भामतीव्याख्या
वेदान्तकल्पतरुः
 

आदरादलोपः ।

अस्ति वैश्वानरविद्यायां तदुपासकस्यातिथिभ्यः पूर्वभोजनम् । तेन यद्यपीयमुपासनागोचरा न चिन्ता साक्षात्तथापि तत्सम्बद्धप्रथमभोजनसम्बन्धादस्ति सङ्गतिः ।

विचारगोचरं दर्शयति –

छान्दोग्ये वैश्वानरविद्यां प्रकृत्येति ।

विचारप्रयोजकं सन्देहमाह –

किं भोजनलोप इति ।

अत्र पूर्वपक्षाभावेन संशयमाक्षिपति –

तद्यद्भक्तमिति भक्तागमनसंयोगश्रवणादिति ।

उक्तं खल्वेतत्प्रथम एव तन्त्रे “पदकर्माप्रयोजकं नयनस्य परार्थत्वात्”(जै.सू. ४-१-२५) इत्यनेन । यथा सोमक्रयार्थानीयमानैकहायनीसप्तमपदपांशुग्रहणमप्रयोजकं न पुनरेकहायन्या नयनं प्रयोजयति । तत्कस्य हेतोः । सोमक्रयेण तन्नयनस्य प्रयुक्तत्वात्तदुपजीवित्वात्सप्तमपदपांशुग्रहणस्येति । तथेहापि भोजनार्थभक्तागमनसंयोगात्प्राणाहुतेर्भोजनाभावे भक्तं प्रत्यप्रयोजकत्वमिति नास्ति पूर्वपक्ष इत्यपूर्वपक्षमिदमधिकरणमित्यर्थः ।

पूर्वपक्षमाक्षिप्य समाधत्ते –

एवं प्राप्ते, न लुप्येतेति तावदाह ।

तावच्छब्दः सिद्धान्तशङ्कानिराकरणार्थः ।

पृच्छति –

कस्मात् ।

उत्तरमादरात् ।

तदेव स्फोरयति –

तथाहीति ।

जाबाला हि श्रावयन्ति “पूर्वोऽतिथिभ्योऽश्नीयात्” इति । अश्नीयादिति च प्राणाग्निहोत्रप्रधानं वचः । “यथा हि श्रुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतान्यग्निहोत्रमुपासते” इति वचनादग्निहोत्रस्यातिथीन्भूतानि प्रत्युपजीव्यत्वेन श्रवणात्तदेकवाक्यतयेहापि पूर्वोऽतिथिभ्योऽश्नीयादिति प्राणाहुतिप्रधानं लक्ष्यते । तदेवं सति “यथाह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादित्येवं तत्” इत्यतिथिभोजनस्य प्राथम्यं निन्दित्वास्वामिभोजनं स्वामिनः प्राणाग्निहोत्रं प्रथमं प्रापयन्ती प्राणाग्निहोत्रादरं करोति ।

नन्वाद्रियतामेषा श्रुतिः प्राणहुतिं किन्तु स्वामिभोजनपक्ष एव नाभोजनेऽपीत्यत आह –

या हि न प्राथम्यलोपं सहते नतरां सा प्राथम्यवतोऽग्निहोत्रस्य लोपं सहेतेति मन्यते ।

ईदृशः खल्वयमादरः प्राणाग्निहोत्रस्य यदतिथिभोजनोत्तरकालविहितं स्वामिभोजनं समयादपकृष्यातिथिभोजनस्य पुरस्ताद्विहितम् । तद्यदाग्निहोत्रस्य धर्मिणः प्राथम्यधर्मलोपमपि न सहते श्रुतिस्तदास्याः कैव कथा धर्मिलोपं सहत इत्यर्थः ।

पूर्वपक्षाक्षेपमनुभाष्य दूषयति –

ननु भोजनार्था इति ।

यथा हि कौण्डपायिनामयनगते अग्निहोत्रे प्रकरणान्तरान्नैयमिकाग्निहोत्राद्भिन्ने द्रव्यदेवतारूपधर्मान्तररहिततया तदाकाङ्क्षे साध्यसादृश्येन नैयमिकाग्निहोत्रसमाननामतया तद्धर्मातिदेशेन रूपधर्मान्तरप्राप्तिरेवं प्राणाग्निहोत्रेऽपि नैयमिकाग्निहोत्रगतपयःप्रभृतिप्राप्तौ भोजनागतभक्तद्रव्यता विधीयते । न चैतावता भोजनस्य प्रयोजकत्वम् । उक्तमेतद्यथा भोजनकालातिक्रमात्प्राणाग्निहोत्रस्य न भोजनप्रयुक्तत्वमिति । न चैकदेशद्रव्यतयोत्तरार्धात्स्विष्टकृते समवद्यतीतिवदप्रयोजकत्वमेकदेशद्रव्यसाधनस्यापि प्रयोजकत्वात् । यथा जाघन्या पत्नीः संयाजयन्तीति पत्नीसंयाजानां जाघन्येकदेशद्रव्यजुषां जाघनीप्रयोजकत्वम् । स हि नामाप्रयोजको भवति यस्य प्रयोजकग्रहणमन्तरेणार्थो न ज्ञायते । यथा न प्रयोजकपुरोडाशग्रहणमन्तरेणोत्तरार्धं ज्ञातुं शक्यम् । शक्यं तु जाघनीवद्भक्तं ज्ञातुम् । तस्माद्यथा जाघन्यन्तरेणापि पशूपादानं परप्रयुक्तपशूपजीवनं वा खण्डशो मांसविक्रयिणो मुण्डादिवदाकृतिरूपादीयते । एवं भक्तमपि शक्यमुपादातुम् । तस्मान्न भोजनस्य लोपे प्राणाग्निहोत्रलोप इति मन्यते पूर्वपक्षी । अद्भिरिति तु प्रतिनिध्युपादानमावश्यकत्वसूचनार्थं भाष्यकारस्य ॥ ४० ॥

उपस्थितेऽतस्तद्वचनात् ।

तद्धोमीयमिति हि वचन किमपि संनिहितद्रव्यं होमे विनियुङ्क्ते तदः सर्वनाम्नः संनिहितावगममन्तरेणाभिधानापर्यवसानात्तदनेन स्वाभिधानपर्यवसानाय तद्यद्भक्तं प्रथममागच्छेदिति संनिहितमपेक्ष्य निर्वर्तितव्यम् । तच्च संनिहितं भक्तं भोजनार्थमित्युत्तरार्धात्स्विष्टकृते समवद्यतीतिवन्न भक्तं वापो वा द्रव्यान्तरं वा प्रयोक्तुमर्हति । जाघन्यास्त्ववयवभेदस्य नाग्नीषोमीयपश्वधीनं निरूपणं स्वतन्त्रस्यापि तस्य सूनास्थस्य दर्शनात्तस्मादस्त्येतस्य जाघनीतो विशेषः ।

यच्चोक्तं चोदकप्राप्तद्रव्यबाधया भक्तद्रव्यविधानमिति । तदयुक्तम् । विध्युद्देशगतस्याग्निहोत्रनाम्नस्तथाभावादार्थवादिकस्य तु सिद्धं किञ्चित्सादृश्यमुपादाय स्तावकत्वेनोपपत्तेर्न तद्भावं विधातुमर्हतीत्याह –

न चात्र प्राकृताग्निहोत्रधर्मप्राप्तिरिति ।

अपि चाग्निहोत्रस्य चोदकतो धर्मप्राप्तावभ्युपगम्यमानायां बहुतरं प्राप्तं बाध्यते । नच सम्भवे बाधनिचयो न्याय्यः ।

कृष्णलचरौ खल्वगत्या प्राप्तबाधोऽभ्युपेयत इत्याह –

तद्धर्मप्राप्तौ चाभ्युपगम्यमानायामिति ।

चोदकाभावमुपोद्बलयति –

अत एव चेहापीति ।

यत एवोक्तेन क्रमेणातिदेशाभावोऽत एव साम्पादिकत्वमग्निहोत्राङ्गानाम् । तत्प्राप्तौ तु साम्पादिकत्वं नोपपद्येत । कामिन्यां किल कुचवदनाद्यसता चक्रवाकनलिनादिरूपेण सम्पाद्यते । न तु नद्यां चक्रवाकादय एव चक्रवाकादिना सम्पाद्यन्ते । अतोऽप्यवगच्छामो न चोदकप्राप्तिरिति । यत्त्वादरदर्शनमिति तद्भोजनपक्षे प्राथम्यविधानार्थम् । यस्मिन्पक्षे धर्मानवलोपस्तस्मिन्धर्मिणोऽपि न त्वेतावता धर्मिनित्यता सिध्यतीति भावः ।

नन्वतिथिभोजनोत्तरकालता स्वामिभोजनस्य विहितेति कथमसौ बाध्यत इत्यत आह –

नास्ति वचनस्यातिभारः ।

सामान्यशास्त्रबाधायां विशेषशास्त्रस्यातिभारो नास्तीत्यर्थः ॥ ४१ ॥

आदरादलोपः ॥४०॥ उपास्तिलोपेऽपि स्तुत्यर्थत्वेन गुणलोपवत् ‘‘पूर्वोऽतिथिभ्य’’ इत्यादिस्तुत्युपपत्त्यर्थं भोजनलोपेऽपि प्राणाग्निहोत्रलोप इत्यवान्तरसङ्गतिः ।

पादसङ्गतिमाह –

अस्तीति ।

पूर्वभोजनमिति ।

तद्यद्भक्तं प्रथममिति वाक्यविहितं प्राणाग्निहोत्रमित्यर्थः ।

पदकर्मेति ।

‘‘एकहायन्या क्रीणाती’’ति प्रकृत्य श्रूयते ‘‘षट् पदान्यनुनिष्कामति सप्तमं पदमञ्जलिना गृह्णाति यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्या’’दिति ।सोमक्रयार्थं नीयमानाया एकहायन्याः षट्पदान्यनुगच्छेदध्वर्युः । सप्तमपदबिम्बगतपांसूनञ्जलिना गृह्णीयाद् , गृहीत्वा स्थापयेत्पुनर्यस्मिन् दिवसे हविर्धाने शकटे द्वे प्राङ्मुखे प्रवर्तयेयुस्तदा तेन पांशुनाऽक्षं रथस्याञ्जेल्लिम्पेदित्यर्थः । तत्र संशयः - यदेतदक्षाभ्यञ्जनं सप्तमपदसाध्यं तदर्थमप्येकहायनीनयनम् । अतश्च तेनापि प्रयुज्यते , उत क्रयार्थमेव , ततश्च तेनैव प्रयुज्यते इति तत्र द्वयोरप्येकहायनीनयनसाध्यत्वात्कस्यचिदपि वाक्यतो विशेषसंबन्धाऽनवगमात् सन्निध्यविशेषाच्चोभयार्थत्वं प्रापय्य चतुर्थे सिद्धान्तितम् । यद्यपि क्रयनयनयोर्न साक्षादस्ति वाक्यकृतः सबन्धः ; तथाप्येकहायनीद्वारा विद्यते । सा हि तृतीयया क्रयार्थाऽवसीयते । यदर्था च सा तदर्थमेव तत्संस्कारार्थ नयनमित्यस्ति क्रयनयनयोर्विशेषसंबन्धः । नैवमस्ति पदकर्मणा नयनस्य विशेषसंबन्धः । तस्मात्क्रयार्थमेव नयनमिति ।

तदिदमाह –

यथेत्यादिना ।

सोमक्रयार्था चासौ नीयमाना चासावेकहायनी च तस्याः सप्तमपदपांसुग्रहणमित्यर्थः ।

तावच्छब्देनास्थिरत्वं पूर्वपक्षस्य नोच्यत इत्याह –

तावच्छब्द इति ।

स्वामिभोजनस्य त्वतिथिभोजनादुत्तरः कालः , तं कालमतीत्य प्राक्काले प्राणाग्निहोत्रस्य श्रवणात् भोजनलोपेऽपि प्राणाग्निहोत्रकर्तव्यताऽवगम्यत इत्याह –

जाबाला हीति ।

नन्वत्राशनमात्रस्य भोजनकालादपकर्ष प्रतीयते , न प्राणाग्निहोत्रस्येत्यत आह –

अश्रीयादिति चेति ।

‘अग्निहोत्रमुपासत’ इति वचनादतिथिरूपभूतानि प्रति उपजीव्यमग्निहोत्रं श्रुतम् , एवं सति अतिथिभोजनरूपाग्निहोत्रात्प्रागुच्यमानमशनमप्यग्निहोत्रमेव ; अग्निहोत्रेण समभिव्याहारादेकवाक्यत्वप्रतीतेरित्यर्थः ।

एवं विधिबलात्प्राणाग्निहोत्रस्य भोजनकालादपनयनं प्रदर्श्यादरादिति सूत्रसूचितं वाक्यशेषमेतस्यार्थस्य स्तावकं दर्शयति –

तदेवं सतीति ।

ननु भाष्ये भोजनशब्दात्प्राणाग्निहोत्रादरो न प्रतीयतेऽत आह –

स्वामिनः प्राणाग्निहोत्रमिति ।

अतिथिप्राणाग्निहोत्रात्पूर्वं स्वीयप्राणाग्निहोत्रं कुर्यादितरथा पूर्वमतिथिभ्यो भोजनदाने स्वाग्निहोत्रहोमेन पराग्निहोत्रकरणमिवायुक्तं कृतं स्यादित्यादरः स्वामी यदा भुङ्क्ते तदैव ।

तथा च कथं भोजनलोपे प्राणाहुत्यापत्तिरिति शङ्कते –

नन्वाद्रियतामिति ।

कर्तर्ययं प्रयोगः । अतिथिभोजनस्य पुरस्ताद्विहितं स्वामिभोजनमित्यध्याहारः ।

दूषणपरभाष्यस्याभिप्रायमाह –

यथा हीति ।

कौण्डपायनेप्युपसदादिधर्मोऽस्तीति – द्रव्यदेवतारूपेत्युक्तं । यागस्य रूपं द्रव्यदेवते , ते एव धर्मान्तरं द्रव्यदेवतारूपधर्मान्तरं । प्रकरणान्तराधिकरणं धर्मातिदेशाधिकरणं च प्रथमसूत्रेऽनुक्रान्तम् ।

ननु विधीयतां भक्तद्रव्यकता , तथापि भक्ताभावेऽग्निहोत्रं लुप्येतेति , नेत्याह –

न चैतावतेति ।

अत्र हेतुमाह –

उक्तमिति ।

मा भूत् भोजनमाश्रित्य विधानाद्भोजनप्रयुक्तत्वं प्राणाग्निहोत्रस्य , भोजनार्थभक्तैकदेशद्रव्याश्रितत्वाद्भोजनप्रयुक्तत्वं किं न स्यादत आह –

न चैकदेशेति ।

‘‘मध्यात्पूर्वार्धाच्च द्विर्हविषोऽवद्यत्युत्तरार्धाच्च स्विष्टकृते समवद्यती’’ति श्रूयते । स्विष्टकृन्नाम देवताविशेषः । तन्नाम्ना यागोपि प्रतीयते । तत्र स्विष्टकृत किमुत्तरार्धपुरोडाशयोः प्रयोजकः , किं वा यदङ्के अञ्जनं करोति चक्षुरेव भ्रातृव्यस्येति फलश्रुतिप्रयुक्तपुरोडाशोपजीवीति संदेहे अग्न्याद्यर्थस्य हविषो देवतान्तरावरुद्धत्वात्स्विष्टकृदर्थमन्यद्धविः कृत्वाऽवद्यतीति प्राप्ते राद्धान्तः - कस्योत्तरार्धादिति नित्यापेक्षत्वात्स्ववाक्ये च संबन्धिनिर्देशादग्न्यादिप्रयुक्तस्यैव हविषः प्रकृतत्वात्तस्योत्तरार्धादित्यवगमादप्रयोजकः स्विष्टकृत् । अन्यार्थस्यापि हविषो वचनादन्यार्थत्वमविरुद्धमिति । तद्वदप्रयोजकत्वं प्राणाग्निहोत्रस्य ।

ततश्च भोजनप्रयुक्तत्वमित्येतत्तत्रास्तीत्यत्र हेतुमाह –

एकदेशद्रव्यसाधनस्यापीति ।

एकदेशो द्रव्यं साधनं यस्य यागस्य तस्यापि द्रव्यं प्रति प्रयोजकत्वं स्यादित्यर्थः ।

तत्रोदाहरणमाह –

यथेति ।

दर्शपूर्णमासयोराम्नायते – ‘जाघन्या पत्नीः संयाजयन्ति’ इति । पत्न्यो नाम देवताविशेषाः । जघनप्रदेशादवत्तो मांसखण्डो जाघनी ।

तत्रैकदेशद्रव्यत्वात्परप्रत्युक्तकृतप्रयोजनाग्नीषोमीयपशुजाघनीप्रतिपत्तिकर्मत्वात्पत्नीसंयाजानां प्रकरणोत्कर्षमाशङ्क्य सिद्धान्तितं शेषलक्षणे , तं प्रकारमाह –

स हि नामेति ।

उक्तमग्निहोत्रसाधनं भक्तं भोजनाङ्गभक्तज्ञानं विनापि जाघनीवज्ज्ञातुं शक्यमित्यर्थः ।

दृष्टान्तं साधयति –

तस्मादिति ।

जाघनीत्येतावन्मात्रं श्रूयते , न तु पशोरिति । तस्मात्प्राणिमात्रस्य जाघनी पशुज्ञानं विनापि ज्ञातुं शक्येत्यर्थः । आग्नीषोमीययागप्रयुक्तत्वात्परप्रयुक्तः पशुरग्नीषोमीयः , तदुपजीवनं चान्तरेण जाघनीज्ञानात् तत्साध्यदार्शपौर्णमासिकपत्नीसंयोजेष्वाज्येन सह जाघनी विकल्प्यते न तूत्कृष्यत इत्यर्थः ।

हिंसापि न कार्येत्याह –

खण्डश इति ।

मन्यते पूर्वपक्षीति ।

तद्धोमीयमिति तच्छब्दार्थानभिज्ञत्वान्मन्यतेर्ग्रहणम् ।

नन्वेवं भक्तस्यैव भोजनबहिर्भूतस्य सम्भवे कथमद्भिरिति प्रतिनिधिर्भाष्ये उक्तोऽत आह –

अद्भिरिति ।

अग्निहोत्रादिनित्यकर्मसु श्रुतव्रीह्याद्यलाभे कर्मोत्सर्गे प्राप्ते नित्यानामनित्यानां च प्रारब्धानामवश्यकर्तव्यत्वावगमात् श्रुतद्रव्यैः प्रतिनिहितैश्च क्रियमाणस्य प्रयोगस्याविशिष्टत्वेन प्रत्यभिज्ञानात्प्रतिनिधायापि कर्म कर्तव्यमिति षष्ठे सिद्धान्तितम् ॥ भाष्योदाहृतमप्यधिकरणं लिख्यते – सन्त्यग्न्याधाने पवमानेष्टयः ‘‘अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदि’’त्याद्याः । तासु प्रकृतेर्दर्शपूर्णमासाद’’ग्निहोत्रहवण्या हवींषि निर्वपेदि’’ति विहितो हविर्निर्वापोऽतिदेशेन प्राप्नोति । आधानकाले चाग्निहोत्राभावान्नाग्निहोत्रहवणी । ततस्तद्विशिष्टत्वेन श्रुतस्य निर्वापस्य तल्लोपाल्लोपप्राप्तौ दशमे सिद्धान्तितम् । गुणलोपे च मुख्यस्य (जै.अ.१०.पा.२.सू.६३) । विकृतौ हि कार्यद्वारा पदार्था प्राप्नुवन्ति , तेन हविः - संस्कारार्थं निर्वापः प्रथमं प्राप्तः , तद्द्वारेण च तदङ्गमग्निहोत्रहवणी पश्चात्प्राप्नोति , ततो निरपेक्षा प्राप्तिः । प्रधानभूतश्च निर्वापोऽङ्गलोपेऽपि कर्तव्य इति गुणलोपेऽपि मुख्यस्य प्रयोग इति ।

भक्तं वेति ।

भोजनानङ्गमित्यर्थः । ननु तद्यद्भक्तमिति वाक्योक्तस्य तद्धोमीयमित्यत्रत्यतच्छब्देन परामर्शेऽपि न भोजनाङ्गभक्तपरामर्शसिद्धिः ।

तद्भक्तमिति वाक्यस्याऽन्यार्थत्वादित्युक्तमनूद्य निरस्यति –

यच्चोक्तमित्यादिना ।

विध्युद्देशगतस्येति ।

विध्येकवाक्यतापन्नो ह्यग्निहोत्रशब्दो गौणः सन् कर्तव्यसादृश्यं वक्तुं शक्तः ; कर्तव्यार्थविशेषणपरत्वात् । अर्थवादगतस्तु सिद्धमर्थं विशिंषन् सिद्धमेव सादृश्यं वक्तीत्यर्थः ।

कृष्णलचराविति ।

‘‘प्राजापत्यं चरुं निर्वपेच्छतकृष्णलमायुष्कामः’’ इति श्रूयते । कृष्णलो नाम परिमाणविशेषवान् सुवर्णमणिः । तत्रातिदेशप्राप्ता अवघातादयो द्वाराभावेऽपि पाकवत्कर्तव्याः । अचरौ चरुशब्दस्याग्निहोत्रशब्दवद्धर्मातिदेशकत्वादिति प्रापय्य दशमे सिद्धान्तितम् । कृष्णालाञ्छ्रपयेदिति श्रौतः पाको द्वाराभावेऽपि कर्तव्यः । अत एव चरुशब्दोऽपि पाकयोगाद्विभक्तत्वाच्च सिद्धसादृश्यपरः ; सत्यां गतौ विधौ गौणत्वायोगात् ।

तस्मान्नावघातादि प्राप्तिरिति ।

सोऽयमतिदेशप्राप्तावघातादिबाधो गत्यभावात् स्वीक्रियते , प्रकृते तु भोजनार्थभक्तानुवादादस्ति गतिरित्यर्थः । कामिन्यां सिद्धं यत्कुचवदनादि तदसता चक्रवाकादिरूपेण संपाद्यते रूप्यत इत्यर्थः ।

यदा चैवं भोजनार्थभक्ताश्रितत्वं प्राणाग्निहोत्रस्य तच्छब्दात्सिद्धं , तदा ‘‘पूर्वोऽतिथिभ्योऽश्रित्या’’दित्याद्यादरदर्शनं न भोजनकालादपकृष्य कालान्तरेऽग्निहोत्रविधिपरं , किं तु यदा स्वामी भुङ्क्ते तदा भोजनस्य स्वकालादपकर्षेण तदाश्रितप्राणाग्निहोत्रस्यापकर्षकमित्याह –

तद्भोजनपक्ष इति ।

यदा च प्राथम्यात्मको धर्मः सत्येव भोजने विहितस्तदा धर्म्यपि प्राणाग्निहोत्रं सत्येव भोजने स्यात् ।

तथा च या श्रुतिर्धर्मलोपं न सहते सा नतरां धर्मिलोपं सहेतेति तन्निरस्तम् , अनित्यत्वेऽपि तदुपपत्तेरित्याह –

यस्मिन्पक्ष इति ।

ननु स्वामिभोजनस्य स्वकालादपकर्ष एव युक्तः , शास्त्रान्तरविरोधात् । अतः प्राणाग्निहोत्रस्यैव भोजनकालादपकर्ष इत्याशङ्क्य परिहरति – नन्वित्यादिना ॥४१॥

इति षड्विंशमादराधिकरणम् ॥