्हि निर्गुणविद्यागतवशित्वादीनां सगुणविद्यासु कथमन्वयः ? तं प्रकारमाह –

सगुणायांचेति ।

ध्येयत्वं त्वपूर्वविध्येकगम्यं यत्र च वशित्वादयः श्रूयन्ते न तत्रैषां ध्येयत्वेन विधानमित्यन्यत्र गतानामपि न ध्येयत्वम् , स्तुत्यर्थत्वम् तु स्यात्तदपि न शब्दत एषां तत्र नयनमपेक्षते , सत्यकामत्वादिसामर्थ्यादेव सर्वेश्वरत्वादिसिद्धेः । अतोऽन्तर्भावमात्रमुपसंहार इत्यर्थः । यस्तु सर्वापि विद्या सगुणेति मन्यमान इह साक्षाद् गुणोपसंहारमाह , तस्य न स्थानतोऽपी (ब्र.३.पा.२ सू.११ अ.) त्यधिकरणं व्याचक्षीत ।

एकत्रेति ।

य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते इत्यत्राकाशाधारत्वस्य श्रवणादित्यर्थः । आकाश आधारो यस्य तस्य भावस्तत्त्वम् ।

अपरत्रेति ।

दहरोऽस्मिन्नन्तराकाश इत्यत्र गुणवत आकाशात्मत्वगुणश्रवणादित्यर्थः ।

छान्दोग्ये आत्मैवाकाशात्मत्वेनोक्तः , बृहदारण्यके तु हृदयपुण्डरीकान्तर्वर्तिभौतिकदहराकाशाश्रित आत्मा वशित्वादिगुणक उक्त इति न रूपभेद इत्याह –

आकाशशब्देनेति ।

नन्वात्मोच्यतां , सगुणनिर्गुणत्वेन तु भेदात्कथं गुणोपसंहार इति , तत्राधिकरणारम्भसमर्थनावसरोक्तं परिहारं स्मारयति – सगुणेति ॥३९॥

इति पञ्चविंशं कामाद्यधिकरणम् ॥