अधिकविवक्ष्येति यदुक्तं तदधिकमाह –
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ।
यथा स्वार्थसिद्धौ नापेक्ष्यन्ते आश्रमकर्माणि एवमुत्पत्तावपि नापेक्ष्येरन्निति शङ्का स्यात् । नच विविदिषन्ति यज्ञेनेत्यादिविरोधः । नह्येष विधिरपि तु वर्तमानापदेशः । स च स्तुत्याप्युपपद्यते । अपिच चतस्रः प्रतिपत्तयो ब्रह्मणि । प्रथमा तावदुपनिषद्वाक्यश्रवणमात्राद्भवति यां किलाचक्षते श्रवणमिति । द्वितीया मीमांसासहिता तस्मादेवोपनिषद्वाक्याद्यामाचक्षते । मननमिति । तृतीया चिन्ता । सन्ततिमयी यामाचक्षते निदिध्यासनमिति । चतुर्थी साक्षात्कारवती वृत्तिरूपा नान्तरीयकं हि तस्याः कैवल्यमिति । तत्राद्ये तावत्प्रतिपत्ति विदितपदतदर्थस्य विदितवाक्यगतिगोचरन्यायस्य च पुंस उपपद्येते एवेति न तत्र कर्मापेक्षा । ते एव च चिन्तामयीं तृतीयां प्रतिपत्तिं प्रसुवाते इति न तत्रापि कर्मापेक्षा । सा चादरनैरन्तर्यदीर्घकालसेविता साक्षात्कारवतीमाधत्त एव प्रतिपत्तिं चतुर्थीमिति न तत्राप्यस्ति कर्मापेक्षा । तन्नान्तरीयकं च कैवल्यमिति न तस्यापि कर्मापेक्षा । तदेवं प्रमाणतश्च प्रमेयत उत्पत्तौ च कार्ये च न ज्ञानस्य कर्मापेक्षेति बीजं शङ्कायाम् । एवं प्राप्त उच्यते - उत्पत्तौ ज्ञानस्य कर्मापेक्षा विद्यते विविदिषोत्पादद्वारा “विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इति श्रुतेः । न चेदं वर्तमानापदेशत्वात्स्तुतिमात्रमपूर्वत्वादर्थस्य । यथा यस्य पर्णमयी जुहूर्भवतीति पर्णमयताविधिरपूर्वत्वान्न त्वयं वर्तमानापदेशः, अनुवादानुपपत्तेः । तस्मादुत्पत्तौ विद्यया शमादिवत्कर्माण्यपेक्ष्यन्ते । तत्राप्येवंविदिति विद्यास्वरूपसंयोगादन्तरङ्गाणि विद्योत्पादे शमादीनि, बहिरङ्गाणि कर्माणि विविदिषासंयोगात् । तथाहि - आश्रमविहितनित्यकर्मानुष्ठानाद्धर्मसमुत्पादस्ततः पाप्मा विलीयते । स हि तत्त्वतोऽनित्याशुचिदुःखानात्मनि संसारे सति नित्यशुचिसुखात्मलक्षणेन विभ्रमेण मलिनयति चित्तसत्त्वमधर्मनिबन्धनत्वाद्विभ्रमाणाम् । अतः पाप्मनः प्रक्षये प्रत्यक्षोपपत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य तात्त्विकीमनित्याशुचिदुःखरूपतामप्रत्यूहं विनिश्चिनेति । ततोऽस्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते । ततस्तज्जिहासास्योपावर्तते । ततो हानोपायं पर्येषते पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इति शास्त्रादाचार्यवचनाच्चोपश्रुत्य तज्जिज्ञासत इति विविदिषोपहारमुखेनात्मज्ञानोत्पत्तावस्ति कर्माणामुपयोगः । विविदिषुः खलु युक्त एकाग्रतया श्रवणमनने कर्तुमुत्सहते । ततोऽस्यऽतत्त्वमसिऽइतिवाक्यन्निर्विचिकित्सं ज्ञानमुत्पद्यते । नच निर्विचिकित्सं तत्त्वमसीति वाक्यार्थमवधारयतः कर्मण्यधिकारोऽस्ति । येन भावनायां वा भावनाकार्ये वा साक्षात्कारे कर्मणामुपयोगः । एतेन वृत्तिरूपसाक्षात्कारकार्येऽपवर्गे कर्मणामुपयोगो दूरनिरस्तो वेदितव्यः । तस्माद्यथैव शमदमादयो यावज्जीवमनुवर्तन्ते एवमाश्रमकर्मापीत्यसमीक्षिताभिधानम् । विदुषस्तत्रानधिकारादित्युक्तम् । दृष्टार्थेषु तु कर्मसु प्रतिषिद्धवर्जनमनधिकारेऽप्यसक्तस्य स्वारसिकी प्रवृत्तिरुपपद्यत एव । नहि तत्रान्वयव्यतिरेकसमधिगमनीयफलेऽस्ति विध्यपेक्षा । अतश्च “भ्रान्त्या चेल्लौकिकं कर्म वैदिकं च तथास्तु ते” इति प्रलापः । शमदमादीनां तु विद्योत्पादायोपात्तानामुपरिष्टादवस्थास्वाभाव्यादनपेक्षितानामप्यनुवृत्तिः । उपपादितं चैतदस्माभिः प्रथमसूत्र इति नेह पुनः प्रत्याप्यते । तस्माद्विविदिषोत्पादद्वाराश्रमकर्मणां विद्योत्पत्तावुपयोगो न विद्याकार्य इति सिद्धम् । शेषमतिरोहितार्थम् ॥ २६ ॥
शमदमाद्युपेतस्स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् ॥ २७ ॥
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥२६॥
पूर्वत्र ब्रह्मविद्या, न स्वफले कर्मापेक्षा, प्रमात्वात् संमतवदित्युक्तम्, तर्हि सा स्वोत्पत्तावपि न तदपेक्षा, अत एव तद्वदेवेति पूर्वपक्षमाह –
यथेति ।
अत्रागमविरोधमाशङ्क्याह –
न चेति ।
अपि चानेन वाक्येनेच्छा विधीयते, इष्यमाणज्ञानं वा । नाद्यः, विषयसौन्दर्यलभ्यायां तस्यां विध्ययोगात् ।
न द्वितीय इत्याह –
अपि चेत्यादिना ।
अत एव न तत्साधनत्वेन यज्ञादिविधानम् ।
ननु पञ्चम्यपि प्रतिपत्तिरपेक्ष्यतामित्याशङ्क्य फलपर्यवसानान्नेत्याह –
नान्तरीयकं हीति ।
यथाऽतिसुन्दरेऽपि गुडादौ धातुदोषादरुचिः, एवं ब्रह्मज्ञानेऽपि पापादरुचिर्भवेत्तत्र धातुसाम्यार्थमौषधिविधिवत् ब्रह्मज्ञानरोचकयज्ञादिविधिरर्थवानिति सिद्धान्तयति –
उत्पत्तौ ज्ञानस्येति ।
ननु कर्माणां ज्ञानोत्पत्त्यर्थत्वे यावज्ज्ञानोत्पत्ति कर्मानुष्ठातव्यं, न ज्ञानार्थः संन्यास इति, अत आह –
तत्रापीत्यादिना ।
चित्तस्य प्रत्यक् प्रावण्यं कर्मफलं दृष्ट्वा कर्मत्याग उपपन्न इत्यर्थः । ग्रन्थास्त्वेते प्रथमसूत्रे व्याख्याताः ।
ननु ब्रह्मैवोपदिश्यतां, तत्र ज्ञानं स्वत एव जायेत , किं विविदिषया, नेत्याह –
विविदिषुः खल्विति ।
अतिसूक्ष्मत्वाद् ब्रह्मात्मत्वस्य मनःसमाधानाद्यनुष्ठेयं , तद् रुचौ सत्यामनुष्ठीयते नेतरथेत्यर्थः ।
एवं ज्ञानोत्पत्त्युपयोगं कर्मणां प्रदर्श्यफलेऽनुपयोगमाह –
न च निर्विचिकित्समिति ।
फलं हि शब्दज्ञानस्य भावना, तस्याश्च साक्षात्कारस्तस्य चापवर्गः त्रिष्वपि कर्मानपेक्षा, शब्दज्ञानेन च कर्माधिकारहेतोर्ब्राह्मणत्वादेर्बाधितत्वात्तदुत्तरकालं कर्मण एवाभावादित्यर्थः ।
भास्करोक्तमपवदति –
तस्मादिति ।
यच्च तेनैवोक्तं ज्ञानात्कर्मणो बाधे भिक्षाटनाद्यपि बाध्येतेति, तत्राह –
दृष्टार्थेष्विति ।
असक्तस्य अनासक्तस्य । एते च ग्रन्थाः प्रथमसूत्रे एवोपपादितार्था इति । अधिकारे निवृत्तेऽप्यश्रद्धायामधःपातः स्यादिति केशवोक्तमसाधु; शास्त्रकृतत्वादश्रद्धाया इति ।
अपरमपि भास्करोक्तं निरस्यति –
अतश्चेति ।
ननु शमादेरपि ज्ञानोत्पत्तिहेतुत्वात्कर्मवन्न ज्ञानानन्तरमनुवृत्तिरिति ब्रह्मविदः कोपाद्यापत्तिरत आह –
शमादीनां त्विति ।
अवस्थास्वाभाव्यादिति ।
परमशान्तं ब्रह्मास्मीति पश्यतः स्वभावादेव शमादि स्यान्न यत्नसाध्यमित्यर्थः ॥२६॥२७॥