सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ।
प्राणसंवादे सर्वेन्द्रियाणां श्रूयते । एष किल विचारविषयः सर्वाणि खलु वागादीन्यवजित्य प्राणो मुख्य उवाचैतानि किं मेऽन्नं भविष्यतीति, तानि होचुः । यदिदं लोकेऽन्नमा च श्वभ्य आ च शकुनिभ्यः सर्वप्राणिनां यदन्नं तत्तवान्नमिति । तदनेन सन्दर्भेण प्राणस्य सर्वमन्नमित्यनुचिन्तनं विधायाह श्रुतिः “न ह वा एवंविदि किञ्चनानन्नं भवति”(छा. उ. ५ । २ । १) इति । सर्वं प्राणस्यान्नमित्येवंविदि न किञ्चिनानन्नं भवतीति । तत्र संशयः - किमेतत्सर्वान्नाभ्यनुज्ञानं शमादिवदेतद्विद्याङ्गतया विधीयत उत स्तुत्यर्थं सङ्कीर्त्यत इति । तत्र यद्यपि भवतीति वर्तमानापदेशान्न विधिः प्रतीयते । तथापि यथा यस्य पर्णमयी जुहूर्भवतीति वर्तमानापदेशादपि पलाशमयीत्वविधिप्रतिपत्तिः पञ्चमलकारापत्त्या तथेहापि प्रवृत्तिविशेषकरतालाभे विधिप्रतिपत्तिः । स्तुतौ हि अर्थवादमात्रं न तथार्थवद्यथा विधौ । भक्ष्याभक्ष्यशास्त्रं च सामान्यतः प्रवृत्तमनेन विशेषशास्त्रेण बाध्यते । गम्यागम्यविवेकशास्त्रमिव सामान्यतः प्रवृत्तं वामदेवविद्याङ्गभूतसमस्तस्त्र्यपरिहारशास्त्रेण विशेषविषयेणेति प्राप्त उच्यते अशक्तेः कल्पनीयत्वाच्छास्त्रान्तरविरोधतः । प्राणस्यान्नमिदं सर्वमिति चिन्तनसंस्तवः ॥ न तावत्कौलेयकमर्यादमन्नं मनुष्यजातिना युगपत्पर्यायेण वा शक्यमत्तुम् । इभकरभकादीनामन्नस्य शमीकरीरकण्टकवटकाष्ठादेरेकस्यापि अशक्यादनत्वात् । न चात्र लिङ्ग इव स्फुटतरा विधिप्रतिपत्तिरस्ति । नच कल्पनीयो विधिरपूर्वत्वाभावात् । स्तुत्यापि च तदुपपत्तेः । नच सत्यां गतौ सामान्यतः प्रवृत्तस्य शास्त्रस्य विषयसङ्कोचो युक्तः । तस्मात्सर्वं प्राणस्यान्नमित्यनुचिन्तनविधानस्तुतिरिति साम्प्रतम् । शक्यत्वे च प्रवृत्तिविशेषकरतोपयुज्यते नाशक्यविधानत्वे । प्राणात्यय इति चावधारणपरं प्राणात्यय एव सर्वान्नत्वम् । तत्रोपाख्यानाच्च स्फुटतरविधिस्मृतेश्च सुरावर्जं विद्वांसमविद्वांसं प्रति विधानात् । न त्वन्यत्रेति । इभ्येन हस्तिपकेन सामिस्वादितान् अर्धभक्षितान् । स हि चाक्रायणो हस्तिपकोच्छिष्टान्कुल्माषान्भुञ्जानो हस्तिपकेनोक्तः । कुल्माषानिव मदुच्छिष्टमुदकं कस्मान्नानुपिबसीति । एवमुक्तस्तदुदकमुच्छिष्टदोषात्प्रत्याचचक्षे । कारणं चात्रोवाच । न वाजीविष्यं न जीविष्यामीतीमान्कुल्माषानखादम् । कामो म उदकपानमिति स्वातन्त्र्यं मे उदकपाने नदीकूपतडागप्रापादिषु यथाकामं प्राप्नोमीति नोच्छिष्टोदकाभावे प्राणात्यय इति तत्रोच्छिष्टभक्षणदोष इति मटचीहतेषु कुरुषु ग्लायन्नशनायया मुनिर्निरपत्रप इभ्येन सामिजग्धान्खादयामास ॥ २८ ॥
अबाधाच्च ॥ २९ ॥
अपि च स्मर्यते ॥ ३० ॥
शब्दश्चातोऽकामकारे ॥ ३१ ॥
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥२८॥ यथा पूर्वत्र विविदिषन्तीति वर्तमानापदेशेऽप्यपूर्वत्वात्पञ्चमलकारेण विधिः कल्पितः, एवमत्रापि ‘‘न ह वा अस्यानन्नं जग्धं भवती’’ति वर्तमानापदेशेऽप्यपूर्वत्वाद्विधिरिति प्रत्यवस्थानात् संगतिः ।
सर्वेन्द्रियाणां प्राणेन सह संवादे यच्छ्रूयते तद्दर्शयति –
एष किलेति ।
इन्द्रियाणि किल वयमेव श्रेष्ठानि इत्यभ्यमन्यन्त । विवादशमनाय च प्रजापतिनोक्तानि युष्माकं मध्ये यस्मिन्नुत्क्रान्ते शरीरं पतेत् स श्रेष्ठ इति । तत इन्द्रियेष्वेकैकश उत्क्रान्तेषु शरीरं नापतत् । प्राणोत्क्रान्तौ त्वपतत् । ततः प्राणः श्रेष्ठ इत्यवधृते सतीन्द्रियाणि तेनावजितानि । तानि प्राण उवाचेत्यर्थः ।
यदाह तद्दर्शयति –
किं मेऽन्नमिति ।
पराजितैर्हि विजयिने करो दीयते, एवमिहापि सर्वप्राणिभिरद्यमानमन्नमिन्द्रियाणि प्राणाय प्रददुः । अतः सर्वत्रान्नादः प्राण इत्यर्थः ।
आख्यायिकया विवक्षितमर्थमाह –
तदनेनेति ।
प्राणस्य सर्वन्नमिति निर्देशात्तथैवोपासनाविधिः कल्पनीय इत्यर्थः ।
एतद्विद्याङ्गतयेति ।
एतस्याः प्राणविद्याया अङ्गतयेत्यर्थः ।
तत्र यद्यपीति ।
यदवादिष्म पञ्चमलकारकल्पनात्सङ्गतिरिति । तदित उत्थितम् । प्रवृत्तिविशेषकरणतालाभे प्रयोजने विधिप्रतिपत्तिरित्यर्थः । उपमन्त्रयते स हिङ्कार इत्यादिना ग्राम्यव्यापारगतचेष्टासु हिङ्कारादिदृष्टिर्विहिता । सा वामदेव्यविद्या । उपमन्त्रणं सङ्केतकरणम् ।
अशक्तेरिति ।
सर्वान्नस्य पुंसाऽत्तुमसामर्थ्यादित्यर्थः । अपि च ‘‘नानन्नं भवति’’ इत्यत्र भवतिमात्रं श्रूयते ।
तत्र भावयतिः कल्पनीयः, कल्पयित्वा च तं विधिरपि कल्प्य इत्याह –
कल्पनीयत्वादिति ।
कल्पना न नोपपद्यते; क्लृप्तसामान्यविषयनिषेधशास्त्रेण बाधात् ।
क्लृप्तो हि विशेषविधिः सामान्यनिषेधं बाधेत, न कल्प्य इत्यभिप्रेत्याह –
शास्त्रान्तरेति ।
कस्तर्हि शास्त्रार्थस्तमाह –
प्राणस्येति ।
अशक्तिरित्येतद्विवृणोति –
न तावदिति ।
कौलेयकः श्वा । इभो हस्ती । तद्भक्ष्यं वटकाष्ठम् । करभ उष्ट्रः । तद्भक्ष्यौ शमीकरीरौ । कण्टकी वृक्षविशेषः यस्य वल्लीप्रायाः शाखा भवन्ति ।
कल्पनीयत्वादित्येतद्व्याचष्ते –
न चात्र लिङ् इवेति ।
लिङः सकाशाद्यथा विधिप्रतीतिरेवमत्र स्फुटतरा नास्ति; पञ्चमलकारद्योतकस्याडादेरश्रवणादित्यर्थः ।
ननु पर्णमयीत्वादाविव विधिः कल्प्यातामत आह –
न च कल्पनीय इति ।
सर्वमन्नं भवतीत्यस्मादनीयेऽनुवादत्वादनदनीये त्वशक्ये विध्ययोगात् शक्ये कलञ्जादौ निषेधशास्त्रेण वैपरीत्यपरिच्छेदादपूर्वार्थत्वाभावादित्यर्थः ।
शास्त्रान्तरविरोधत इत्येतद् व्याचष्टे –
न च सत्यां गताविति ।
प्रवृत्तस्येति ।
क्लृप्तत्वात्परिच्छेत्तुमप्रवृत्तस्येत्यर्थः ।
यदुक्तं प्रवृत्तिविशेषकरत्वाद्विधिरिति, तत्राह –
शक्यत्वे चेति ।
ननु सूत्रं प्राणविदः सर्वान्नभक्षणं न वारयति, न हि प्राणात्यये सर्वान्नानुमतिमात्रेण अन्यत्र तद्वारणं कर्तुं शक्यमत आह –
प्राणात्यय इति चेति ।
तद्दर्शनादिति सूत्रभागं व्याचष्टे –
तत्रोपाख्यानाच्चेति ।
ननूपाख्याने सामान्यशास्त्रबाधको विधिर्न श्रूयतेऽत आह –
स्फुटतरेति ।
जीवितात्ययमापन्नो मद्यं नित्यं ब्राह्मणो वर्जयेदित्याद्या स्फुटतरविधिस्मृतिः ।
ननु तर्हि स्मृत्या जीवितात्यये किं सुराऽपि भक्षणीया, नेत्याह –
सुरावर्जमिति ।
‘‘सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरामि’’ति मरणान्तिकप्रायश्चित्तदर्शनाद् मरणप्रसङ्गेऽपि सा न भक्ष्येत्यर्थः । उष्णामित्यग्निवत्तप्तामित्यर्थः ।
प्राणात्ययोऽपि किञ्चिद्विषय एव, नेत्याह –
विद्वांसमिति ।
चाक्रायणोपाख्यानाद्विद्वांसं प्रति विधानाद् विधिस्मृतेश्च साधारण्याद् अविद्वांसं प्रत्यपि विधानात् प्राणत्यय एव विद्वदविदुषोः सर्वान्नत्वमिति योजना । हस्तिपको हस्तिपालः ।
छान्दोग्यश्रुतिगतमुपाख्यानमर्थतो दर्शयति –
स हीति ।
एवमाख्यानमनुवर्ण्य भाष्यस्थां श्रुतिं व्याचष्टे –
मटचीति ।
मटच्यो नाम रक्तवर्णाः क्षुद्रपक्षिविशेषाः । तैर्हतेषु कुरुदेशसस्येषु अशनायया बुभुक्षया ग्लायन् ग्लानि प्राप्त इत्यर्थः ।
मद्यं नित्यं ब्राह्मण इति ।
वर्जयेदिति शेषः ॥२८॥२९॥३०॥३१॥