भामतीव्याख्या
वेदान्तकल्पतरुः
 

स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ।

यद्यत्र संनिधान उपासनाविधिर्नास्ति ततः प्रदेशान्तरस्थितोऽपि विधिव्यभिचारिततद्विधिसम्बन्धेनोद्गीथेनोपस्थापितः स एष रसानां रसतम इत्यादिना पदसन्दर्भेणैकवाक्यभावमुपगतः स्तूयते । नहि समभिव्याहृतैरेवैकवाक्यता भवतीति कश्चिन्नियमहेतुरस्ति । अनुषङ्गातिदेशलब्धैरपि विध्यसमभिव्याहृतैरर्थवादैरेकवाक्यताभ्युपगमात् । यदि तूद्गीथमुपासीत सामोपासीतेत्यादिविधिसमभिव्याहारः श्रुतस्तथापि तस्यैव विधेः स्तुतिर्न तूपासनाविषयसमर्पणपर ओमित्येतदक्षरमुद्गीथमित्यनेनैवोपासनाविषयसमर्पणादिति प्राप्तेऽभिधीयतेन तावद्दूरस्थेन कर्मविधिवाक्येनैकवाक्यतासम्भवः । प्रतीतसमभिव्याहृतानां विधिनैकवाक्यतया स्तुत्यर्थत्वमर्थवादानां रक्तपटन्यायेन भवति । न तु स्तुत्या विना काचिदनुपपत्तिर्विधेः । यथाहुः “अस्ति तु तदित्यतिरेके परिहारः” इति । अत एव विधेरपेक्षाभावात्प्रवर्तनात्मकस्यानुषङ्गतिदेशादिभिरर्थवादप्राप्त्यभिधानमसमञ्जसम् । नहि कर्त्रपेक्षितोपायामवगतायां प्राशस्त्यप्रत्ययस्यास्ति कश्चिदुपयोगः । तस्माद्दूरस्थस्य कर्मविधेः स्तुतावानर्थक्यम् । तेनैकवाक्यतानुपपत्तेः संनिहितस्य तूपासनाविधेः किं विषयसमर्पणेनोपयुज्यतामुत स्तुत्येति विशये विषयसमर्पणेन यथार्थवत्त्वं नैवं स्तुत्या बहिरङ्गत्वात् । अगत्या हि सा । तस्मादुपासनार्था इति सिद्धम् । “कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् । एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम् ॥” भावनायाः खलु कर्तृसमीहितानुकूलत्वं विधिर्निषेधश्च कर्तुरहितानुकूलत्वम् । यथाहुः“कर्तव्यश्च सुखफलोऽकर्तव्यो दुःखफलः” इति । एतच्चास्माभिरुपपादितं न्यायकणिकायाम् । क्रिया च भावना तद्वचनाश्च करोत्यादयः । यथाहुःकृभ्वस्तयः क्रियासामान्यवचना इति । अत एव कृभ्वस्तीनुदाहृतवान् । सामान्योक्तौ तद्विशेषाः पचेदित्यादयोऽपि गम्यन्त इति तत्र कुर्यादित्याक्षिप्तकर्तृका भावना । क्रियेतेति आक्षिप्तकर्मिका भावना । कर्तव्यमिति तु कर्मभूतद्रव्योपसर्जनभावना । एवं दण्डी भवेद्दण्डिना भवितव्यं दण्डिना भूयेतेत्येकधात्वर्थविषया विध्युपहिता भावना उदाहार्याः । भवतिश्चैष जन्मनि । यथा कुलालव्यापाराद्घटो भवति बीजादङ्कुरो भवतीति प्रयुञ्जते । नच बीजादङ्कुरोऽस्तीति प्रयुञ्जते । तस्मादस्ति सत्तायां न जन्मनीति ॥ २१ ॥

भावशब्दाच्च ॥ २२ ॥

स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥२१॥ पूर्वत्रानुष्ठेयसाम्यश्रुतेराश्रमान्तरं विधेयमित्युक्तम्, इह तु रसतमत्वादीनामङ्गाश्रितत्वेनेयमेव जुहूरित्यादिस्तुतिसामान्यात् स्तुत्यर्थत्वमिति पूर्वः पक्षः ॥ यदा रसतमत्वादि नाऽङ्गनिष्ठमपि स्तुतिः । तदा किमङ्ग वक्तव्यमनङ्गात्मधियः फलम् ॥ इति सिद्धान्ते । ननु रसतमत्वादिभिः किमुद्गीथादिविधिः स्तूयते, उत उपास्तिविधिः । नाद्यः; उद्गीथादिविधेः कर्मप्रकरणस्थत्वेन व्यवधानात्तेनैकवाक्यत्वानुपपत्तेः ।

न द्वितीयः; उपास्यविषयसमर्पणेन विध्यन्वयसंभवे लक्षणया स्तुत्यर्थत्वायोगादित्याशङ्क्याह –

यद्यत्रेत्यादिना ।

अव्यभिचरितविधिसंबन्धेनेति ।

अव्यभिचरितोद्गीथादिविषयविधिना संबन्धो यस्य तेनोद्गीथादिनोपस्थापित उद्गीथादिविधिः स एष इत्यादिना स्तूयते, यथा जुहोपस्थापितक्रतुना पर्णमयता संबध्यत इत्यर्थः ।

ननु विशेषणविशेष्यभावेन समभिव्याहारात् स्तुतिर्भवति वायुक्षेपिष्ठादौ , नेह व्यवधानादिति, तत्राह –

न हीति ।

अनुषङ्गातिदेशेति ।

‘‘चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनातु अच्छिद्रेण पवित्रेणे’त्यत्रान्ते श्रुतोऽच्छिद्रेणेत्येषोऽर्थवादः प्रतिमन्त्रमनुषज्यते । वैश्वदेवे ‘‘आग्नेयमष्टाकपालं निर्वपती’’त्यादिहविःषु श्रुता अर्थवादा वरुणप्रघासादिष्वतिदिश्यन्ते । ‘‘एतद्ब्राह्मणानि पञ्च हवींषि येतद्ब्राह्मणानीतराणी’’ति । एवमत्र व्यवधानेऽपि श्रुतत्वेनैकवाक्यता स्यादित्यर्थः ।

सन्निहितविध्यभावाङ्गीकारेणाद्यपक्षमुपपाद्य द्वितीयं कल्पमवलम्ब्यापि पूर्वपक्षं घटयति –

यदि त्विति ।

विधिनैव पुरुषप्रवृत्तिसिद्धेः स्तुतिर्व्यर्थेति शङ्कित्वा परिहरति स्माचार्यशबरस्वामी । सत्यं विनापि तेन सिध्येत्प्रामाण्यम्, अस्ति तु तत्स्तुतिपदमिति । तस्य व्याख्या प्रभाकरगुरुणा कृता - अस्ति तु तदित्येतद्भाष्यमतिरेके विधिव्यतिरेकेण स्तुतिपदसद्भावे परिहार इति । एवं वदतैतत्सूचितं केवलविधिश्रवणे नास्ति स्तुत्यपेक्षा, यथा ‘‘वसन्ताया कपिञ्जलानालभते’’ इत्यादौ । स्तुतिपदे तु सत्यस्ति तदपेक्षा, यथा लोके पटो भवतीत्येतावति वाक्ये नास्ति पदान्तरापेक्षा । ‘रक्तः पट’ इत्यत्र तु रक्तपदस्याकाङ्क्षया वाक्यस्याप्याकाङ्क्षोत्थाप्यते, तद्वदिति ।

तदेतदाह –

यथाहुरिति ।

नन्वर्थवादाश्रवणेऽप्यनुषङ्गादिभिस्तत्समभिव्याहार उक्तः, तत्राह –

अत एवेति ।

यत एव विधेरेव प्रवर्तकत्वमत एव । अतिदेशे तु वचनाद्व्यवहितार्थवादसंबन्धो न त्विह तदस्ति;अनुषङ्गेऽप्यर्थवादस्य साकाङ्क्षत्वात् । अच्छिद्रेण पवित्रेणेत्युक्ते पुनात्वित्येतस्मिन्नपेक्षादर्शनात्, क्वचित्तु पठितव्यः सन्नन्ते पठित इति, न त्विह रसतमत्वादेः प्रदेशान्तरस्थोद्गीथादिविध्यपेक्षास्ति; उपासनविधिविषयसमर्पकत्वस्यानन्तरमेव वक्ष्यमाणत्वात् । तस्मादनुषङ्गादिदृष्टान्तेनार्थवादप्राप्त्यभिधानमसमञ्जसं वैषम्यादित्यर्थः ।

केवलस्य श्रुतस्य विधेरनपेक्षत्वमुपपादयति –

न हीति ।

कर्मविधेरिति ।

कर्माङ्गविधेरिति वक्तव्येऽङ्गस्तुतिरप्यङ्गिन एवेति कर्मविधेरित्युक्तम् ।

ननु भाष्योदाहृतन्यायवित्स्मरणे पञ्च विधिलक्षणान्युक्तानीति प्रतिभाति, तच्चायुक्तम् ; न हि धात्वर्थभेदे कारकभेदे वा विधिलक्षणं भिद्यते, इत्याशङ्क्य तदभिप्रायं विवरिष्यन् विधिलक्षणं तावदाह –

भावनायाः खल्विति ।

ननु विधौ स्मृतलिङ्गादेरेव न हन्यादिति निषेधेष्वपि प्रयोगात्कथं प्रत्ययस्य विधिवाचकत्वनियमस्तत्राह –

निषेधश्चेति ।

निषेधवाक्यगतैरपि लिङ्गादिप्रत्ययैर्विध्यर्थोऽनूद्य नञा निषिध्यते इति नास्ति व्यभिचार इत्यर्थः ।

ननु शब्द एव विधिर्नियोगादिर्वा, नेत्याह –

एतच्चेति ।

एवं विधिलक्षणमुपस्थाप्य वार्तिकार्थमुपपादयति –

क्रिया चेत्यादिना ।

कृश्च भूश्चास्तिश्च कृभ्वस्तयस्तान् कृभ्वस्तीनुदाहृतवानित्यर्थः । यद्यपि धातवः शतशः सन्ति; तथापि डुकृञ् करणे, भू सत्तायाम्, अस भुवीति त्रय एव धातवो भावनासामान्यवाचिन उदाहृताः सर्वत्र व्याप्त्यर्थम् । एतद्धातुगतप्रत्य - यैश्च सकलभावनानुगतश्रेयः साधनत्वरूपो विधिरभिधीयते, न तु प्रतिधातु प्रतिप्रत्ययं च भावनाभेद इत्यर्थ । कर्तव्यमित्यस्य कृदन्तत्वेन द्रव्याभिधायित्वाद् द्रव्यं प्रत्युपसर्जनभूतभावना प्रतीयत इत्यर्थः । यद्यपि भवतिरस्तिश्च प्रयोज्यव्यापारवाचिनौ, भावना च प्रयोजकव्यापारः; तथाप्यवस्थान्तरविशिष्टत्वेन भाव्यत्वादस्ति भावना । तथा च दण्डी भवेदित्यादिना दण्डित्वादिरूपेण भाव्यत्वमनन्तरमेव वक्ष्यति ।

एवं करोतिधातौ कारकभेदेऽपि भावनैक्यमभिधाय भवत्यस्त्योरपि तदाह –

एवमिति ।

अस्तेर्भ्वादेशात् तुल्यवदुदाहरणम् । अत्रापि दण्डि भवेदित्याक्षिप्तकर्तृका भावनोदाहृता । भवितव्यमिति धात्वर्थोपसर्जनभूता भावना । भूयेतेत्याक्षिप्तकर्मिका भावना ।

एकधात्वर्थविषया इति ।

एको धात्वर्थो भवत्यर्थोऽस्त्यर्थो वा विषयो यासां तास्तथा दण्डित्वाद्यवस्थान्तरस्य यद्भवनं सत्ता च तद्विषयास्तदवच्छिन्ना भावना उदाहर्तव्या इत्यर्थः ।

विध्युपहिता इति ।

श्रेयःसाधनत्वविशिष्टा इत्यर्थः ।

ननु भवतिरस्तिश्च पर्यायौ, भू सत्तायाम् अस् भुवीति च परस्परं व्याख्यानादत आह –

भवतिश्चैष इति ।

कश्चित्प्राप्त्यर्थोऽपि भवतिरस्ति तदर्थमेष इत्युक्तम् । जन्मवचनो भवतिरस्तिस्तु जनिफलभूत एवार्थसद्भाववचन इत्यर्थः । एषां भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुरुषः पुरुषस्य वाग् वाच ऋग् ऋचः साम साम्न उद्गीथो रस इत्युपक्रम्य श्रूयते स एष रसानां पृथिव्यादीनां रसतमः परमः परमात्मप्रतीकत्वात् परस्य ब्रह्मणोऽर्धं स्थानं तदर्हतीति परार्ध्यः । परब्रह्मवदुपास्य इत्यर्थः । पृथिव्याद्यपेक्षयाऽष्टमः कोऽसौ य उद्गीथः प्रणव इत्यर्थः । ॥२१॥२२॥

इति तृतीयं स्तुतिमात्राधिकरणम् ॥