परामर्शं जैमिनिरचोदना चापवदति हि ।
सिद्ध ऊर्ध्वरेतसामाश्रमित्वे तद्विद्यानामकर्माङ्गतयापवर्गार्थं स्यात् । आश्रमित्वं त्वेषामन्यार्थपरामर्शमात्रान्न सिध्यति । विध्यभावात् । स्मृत्याचारप्रसिद्धिश्च तेषां प्रत्यक्षश्रुतिविरोधादप्रमाणम् । निन्दति हि प्रत्यक्षा श्रुतिराश्रमान्तरं “वीरहा वा एष देवानाम्” इत्यादिका । प्रत्यक्षश्रुतिविरोधे च स्मृत्याचारयोरप्रामाण्यमुक्तं “विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्”( जै० सू० ११३ ॥ ३ ) इति ।
तदेतत्सर्वमाह –
त्रयो धर्मस्कन्धा इत्यादिना ।
अनधिकृतविषया वेति ।
अन्धपङ्ग्वादयो हि ये नैमित्तिककर्मानधिकृतास्तान्प्रत्याश्रमान्तरविधिरिति ।
अपिचापवदिति हि ।
न केवलमन्यपरतया परामर्शस्याश्रमान्तरं न लभ्यते अपि त्वाश्रमान्तरनिन्दाद्वारेणापवादादपीत्यर्थः ।
स्यादेतत् । भवत्वेष परामर्शोऽन्यार्थः । ये चेमेऽरण्य इत्यादिभ्यस्त्वाश्रमान्तरं सेत्स्यतीत्यत आह –
ये चेमेऽरण्य इति ।
अस्यापि देवपथोपदेशपरत्वान्नैतत्परत्वमित्यर्थः ।
न चान्यपरादपि स्फुटतराश्रमान्तरप्रत्यय इत्याह –
सन्दिग्धं चेति ।
नहि तप एव द्वितीय इत्यत्राश्रमान्तराभिधायी कश्चिदस्ति शब्द इति ।
नन्वेतमेव प्रव्राजिन इति वचनादाश्रमान्तरं सेत्स्यतीत्यत आह –
तथैतमेवेति ।
एतदपि लोकसंस्तनवनपरमिति ।
अधिकरणारम्भमाक्षिप्य नास्ति प्रत्यक्षवचनमितिकृत्वा चिन्तेयमिति समाधत्ते –
ननु ब्रह्मचर्यादेवेति ॥ १८ ॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः ।
भवत्वन्यार्थः परामर्शस्तथाप्येतस्मादाश्रमान्तराणि प्रतीयमानानि च नापाकरणमर्हन्ति । एवं तान्यपाक्रियेरन्यद्यस्मान्न प्रतीयेरन् । प्रतीयमानानि वा श्रुत्या बाध्येरन् । न तावन्न प्रतीयन्ते । तथाहि - त्रयो धर्मस्कन्धा इति स्कन्धत्रित्वं प्रतिज्ञातम् । तत्र स्कन्धशब्दो यद्याश्रमपरो न स्यादपि तु समूहवचनस्ततो धर्माणां यज्ञादीनां प्रातिस्विकोत्पत्तीनां किमपेक्ष्य त्रित्वसङ्ख्या सुव्यवस्थाप्येत । एकैकाश्रमोपसङ्गृहीतास्त्वाश्रमाणां त्रित्वाच्छक्यास्त्रित्वे व्यवस्थापयितुमित्याश्रमत्रित्वप्रतिज्ञोपपत्तिः । तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो ब्रह्मचारीति द्वितीयस्तप इति च, तपःप्रधानात्तु वानप्रस्थाश्रमान्नान्यः, ब्रह्मसंस्थ इति च पारिशेष्यात्परिव्राडिति वक्ष्यति । तस्मादन्यपरादपि परामर्शादश्रमान्तराणि प्रतीयमानानि देवताधिकरणन्यायेन न शक्यन्तेऽपाकर्तुम् । नच प्रत्यक्षश्रुतिविरोधो वीरहा वेत्यादेः प्रतिपन्नगार्हस्थ्यं प्रमादादज्ञानाद्वाग्निमुद्वासयितुं प्रवृत्तं प्रत्युपपत्तेः । एवंच अविरोधे सिद्धवत्परामर्शादश्रमान्तराणां शास्त्रान्तरसिद्धिं वा कल्पयिष्यामो यथोपवीतविधिपरे वाक्ये “उपव्ययते देवलक्ष्ममेव तत्कुरुते” इत्यत्र निवीतं मनुष्याणां प्राचीनावीतं पितृणामिति शास्त्रान्तरसिद्धयोर्निवीतप्राचीनावीतयोः परामर्श इति ॥ १९ ॥
विधिर्वा धारणवत् ।
यद्यपि ब्रह्मसंस्थत्वस्तुतिपरतयास्य सन्दर्भस्यैकवाक्यता गम्यते । सम्भवन्त्यां चैकवाक्यतायां वाक्यभेदोऽन्याय्यः । तथाप्याश्रमान्तराणां पूर्वसिद्धेरभावात्परामर्शानुपपत्तेः, अपरामर्शे च स्तुतेरसम्भवेन किम्परतया एकवाक्यतास्त्विति तां भङ्क्त्वा धारणवद्वरमपूर्वत्वाद्विधिरेवास्तु । यथा “अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति” इत्यत्र सत्यामप्यधोधारणेनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् । तथोक्तम् “विधिस्तु धारणेऽपूर्वत्वात्”(जै. सू. ३ । ४ । १५) इति । तथेहाप्याश्रमान्तरपरामर्शश्रुतिर्विधरेवेति कल्प्य्ते । सम्प्रति परामर्शेऽपीतरेषामाश्रमाणां ब्रह्मसंस्थता संस्तवसामर्थ्यादेव विधातव्या ।
न खल्वविधेयं संस्तूयते तदर्थत्वात्संस्तवस्येत्याह –
यदापीति ।
अत्रावान्तरविचारमारभते –
सा च किं चतुर्ष्विति ।
विचारप्रयोजनमाह –
यदि चेति ।
ननु अनाश्रम्येव ब्रह्मसंस्थो भविष्यतीत्यत आह –
अनाश्रयमित्वेति ।
तत्र पूर्वपक्षमाह –
तत्र तपःशब्देनेति ।
अयमभिसन्धिः । यदि तावद्ब्रह्मसंस्थ इति पदं प्रत्यस्तमितावयवार्थं परिव्राजकेऽश्वकर्णादिपदवद्रूढं तदाश्रमप्राप्तिमात्रेणैवामृतीभाव इति न तद्भावाया ब्रह्मज्ञानमपेक्षेत । तथाच नान्यः पन्था विद्यतेऽयनायेति विरोधः । नच सम्भत्यवयवार्थे समुदायशक्तिकल्पना । तस्माद्ब्रह्मणि संस्थास्येति । ब्रह्मसंस्थः । एवंच चतुर्ष्वाश्रमेषु यस्यैव ब्रह्मणि निष्ठत्वमाश्रमिणः स ब्रह्मसंस्थोऽमृतत्वमेतीति युक्तम् । तत्र तावद्ब्रह्मचारिगृहस्थौ स्वशब्दाभिहितौ तपःपदेन च तपःप्रधानतया भिक्षुवानप्रस्थावुपस्थापितौ । भिक्षुरपि हि समाधिकशौचाष्टग्रासीभोजननियमाद्भवति वानप्रस्थवत्तपःप्रधानः । नच गृहस्थादेः कर्मिणो ब्रह्मनिष्ठत्वासम्भवः । यदि तावत्कर्मयोगः कर्मिता सा भिक्षोरपि कायवाङ्मनोभिरस्ति । अथ ये न ब्रह्मार्पणेन कर्म कुर्वन्ति किन्तु कामार्थितया ते कर्मिणः । तथा सति गृहस्थादयोऽपि ब्रह्मार्पणेन कर्म कुर्वाणा न कर्मिणः । तस्माद्ब्रह्मणि तात्पर्यं ब्रह्मनिष्ठता न तु कर्मत्यागः । प्रमाणविरोधात् । तपसा च द्वयोराश्रमयोरेकीकरणेन त्रय इति त्रित्वमुपपद्यते । एवंच त्रयोऽप्याश्रमा अब्रह्मसंस्थाः सन्तः पुण्यलोकभाजो भवन्ति यः पुनरेतेषु ब्रह्मसंस्थः सोऽमृतत्वभागिति । नच येषां पुण्यलोकभाक्त्वं तेषामेवामृतत्वमिति विरोधः । यथा देवदत्तयज्ञदत्तौ मन्दप्रज्ञावभूतां सम्प्रति तयोर्यज्ञादत्तस्तु शास्त्राभ्यासात्पटुप्रज्ञो वर्तते इति तथेहापि य एवाब्रह्मसंस्थाः । पुण्यलोकभाजस्त एव ब्रह्मसंस्था अमृतत्वभाज इत्यवस्थाभेदादविरोधः । तथाच ब्रह्मसंस्थ इति यौगिकं पदं प्रकृतविषयं भविष्यति । यथा आग्नेय्याग्नीध्रमुपतिष्ठत इत्यत्र विनियुक्तापि प्रकृतैवाग्नेयी गृह्यते । नच विनियुक्तविनियोगविरोधः । यदि ह्यत्राग्नोत्युपदिश्येत ततो यथा प्रतीता तथोद्दिश्येत । विनियुक्ता च प्रतीतिर्भवेदिति विनियुक्तविनियोगविरोधः । इह तु आग्नीध्रोपस्थाने सा विधेयत्वेन विनियुज्यते । न तूद्दिश्यते । विधेयत्वेन च विनियोगे आग्नेयीपदार्थापेक्षणात्प्रकृतातिक्रमे प्रमाणाभावात् । तावता च शास्त्रोपपत्तेर्नाप्रकृतानामपि ग्रहणसम्भवः । नच यातयामतया न विनियोगः । वाचस्तोमे सर्वेषामेव मन्त्राणां विनियोगादन्यत्राप्यविनियोगप्रसङ्गात् । तथेहापि प्रकृता एवाश्रमा बुद्धिविपरिवर्तिनः परामृश्यन्ते नानुक्तः परिव्राडेवेति पूर्वः पक्षः ।
राद्धान्तमुपक्रमते –
तदयुक्तम् । नहि सत्यां गतौ वानप्रस्थविशेषणेनेति ।
यथोपक्रान्तं तथैव परिसमापनमुचितम् । यत्सङ्ख्याकाश्च ये प्रसिद्धास्ते तत्सङ्ख्याका एव कीर्त्यन्ते इति चोचितम् । न तु सत्यां गतावुत्सर्गस्यापवादो युज्यते । असाधारणेनैकैकेन लक्षणेनैकेक आश्रमो वक्तुमुपक्रान्त इति तथैव समापनमुचितम् । न तु साधारणासाधारणाभ्यामुपक्रमसमाप्ती श्लिष्येते ।
नच तपो नाम नासाधारणं वानप्रस्थानामित्यत आह –
तपश्चासाधारण इति ।
न खलु पराकादिभिः कायक्लेशप्रधानो यथा वानप्रस्थस्तथा भिक्षुः सत्यप्यष्टग्रासादिनियमे । नच शौचसन्तोषशमदमादयस्तपः पक्षे वर्तन्ते तत्र वृद्धानां तपःप्रसिद्धेरसिद्धेः । अत एव वृद्धास्तपसो भेदेन शौचादीनाचक्षते “शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः” इति ।
सिद्धसङ्ख्याभेदेषु च सङ्ख्यान्तराभिधानमाश्लिष्टमित्याह –
चतुष्ट्वेन चेति ।
अपिच भेदव्यपदेशोऽत्रेति ।
त्रय एत इति किं भिक्षुरपि परामृश्यते किन्त्वा भिक्षुवर्जं त्रय एव । न तावन्त्रय इति भिक्षुसङ्ग्रहे तद्वर्जनमेते त्रय इत्यत्र कर्तुं शक्यम् । एत इति प्रकृतानां साकल्येन परामर्शाद्भिक्षुसङ्ग्रहे च न तस्य पुण्यलोकत्वमब्रह्मसंस्थात्वाभावाद्भिक्षोः । तेन तस्य ब्रह्मसंस्थस्य सदा पुण्यलोकत्वममृतत्वं चेति विरोधः । त्रिषु च ब्रह्मसंस्थपदे यदेति सम्बन्धनीयम् । भिक्षौ च सदेति वैषम्यम् ।
तदिदमुक्तम् –
पृथक्त्वे चेति ।
पूर्वपक्षाभासं स्मारयति –
कथं पुनर्ब्रह्मसंस्थशब्दो योगादिति ।
तन्निराकरोति –
अत्रोच्यत इति ।
अयमभिसन्धिः । सत्यं यौगिकः शब्दः सति प्रकृतसम्भवे न तदतिपत्त्याप्रकृते वर्तितुमर्हति । असति तु सम्भवे मा भूत्प्रमादपाठ इत्यप्रकृते वर्तयितव्यः, दर्शितश्चात्रासम्भवेऽधस्तादिति । एष हि ब्रह्मसंस्थतालक्षणो धर्मो भिक्षोरसाधारण आश्रमान्तराणि तत्संस्थान्यतत्संस्थानि च भिक्षुस्तत्संस्थ इत्येव । तत्संस्थता हि स्वाभावं व्यवच्छिन्दन्ती विरोधाद्यस्तत्संस्थ एव तत्राञ्जसी नान्यत्र ।
शमदमादिस्तु तदीय इति ।
स्वाङ्गमव्यवधायकमित्यर्थः ।
ब्रह्मसंस्थत्वमसाधारणं परिव्राजकधर्मं श्रुतिरादर्शयतीत्याह –
तथाच न्यास इति ब्रह्मेति ।
सर्वसङ्गपरित्यागो हि न्यासः स ब्रह्मा कुत इत्यत आह –
ब्रह्मा हि परः ।
अतः परो न्यासो ब्रह्मेति ।
किमपेक्ष्य परः संन्यास इत्यत आह –
तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति ।
एतदुक्तं भवति - ब्रह्मपरतया सर्वेषणापरित्यागलक्षणो न्यासो ब्रह्मेति । तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थत्वं भिक्षोरेवासाधारणं नेतरेषामाश्रमिणाम् । ब्रह्मज्ञानस्य शब्दजनितस्य यः परिपाकः साक्षात्कारोऽपवर्गसाधनं तदङ्गतया पारिव्राज्यं विहितम् । न त्वनधिकृतं प्रतीत्यर्थः ॥ २० ॥
परामर्शं जैमिनिरचोदना चापवदति हि ॥१८॥
पूर्वाधिकरणावान्तरसूत्रेणाक्षेपलक्षणा सङ्गतिमाह –
सिद्ध इति ।
अपि चापवदति हीति भाष्यव्याख्यानार्थो निन्दोपन्यासः । पूर्वं तु निन्दति हि प्रत्यक्षा श्रुतिरित्यादिः सूत्रव्याख्यानार्थ इति भेदः ॥१८॥
भवत्वन्यार्थ इति ।
‘‘ॐ कार एवेदं सर्वम्’’ इति प्रणवाख्यस्य ब्रह्मणः प्रस्तुतत्वात् तत्संस्थत्वप्रशंसार्थो भवतु नाम ‘‘त्रयो धर्मस्कन्धा’’ इत्यादिः परामर्श इत्यर्थः ॥२८॥
निवीतमिति ।
एतज्ज्योतिर्दर्शना (ब्र.अ.१ पा.३ सू.४०) दित्यत्रानुक्रान्तम् ॥ एवं तावदनुवादत्वमङ्गीकृत्यानुवादसामर्थ्याच्छास्त्रान्तरं परिकल्प्य तस्मादाश्रमान्तरप्रमितिरुपपादिता ॥१९॥
इदानीं नानुवादत्वं किं तर्हि? अपूर्वार्थप्रतीतेरत्रैव वाक्ये विधिः कल्प्यते इत्याह भगवान्सूत्रकारः –
विधिर्वेति ।
तत्र वाक्यभेदप्रसङ्गात्तदनुपपत्तिमाशङ्क्याह –
यद्यपीत्यादिना ।
विधेयार्थैक्ये ह्यानुवादस्य विधिस्तुत्यर्थत्वेनैकवाक्यत्वम्, अत्रत्वप्राप्तार्थद्वयप्रतिभानाद्विधेयभेदे सति नैकवाक्यत्वसंभव इत्यर्थः । अधस्तादित्यादि महापितृयज्ञे दिष्टगताग्निहोत्रे च श्रूयते । तत्रो’’परि हि देवेभ्यो धारयती’’त्येषोऽनुवादः, वर्तमानापदेशात्, हिशब्दाच्च । आचाराच्चोपरि समिधः प्राप्तर्हविषो ह्यभ्यर्हितद्रव्यत्वात् प्रच्छादनं येनकेनचित्प्राप्नोति । तत्र स्रुग्दण्डे समिधमुपसंगृह्यानुद्रवतीति वाक्यान्तरप्राप्ता समिन्नियम्यते । तस्मादनुवाद इति प्राप्ते – न समिद्धविःप्रच्छादने क्षमेत्यप्राप्ता, स्रुग्दण्डे इति च हविषः प्राग्देशे धारणं प्राप्तं न हविष उपरि । तस्मादप्राप्तेर्भङ्क्त्वा हिशब्दं पञ्चमलकारस्वीकारेण च विधिरिति शेषलक्षणे सिद्धान्तितम् । एवं तावच्चतुर्णामाश्रमाणामिहानुवादः ।
तस्मात्सामर्थ्यादन्यत्र विधिरिहैव विधिरिति पक्षद्वयमुक्त्वेदानीं वाक्यान्तरप्राप्ताश्रमान्तराणामनुवादेन ब्रह्मसंस्थता स्तूयते, स्तुतिसामर्थ्याच्च सैव विधीयत इति पक्षान्तरमाह –
संप्रतीति ।
ब्रह्मसंस्थताविधावपि न पारिव्राज्यसिद्धिः; त्रयाणामपि गृहस्थादीनां ब्रह्मसंस्थत्वसंभवादिति प्रकृतासंगतिमाशङ्क्याह –
अत्रावान्तरेति ।
समधिकशौचं चतुर्गुणम् । अष्टानां ग्रासानां समूहोऽष्टग्रासी ।
ननु भवतु यौगिकं ब्रह्मसंस्थपदं, योगस्तु परिव्राज्येवेत्याशङ्क्याह –
न च गृहस्थादेरिति ।
स्यादेतत् - त्रयो धर्मस्कन्धा इत्युपक्रमात् ‘‘सर्व एव’’ इत्यत्र त एव त्रय एतच्छब्देन परामृश्यन्ते ।
तत्र तपःशब्देन परिव्राजकस्यापि ग्रहणे चत्वार आश्रमा मध्ये उक्ता इति त्रित्वेनोपक्रमस्तत्परामर्शश्च न घटेत अत आह –
तपसा चेति ।
नन्वेते पुण्यलोका इति पुण्यभाजां बहुवचनेन निर्देशाद् ब्रह्मसंस्थोऽमृतत्वमेतीति अमृतत्वभाज एकवचनेन निर्देशात् त्रय आश्रमिणः पुण्यलोकभाजश्चतुर्थ आश्रमी ब्रह्मसंस्थ इति गम्यते, तत्कथं चतुर्णां ब्रह्मसंस्थत्वमत आह –
एते च त्रय इति ।
परिव्राजोऽपि वनस्थेऽन्तर्भावमुक्तमभिप्रेत्य त्रय इति निर्देशः ।
ननु पुण्यलोकभाजामेवामृतत्वभाक्त्वं विरुद्धमित्याशङ्क्याह –
न च येषामिति ।
ब्रह्मणि संस्था निष्ठाऽस्येतीह समासः सर्वनामार्थे वर्तते, सर्वनाम च प्रकृतग्राहीति प्रकृतः सर्व एव ब्रह्मसंस्थोऽस्मत्पक्षे लभ्यते । तव त्वप्रकृतः परिव्राट् ब्रह्मसंस्थः तथा च समासान्तर्वर्तिसर्वनामश्रुतिविरोध इत्यर्थः ।
यथाग्नेय्येति ।
ज्योतिष्टोमे प्रथममाग्नेयादयो मन्त्रा ‘‘अग्न आयाहि वीतये’’ इत्येवमादयो विशेषत आम्नाताः, स्तोत्रादिसाधनत्वेन विनियुक्ताश्च । पुनरा ‘‘ग्नेय्याग्नीध्नमुपतिष्ठते’’ इति सामान्येनाग्नेयीमात्रमाग्नीध्नोपस्थाने विनियुज्यते । तत्र संशयः - किमप्रकृतैवाग्नेयी विनियुज्यते, उताविशेषेण या काचिदग्निलिङ्गवती प्रकृताऽप्रकृता च, उत प्रकृतैवेति ।
तत्राग्नेय्येति श्रुतेरविशेषात् सर्वाग्नेयी विनियुज्यतेऽथ वा विनियुक्तविनियोगानुपपत्तेरप्रकृतेवेति पूर्वपक्षमाशङ्क्य शेषलक्षणे स्थितं सिद्धान्तमाह –
प्रकृतैवेति ।
अप्रकृताग्नेयीग्रहणे हि तस्या ज्योतिष्टोमेन सामान्यसबन्ध आग्नीध्नेण विशेषसंबन्धश्च विधातव्यः प्रकृतग्रहणे तु तस्या आग्नेय्याः क्रतुना सामान्यसंबन्धसिद्धेर्विशेषसंबन्धमात्रविधाने लाघवं स्यादित्यर्थः ।
आद्यं पूर्वपक्षं निषेधयति –
न च विनियुक्तेति ।
यद्यपि स्तोत्राद्यर्थमाग्नेयी प्रकृता; तथापि न तस्याः पारार्थ्यमनेन विनियोगेन गृह्यते, अनपेक्षितत्वात् । आग्नेयीस्वरूपमात्रं त्वपेक्षितत्वाद् गृह्यते । यदि पुनराग्नेय्यनेनैव वाक्येनोद्दिश्य विधीयते, तदाऽसौ परार्थत्वेनैव प्रतीता तथैवोद्दिश्यमाना, अन्यत्र च विनियुज्यमाना विनियुक्तविनियोगविरोधमावहेत्, न त्वेवम्; विधीयमानत्वादस्या इत्यर्थः ।
यत्तूक्तं सामान्यश्रुतिविरोध इति, तत्राह –
तावता चेति ।
आग्नेयीशब्दस्य यौगिकत्वात् सन्निहितव्यक्तिपरत्वमेव । अग्निदेवताकत्वलक्षणो हि योगो व्यक्तावेव घटते, न सामान्यमात्रे; तद्धितान्तर्वर्त्यस्याशब्दस्य सन्निहितवचनत्वादित्यर्थः ।
ननु व्यक्त्यपेक्षत्वेऽप्याग्नेयीशब्दस्य न प्रकृतव्यक्तिर्ग्रहीतुं शक्यतेन्यार्थप्रयुक्तत्वेन गतरसत्वादत आह –
न च यातयामतयेति ।
वाचःस्तोमः क्रतुविशेषः । तत्र ‘‘सर्वा ऋचः सर्वाणि सामानि सर्वाणि यंजूषि वाचःस्तोमे परिप्लवं शंसन्ती’’ति विनियोगेऽपि मन्त्राणां प्राप्तात्मिकार्थेषु विनियोगवदिहापि स्यादित्यर्थः । परिप्लुत्य परिप्लुत्य यदृच्छया मन्त्राणां शंसनं परिप्लवः ।
आग्नेयीन्यायं प्रकृते योजयति –
तथेहापीति ।
इह हि वाक्ये उपक्रमे यज्ञोऽध्ययनं दानमिति गृहस्थानामसाधारणधर्मो निर्दिष्टस्तप इति वनस्थानाम् आचार्यकुलवास इति ब्रह्मचारिणां तथा सत्युपसंहारेऽपि ब्रह्मसंस्थत्वेनैव साधारणधर्मेण यतीनां ग्रहणं युक्तं, न तपसा तस्य गतिष्वसाधारणत्वाभावादित्याह –
यथोपक्रान्तमिति ।
यथोपक्रान्तमित्याद्युचितमित्यन्तं संग्रहवाक्यम् ।
अपि च तप:शब्देन परिव्राजकग्रहणे त्रय इति चत्वार आश्रमा निर्देष्टव्याः, चतुष्ट्वावच्छिन्नेषु न तेषु त्रित्वमयुक्तमित्याह –
यत्संख्याकाश्चेति ।
इदमप्युचितमित्यन्तं संग्रहवाक्यमेव ।
आद्यं संग्रहं व्यतिरेकमुखेन विवृणोति –
असाधारणेत्यादिना ।
असाधारणेन यज्ञादिना उपक्रमः, साधारणेन तपसा चोपसंहारः । तावेतौ न श्लिष्यते न सङ्गच्छेते इत्यर्थः ।
तपसः संन्यासिवनस्थयोः साधारणत्वमङ्गीकृत्य दूषणमुक्तम्, इदानीं साधारण्यमेव नास्ति; तस्य वनस्थासाधारणत्वात्, तथा च तपसा परिव्राजकस्य ग्रहणं नैव प्राप्नोतीत्याह –
न च तपो नामेति ।
ग्रीष्मे पञ्चाग्निमध्यावस्थानादि हि तपो नाष्टग्रासनियमादि । तथा सति द्वात्रिंशद्भासादिनियमेन गृहस्थादेरपि तपस्वित्वप्रसङ्गादित्यर्थः ।
यच्चोक्त समधिकशौचं तप इति, तत्राधिकमप्याह –
न च शौचेति ।
एवमाद्यं संग्रहं विभज्य द्वितीयं विभजते –
सिद्धसंख्याभेदेष्विति ।
अवस्थाविशेषापेक्षयैकस्यैव पुण्यलोकामृतत्वप्राप्तिव्यपदेशभेदस्य पूर्वपक्ष उपपादितत्वाद् भाष्यायोगमाशङ्क्याह –
त्रय एत इतीत्यादिना ।
त्रय इत्येते इति च पदे तावत्समानाधिकरणे । ततश्च ये त्रय इत्युक्तास्त एवैत इति पराम्रष्टव्याः । तत्र त्रय इति भिक्षुं विहाय यदि गृहस्थादय उच्यन्त , तदा वक्तव्यं तपःशब्देन भक्तिर्गृह्यते वा, न वेति । यदि तु गृह्येत ततस्तापसेन भिक्षुणा सह सर्वेषामेत इति शब्देन प्रकृतपरामृष्टत्वादेतच्छब्दसमानार्थवृत्तिना त्रय इति शब्देन भिक्षुवर्जं त्रयो वक्तुमशक्या इत्यर्थः ।
अथ तपःशब्देन भिक्षुः संगृह्यते, त्रय इति शब्देन च भिक्षुसहिता निर्देश्यन्ते, तत्राह –
भिक्षुसंग्रहे चेति ।
तदा ह्येतच्छब्दपरामृष्टानां त्रयाणां पुण्यलोकभाक्त्वाभिधानाद् भिक्षोरपि पुण्यलोकभाक्त्वं स्यात्, तच्चायुक्तम्; तस्य ब्रह्मसंस्थत्वनियमादित्यर्थः ।
अथ ब्रह्मसंस्थस्यैव पुण्यलोकभाक्त्वमपि स्यात्तत्राह –
तेन तस्यैवेति ।
वाक्यवैरूप्यमाह –
त्रिषु चेति ।
गृहस्थादीनामनित्यत्वाद् ब्रह्मसंस्थायाः, सदा ब्रह्मसंस्थोऽमृतत्वमेतीति योजनीयम् । एवं वाक्यवैरूप्यमित्यर्थः । एवं च भाष्यमपि साध्याहारे योजने उक्तदोषं हृदि कृत्वा यथाश्रुतार्थोपपादने फलभेदव्यपदेशं हेतुमाहेति व्याख्यातं भवति । यदिह केशवो वक्ति – मा भूत्तपःशब्देन भिक्षोर्ग्रहणं, ब्रह्मसंस्थपदस्य तु प्रकृतमात्रप्रवृत्तौ को विरोधः? भिक्षोश्च योगार्थाविशेषाद् ब्रह्मसंस्थस्य सतोऽमृतत्वं भविष्यति ।
न च भिक्षोरपि नित्या ब्रह्मसंस्था ; संन्यासाद् ब्रह्मणः स्थानमिति फलान्तराम्नानात् - इति, तदत एवापास्तम् । यदा तदेति वाक्यवैरूप्यादेव । न च संन्यासस्योद्देश्यं फलं ब्रह्मलोकः, काम्यकर्मवतः संन्यासित्वव्याघातात् । लोकैषणाव्युत्थितस्य हि संन्यासो विधीयते । तस्मात्सन्यासाद् ब्रह्मण इत्यानुषङ्गिकफलाभिप्रायं प्राप्य पुण्यकृताल्लोकानित्यादि वदतो भिक्षोर्नित्या ब्रह्मसंस्थेति । भवत्येव वैरूप्यमिति । सिद्धान्तिनाऽपि योगस्येष्टत्वाद् रूढिमारोप्य पूर्वपक्ष आभासस्तं स्मारयतीत्यर्थः ।
आग्नेयीन्यायेन ब्रह्मसंस्थशब्दस्य प्रकृतसर्वगोचरत्वस्योक्तत्वात्कथं त्रयाणां ब्रह्मसंस्थत्वासंभवः? अत आह –
सत्यमिति ।
दर्शितश्चात्राऽसंभव इति ।
वैरूप्यादिनेत्यर्थः ।
एवं प्रकृतपरामर्शित्वं ब्रह्मसंस्थशब्दस्य व्युदस्य यौगिकार्थस्य भिक्षावेव संभवं भाष्योक्तमुपपादयति –
एष हीत्यादिना ।
संपूर्वस्तिष्ठतिर्हि समाप्तिवचनः । अन्यनिष्ठताया ब्रह्मणि समाप्तिर्न स्याद्, अन्यत्रापि व्यासक्तत्वादित्यर्थः । स्वाभावेन स्वस्य विरोधाद्धेतोस्तं व्यवच्छिन्दन्तीति योजना । भास्करस्तु न्यास एवात्यरेचयदिति तैत्तिरीयके ब्रह्माभिधीयते; न्यास इति ब्रह्मेति निर्वचनात् ।
तथा च संन्यासे प्रमाणत्वेन वचनोदाहरणं भाष्यकारस्य न युक्तमिति वदति, तं श्रुतिव्याख्यानेनानुकम्पते –
सर्वसङ्गेत्यादिना ।
अत्र हि श्रुतौ ‘‘सत्यं पर’’मित्यादिना सत्यादितपांसि प्रक्रम्य तेभ्यः परत्वेन संन्यासः श्रूयते । तत्र ब्रह्मा परमात्मा पर उत्कृष्टः संन्यासोऽपीतरसाधनेभ्यः पर इत्यस्मात्साम्याद् ब्रह्मत्वेन स्तूयते इत्यर्थः ।
ब्रह्मपरतयेति ।
ब्रह्मणि तात्पर्येणेत्यर्थः ।
ब्रह्मज्ञानपरिपाकाङ्गत्वाच्चेति भाष्यं, तदनुपपन्नमिव ; अनधिकृतविषयत्वेऽपि संन्यासस्य तान् प्रत्येव विद्यापरिपाकाङ्गत्वसंभवादित्याशङ्क्य व्याचष्टे –
शब्दजनितस्येति ।
संन्यासस्य कर्मानधिकृतविषयत्वकल्पनं हि स्वप्रयुक्ताधिकार्यलाभ स्याद्, ब्रह्मसाक्षात्कारकामस्य तदधिकारिणः सत्त्वान्नैवं कल्पनीयमित्यर्थः ॥ ये तु शिखायज्ञोपवीतत्यागरूपां पारमहंस्यवृत्तिं न मन्यन्ते, ते न पश्यन्ति प्रत्यक्षां घण्टिकस्थानेषु पठ्यमानामाथर्वणीं श्रुतिं ‘‘सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः’’ इति । न चात्र सशिखं शिखासहितं यथा भवति तथेति शिखारक्षणं शङ्क्यम् ; ‘‘अग्नेरिव शिखा न्याया यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥’‘ इत्यादिवाक्यशेषे बाह्यशिखां व्यावर्त्य ज्ञानस्यैव शिखात्वादिसंपादनात् । न च -एतद् द्वित्रिदिनजीवनावशेषसिद्धपुरुषविषयं न साधकविषयमिति – साम्प्रतम्; ‘‘आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥’‘ इति वाक्यशेषे ध्यानविधानात्, सिद्धं प्रति तद्वैयर्थ्यात् । महार्णवे च यतिधर्मप्रकरणे यमस्मृतिरुदाहृता, सापि तैर्न दृष्टा; एकवासा अवासा वा एकदृष्टिरलोलुपः । एक एव चरेन्नित्यं वर्षास्वेकत्र संवसेत् ॥ इति । न च त्रिदण्डिनामवासस्त्वसंभवः, परमहंसस्य तु सर्वत्यागादस्ति सम्भवः । इदमपि साधकविषयवचनम्; सिद्धं प्रति विधिवैयर्थ्यादिति । यदिह केशवः प्रललाप - बहिः सूत्रमित्यन्तर्यामिणो बाह्यो हिरण्यगर्भोऽभिधीयते, नोपवीतम्’ हृदि प्राणाः प्रतिष्ठिता इति प्राणप्रक्रमात्, वाक्ये च संन्यासविध्यश्रवणात्, परमात्मना चोपवीतकार्यस्य सव्यापसव्यादेरकरणादुपवीतकार्यस्य तस्मिन्नतिदेशायोगाच्च न तन्निष्ठाबलादुपवीतत्यागसंभवः । कुशकार्यहविर्धारणकरणे हि शरमयबर्हिषा तद्बाध इष्यते – इति, तन्न; सूत्रसादृश्यरूपगुणलक्षणाद्वारेण हिरण्यगर्भे सूत्रशब्दवृत्तिकल्पनायां गौरवप्रसङ्गात् । सूत्रविकारोपवीतलक्षणायां च सन्निकर्षात्त्रिवृत्सूत्रं च तद्विदुरिति चोपक्रमगतहृच्छब्दोक्तं ब्रह्म तच्छब्देन परामृश्य त्रिसूत्रतासंपादनात् तन्निष्ठाबलेन तित्याजयिषितसूत्रस्यापि त्रिसूत्रत्वावधारणात् । ‘‘धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेदि’’ति च यज्ञोपवीतसाध्योच्छिष्टाशुचित्वनिवृत्तेरान्तरसूत्रेण संपादनेन त्याज्यसूत्रस्य यज्ञोपवीतत्वावधारणात् । एतेनातिदेशानुपपत्तिः पराणुन्ना । तथोपसंहारेऽपि ‘‘ज्ञानयज्ञोपवीतिनः इदं यज्ञोपवीतं तु परमं यत्परायणम् स विद्वान्यज्ञोपवीती स्यात्स यज्ञस्तं यज्वानं विदु’’रित्यादिभिर्यज्ञोपवीतमेव घुष्यते । यत्तु प्राणप्रकरणादिति, तन्न; ततोऽपि प्रागेव सहिरण्यगर्भसमस्तजगदधिष्ठानस्य ब्रह्मणो हृच्छब्देन प्रक्रान्तत्वात् । यच्च संन्यासाश्रवणादिति, तदपि न; वाक्यशेषे ‘‘बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः’’ इति योगं सम्यग्ज्ञानं कर्तुं प्रवृत्तस्य साधनत्वेन सूत्रत्यागस्य विहितत्वात्, सर्वश्रुतिस्मृतिषु च संन्यासस्यैव ज्ञाने साधनत्वप्रसिद्धेः, त्यागसंन्यासशब्दयोश्चैकार्थत्वादिति । अयं च यज्ञोपवीतादित्यागः परमहंसयतिविशेषविषये पर्युदासोऽपरमहंसो यज्ञोपवीतादि धारयेदिति, न निषेधः; नित्यविधिभिर्निवृत्तेः प्रत्यवायं कल्पयित्वा यज्ञोपवीतादिधारणप्रवृत्तेर्विहितत्वात् । तत्र कथं निषेधेन निवृत्तिबोधः क्रियेत? न च - प्रवृत्तौ प्रत्यवायं परिकल्प्य निषेधो निवर्तयतीति – वाच्यम्; तथा सति प्रवृत्तेरप्राप्त्या निषेधस्यैवानुदये सर्वनाशप्रसङ्गात् । तस्मात्पर्युदासः । यदि मन्येत परमहंसानामपि पराशरेण यज्ञोपवीतादि विहितं “तत्र परमहंसा नाम त्रिदण्डजलपवित्रयज्ञोपवीतशिक्यान्तर्वासधारिण’’ इत्यादिना, ततश्च न पर्युदास इति, तन्न; अस्य वचनस्य व्यवह्रियमाणपराशरस्मृतावदर्शनात् । कल्पने च सशिखमित्यादिप्रत्यक्षश्रुतिविरोधे बुद्धादिस्मृतिवद् बाधात् । भवन्ति च स्मृतयः - ‘‘त्रिदण्डं कुण्डिकां चैव सूत्रं चाथ कपालिकाम् । जन्तूनां वारणं वस्त्रं सर्वं भिक्षुः परित्यजेत् ॥ कौपीनाच्छादनार्थं तु वासोऽर्थस्य परिग्रहम् । कुर्यात् परमहंसस्तु दण्डमेकं तथैव च ॥ ‘‘ इति विष्णुः । काण्वायनश्च - ‘‘तत्र परमहंसा नाम त्रिदण्डकमण्डलुशिक्यजलपवित्रपात्रपादुकाशनशिखायज्ञोपवीतकपालानां त्यागिनो न तेषां धर्माधर्मौ न सत्यं नापि चानृतं सर्वसहाः सर्वसमाः समलोष्टाश्मकाञ्चना यथोपपन्नभैक्षाहाराश्चातुर्वर्ण्यं भैक्षचर्यं चरन्त आत्मानं मोक्षयन्त’’ इति । विष्णुकाण्वायनस्मृत्योश्च शिष्टपरिगृहीतयोरनाप्तप्रणीतत्वं शङ्कमानस्य स्वकीयब्राह्मणत्वेऽप्यनाश्वासः स्यात् । स्मरति स्म भगवान्व्यासः -’‘यज्ञोपवीतं कर्माङ्गं वदन्त्युत्तमबुद्धयः । उपकुर्वाणकात्पूर्वं यतो लोके न दृश्यते ॥ यावत्कर्माणि कुरुते तावदस्यैव धारणा । तस्मादस्य परित्यागः क्रियते कर्मभिः सह ॥ अग्निहोत्रविनाशे तु जुह्वादीनि यथा त्यजेत् । यथा च मेखलादीनि गृहस्थाश्रमवाञ्छया ॥ पत्नीयोक्त्रं यथेष्ठ्यन्ते सोमान्ते च यथा ग्रहान् । तद्वद्यज्ञोपवीतस्य त्यागमिच्छन्ति योगिनः ॥’‘ इति । महाभारतेऽपि –’‘एकदण्डी त्रिदण्डी वा शिखी मुण्डित एव वा । काषायमात्रसारोऽपि यतिः पूज्यो युधिष्ठिरः “॥ तथा - “जटाऽजिनधराश्चान्ये पङ्कदिग्धा जितेन्द्रियाः । मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् “॥ इति राजधर्मप्रशंसार्थमुत्तमाश्रमपरामर्शः । लैङ्गेऽपि पुराणे – “निकृत्य स्वशिखां केशानुपवीतं विसृज्य च । पञ्चभिर्जुहुयादप्सु भूः स्वाहेति च वा क्रमात् “॥ इति । पद्मपुराणेऽपि – “ ततो व्रतानां परमहंसव्रतमनुत्तमम् । तेभ्यो ददौ दिवौकोभ्यः सतामप्यविरोधि यत् ॥ पठ्यते यजुश्शाखायां महत्पैतामहं व्रतम् । परं ब्रह्मोदितं तद्वदागमाचारचेष्ठितम् ॥ ब्रह्मारधनमुख्यानां व्रतिनां तीव्रतेजसाम् । भृगुवृद्ध्यापयामास वेदोक्तं परं हितम् ॥ एवं व्रतधाराः सर्वे वसन्ति स्माऽरेश्वराः । हंसव्रतधारा भूत्वा ध्यायमानाः परं पदम् ॥ हित्वा शिखां सोपवीतां विधिना परमेण ते । कालेन महताध्यानादेवं ज्ञानात्मतां गताः ॥ ये चात्र हंसव्रतिनो नियताः संयतेन्द्रियाः । एवं भिक्षां तु भुञ्जाना ध्यायमानाः परं पदम् ॥ दण्डहस्तास्तु सञ्जात भिक्षाव्रतसमन्विताः । त्यक्त्वा शिखां सोपवीतां दण्ड एकः करे धृतः ॥ हसव्रतं परं प्रोक्तं पुरा चीर्णं मया चिरम् । व्रतानां परमं गुह्यं पवित्रं पापनाशनम् ॥ हंसव्रतं द्विषन्मोहात्पापेनाच्छादितो नरः । न स मुच्येत पापेन कल्पकोटिशतैरपि ॥ तस्माद्धंसव्रतानां तु न हन्यान्न च दूषयेत् ॥ भिक्षां परमहंसानां यतीनां यः प्रयच्छति ॥ विमुक्तः सर्वपापेभ्यो नासौ दुर्गतिमाप्नुयात् । शिखां यज्ञोपवीतं च त्यक्त्वा चरति यो व्रतम् ॥ हंसव्रती स विज्ञेयो मोक्षकामी भवेच्च सः । शिखायज्ञोपवीतेन त्यक्तेनासौ कथं द्विजः ॥ निन्द्यते देवलोकेषु पूजितो देवदानवैः । दुष्टं विशिष्टमथवा हंसरतधरं नरम् ॥ न पृशेदङ्गमङ्गेन देवरूपः स वै द्विजः” ॥ इति । पराक्रान्तं चात्र बहुभिराचार्यैरिति न विस्तीर्यते ॥२०॥